भाषा

ENहिગુ
ग्रंथ पाठ

आङ्गिरसस्मृति · अध्याय 2.10

2.10.1

दण्डादूर्ध्वं तु यत्नेन प्रहरेत्तु निपातयेत् ।
द्विगुणं गोव्रतं तस्य प्रायश्चित्तं विधीयते ॥

2.10.2

अङ्गुष्ठमात्रं स्थूलः स्याद् बाहुमात्रप्रमाणतः ।
सार्द्रश्च सपलाशश्च दण्ड इत्यभिधीयते ॥

2.10.3

रोधने बन्धने वापि योजने वा गवां रुजा ।
उत्पन्ने मरणे वापि निमित्तं तत्र विद्यते ॥

2.10.4

पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ।
योजनं पादहीनं स्याच् चरेत्सर्वं निपातने ॥

2.10.5

न नारिकेलेन न फालकेन न मौञ्जिना नापि च वल्कलेन ।
एतैश्च गावो न हि बन्धनीया बध्वा तु तिष्ठेत्परशुं प्रगृह्य ॥

2.10.6

कुशकाशैस्तु बध्नीयाद् ऊर्ध्वं दक्षिणतोमुखम् ।
पाशलग्ने तथा दाहे प्रायश्चित्तं न विद्यते ॥

2.10.7

यदि तत्र भवेच्छोकः प्रायश्चित्तं कथं भवेत् ।
जपित्वा पातमानीयं मुच्यते सर्वकिल्बिषात् ॥

2.10.8

अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा ।
पातनं चैव शृङ्गस्य मासार्धं यावकं पिबेत् ॥

2.10.9

व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गश्च पाणिना ।
यवसश्चोपहर्तव्यो यावद्रूढव्रणो भवेत् ॥

2.10.10

अस्थिभङ्गे तथा शृङ्ग कटिभङ्गे तथैव च ।
यावज्जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥

2.10.11

श्रुङ्गभङ्गे ऽस्थिभङ्गे च चर्मनिर्मोचने तथा ।
दशरात्रं पिबेद्वज्रं यावत्स्वस्ति भवेत्तदा ॥

2.10.12

अन्यत्राङ्कनलक्ष्मभ्यां वाहनिर्मोचने तथा ।
सायं संगोपनार्थं तु न दुष्येद्रोधबन्धयोः ॥

2.10.13

यन्त्रेण गोचिकित्सार्थं मूढगर्भविमोचने ।
यत्ने कृते विपद्येत न दोषस्तत्र विद्यते ॥

2.10.14

औषधं स्नेहमाहारं दद्याद्गोब्राह्मणे हितम् ।
प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते ॥

2.10.15

गजे वाजिनि वा व्याघ्रे खड्गे श्याममृगे वृके ।
सिंहे शुनि वराहे च मयूरे पक्षिणामपि ॥

2.10.16

काके हंसे च गृध्रे च टिट्टिभे खञ्जरीटके ।
यथा गवि तथा विन्द्याद् भगवान्मनुरब्रवीत् ॥

2.10.17

मोहाद्विरूढमाचार्य प्रत्यावृत्तौ तु यो द्विजः ।
प्रायश्चित्तं न मृग्येत शृणु तस्यापि यो विधिः ॥

2.10.18

विहिहतं यदकामानां कामात्तद्द्विगुणं भवेत् ।
पश्चात्तु दह्यात्तापेन कृत्वा पापानि मानवः ॥

2.10.19

धनत्यागं गृहे कृत्वा सर्वत्यागेन शुध्यति ।
द्रव्यैर्वा विपुलैर्विप्रान् तोषयेद्यः सुनिश्चितम् ॥

2.10.20

तन्नार्यः कामतः प्राप्ताः पापमर्धं समादिशेत् ।
अर्वाक्तु द्वादशादब्दात् पुरुषो ह्यर्धभाग्भवेत् ॥

2.10.21

अशीतिर्यस्य चापूर्णा वर्षार्धं सकलो विधिः ।
प्रायश्चित्तस्य ये क्लीब बालवृद्धाङ्गनादयः ।
तेषु सर्वेषु संचिन्त्य पादमेकं समाचरेत् ॥

मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc