अनुव्याख्यान · अध्याय 1.4
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥
दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ।
शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत् पराजयः
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ।
स्वातन्त्र्यं तत्र मुख्यं स्यात् कुतो राज्ञि जयो ऽन्यथा
न हि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते ।
यावद् राज्ञ्यन्यगत्वे ऽपि स्वातन्त्र्याभासमात्रतः
भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ।
कारणं संशयस्य स्यादिति नैव प्रयुज्यते
अमङ्गलत्वाच्छब्दानां राज्ञा योगादमङ्गले ।
अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम्
गुणास्तु तादृशा यत्र प्रयुज्यन्ते ऽखिला अपि ।
पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम्
ततो दोषातिदूरत्वात् संशयस्याप्यसम्भवात् ।
दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया
स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ।
वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम्
मङ्गलामङ्गले ऽन्यत्र ततो नामङ्गलं वदेत् ।
स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः
बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् ।
एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः
नैव दोषा हरौ तद्गबुद्धयोक्ता दोषकारिणः ।
तस्मात् ते दोषशब्दाश्च तत्रैव गुणवाचकाः
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।
आयज्ञेतश्चायजेतो वसन्तिश्च वसन्ततः
विगतच्छादनत्वात् तु गच्छ भूतक्षयङ्करः ।
भुङ्क्षेत्युक्तो हरिर् हुं च हुतमस्मिन् जगद् यतः
स्फुटत्वात् फडिति प्रोक्तः कवरक्षण इत्यतः ।
कवचं वतर्ते यस्मात् षड्गुणत्वेन सर्वदा ।
वषट् तद्गत्वतस्तेषां वौषडित्येव कथ्यते
स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः ।
नमन्त्यस्मिन् गुणा यस्यान्नम इत्येव कथ्यते
इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।
उच्यते मुख्यतो यस्मात् पदवर्णस्वरादिभिः
तस्मादनन्तगुणता श्रुतितात्पर्यतो ऽस्य हि ।
विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम्
अङ्गीकृते ऽपि नैवास्ति दोषो वाक्यसमन्वये ।
तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये
कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् ।
ब्रह्मैको नैव चान्यो ऽस्ति क इत्यस्यरोभयार्थतः
तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।
नित्ययोगो ऽपि शब्दानामर्थैर्नैव निषिद्धयते ।
स्त्रीशब्दाश्च निषेधार्थाः सर्वे ऽपि ब्रह्मवाचकाः
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।
पृथक् समन्वयार्थानि स्थानान्येतानि सर्वशः
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ।
परस्परविरोधश्च विरोधः कार्यतद्वतोः ।
स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।
बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता
उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।
इतयाद्या युक्तयः साक्षात् सिद्धान्तस्थापका इह
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।
इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन्
विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।
स्वशिष्याणां प्रसिद्धयर्थं मतमात्मीयमंशतः
विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ।
तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः
प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।
उपदेशादिसामर्थ्याद् विष्णौ शक्तिश्च गृह्यते
तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।
अविरोधे तु बह्वर्था एतन्मूलतया मताः
इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ।
तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया
तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता ।
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः
प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु
उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते
प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।
वृत्तिहेतुरिति ज्ञेयः पूर्वायोगे परग्रहः
एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।
आचक्षत इति ह्यत्र सन्तमित्यवधारणा
योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम्
अ इति ब्रह्म कथितं तद्वयाख्यानान्मता तथा ।
शब्दानामपि सर्वेषां नामवित्कृतकृत्यता
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।
णकारं च षकारं च बलचेष्टात्मकं वदन्
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा
णकारश्च षकारश्च नामरूपतया मतौ ।
तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः
अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ।
घोषाः सर्वे ऽपि वेदाश्च सर्वे वेदाश्च यत् पदम्
इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।
नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः
प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् ।
इति स्वयं भगवता ब्रुवताशेषमन्वयम्
न शब्दवाच्यतैवात्र प्रधनस्य निषिद्धयते ।
सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात्
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्
इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते ।
तेजो ऽबन्नात्मकं वापि यद्युपादानमिष्यते
अनाद्येवापराधः कः प्रधानमिति चोदिते ।
अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।
को दोषः सर्वथैवास्ति परिणामि जडं यदि
अस्माकं परममुख्यार्थो भगवानेक एव तु ।
मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते
सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः ।
अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान्
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः
इति बुद्धौ समारोहादुभयोर्योगरूढयोः ।
त्यागे च कारणाभावादुभयार्थत्वमिष्यते
विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।
सा भवेद् यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ।
अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः
यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।
न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते
अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।
सदैकरूपविज्ञानबल आनन्दरूपकः
निर्विकारो ऽक्षरः शुद्धो निरातङ्को ऽजरो ऽमरः ।
अविश्वो विश्वकर्ताजो यः परः सो ऽभिधीयते
निर्विकारमनौपम्यं सदैकरसमक्षयम् ।
ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः
इति श्रुतिपुराणोक्तया न विकारी जनार्दनः ।
पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः
क्षीरादिवद् विकारः स्यान्नैव स स्याद्धरेः क्वचित् ।
अपादानत्वमेवास्य यद्युपादानतेष्यते
अङ्गीकृतं तत् पितृवन्नतु विश्वात्मना भवः ।
न चोर्णनाभिजनितृमातृणां च विकारिता
चेतनत्वात् तदन्नं हि कार्यरूपतया भवेत् ।
अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम्
उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ।
इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा
स्वभावो ऽयमनन्तस्य रजो येनाभवज्जगत् ।
स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः
ससर्ज मातापितृवदूर्णनाभिवदेव वा ।
प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा
न चेतनविकारः स्याद् यत्र क्वापि ह्यचेतनम् ।
नाचेतनविकारो ऽपि चेतनः स्यात् कदाचन
नचान्यस्यान्यरूपत्वं विकृतत्वे ऽपि दृश्यते ।
न क्षीरादन्यता दध्नः केनचिद् दृश्यते क्वचित्
सर्वज्ञाद् ब्रह्मणो ऽन्यत्वं जगतो ह्यनुभूयते ।
अभेदः सत्त्वमात्रेण स्याद् खर्वस्वणयोरपि
भागेन परिणामश्चेद् भागयोर्भेद एव हि ।
यो भागो न विकारी स्यात् स एवास्माकमीश्वरः
भिन्नानां समुदायस्य नाम ब्रह्मेति चेद् भवेत् ।
ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित्
शृङ्गाच्छरो ऽविलोमभ्यो दूर्वा गोमयतस्तथा ।
वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते
उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।
अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत्
न ह्य् उपादानतैवात्र बाह्यावयवगौरवात् ।
न चाचेतनतस् तत्र चेतनस्य समुद्भवः
उपादानतया किन्तर्ह्यपादानं ह्यचेतनम् ।
कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते
सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।
तत् सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः
सत्त्वात् ततेर्वैदिकत्वात् सम्यग् वक्तुमशक्यतः ।
आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः
सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।
नित्यासाधुगुणव्याप्तियन्तृरूपत्वतः सदा ।
जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते
व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ।
भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते
तस्मादशेषकर्तैको निर्विकारो रमापतिः ।
शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते
बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ।
तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत्
यच्चाविकृतमेवैतद् ब्रह्म विश्वात्मना मृषा ।
दृश्यते मन्ददृष्टयैव स सर्ग इति कथ्यते
सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततो ऽन्यगा ।
ब्रह्मणश्चेत् क्व सार्वज्ञ्यमन्यगा चेत् स्वतो ऽन्यता
नादेहयोगिनो दृष्टिरिति तत् कारणं स्वतः ।
देहिनः कारणयुता देहाश्च यदि न भ्रमात्
किं भ्रान्तिकल्पितं तत्र भेदो ऽपि भ्रमजो यदि ।
भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया
नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ।
भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि
व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ।
बाध्यं नार्थक्रियाकारि न च स्वप्नो ऽपि नो मृषा
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ।
स हि कर्तेति वाक्याच्च जाग्रत्त्वमिति हि भ्रमः
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ।
तदेवार्थक्रियाकारि तत् सदेवार्थकारकम्
ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ।
अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा
अमुख्यसत्यमानस्य साधकत्वे सदाऽवयोः ।
न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा
न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ।
साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।
सम्यक् सम्प्रतिपन्नं तन्न विवतर्ममतं भवेत्
यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।
नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता
विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः ।
इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचकाः
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।
साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः
सवर्कालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः
अतीतानागतौ कालावपि नासाक्षिगोचरौ ।
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते
तस्मान्न तं विना किञ्चित् स्मर्तुं द्रष्टुमथापि वा ।
शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत्
अतो ऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत्
अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।
अकस्माद् विनिवृत्तिश्च किं विश्वस्य न शङ्कयते
इतः पूर्वं तथाभावाद् यदि नो संसृतेर्गतिः ।
वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षितः
तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।
सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।
किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः
एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा ।
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत्
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।
परो नास्तीति वदति किमित्युन्मत्तवद् वदेत्
पराभावे हि वाग् व्यर्था यदि नैवोच्यते तदा ।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत्
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ऽज्ञाते द्वैतं न विद्यते
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।
विश्वस्य सत्यतामाहुर्विद्येतोत्पत्तिमेव च
विदोत्पत्ताविति ह्यस्माद् धातोरुत्पत्तिरेव हि ।
निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।
मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः
सो ऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्
इति श्रुतेर्मितं त्रातं मायाख्यहरिविद्यया ।
उत्तमो ऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाध्यमम्
वाचारब्धं तु साङ्केत्यं नाम स्याद् विकृतं बहु ।
नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम्
प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञो ऽपि पूरुषः ।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित्
सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ।
प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात्
देहः प्रध्वंसते वायं किं ततो ऽस्यातिशिष्यते ।
हन्यते न वधेनायं जरया च न जीर्यति
एतत् सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ।
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम्
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।
एकः पिण्डो मणिश्चेति पदवैयथ्यर्मेव च
विकारत्वविवक्षायां नचैकनखकृन्तनम् ।
सर्वकार्ष्णायसं च स्यादतः सादृश्य एव च
विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ।
प्राधान्यप्रतिपत्त्यर्थं सृष्टयादेश्चैव विस्तरः
तस्मात् केनापि मार्गेण न विवर्तमतं भवेत् ।
तदसङ्खयातदोषेतं हेयमेव शुभार्थिभिः
असङ्खयत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ।
उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः ।
करोति पितृवद् विश्वं पूर्णशेषगुणात्मकः
मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0