आङ्गिरसस्मृति · अध्याय 2.11
उपपातकर्मसक्तो गोघ्नो मुञ्जीत यावकम् ।
अक्षारलवणं रूक्षं षष्ठे काले ऽस्य भोजनम् ॥
कृतावापो वने गोष्ठे चर्मणा तेन संवृतः ।
द्वौ मासौ स्नानमभ्यङ्गं गोमूत्रेण विधीयते ॥
पादशौचक्रिया कार्या अद्भिः कुर्वीत केवलम् ।
व्रतिवद्धारयेदण्डं समन्त्रां मेखलां तथा ॥
गाश्चैवानुव्रजेन्नित्यं रजस्तासां सदा पिबेत् ।
तिष्ठन्तीष्वनुतिष्ठेच्च व्रजन्तीष्वप्यनुव्रजेत् ॥
शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् ।
गोमतीं च जपेद्विद्वान् ओकारं वेदमेव च ॥
आतुरामभिशस्तां वा चोरव्याघ्रादिभिर्भयैः ।
पतितां पङ्कलग्नां वा सर्वप्राणैर्विमोक्षयेत् ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस्त्राणं गोरकृत्वा स्वशक्तितः ॥
आत्मनो यदि वान्येषां गृहेक्षेत्रे ऽथवा खले ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥
अनेन विधिना गोघ्नो यस्तु गा अनुगच्छति ।
स गोहत्यात्मकात् पापान् मुच्यते नात्र संशयः ॥
ऋषभैकादशा गाश्च दद्यात्सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥
एतेषां विहितं पुण्यं कृच्छ्रमङ्गिरसा स्वयम् ।
धर्मविद्भिरनूचानैर् उपपातकनाशनम् ॥
मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0