आङ्गिरसस्मृति · अध्याय 2.9
अन्तर्दशाहे भुक्त्वान्नं सूतके मृतके ऽपि वा ।
दशरात्रं पिवेद्वज्रं ब्राह्मणो ब्राह्मणस्य तु ॥
क्षत्रियस्यार्धमाप्तं तु विशः पञ्चाधिकं तथा ।
शूद्रस्यैव तु भुक्त्वान्नं त्रिभिर्मासैर्व्यपोहति ॥
आहिताग्निस्त्रिरात्रेण ब्रह्मक्षत्रविशामपि ।
पञ्चरात्रं चरेद्भुक्त्वा श्रोत्रियस्याग्निहोत्रिणः ॥
अत ऊर्ध्वं तु स्नातानां मासाशौचं न विद्यते ।
दीक्षितानां च सर्वेषां राज्ञां सर्वनिधेस्तथा ॥
ससत्रे दानधर्मे च पक्वमन्नं तु गर्हितम् ।
पञ्चरात्रं चरेद्वज्रं षडहं मध्यमाचरेत् ॥
तथा चान्येष्वभोज्येषु व्यहमेवं समाचरेत् ।
अनापत्सु चरेद्भैक्ष्यं सिद्धं वस्तु गृहे वसन् ॥
दशरात्रं चरेद्वज्रम् आपत्सु च त्र्यहं चरेत् ।
पतितानां च सर्वेषां भुक्त्वा चान्द्रायणं चरेत् ॥
प्रतिमासदिनं हृष्टम् अन्यथा पतितो भवेत् ।
प्रतिसंवत्सरं वापि श्रोत्रियस्य भवेदिदम् ॥
ब्रह्मेचारी यतिश्चापि विद्यार्थी गुरुपोषकः ।
अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥
व्याधितस्य दरिद्रस्य कुटुम्बात्प्रच्युतस्य च ।
अध्वानं वा प्रयातस्य भैक्ष्यचर्या विधीयते ॥
ब्रह्मचारी शुना दष्टस् त्र्यहमेवं समाचरेत् ।
गृहस्थस्तु द्विरात्रं वाप्य् एकाहं वाग्निहोत्रवान् ॥
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ।
तदेव द्विगुणं वक्त्रे मूर्ध्नि चेव चतुर्गुणम् ॥
अत ऊर्ध्वं तु यत्स्नातः स्नानेनैव विशुध्यति ।
सर्वेष्वेवावकाशेषु तदा प्रव्रजितः स्वयम् ॥
अव्रती सव्रती वापि शुना दष्टस्तथा द्विजः ।
दृष्टाग्निं हूयमानं तु सद्य एव शुचिर्भवेत् ॥
ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् ।
यदा न दृश्यते सोमः प्रायश्चित्तं कथं भवेत् ॥
यां दिशं तु गतः सोमस् तां दिशं तु विलोकयेत् ।
सोममार्गेण सा पूता पञ्चगव्येन शुध्यति ॥
मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0