भाषा

ENहिગુ
ग्रंथ पाठ

अनुव्याख्यान · अध्याय 1.3

1.3.1

॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥
तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः ।
विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः

1.3.2

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।
श्रुतिर्वक्त्यखिलेशत्वाद् भूमा विष्णुः सुखाधिकः

1.3.3

अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः ।
योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम्

1.3.4

ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।
अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च

1.3.5

अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।
नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम्

1.3.6

सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।
दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च

1.3.7

लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह

1.3.8

बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः

1.3.9

लिङ्गावकाशराहित्यभ्रमस्तादृग् द्वयं तथा ।
बहुतादृक्तवमुक्तस्य विरोधो ऽर्थात् तथा गतिः ।
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः

1.3.10

ता एव बलवन्तस्तु गत्यन्तरविवर्जिताः ।
सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः

1.3.11

मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।
वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा

1.3.12

अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।
वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता

1.3.13

अनामरूपता भेदस्योपजीव्यप्रमाणता ।
सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः

1.3.14

अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः

1.3.15

यतो जैमिनिनान्यार्थमसिद्धे ऽर्थे विधिस्तथा ।
विद्याधिराजस्य मतमविरोधस्तयोस्ततः

1.3.16

मोक्षे फलविशेषो ऽस्ति न च सर्वं प्रकाशते ।
सर्वदा तेन देवानामपि युक्ता ह्युपासना

1.3.17

नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ।
स्पष्टातिस्पष्टविशदं ब्रह्मणो ऽशेषवस्तुगम्

1.3.18

अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।
इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि

1.3.19

जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत् तथावदन् ।
विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते

मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc