भाषा

ENहिગુ
ग्रंथ पाठ

आङ्गिरसस्मृति · अध्याय 2.3

2.3.1

सत्येन द्योतते राजा सत्येन द्योतते रविः ।
सत्येन द्योतते वह्निः सत्ये सर्वं प्रतिष्ठितम् ॥

2.3.2

भूर्भुवःस्वस्त्रयोलोकास् ते ऽपि सत्ये प्रतिष्ठिताः ।
अस्माकं चैव सर्वेषां सत्यमेव परा गतिः ॥

2.3.3

यदि चेद्वक्ष्यते सत्यं नियतं प्राप्यते सुखम् ।
यद्गृहीतो ह्यसत्येन न च शुध्येत कर्हिचित् ॥

2.3.4

सत्येनैव विशुध्यन्ति शुद्धिकामाश्च मानवाः ।
तस्मात्प्रब्रूहि यत्सत्यम् आदिमध्यावसानकम् ॥

2.3.5

एवं तैः समनुज्ञातः सत्यं ब्रूयादशेषतः ।
तस्मिन्निवेदिते कार्ये ऽपसार्यो यस्तु कार्यवान् ॥

2.3.6

तस्मिन्नुत्सारिते पापे यथावद्धर्मपाठकाः ।
ते तथा तत्र कल्पेयुर् विमृशन्तः परस्परम् ॥

2.3.7

आप्तधर्मेषु यत्प्रोक्तं यच्च सानुग्रहं भवेत् ।
परिषत् संपदश्चैव कार्याणां च बलाबलम् ॥

2.3.8

प्राप्य देशं च कालं च यच्च कार्यान्तरं भवेत् ।
परिषच्चिन्त्य तत्सर्वं प्रायश्चित्तं विनिर्दिशेत् ॥

2.3.9

सर्वेषां निश्चितं यत्स्याद् यच्च प्राणान्न पातयेत् ।
आहूय श्रावयेदेको यः परिषन्नियोजितः ॥

2.3.10

शृणुष्व भो इदं विप्र यत्त आदिश्यते व्रतम् ।
तत्तद्यत्नेन कर्तव्यम् अन्यथा ते वृथा भवेत् ॥

2.3.11

यदा च ते भवेच्चीर्णं तदा शुद्धिप्रकाशनम् ।
कार्यं सर्वप्रयत्नेन न शक्त्या विप्रपूजितम् ॥

मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc