भाषा

ENहिગુ
ग्रंथ पाठ

आङ्गिरसस्मृति · अध्याय 2.2

2.2.1

अत ऊर्ध्वं प्रवक्ष्यामि चोपस्थानस्य लक्षणम् ।
उपस्थितो हि न्यायेन व्रतादेशनमर्हति ॥

2.2.2

सद्यो निःसंशयः पापो न भुञ्जीतानुपस्थितः ।
भुञ्जानो वर्धयेत् पापं परिषद्यत्र वर्तते ॥

2.2.3

संशये न तु भोक्तव्यं यावत्कार्यविनिश्चयः ।
प्रमाणेनैव कर्तव्यं यावदाशासनं तथा ॥

2.2.4

कृत्वा पापं न गूहेत गूह्यमानं तु वर्धते ।
स्वल्पं वाथ प्रभूतं वा धर्मविद्भ्यो निवेदयेत् ॥

2.2.5

ते हि पापकृतां वैद्या बोद्धारश्चैव पाप्मनाम् ।
दुःखस्यैव यथा वैद्याः सिद्धिमन्तो रुजायताम् ॥

2.2.6

प्रायश्चित्ते समुत्पन्ने श्रीमान् सत्यपरायणः ।
मृदुरार्जवसंपन्नः शुद्धिं यायाद्द्विजः सदा ॥

2.2.7

सचेलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः ।
क्षत्रियो वाथ वैश्यो वा ततः परिषदं व्रजेत् ॥

2.2.8

उपस्थानं ततः शीघ्रम् अर्तिमान् धरणीं व्रजन् ।
गात्रैश्च शिरसा चैव न च किंचिदुदाहरेत् ॥

2.2.9

ततस्ते प्रणिपातेन दृष्ट्वा तं समुपस्थितम् ।
विप्राः पृच्छन्ति यत्कार्यम् उपवेश्यासने शुभे ॥

2.2.10

किं ते कार्यं किमर्थं वा किं वा मृगयसे द्विज ।
पर्षदि ब्रूहि तत्सर्वं यत्कार्यं हितमात्मनः ॥

मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc