भाषा

ENहिગુ
ग्रंथ पाठ

आङ्गिरसस्मृति · अध्याय 2.1

2.1.1

विश्वरूपं नमस्कृत्य देवं त्रिभुवनेश्वरम् ।
धर्मस्य दर्शनार्थाय अङ्गिरा इदमब्रवीत् ॥

2.1.2

अथ त्रयाणां वक्ष्यामि प्रमाणं विधिमादितः ।
धर्मस्य पर्षदश्चैव प्रायश्चित्तक्रमस्य च ॥

2.1.3

प्रायश्चित्तं चतुष्पादं विहितं धर्मकर्तृभिः ।
परिषद्दशधा प्रोक्ता त्रिविधा वा समासतः ॥

2.1.4

प्रमाणाभिहितं यत्तु सर्वमङ्गिरसा तदा ।
अप्रमेयप्रमाणस्य दुःखेनाधिगमो भवेत् ॥

2.1.5

तस्मादङ्गिरसा पुण्यं धर्मशास्त्रमिदं कृतम् ।
उपस्थानव्रनादेश चर्याशुद्धिप्रकाशनम् ॥

2.1.6

स धर्मस्तु कृतो ज्ञेयः स्वाधिष्ठानक एव वै ।
चतुर्भिः साधनैश्चैव धर्मः प्रोक्तः सनातनः ॥

2.1.7

कृत्वा पूर्वमुदाहार्य यथोक्तं धर्मकर्तृभिः ।
पश्चात्कार्यानुसारेण शक्त्या कुर्युरनुग्रहम् ॥

2.1.8

यत्पूर्वमृषिभिः प्रोक्तं धर्मशास्त्रमनुत्तमम् ।
तत्प्रमाणं तु सर्वेषां लोकधर्मानुवर्णनम् ॥

2.1.9

न हि तेषामतिक्रम्य वचनानि महात्मनाम् ।
प्रज्ञानैरपि विद्वद्भिः शक्यमन्यत्प्रभाषितुम् ॥

2.1.10

स्वाभिप्रायकृतं कर्म विधिविज्ञानवर्जितम् ।
क्रीडाकर्मेव बालानां तत्सर्वं स्यान्निरर्थकम् ॥

मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc