भाषा

ENहिગુ
ग्रंथ पाठ

अलंकारसर्वस्व · भाग 81100

वाक्यार्थत्वे विशेषमाह-वाक्यार्थगत्येति ।
अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः ।
आर्थत्वे विशेषमाह-वाक्यार्थगत्येति ।
अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः ।
अर्थत्वे अर्थान्तरन्यास प्रात्पिः इत्याह-अनयथेति ।
अर्थान्तरन्यासे हि अर्थात्प्रकृत समर्थनम्, इह तु शब्दत इति विभागः ।
यत्त्वन्नेत्रेति ।
नेत्र रुचिसमानरुच इन्दीवरस्य सलिले निमज्जनम्, मुखच्छ्रायानुकारिणः शशिनो मेघैश्छ्रादनं, गमनानुकारिगतीनां हंसानां पलायनं चेति वाक्यार्थत्रयमेकवाक्यतापन्नायां सादृश्यविनोदाक्षान्तौ हेतुः ।
मृग्य इति ।
दर्भनिर्व्यपेक्षत्वलोचनव्यापारणे पदार्थो संबोधने हेतुः ।
उभयत्र योजयति- पूर्वत्रेत्यादि ।
अत्र वाक्यार्थपदार्थयोरेकैकहेतुत्वेनोदाजिहीर्षुराह-एवमेकेति ।
मनीषिता इति ।
अत्र तपोनिवारणे गृहेष्वपेक्षितदेवतासद्भावो वाक्यार्थो हेतुः ।
यद्विस्मयेति ।
अत्रानन्द मन्दत्वे विस्मयस्तिमितत्वं पदार्थो हेतुः ।
योजयति-पूर्वत्रेत्यादि ।
काव्यलिङ्गत्व तु हेतुत्वेनोक्तिर्वाक्यपदार्थयोः ।
नायमर्थान्तरन्यासो हेतोःशाब्दत्वसंश्रयात् ॥
अनुमानाय सूत्रम्-
साध्यं साधननिर्देशो ऽनुमानम्
साध्यसिद्ध्यै साधननिर्देशो ऽऽनुमानम् ।
व्याचष्टे-यत्र शब्देत्यादि ।
शब्दवृत्तेन नत्वर्थस्य ।
वस्तुतस्तथा भावेनपक्षधर्मान्वयेति त्रैरूप्यमुक्तम् ।
तर्कानुमानवैलक्षण्याह-विच्छित्तीति ।
अर्थात् कविकल्पितवैचिर्त्यात् ।
यथा रन्ध्रमिति ।
जलदधूमस्य व्योमस्थगनं खद्योतानां स्फुलिङ्गायमानता, ककुभां विद्युज्ज्वालापिङ्गता च ।
पथिकतरुषण्डे स्मरदवानललग्नं लिङ्गम् ।
योजयति- अत्र धूमेत्यादि ।
रूपकमूलत्वमेवालङ्कारान्तरगर्भीकारः ।
अलङ्कारान्तरविविक्ततयापि दर्शयितुमाह-क्वचित्त्विति ।
यत्रैता इति ।
लहरीवञ्चलाश्चलदृशो यासां ताः ।
तत्र भ्रूव्यापारस्तत्रैव मार्गणपतनम् ।
स्मरस्याग्रगमने शुद्धतया लिङ्गम् ।
तदेतदाह-अत्रेति ।
अनलङ्कृतमेव रूपकाद्यसंकीर्णमेव ।
तर्कानुमानाद्वैलक्षण्यायाह-प्रौढोक्तीति ।

मात्रग्रहणादलङ्कारान्तरापोहः ।
चारुत्वं न तु तर्कानुमानवन्निश्चमत्कारता ।
अथानुमानकाव्यलिङ्कार्थान्तरन्यासानां विषयं विवेचयति-अयमत्रेत्यादि ।
पिण्डार्थः अवान्तरविशेषनिर्व्यपेक्षो निष्कृष्टार्थः ।
अप्रतीतः प्रत्याय्यते चेत् प्रत्याय्यप्रत्ययकभावः तदानुमानम्, प्रतीतःसमर्थ्यते चेत् समर्थ्यसमर्थकभावः तदा पदार्थस्य त्वतलादिशिरस्कतया हेतुत्वेनोपादाने न कश्चिदलङ्कारः ।
यथा नागेन्द्रहस्ता इत्यादौ ।
कर्कशत्वात् ऊर्वोरुपमानबाह्या इति हेतुमद्भावस्य लौकिकत्वात् ।
यदा त्वतलाद्यसंस्पर्शेनोपात्तस्य पदार्थस्य हेतुत्वं तदा "मृगश्च दर्भाङ्कुरे"त्यादौ पदार्थनिमन्धनमेकं काव्यलिङ्गम् ।
यदा पुनर्वाक्यार्थो हेतुत्वप्रतिपादकयच्छ्रब्दादिप्रयोगमन्तरेण हेतुत्वेनोपादीयते, तदा वाक्यार्थनिबन्धनमन्यत्काव्यलिङ्गम् ।
यदा ताटस्थ्येनोपात्तस्य वाक्यस्य अर्थपर्यालोचनया हेतुत्वं तदार्तान्तरन्यासः ।
इत्थं च सति वाक्यार्थनिबन्धनं काव्यलिङ्गं कार्यकारण एव भवति ।
समर्थ्य वाक्यार्थस्यानया क्रियया सापेक्षत्वेन ताटस्थ्याभावात् ।
अर्थान्तरन्यासस्तु सामान्यविशेषभाव एव भवति ।
तथात्व एव ताटस्थ्यसंभवात् ।
यत्पुनः कार्यकारणगतत्वेनार्थान्तरस्य समर्थकत्वं तदुक्त लक्षणं काव्यलिङ्गमप्यनपेक्ष्यैव ।
आचार्यैर्लक्षणान्तरकरणात् ।
इत्थं च सति उक्तलक्षणाश्रयणे, "यत्त्वन्नेत्रे"त्यादौ अर्थान्तरन्यासविविक्तं काव्यलिङ्गमेव ।
कार्यकारणयोस्तु समर्थकत्वं अर्थानतरन्यासे दर्शितचरमिति गतिरियती विषयविभागा याश्रयितव्या ।
अनुमानं तु साध्याय साधनस्योपवर्णना ।
तत्संकीर्णत्वशुद्धत्वविच्छित्त्यान्यविलक्षणात् ॥
अप्रतीतप्रतीतौ स्यादनुमानव्यवस्थितिः ।
पदार्थाद्वाथ वाक्यार्थात् निर्देशे सति हेतुतः ॥
समर्थनं प्रतीतस्य काव्यलिङ्गद्वयं मतम् ।
भवेदर्थान्तरन्यासः ताटस्थ्ये हेतुभावतः ॥
कार्यकारणभावे तु तस्योक्तं लक्षणान्तरम् ।
सङ्गत्यन्तरायाह-एवं तर्केति ।
तत्र यथासंख्यार्थं सूत्रम्-
उद्दिष्टानामर्थानां क्रमेणनुनिर्देशो यथासंख्यम्
प्राङ्गनिर्दिष्टनां पश्चान्निर्दिष्टैः क्रमेण सम्बन्धो यथासंख्यालङ्कारः ।
व्याचष्टे-ऊर्ध्वमित्यादि ।
ऊर्ध्वं प्रागित्यर्थः ।
स चेति ।
अनुनिर्देशो ऽर्थान्तरगतः न तु उद्दिष्टार्थगतः ।
सामर्थ्यादुद्दिष्टानुनिर्देश्ययोः सापेक्षत्वलक्षणात् ।
सम्बन्धप्रतीतिं निष्कर्षति-ऊर्ध्वनिष्ठानामिति ।
वाक्यार्थः सूत्रत्मनो वाक्यस्यार्थः ।
अतः क्रमविशेषः ।
अन्ये तु क्रम इत्येवाभिदधिरे ।
द्वैविध्यमाह-तच्चेति ।
आद्यस्य लक्षणमाह-शाब्दं यत्रेति ।

व्यस्तानां व्यस्तैरर्थादभिसंवन्धे शाब्दक्रमावलम्बिनः सम्बन्धस्यातिरोधानप्रतीतिकत्वाच्छाब्दता ।
द्वितीयं लक्षयति-आर्थन्त्विति ।
समुदायस्य समुदायेन सम्बन्धे शाब्दे पर्यालोचनया अवयवत्रमसम्बन्ध इत्यार्थता ।
लावण्येति ।
लावण्यप्रभा त्यागावनीभरक्षणत्वशालिनि त्वयि सति इन्दुपूषचिन्तारत्नकुलक्ष्माभृतां नैरर्थक्यं ।
योजयति-अत्र लावण्यौकस्त्वेत्यादि ।
कज्जलेत्यत्रार्ऽऽथत्वं योजयति-अत्र कज्जलादीनामिति ।
श्रुत्या शब्देन समुदायगतःसंबन्धः ।
"प्रागुक्तानामनूक्तैस्तु सम्बन्धः त्रिमिको यदा ।
यथासंख्यं तथा शाब्दम् आर्थं चेति द्विधा मतम्" ॥
पर्यायार्थं सूत्रम्-
एक मनेकस्मिननेकमेकस्मिन् वा क्रमेण पर्यायः
एकस्यानेकाधारत्वे एकः पर्यायः ।
अनेकस्यैकाधारत्वे द्वितीयः ।
ससङ्गतिकं व्याचष्टे-क्रमप्रस्तावादित्यादि ।
क्रमग्रहणस्य प्रयोजनायाह-नन्वेकमित्यादि ।
एकस्यानेकगोचरत्वलक्षणविशेषालङ्कारव्यावृत्त्यै अमग्रहणामित्यर्थः ।
एवं तर्हि विशेषालङ्कारे यौगपद्यग्रहणं किं न कृतमित्यत आह-इह चेति ।
इह अमप्रतिपादनात्तत्र यौगपद्यं लक्षणत्वेन अर्थात् सिद्ध्यति इत्यर्थः ।
अतो विविक्तविषयतया द्वितीयमाह-तथा एकस्मिन्निति ।
तत्र अपग्रहणात् समुच्चयालङ्कारव्यावृत्तिरित्याह-नन्वत्रेति ।
वक्ष्यमाणे समुच्चये यौगपद्यं लक्षणत्वेन गृहीष्यत इत्याह-अत एव गुणेति ।
लक्ष्यपदं निर्वक्ति-अत एव क्रमेति ।
पर्यायस्य अमात्मकत्वात् परिवृत्त्यलङ्कारतो वैधर्म्यायाह-विनिमयेति ।
अस्य चातुर्विध्यं दर्शयति-तत्रानेक इति ।
इह यो ऽयमनेकार्थः स पृथवृत्तिः सङ्घतात्मा च ।
द्विविधो ऽप्याधाराधेयश्चेति चत्वारो भेदाः ।
नन्वाश्रयेति ।
रे कालकूट! तवाश्रयेषुवृत्तिः उत्तरोत्तरविशिष्टपदन्यासा केनोपदिष्टा यतः प्राक् हृदये, अय तदपेक्षयोपरिकण्ठे वात्सीः ।
सम्प्रति तु कण्ठादप्युपरितन्यां वाचि वससि ।
अत्रार्णवादिराधारो अनेकः पृथग्वृत्तिः ।
विसृष्टरागादिति ।
अत्राधर[कन्दु]कौ कराधारौ निवृत्तिक्रियां प्रति अपादानत्वेन संहतौ ।
निवृत्तेरनेकत्वेनाविवक्षणात्-निशास्विति ।
संचरः संचाराधिष्ठानम् ।
अत्राभिसारिकाशिवारूपं अनेकमाधेयं पृथग्वृत्तिः ।
यत्रैवेति ।
अत्र मुग्धत्वादिकं पत्नीत्वादिकं च अनेकमाधेयम् ।
वर्गत्वावस्था इति सङ्घात वृत्तिचतुष्टये ऽपि योजयति-अत्र कालकूटमित्यादि ।
पर्याय एको ऽनेकस्मिन् एकत्रानेक इत्यापि ।

द्विधा अमवशादेतौ न विशेषसमुच्चयौ ॥
नेयं विनिमयाभावात् परिवृत्तिः भिदास्त्विह ।
चतस्रो ऽनेकरूपस्य पृथक् सङ्घातवर्तनात् ॥
पृथक्सङ्घातवृत्तित्वादनेकोर्ऽथो द्विधा स च ।
आधाराधेयभावस्थश्चतस्रो ऽस्य भिदास्ततः ॥
परिवृत्तर्थं सूत्रम्-
समन्यूनाधिकानां समाधिकन्यूनैः विनिमयः परिवृत्तिः
समस्य समेन सह विनिमयः एका परिवृत्तिः ।
न्यूनस्याधिकेन द्वितीया ।
अधिकस्य न्यूनेन तृतीया ।
व्याचष्टे-विनिमयो ऽत्रेति ।
सङ्गतिमाह-क्रमप्रतिभासेति ।
उरो दत्वेति-हिरण्याक्षवधाद्येषु युद्धेषु उरो दत्वा दैत्यानां यशो गृहीतम् ।
योजयति-अत्र उर इति ।
किमितीति-अरुणायन कल्यते इत्यर्थः ।
योजयति-अत्रोत्कृष्टेति ।
तस्यहीति ।
प्रवयस्त्वात् स्वर्गमुपेयुषो न शोच्यं किञ्चित् ।
योजयति-अत्र कलेवरेणेति ।
द्वैरूप्येणादाहरति-तत्वेति ।
दर्शनप्राणयोःसमता ।
मनो ऽपेक्षया रणारणकस्य न्यूनता ।
योजयति-अत्राद्य इति ।
"परिवृत्तिर्विनिमयस्त्रिधा सेयं समादिभिः ॥
" परिसङ्ख्यार्थं सूत्रम्-
एकस्यानेकप्रात्पवेकत्र नियमनं परिसङ्ख्था
अनेकत्र प्रात्पवत एकस्यैकत्र नियमनं परिसङ्ख्या एककरत्र वर्जनेन अन्यतरत्र सङ्ख्यानात् ।
ससङ्गतिकं व्याचष्टे-एकानेकेत्यादि ।
असंभाव्ये स्थूलदृशा संभावयितुं अशक्ये ।
निर्वक्ति-परीति ।
परीत्युपसर्गोवर्जनवृत्तिरित्यर्थः ।
भेदानाह-सा चैषेति ।
प्रश्रपूर्विका शाब्दी तथैवार्थी अप्रश्रपूर्विका शाब्दी तथैवार्थी[ति]चतुर्धा ।
किं भूषणमिति -आर्यैराचरितम् ।
इयं प्रश्रपूर्विका शब्दोपात्तवर्ज्या ।
किमासेव्यमिति ।
यदासक्त्या द्युसरिदादिसमासङ्गेन ।
इयं प्रश्रपूर्वा अर्थाक्षित्पवर्ज्या ।
भक्तिर्भव इति ।
युवतिरूपे कामास्त्रे ।

इयम् अप्रश्रा शाब्दवर्ज्या ।
कौटिल्यमिति ।
इयम् अप्रश्रा आर्थवर्ज्या ।
योजनस्य सुज्ञानत्वान्न्यायसंचारायाह-अत्रालौकिकमिति ।
अलौकिकग्रहो हि लौकिकं व्यवच्छिनत्त्येव विरोधात् ।
अतो व्यवच्छ्रद्यं शाब्दमार्थं चेति भेदद्वयोदयः ।
अलौकिकस्य प्रसिद्धेः क्वचित्प्रश्रो ऽन्यथा चेति चातुर्विध्यम् ।
श्लेषभित्तिकतया, दर्शयति-विलङ्घयन्तीति ।
श्रुतिवर्त्म कर्णोपकण्ठो वेदमार्गश्च ।
विक्रिमा अरालता दौःशील्य च ।
चित्रकर्मस्तिति-वर्णा वलक्षायदयो द्विजातयश्च ।
दण्डोयष्टिः शास्तिश्च ।
अत्र श्लेषः पूर्वम् सिद्ध इति न बाधकः अपि तु चारुतावह इत्याह-श्लेषसम्पृक्तत्वमिति ।
अलौकिकतां दर्शयितुमाह-अत्र चेति ।
पाक्षिकत्वनियम अनेकत्र युगपत्प्रात्पौ परिसङ्घ्येति हि वाक्यवित्प्रसिद्धं लक्षणम् ।
तद्वैलक्षण्याय नियमनसामान्याधिकरण्यं यतः ।
इत्थमतः पाक्षिकप्रात्पिरूपं नियमलक्षणमपि स्वीक्रियत इति युगपत्संभावनात्मकं परिसङ्ख्यालक्षणामिह[प्रायिकम्] ।
परिसङ्ख्या त्वनेकत्र प्रात्पस्यैकत्र यन्त्रणम् ।
चतुर्धा प्रश्रवर्ज्योक्त्योर्भावाभावादियं मता ॥
न परं युगपत्प्रात्पिः पक्षे ऽपि प्रात्पिरिष्यते ।
परिसङ्ख्यानियमयोरतो ऽत्रालौकिकी स्थितिः ॥
अर्थापत्त्यर्थं सूत्रम्-
दण्डपूपिकया अर्थान्तरापतनं अर्थापत्तिः
यथा दण्डभक्षणेनापूपभक्षणं कैमुत्येनापतति तथार्थान्तरस्यापतनमर्थापत्तिः ।
व्यचष्टे-दण्डापूपयोरिति ।
"द्वन्द्वमनोज्ञे"ति वुञ् सिद्धौ पृषोदरादित्वेन वृद्ध्यभावे ऽहमहमिकादिनयेन दण्डापूपिकेति केचित् ।
अन्ये तु मत्वर्थीयेन रूपसिद्धिमिच्छ्रन्ति ।
स्वसंमतिमाह-अपरेत्विति ।
अपरे पुनः "इवे प्रतिकृता"विति कन उपमार्थत्वेन वर्णायन्ति ।
निष्कर्षार्थमाह-अत्रेति ।
अनुमानशङ्कां निरचष्टे-न चेदमिति ।
समानन्यायस्य दण्डापूपर्थमाह-अत्रेति ।
अनुमानशङ्कां निराचचष्टे-नचेदमिति ।
समानन्यायस्य दण्डापूपवृत्तस्यसर्ङ्तिमाह-अर्थापत्तिश्चेति ।
तज्जातीयेन तत्सम्बन्धितया भेदायाह-इयं चेति ।
पशुपतिरिति-उत्कः उन्मनाः ।
विप्रकुर्युः बाधं विकुर्युः ।
अमी भावा वनितादयः ।
अप्राकरणिकापातनं दर्शयति-अत्र वि[भ्व]ति ।
धृतधनुषीति ।

स्थिरा अपिप्रह्वी भवन्ति, लोलेषु का कथा? अत्र प्राकरणिकार्थापातः ।
विच्छित्त्यन्यरायाह-क्वचित्त्विति ।
अलङ्कार इति ।
शङ्काकरं किमयं सेव्य उत नेति शङ्काजनकम् ।
विधुरिन्दुः विधिर्दिष्टम् ।
श्लेषतः प्राकरणिकापातमाह-अत्र विधाविति ।
अर्थापत्तिस्तु कैमुत्येनान्यार्थापात इष्यते ।
प्रकृताप्रकृतापातादियं च द्विविधा मता ॥
विकल्पार्थं सूत्रम्-
तुल्यबलविरिधो विकल्पः
विरुद्ध्योः तुल्य बवयोर्युगपत्प्रात्पौ विकल्पः ।
व्याचष्टे-विरुद्धयोरिति ।
तुल्यप्रमाण विशिष्टत्वं तुल्यबलत्वे हेतुः ।
वैलक्षण्यं दर्शयति-औपम्यगर्भत्वादिति ।
लौकिक विकल्पस्या तथात्वात् ।
नमन्त्विति -सन्धौ शिरसां नतिः विग्रहे धनुषाम् ।
एवमाज्ञामौर्व्योः कर्णपूरिकरणमपि ।
व्यचष्टे-अत्र प्रतिराजेति ।
नमनमिह प्रतिराजानां कार्यम् ।
तत्र शिरांसि धनीषि च सन्धिविग्रहप्रमाणतया तुल्यबलानि विरुद्धत्वाद्युगपत्प्राप्त्ययोगे ऽपि प्राप्नुवन्ति ।
अतःसाधनबाधनादिरुपगत्यन्तराभावात् विकल्पः ।
वैधर्म्यं योजयति-नमनकृतमिति ।
एवं कर्णपूरीकरणे ऽपि ।
वैचित्र्यान्तरायाह-औपम्येति ।
भक्तिप्रह्वेति-प्रणायिनीस्पर्धिनीत्यादौ प्रथमाद्विवचनैकवचनयोः नपुंसकस्त्रीलिङ्गयोश्च श्लेषः ।
नीतेहितेति नीतार् इहितेति च पदभङ्गः ।
निधी इति निधिरिति च ।
योजयति-अत्र नेत्रे तनुरिति ।
समुच्चयभ्रमो मा भूदित्याह-न चेति ।
अनुशासनात् गतिसंभवे ऽपि कविप्रयोगाभावान्न समुच्चयः ।
अप्रयुक्तदोषापत्तेर्लक्षणे न्यूनतामाशङ्कतेनन्विति ।
परिहरति-नैतदिति ।
नेत्रे अथवेति ।
विकल्पस्वरूपोन्मीलित श्लेशानुगमम् उद्धाटयति-स चात्रेति ।
निगमयति-तस्मादिति ।
स्वोपज्ञ इत्याह-पूर्वैरिति ।
विरोधे तुल्यबलयोर्विकल्पःसन्निपातिनोः ।
अश्लेषश्लेषभित्तित्वाद्द्विधायमुप वर्ण्यते ॥
समुच्चयार्थं सूत्रम्
गुणाक्रियायौगपद्यं समुच्चयः

गुणानां क्रियाणां च यौगपद्यं समुच्चयः ।
व्याचष्टे-गुणानामिति ।
विकल्पेति सङ्गतिकथनम् ।
विदलितेति ।
प्र(ख)लमुखानि दुर्दान्तप्रचुराण् ।
अत्र वैमल्यमालिन्ययोः समुच्चयः ।
अयमिति ।
एकपदे युगपद्भवितव्यं भूतमित्यर्थः ।
अत्र उपमतिभूतिक्रिययोः ।
वैचित्र्यान्तरायाह-एतद्विभिन्नेति ।
बिभ्राणेति ।
शल्यभरणं शयनादिक्रियाहेतुः ।
अत्र शयनादीनां एकाधिकरणतया समुच्चयः ।
गुणसमुच्चयो ऽपि सुज्ञान इत्याह-एवमिति ।
गुणक्रिययोः संभृतयोरपि संभवतीति दर्शयति-केचिदिति ।
न्यञ्चदिति-चक्षुरिह चक्षुर्विकारः ।
एकैकं चक्षुरन्यक्रियं भिन्नव्यापारं वर्तते ।
अतो हेतो रसवशात् ।
रस इह शृङ्गारःषद् दग्विकाराणामेषां तदेकनिष्ठत्वात् कथं भिन्नक्रियं न्यञ्चितमित्यर्थः ।
यदपाङ्गे न्यञ्चति ।
उक्तं हि मया भरतसंग्रहे - "स्यान्नयञ्चितन्नयञ्चदपाङ्गभाव" इति ।
"अपाङ्गसङ्कोचितकुञ्चितं स्यात् उन्मुखं" इत्युदञ्चितस्य लक्षणम् ।
उदञ्चितं दूर्ध्वमपाङ्गवृत्ति निमेषशून्यं हसितं विहासि ।
साकूतमाकाङ्क्षितभावगर्भम् आकेकरं तिर्यगरालतारम् ॥
व्यावृत्तं विलितम् ।
"तिर्यङ्निवृत्तं वलितं विलोक्य प्रेम्णा सुदूरं परिवल्ग[दुक्तम्]" ।
प्रसादि प्रसन्नम् ।
"सभ्रूविलासं स्मयते प्रसन्नं संमील्यमानं मुकुलं वदन्ति ।
" सप्रेम प्रेमगर्भम् ।
"स्यात्प्रेमगर्भं असौ द्रवाय (?)" ।
कम्पमुत्कम्पितपक्ष्मतारम् ।
स्थिरं विदूरान्तरितार्थनिष्ठम् ।
उद्भ्रू-उद्वर्तितं तूर्ध्वविकम्पितभ्रू ।
भ्रान्तं मदमन्थरं स्यात् ॥
अपाङ्गवृत्ति विक्षेपि ।
विक्षेपि पार्श्वे यदपाङ्गवृत्ति ।
[विकचण्] विकासि ।
विकासि दृश्ये सविशेषलक्षम् ।
मज्जन्निहाञ्चितम् ।
नासाग्रनिष्ठान्तुनिहञ्चिताख्यम् ।

तरङ्कोत्तरं तरङ्गितम् ।
"तरङ्गितं यद्युतिरुर्मिकल्पा ।
" साश्रु उत्कण्ठितम् ।
"उत्कण्ठितं रागनिबद्धबाष्पम् ।
" योजयति-अत्राकेकरेत्यादि ।
नन्वाकूतप्रसादप्रेम्णां गुणवचनत्वे ऽपि समासतद्धिताद्यर्थैस्तिरोधानमित्यत आह-प्रसादिसप्रेमेत्यादि ।
समासादयो हि सम्बन्धाभिधायिनः ।
सम्बन्धश्च सिद्धरूपो गुणात्मा ।
न गुणावचनानां स्वभावं भिनत्ति ।
साकूतं सत्प्रेम इति समासः ।
प्रसादीतितद्धितः ।
निगमयति-एवमयमिति ।
व्यस्तत्वेन उभौ समस्तत्वेन एकेति त्रिधा ।
"गुणक्रियायौगपद्ये त्रिविधःस्यात्समुच्चयः "।
समुच्चयान्तरायाह-एकमिति ।
सूत्रम् -
एकस्य सिद्धिहेतौ अन्यस्य तत्करत्वं च
एकस्मिन् कस्यचित् सिद्धिहेतौ स्पर्धया अन्यस्यापि तत्करत्वं समुच्चयः ।
व्याचष्टे-समुच्चय इत्यादि ।
इत्येवेत्यनुषङ्गकथनम् ।
समाधिवैधर्म्यायाह-न चायमिति ।
एकः पर्यात्पः साधकः ।
अन्यः काकतालीयवृत्त्या चेत्समाधिः ।
यथा खले कपोत्ताः स्पर्धया प्रतिस्वं अहमहमिकयावतरन्ति ।
तथा भावे समुच्चयः इति महान् भेदः ।
खले कपोता अस्यां सन्ति नीताविति खलेकपोतिका ।
मत्वर्थीयः ष्ठन् ।
ननु काकतालीयं इति कथमुच्यते ।
काकस्यागमनं यादृच्छिकं तालस्य च पातः ।
तेन पतता काकस्य वधः ।
एवं देवदत्तस्य आगमनं दस्यीनाञ्चचोपनिपातस्तैश्च तस्य वधः ।
तत्र देवदत्ततस्युसमागमः काकतालसमागम इवेति एक उपमार्थः ।
तद्वधः काकवध इवेति द्वितीयः ।
आद्यः समासार्थः काकतालमिति ।
द्वितीयस्तद्वितार्थः काकतालीयमिति ।
समासश्चायम् ।
अस्मादेव ज्ञापकात् "समासाच्च तद्विषया"दाकस्मिक इवार्थेच्छ्रो भवतीति ।
तद्विषयादिवार्थविषयादित्यर्थः ।
एवमर्धजरतीयं अजाकृपाणीयं घुणाक्षरीयमित्यादौसमासतद्धितौ ज्ञेयौ ।
भेदानाह-एष इति ।

कुलमिति ।
यैर्जनो दर्पं व्रजति, त एव तवाङ्कुशाः उन्मार्गनिवारकाः ।
योजयति-अत्रामालिन्येति ।
अमालिन्यं शोभनत्वहेतुः ।
एकैकं चैतन्यस्य तत्करत्वं दर्शयति-दुर्वारा इति ।
मन्मथसुहृद्वसन्तादिः शठो वञ्चकः ।
योजयति-अत्र स्मरेति ।
नववयः प्रभृतेः कथमशोभनत्वम् इत्यत आह-नववय इत्यादि ।
शशीति-शश्यादि विशेष्यं शोभनं धूसरत्वादि विशेषणवशादशोभनमिति विशिष्टस्य द्वैरूप्यम् ।
तत्र तथाविधैः कामिन्यादिभिःसमुञ्चीयते ।
योजयति-अत्र शशिन इत्यादि ।
अन्यथा तु न योजनीयमित्यत आह-न त्वत्रेति ।
न व्यख्येयस्तथा ।
सदसद्योगविवक्षणादिति शेषः ।
अत्राक्षिपति-ननु नृपेति ।
नृपाङ्गण खलयोर्द्वयोरप्यशोभनत्वादन्ये शोभना इति कथम् ।
न तथा समुच्चयः ।
परिहरति-नैतदिति ।
विशिष्टस्य द्वैरूप्यप्रक्रमे द्वयोरशोभनत्वम् ।
प्रक्रमभेदो वाक्यदोषः ।
प्रक्रमभेदा वलम्बेन चान्यैर्देषान्तरं उद्भावितमित्याह-अत एवेति ।
विशेष्यान्तरं शोभनं खलत्वरूपं त्वशोभनमिति सहचरभिन्नोर्ऽथः ।
अत इत्थं विवक्षिणीयमित्याह-प्रकृते त्विति ।
तथापि न दोषनिवृत्तिरित्याह-एवमपीति ।
पूर्वोदाहरणे सदसद्योगमाशङ्कते-ननु दुर्वारा इति ।
स्मरमार्गणादीनां शोभनत्वं दुर्वारत्वादीनामशोभनत्वमिति प्रतीतेः ।
परिहरति-नैतदिति ।
विवक्षाभेदे गमकमाह-अत एवेति ।
सुन्दरत्वेनान्तः प्रविष्टानामपि शश्यादीनां धूसरत्वादिना वैयर्थ्यहेतुत्वमुपसंहृतम् ।
दुर्वारेत्यत्रत्वित्थं "शठः कथं सोढव्य" इति सर्वथा कष्टत्वमेवोपसंहृतम् ।
निगमयति-तस्मादिति ।
एकक्रियायामन्यस्य क्रिया त्वन्यः समुच्चयः ।
सदसद्द्वैधयोगेन सत्रिधा संव्यस्थितः ॥
इति ॥
समाध्यर्थं सूत्रम्-
कारणान्तरयोगात् कार्यसुकरत्वं समाधिः
आरब्धस्य कार्यस्य कारणान्तरयोगात् सम्यगाधानं समाधिः ।
व्याचष्टे-केनचिदिति ।
समुच्चयेति सङ्गत्युक्तिः ।
समुच्चयवैधर्म्यं स्मारयति-तद्वैलक्षण्यमिति ।

मानमिति ।
पादपतने कारणे गर्जितं कारणान्तरम् ।
योजयति-माननिराकरण इति ।
उपकापरेति सौकर्यप्रकाशनम् ।
समाधिःसम्यगाधानं कारणान्तरयोगतः ।
सङ्गत्यरायाह-एवं वाक्येति ।
प्रत्यनीकार्थं सूत्रम् ।
प्रतिपक्षतिरःसाकाशक्तौ तदीयतिरस्कारः प्रत्यनीकम्
बलवतः तिरस्काराशक्तौ तदीयतिरस्कारः प्रत्यनीकम् ।
व्याचष्टे-यत्र बलवदित्यादि ।
तत्सम्बन्धिनः बलवत्सम्बन्धिनः ।
तं बाधितुं बलवन्तं बाधितुम् ।
अत्र दृष्टान्तमाह-यथा अनीक इत्यादि ।
प्रयोजनमाह-प्रतिपक्षेति ।
यस्य किञ्चिदिति ।
यस्य कृष्णस्य ।
विग्रहः कलहः ।
कान्तेन बक्रेण सदृशाकृतिः ।
योजयति-अत्र राहोरिति ।
तत्तिरस्कारादिति प्रयोजनोक्तिः ।
तदीयस्य तिरस्कारः प्रत्यनीकमशक्तितः ।
प्रतीपार्थं सूत्रम्-
उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम्
उपमेयस्यैव पुष्कलगुणत्वविवक्षणेनोपमानस्य कैमर्थक्यं प्रातिकूल्यादेकं प्रतीपम् ।
यञ्चोपमानान्तरार्थं प्रसिद्धोपमानस्योपमेयत्वकॢत्पिरनादरात् दद्वद्वितीयम् ।
व्याचष्टे-उपमेयस्यैवेत्यादि ।
यत्र चेति ।
चक्षुष एव मुण्डमालात्वमिति कुवलयदाम्नो नैरर्थक्यम् ।
अलङ्कारान्तरसंभेदेनापरमुदाहरति-लावण्येति ।
लावण्यौकस्त्वादिगुणानामुपमेय एव पौष्कल्यादिन्द्वाद्युपमानानां कैमर्थक्यम् ।
संभेदमनुस्मारयति-अत्र यथासङ्ख्यमपीति ।
ए एहीति ।
ए इत्यामन्त्रणे ।
अयि एहि तावत्सुन्दरि कर्णां दत्त्वा शृणु वचनीयम् ।
ततव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥
चन्द्रस्योपमानत्वं वचनीयमिति कथनात् चन्द्रस्य निकृष्टत्वेनोपमेयत्वेन कल्पनम् ।
प्रयोजनं तु मुखस्योपमानता ।
योजयति-अत्रोपमानत्वेनेति ।
क्वचित् उपमानस्य सतः उपमानत्वमेव न्यक्करणादलङ्कारं समुत्थापयतीत्याह-क्वचित्पुनरिति ।
गर्वमितिर् ।

इदृशानि नील नलिनानि सन्तीति उपमानाविर्भावः ।
एवं निःसामान्यस्य लोचनयुगलस्य न्यक्कारः ।
योजयति-अत्रोत्कर्षेति ।
यथात्रोपमेयस्य उपमानासहत्वं, तथैव अतिप्रकर्षादुपमान भूमिमप्यतिपतते ।
उपमानत्वकॢत्पिरपि प्रतीपमित्याह-अनेनेति ।
अहमेवेति ।
दारुणात्वकाष्ठाप्रात्पस्य हालाहलस्य दुर्जनवचनो उपमानताकॢत्पिर्न्यक्काराय ।
तदेतद्योजयति-अत्र हालाहलत्वमिति ।
उपमानस्य कैमर्थ्यादुपमेयत्वकल्पनात् ।
द्विधा प्रतीपं क्काप्येतदुपमानत्वतो ऽपि च ॥
निमीलितार्थं सूत्रम्-
वस्तुना वस्त्वन्तरनिगूहनं निमीलितम्
वस्तु वस्त्वन्तरं सहजेन लक्ष्मणा यन्निगूहयति आगन्तुकेन वा तन्निगूहितत्वान्निमीलितम् ।
व्याचष्टे-सहजेनेत्यादि ।
सामान्यतो भेदमाह-न चायमिति ।
तस्य हि गुणसाधारण्याद्भेदानुपलक्षणम् ।
अस्य पुनरुत्कृष्टेन गुणेन निकृष्टस्य स्थगनम् ।
अपाङ्गेति ।
अङ्गेलीलया इति स्फुरितम् इत्थं लीलया प्रससारेत्यर्थः ।
दृक्तारल्या दिना सहजेन लक्षणेन लीला मदोदयहेतुकं दृक्तारल्यादि तिरोदधाति ।
योजयति-अत्र दृक्तारल्येति ।
ये कन्दरास्विति ।
त्वत्पादशङ्कितधियः त्वदा पातशङ्काचकिताः ।
अत्र हिममा गन्तिकलक्षणाभ्यां कम्परोमाञ्चाभ्यां भयकृतौ कम्परोमाञ्चौ स्थगयति ।
योजयति-अत्र हिमाद्रीति ।
निजेनागन्तुना वापि लक्षणेनान्यगोपनम् ।
निमीलिताख्यो ऽङ्कारः द्विप्रकारः प्रकाशितः ॥
सामान्यार्थं सूत्रम्-
प्रस्तुतस्यान्येन गुणासाम्यादैकात्म्यं सामान्यम्
प्रस्तुतस्य अप्रस्तुतेन गुणसाम्यादेकरूपत्वं सामान्ययोगात्सामान्यालङ्कारः ।
व्याचष्टे-यत्र प्रस्तुतस्येत्यादि ।
अपह्नुतेर्भेदायाह-न चेयमिति ।
अपह्नुतौ हि प्रकृतनिषेधेनाप्रकृतप्रतिष्ठापनम् इहतु न तथा ।
किं तर्हि? ऐकात्म्यम् ।
मलयजरसेति ।
दन्तपत्रं करिदशनताटङ्कम् ।
अविभाव्यता गतिरैकात्म्यलिङ्गम् ।
योजयति-अत्र मलयजेति ।
प्रस्तुतस्यान्यतादात्म्यं सामान्यं गुणसाम्यतः ।
तदुणार्थं सूत्रम्-

स्वगुणात्यागादत्युत्कृष्टगुणास्वीकारस्तद्गुणः
परिमितगुणस्य वस्तुनो ऽत्युत्कृष्टगुणस्वीकारस्तद्गुणः ।
व्याचष्टे-यत्रेति ।
निर्वक्ति-तस्येति ।
निमीलिताद्भादमाह-न चेति तत्र हि वस्त्वन्तरनिगूहनम् ।
इह त्वनिगूहितस्य तद्गुणेनोपरागः ।
विभिन्नेति ।
अरुणेन वर्णाभेदं नीता रथवाहा यत्र वंशाङ्कुरनीलैर्मरकतरत्नैः प्रभया पुनः स्वां प्रभां आनिन्यिरे ।
अत्राश्वानामारुण्ये तद्गुणता ।
आरुण्यस्य च हारित्येन ।
योजयति-अत्र रवीति ।
तद्गुणाःस्वगुणत्यागादुत्कृष्टस्य गुणग्रहः ।
सति हेतौ तद्रूपाननुहारो ऽतद्गुणाः
तद्रुणविपरीतो ऽतद्गुणः ।
सङ्गतिं व्याचष्टे-तद्गुणेति ।
उत्कृष्टगुणवस्तुप्रत्यासक्तौ हि न्यानगुणस्य तद्गुणस्वीकारो न्यायोपपन्नः ।
प्रस्यासत्ता वप्यननुहरणमतद्गुणालङ्कारः ।
निर्वक्ति-तस्योत्कृष्टस्येति ।
यदि वेति ।
निरुक्त्यन्तरमनुहरणाहेतौ सत्यपि अननुहरणात् अतद्गुणः ।
अत्र विगृह्णातितस्या प्रकृतस्येति ।
इत्थमियं द्विधा ।
धवलो ऽसीति- धवलो ऽसि यद्यपि सुन्दर! तथापि त्वया मम रञ्जितं हृदयम् ।
रागभरिते ऽपि हृदये सुभग! निहितो न रक्तो ऽसि ॥
धवलो युवा वलक्षश्च ।
रागभरितहृदयनिधाने ऽप्यरक्तत्वमतद्रुणाः ।
गाङ्गमिति ।
अङ्गेति सम्बोधनम् ।
चीयते उपचीयते ।
अत्र अप्रकृतरूपाननुहारः ।
उभयत्र योजयति-पूर्वत्रेत्यादि ।
प्रथमार्धे को ऽलङ्कार इत्यत आह-धवलो ऽसीति ।
धवलस्यापि रञ्जने अतद्रुणत्वं स्फुटमेव ।
यतः कार्यकारणेति ।
विषमवैधर्म्यं व्यक्तम् ।
न तद्रुणे ऽनुहारस्तु गुणताद्रूप्ययोर्द्विधा ।
उत्तरार्थं सूत्रम्-
उत्तरात्प्रक्षोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम्
प्रश्रानुपादाने ऽप्युत्तरा दुन्नयनमेकमुत्तरम् उपात्तस्य च प्रश्रस्य यदसम्भाव्यमसकृदुत्तरं तद्द्वितीयम् ।
व्याचष्टे-यत्रानुपनिबध्यमान इत्यादि ।

अतिव्यात्पिं परिहरति-न चेदमिति ।
त्रैरूप्यनिर्देशो ह्यनुमानलक्षणम् ।
द्वितीयस्य स्वरूपमाह-यत्र चेति ।
तत्र नियममाह-तच्चेति ।
अत्र अतिव्यात्पिं परिहरति-न चेयमिति ।
परिसंख्यायां व्यवच्छ्रेद्यव्यवच्छेदकभावः विवक्ष्यः ।
अत्र स्वविवक्षा ।
एकाकिनीति-किं याचसे वासयाचनेन किमित्यर्थः ।
का विसमेति ।
का विषमा दैवगतिः किं (लब्धं)यज्जनो गुणग्राही ।
किं सौख्यं सुकलत्रं किं दुःखं यत् खलो लोकः ।
यत्र दैवगत्यादि गूढत्वादप्रतिसम्भाव्यम् ।
उत्तरं योजयति-पूर्वत्रेत्यादि ।
असकृदिति ।
नानात्वनियमोद्धाटनम् ।
"उत्तरं प्रश्रपिशुनं असम्भाव्योत्तरं द्विधा ।
" सङ्गत्यन्तरायाह-इतः प्रभृतीति ।
सूक्ष्मार्थं सूत्रम्-
संलक्षितसूक्ष्मार्थंप्रकाशनं सूक्ष्मम्
इङ्गितादिभिःसंलक्षितस्य सूक्ष्मार्थस्य विदग्धाय प्रकाशनं सूक्ष्मम् ।
व्याचष्टे-इह सूक्ष्म इत्यादि ।
कुशाग्रवत्तीक्ष्णा कुशाग्रीया ।
अत इदमिङ्गिताकाराभ्यां द्विधा ।
आकूतव्यञ्जिताश्चेष्टां इङ्गितं बुद्धिकारिताः ।
आकाराः पुनराम्नातास्ता एवाबुद्धिकारिताः ॥
यथा- तारापुटभ्रूद्दष्ट्यादेर्विकारानिङ्गितं विदुः ।
आकाराःसत्त्वजा भावा आद्या बुद्ध्यापरे ऽन्यथा ॥
सङ्केतेति-कालमनसं कालं ज्ञातुमनसमित्यर्थः ।
नेत्रार्पिताकूतं नेत्राभिव्यञ्जितभावमित्यर्थः ।
सङ्केतकालमनसो ज्ञानं भ्रूकटाक्षादि ।
तदीयेङ्गितेन ज्ञात्वेति सूक्ष्मार्थं सलक्षणम् ।
पद्मनिमीलनं तु प्रकाशनम् ।
योजयति ।
अत्र सङ्केतेति ।
वक्त्रस्यन्तीति-स्वेदेन आकारस्तेन कुङ्कुमभेदात् पुरुषायितज्ञानं सूक्ष्मार्थंसंलक्षणम् खङ्गलेखस्तु तत्प्रकाशनम् ।
योजयति-अत्र स्वेदेति ।
सूक्ष्मं तु सूक्ष्मं संलक्ष्य विदग्धेषु प्रकाशनम् ।
इङ्गिताकारतः सूक्ष्मसंलक्षणामिति द्विधा ॥
व्याजोक्त्यै सूत्रम्-
उद्भिन्नवस्तुनिगूहनं व्याजोक्तिः

कुतश्चिन्निमित्तात् प्रकाश्यास्यगूढवस्तुनो व्याजवचसा निगूहनं व्याजोक्तिः ।
व्याचष्टे-यत्र निगूढमित्यादि ।
वःस्वन्तरप्रक्षेपेति निरुक्तिः ।
शैलेन्द्रेति ।
प्रतिपाद्यमाना दीयमाना ।
आदिशब्दात् स्तम्भवेपथू ।
विधिव्यसङ्गः क्रियाशक्तिः ।
शैलान्तःपुरेण मातृमण्डलेन गाणैश्च दृष्टः ।
योजयति-अत्र रोमाञ्चेति ।
असामञ्जस्यं शमयितुमाह-यद्यपीत्यादि ।
अपलापमात्रं चिन्तयेति सस्मितस्वकथनात् पुनः प्रकाशनं लक्षणतयान चिन्तनीयमिति भावः ।
उल्लेख उट्टङ्कनम् ।
अव्यासिमाशङ्कते-नन्वपह्नुतीति ।
उत्तरः प्रकारः अपह्ववाय सादृश्यं इत्येवमात्मकः ।
परिहरति-सत्यमिति ।
तत्र तथोक्तिः उद्भटसिद्धान्ताश्रयेण ।
तन्मते व्यजोस्त्यनुपवर्णानात् तथापह्नुतिसम्भवः ।
इह तु व्याजोक्त्युपवर्णनात् सो ऽपह्नुति प्रकार एव नास्तीत्येकैवापह्नुतः ।
अत इयं व्याजोक्तिरेव ।
व्याजोक्तिर्त्र्याजवचनेनोद्भिन्नस्य निगूहनम् ।
अपह्नवाय सादृश्यम् इष्टा नापह्नुतिर्यतः ॥
वक्रोक्त्यर्थं सूत्रम्-
अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथा योजनं वक्रोक्तिः
एकाभिप्रायेणोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथाभिप्रायेण योजनं वक्रोक्तिः ।
ससङ्गतिकं व्याचष्टे-उक्तिव्यपदेशेति ।
गुरुपरतत्रेति ।
दूरतरं गन्तुमुद्यत इति नायिकोक्तिरसौ ।
गुरुपरतन्त्रतया असौ गुरुपरता समये ऽस्मिन् नैष्यति न नेष्यतीति काकुगर्भसख्युक्तिः ।
योजयति-एतद्वाक्यमिति ।
ननु गमनविधिनिषेधौ शाब्दौ ।
तस्माद्रमननिषेधविधिर्योजितौ ।
अत आह-काकुवशेतिर् ।
इदृशि विषये काकोर्निषेधद्योतकत्वात् विपरीतार्थसंक्रान्तिः ।
अहो केनेति-दारुणा घोरा काष्ठेन च ।
योजयति-अत्रेति ।
त्वं हालाहलेति ।
हालाहलवान् मूर्छ्रां करोषीति देवी ।
देवस्तु हालां सुरां न विभर्मि नापि च हलं सीरम् ।
किंहलवत्तया हालिको ऽसि इति पुनर्देवी ।
गोवाहने शक्तस्यहालिकतैव सत्यमिति ।

अत्र हालाहलेति सभङ्गश्लेषः ।
विजय इति ।
कुलकात्मकं वाक्यम् ।
विजये इति देवीकर्तृकं विजयासंबोधनम् ।
देवस्योक्तौ जित्वरतायां शक्तो ऽस्मि ।
न तु त्र्यक्षो ऽहमक्षद्वयसद्भावादिति ।
अक्ष शब्दःपाशवचनः ।
किं म इति देव्याह ।
दुरोदरेण लम्बोदरेण नार्थश्चेत् गणपतिपरसरतु ।
देव्याह-को द्वेष्टि विनायकम्? देव आह-अहिलोक इति ।
इह विनायको गरुडः ।
चन्द्रेति ।
चन्द्रग्रहणेन इन्दु पणेन विना न रमे इति देवी ।
देवस्तु चन्द्रग्रहणापेक्षा चेद्राहुराहूयताम् ।
हा राहाविति ।
राहौस्थिते हा! कस्य रकिरिति देवी ।
देवस्तु हारारगो ऽपनीयतामिति ।
वस्तुरहितेनेति ।
वसुद्रविणां वसवो ऽष्टौच ।
आरोपयसीति ।
अङ्कः अङ्कनञ्चनञ्चलनं उत्सङ्गश्च ।
इति(कृत)पशुपतिपिति ।
पाशका अक्षाः ।
ननु विच्छित्तिरूपत्वात् सर्व एवालङ्कारो वक्रोक्तिरित्यत आह-वक्रोक्तीति ।
अन्यथा योजनं वाक्ये वक्रोक्तिरभिधीयते ।
द्विप्रकारा च विज्ञेया काकुश्लेषसमाश्रयात् ॥
स्वभावोक्त्यर्थं सूत्रम्-
सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः
कविप्रतिभागोचरस्य स्वभावस्य सम्यग्वर्णनं स्वभावोक्तिः ।
व्याचष्टे-इह वस्त्विति ।
अत एवेति ।
कविमात्र गम्यत्वात् ।
कविना निर्मित एव ।
उक्तिवचनम् उक्तिशब्दः ।
अनेन सङ्गतिवैधर्म्यं वर्णयिष्यत इत्याह-भाविकेति ।
हुङ्कारेति-कुन्तलगतिकण्डूव्यपनयने तन्व्या हुङ्कारः कृतिनः कर्णावतंसीभवेत् ।
कीदृशः ? चञ्चुपुटाकारया नखकोट्या यद्व्याघट्टनं तेनोट्टङ्कितःसीत्कारोपशोभि च ।
कीद्दशस्य? पृष्ठश्लिष्यत्कुचाङ्कपालीसुखेनाकेकरदृशः ।
स्वभावोक्तिर्बुधोन्नेयवस्तुस्वाभाव्यवर्णनम् ।
अथ प्रतीतिवैचित्र्यात्तारतम्यनिरूपणैः ।

भाविकं दूरदुर्लक्षं व्यक्तं व्याक्रियतेतमाम् ॥
तत्र सूत्रम्-
अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम्
भूतभाविनोः अर्थयोः अत्यद्भुतत्वादनाकुलसम्बन्धशब्दसमर्पितत्वाच्च प्रत्यक्षायमाणात्वं भाविकम् ।
व्याचष्टे-अतीतेत्यादि ।
कविगतेति ।
कविभावस्य श्रोतरि प्रतिबिम्बतापत्तिर्भाविकमित्यर्थः ।
भावो वेति ।
भावि भाविकस्य भावनैकप्राणत्वात् ।
निरुक्त्यन्तरं, सो ऽत्रा(स्ती0)ति ।
भाविकमित्यनुषङ्गः ।
ननु मुनिर्जयतीत्युदाहरिष्यमाणे भूतभाविनोः प्रत्यक्षता भ्रान्तिः किं नेष्यत इत्यत आह-न चेयमिति ।
भूतभाविनोर्भूतभावित्वेनैव प्रत्यक्षीभावे का भ्रान्तिरिति भावः ।
ननु भूतभाविनोर्भूतभावित्वेन प्रकाशने वस्तुवृत्तमात्रमित्यत आह-नापि रामो ऽभूदित्यादि ।
रामो ऽभूदिति वस्तुवृत्तान्तमात्रे हि न प्रत्यक्षायमाणता ।
इह तु स्फुटस्य प्रत्यक्षत्वस्य उपलम्भः ।
न हि प्रत्यक्षत्वेन अध्यवसायादतिशयोक्तिरित्यत आह-नापीयमिति ।
तत्र हेतुः ।
अन्यस्यान्यतयेति ।
अतिशयोक्तौ हि अन्यदन्यतया अध्यवसीयते इह तु न तथा ।
भूते भाविनि प्रत्यक्षत्वेच अन्यत्वाधायवसायाभावः ।
एतदुपदर्शयति-न हि भूतभावीति ।
भूतम् अभूतत्वेन भाविन अभावित्वेन ना ध्यवसीयते ।
एतद्विपर्ययो ऽपि नास्तीत्याह-अभूतभाविवेति ।
यञ्चात्र प्रत्यक्षत्वं तदप्यन्यथा अध्यवसीयते इत्याह-न चापीति ।
विपर्ययो ऽपि नास्तीत्याह-अप्रत्यक्षं वेति ।
ननुभूतभाविनोः अप्रत्यक्षयोः प्रत्यक्षायमाणत्वम् अन्यथाध्यवसाय इत्यत आह-न हि प्रत्यक्षत्वमिति ।
यदि प्रत्यक्षत्वं केवलवलस्तुधर्मः तदा भूतभाविनोरप्रत्यक्षता ।
वर्तमानस्य तु प्रत्यक्षत्वम् इति भवेद्व्यवस्था ।
न हि प्रत्यक्षत्वं केवलवस्तुधर्मः ।
किं तर्हि? प्रतिपत्त्रपेक्षयैव प्रत्यक्षस्येति वस्तुधर्मता ।
न हि प्रतिपत्तारमनपेक्ष्य वस्तुनि प्रत्यक्षता नाम काचित् ।
अत्र प्रामाणिकसंवादायाह-यचदाहुरित्यादि ।
यो ह्यर्थः स्वग्रहकप्रतिपत्तुः ज्ञानप्रकाशं स्वान्वयव्यतिरेकावनुकारयति ।
स्वयमस्ति चेत् ज्ञानप्रतिभासो ऽस्ति, नास्तिचेन्नास्तीति व्यवस्थापयति ।
स प्रत्यक्ष इत्यर्थः ।
अतः प्रत्यक्षत्वं न केवलं वस्तुधर्मः प्रतिपत्तुस्तु सामग्री तत्र उपयुज्यत इत्याह-केव्रलमिति ।
असामग्रीके प्रतिपत्तरि न वस्तु प्रत्यक्षीभवतीत्येतावद्वक्तुं शक्यते ।
न तु प्रतिपत्त्रन पेक्षेति भावः ।
तां सामग्रीं विवेचयति- सा चेति ।

लोकयात्रायां लौकिकार्थं प्रत्यक्षीकरणे देशकालादिव्यवधानादतीन्द्रियेर्ऽथे योगिनाम् ऐकाग्षात्मकभावनारूपा ।
साक्षात्करणसामग्री काव्यवस्तुगतमत्यद्भुतत्धं योजयति-(सा चेति । ) अत्यद्भुतानि हि वस्तूनि आदरप्रत्ययेन हृदि सन्धार्यमाणानि तथा भावनां प्रयोजयन्ति ।
इत्थं च सतिलिकयात्रायां वर्तमानार्थसाक्षात्करणसामग्री चक्षुरादिर्योगिनां काव्यतत्त्वविदां चातीतानागतार्थसाक्षात्करणभावना ।
अतो योगिवत् काव्यतत्त्वविदामतीतार्थसाक्षात्कारो नान्यथाध्यवसाय इति नातिशयोक्तिः शङ्क्या ।
ननु प्रत्यक्षतयैव प्रतीयन्ते भूतभाविन इति प्रतीयमानोत्प्रेक्षा किं न स्यादित्यत आह-नापि भूतभाविनामिति ।
तत्र हेतुः - तस्याभिमानेति ।
अभिमानःसंभावना तद्रूपस्याध्यवसाय इति उत्प्रेक्षाया लक्षणम् ।
न ह्यत्राप्रत्यक्षं प्रत्यक्षतया संभाव्यते ।
किं तर्हि? प्रत्यक्षं दृश्यते ।
अतो नोत्प्रेक्षा ।
अनुत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति ।
पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति ।
पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षायाः ।
तत्र हेतुः-तस्या अभिमानेति ।
उत्प्रेक्षा हि अभिमानरूपा प्रतिपत्तॄधर्मः ।
तस्मादभिमानगोचर एव इवार्थं उत्प्रेक्षाप्रयोजक इति भावः ।
अत्र संवादायाह-यदाहुरित्यादि ।
सुखादिवज्ज्ञानधर्मे ऽभिमाने ऽध्यवसायोक्तिरित्यर्थः ।
ननु प्रतिपत्तॄधर्मो ऽध्यवसायस्तर्हि प्रयोक्तुः कवेः न स्यादित्यत आह-काव्यविषये चेति ।
कविरपि खलु काव्ये सहृदय एव ।
अतो नेयमुत्प्रेक्षा ।
नन्वद्भुतदर्शनात् प्रत्यक्षत्वमिहेति काव्यलिङ्गमित्यत आह-नाप्यत्यद्भुतेति ।
अत्यद्भुतपदार्थसाक्षात्कारो हि प्रत्यक्षायमाणत्वे हेतुः ।
अकाव्यलिङ्गत्वे हेतुमाह-लिङ्गलिङ्गीति ।
हेतुत्वे सत्यपि लिङ्गलिङ्गिभावेन नेह प्रतीतिः ।
तथात्वे पारोक्ष्यं प्रसजेदिति भावः ।
कथं तर्हि प्रतीतिरित्यत आह-योगिवदिति ।
नन्वत्यद्भुतत्वहेतुका सचमत्कारप्रतीतिरिह पुरः स्फुरतीव ।
अतो ऽत्यद्भुतत्वहेतुको रसवदलङ्कार एव इत्यत आह-नाप्ययमिति ।
तत्र हेतुः -रत्यादीति ।
परिपाट्यापि सचमत्कारप्रतीतेः पुरः स्फुरणा साधारणी, अथापि न भाविकरसवतोरभेदः ।
कुतः? रतिहासादिचित्तवृत्तीनां तदनुरञ्जितत्वेन विभावानुभावव्यभिचारिणां च यदा परमाद्वैतज्ञानिवत् ममैव शत्रोरेवेत्यादिविशेषपरिहारात् साधारण्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः ।
विभानादीन् रसवत्प्रस्तुतौ विवेचयिष्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः ।
विभावादीन् रसवत्प्रस्तुतौ विवेचयिष्यामः ।
इह तुभूतभाविनां प्रतीतिर्न साधारण्येन अपितु प्रतिपत्तुः ताट्स्थ्येन ।
स्फुटतया तादस्थ्यं हि भेदः ।
यथा साङ्ख्यादिसिद्धानां भेदे न सर्वं जानतां प्रतीतिः ।
ननु ताटस्थ्येन प्रतीतावतीतादिस्फुटत्वं हेतुः ।
स्फुटप्रतीतिश्च प्रमुखे निष्पत्तौ तु साधारण्यप्रतीतिरेव ।
अतः कथं भाविकमित्यत आह- स्फुटप्रतिपत्तीति ।

स्फुटप्रतिपत्तिनिमित्तकस्फुटप्रतीत्युत्थापितभाविकहेतुक इत्यर्थः ।
"मुनिर्जयति"त्यादौ हि कुम्भसम्भवादिवृत्तमादौ ताटस्थ्येन अतीतादिरूपतया प्रतीयते तदैव भाविकसिद्धिः ।
अथोक्तरकालं प्रतिपत्तॄप्रतीतेः ताद्रूप्यापत्त्या विभावादीनां साधारण्ये रसवान् भाविकहेतुकःस्यात् ।
न चैतावता भाविकापलापःशक्यत इति यावत् ।
नन्विह सुन्दरवस्तुस्वभावश्चेन्न वर्ण्येत ततस्तदप्रत्यक्षायमाणता ।
अतःस्वभावोक्तिरित्यत आह-नापीयमिति ।
तत्र हेतुः - तस्यां लौकिकेति ।
स्वभावोक्तेर्हि लौकिकानामेव वस्तूनां यःसूक्ष्मो धर्मः प्रेक्षावत्प्रतिभैक समधिगम्यस्तस्य वर्णने हृदयसंवादःसाधारण्येन ।
इह पुनरत्यद्भुतत्वेनालौकिकानां वस्तूनां प्रतीतिः तटस्थतया ।
अतो हृदयसंवादातिरिक्तानामंसानां वैलक्षण्यम् ।
ननु लौकिकवस्तुप्रतीतिसाधारण्ये स्वभावोक्तिः, अलौकिकवस्तुप्रतीतिस्फुटत्वेतु भाविकमिति व्यवस्था ।
यदि लौकिकवस्तुप्रतीतेःस्पुटत्वं तदा किं स्यादित्यत आह-क्वचित्त्विति ।
लौकिकवस्तुबलात् स्वभावोक्तिः ।
स्फुटत्वप्रतीतिबलात् भाविकमतःसङ्करः ।
हृदयसंवादसाधारण्यात् स्वाभावोक्तिरसवतोर्यो ऽयमभेदः प्रसङ्गात्प्रतीतस्तत्र विवेचयति-न च हृदयसंवादेति ।
स्वभावोक्तौ रसवति च यद्यपि साधारण्येन हृदयसंवादःसचेतसां, तथापि नानयोरभेदः ।
तत्र हेतुः - वस्तुस्वभावेति ।
सत्यपि साधारण्ये वस्तुस्वभावस्य संवादः स्वभावोक्तौ रसवति तु चित्तवृत्तेः ।
वस्तुस्वभावचित्तवृत्तिरूपत्वात् अनयोःसंपाते तु सङ्करः इत्याह-उभयसंवादेति ।
समावेशःसङ्करः ।
समावेशघटने लिङ्गमाह-यत्र वस्तुगतेति ।
यत्र चित्तवृत्तिसंवादवति विषये वस्तुगतसूक्ष्मधर्मवर्णना स्यादित्यर्थः ।
अन्यत्रत्विति ।
सूक्ष्मवस्तुधर्मवर्णनाविरहिणि चित्तवृत्तिसंवादमात्रशालिनि विषये रसवानेव ।
ननु व्यस्तसम्बन्धरहितसन्दर्भसमर्पितत्वमिह लक्षणं तथात्वे च प्रसादाख्यो गुण एवेत्यत आह-नाप्ययं शब्देत्यादि ।
इह यद्यपि झटित्यर्थसमर्पणं शब्दानाकुलत्वहेतकः अथापि नायं प्रसादः ।
तत्र हेतुः - तस्य हि स्फुटा स्फुटेत्यादि ।
स्फुटो ऽस्तु वाक्यार्थो अस्फुटो वा ।
तदुभयगतत्वेन झटिति समर्पणं प्रसादस्वरूपम् ।
यदाह - शुष्केन्धनाग्निवत् स्वच्छ्रजलवत् सहसैव यत् ।
व्याप्नोत्यन्यत् प्रसादो ऽसौ सर्वत्र विहितस्थितिः ॥
इति ॥
अत्र शुष्केन्धनाग्निवदित्यस्फुटं वाक्यार्थं प्रस्युपमोक्तिः स्वच्छ्रजलवदिति स्फुटं प्रति ।
अतःसर्वत्र विहित स्थितित्वेन झटिति समर्पणं रूपं प्रसादस्य ।
अस्य तु प्रसादे झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ सत्यां समनन्तरं स्वरूपप्रतिलम्भः ।
स्वरूपं हि अस्यश्रोतरि कविगतभावप्रतिबिम्बनं पौनःपुन्येन चेतसि विनिवेशस्वभावभावनात्मकं वा ।
तथाविधस्य तु प्रतिबम्बनं स्फुटप्रतीत्युत्तरकालमेव ।
अतः प्रसादो ऽस्याङ्गत्वेन प्राक्सिद्धिकः ।
अयं तु तदुपकृत(स)मनन्तर(स्व)सिद्धिकः ।
ततो ऽन्य एव ।

अदो न कुत्रचिदन्तर्भीव इति निगमयति-तस्मादयमिति ।
सर्वोत्तीर्णः भ्रान्त्यादिषु प्रसादगुणान्तरशङ्कितेष्वेकत्रापि नान्तर्भावयितुं शक्य इत्यर्थः ।
इत्थं लक्षणतो ऽस्यनानुपपत्तिः काचित् ।
लक्ष्यतो ऽपि प्राचुर्यमित्याह-लक्ष्ये चायमिति ।
मुनिर्जयतीति ।
मननात् मुनिः ।
योगीन्द्रत्वान्महात्मा ।
स्वयं तु कुम्भसंभवः ।
तथाविधेन येन एकस्मिन्नेव चुलुके पिपासोद्धृतनिरवशेषार्णवार्भ्भसि प्रसृतिगर्ते दिव्यौ अमानुषानुभावातिशयौ विष्णोर्दशावतारेषु प्रसिद्धापदानौ मत्स्यकच्छ्रपौ यदृच्छ्रया चुलुकान्तर्भावात् पर्याकुलं लुठन्तौ दृष्टौ ।
अत्रातीतवृत्तो ऽपि मुनिः अलौकिकत्वेनात्यद्भुतःसन्नादर प्रत्ययेन हृदि सन्धार्यमाणत्वात् अनाकुलसन्दर्भसमर्पितत्वाच्चप्रत्यक्षायमाणः तथाविधं कविभावं प्रतिपत्तॄषु प्रतिबिम्बयति पौनःपुन्येन चेतसि भावनां विनिवेशयतीति भावकत्वम् ।
प्राचुर्यार्थमुदाहरणान्तराणि-यथा वा हर्षचरितेत्यादिना ।
हर्षचरितप्रारंभे हि देवीं सरस्वतीं अभिशत्पवते क्रोधमुनये क्रुद्धानां वेदानां स्वरूपम् उपवर्णितम् ।
यथा - "रोषविमुक्तवेत्रासनैरोङ्कारमुखरमुखैरुत्क्षेपडोलायमानजटाभारभरि तदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनपटच्छ्रायाश्यामायमानदिवसैरमर्षनि ः श्वासडोलाप्रेङ्खोलितब्रह्मयोकैः सोमरसमिवस्वेदविसरव्याजेन स्त्रवद्भिः अग्रिहोत्रपवित्रभास्मस्मेरललाटपट्टकुशतन्तुचीवरीभिराषाढिभिः प्रहरणीकृतदण्डकमण्डलुमण्डलैः मूर्तैः चतुर्वेदैरिति" ।
योजनायाह-अत्र हि प्रत्यक्षमिवेति ।
ननु वर्णानावशात् प्रत्यक्षायमाणत्वं किं भाविकविषयः आहोस्विदनुभावविशेषात्प्रत्यक्षायमाणस्य सतो वर्णनमित्यत आह-अयं त्वत्रेत्यादि ।
लेश इत्यल्पावशिष्टता आह-वर्णानावशादिति ।
भणितिमाहात्म्यमाविष्करोति - प्रत्तयक्षायमाणस्यैवेति ।
भणितिमाहात्म्यनैरपेक्ष्येण निजानुभावविशेषादेव प्रत्यक्षायमाणत्वमनुसन्धत्ते ।
अनातपत्रो ऽपीति ।
अत्र अनातपत्रो ऽपि सितातपत्रैरिव वृतत्वमचामरस्यापि बालव्यजनेनैवोपलक्षितत्वम् ।
अनुभावविशेषादेव प्रत्यक्षायमाणत्वं वर्ण्यते न तु वर्णनावशात्प्रत्यक्षायमाणता ।
इत्थं विषयद्वये अवस्थिते भाविकम् एकत्रैवेत्याह-अत्र प्रथमप्रकारेति ।
न प्रकारान्तरगोचर इति यदुक्तं तत्र हेतुः - कविसमर्पितानामिति ।
ये हि कविना प्रतिभया समर्प्यन्ते मुखादौ चन्द्रत्वकमलत्वादयो धर्मास्तेषामेवाङ्कलारत्वम् ।
न तु परमार्थतःसन्निविशिष्टानां हिमांशुलावण्यादीनाम् ।
अतो द्वितीयप्रकारे प्रत्यक्षायमाणत्वं वस्तुसन्निवेशीति न भाविकालङ्कारः ।
युक्त्यन्तरेणापि द्रढयितुमाह-अपि च शब्दानाकुलतेत्यादि ।
चकारादभूतभावित्वादयः शब्दानाकुलता चेति हेतवो भामहानुशासने उद्भटलक्षणे च अनाकुलत्वरूपं यदेतद्व्यस्तसम्बन्धरहितशब्दसमर्पितत्वं प्रत्यक्षायमाणात्वप्रतिपादकमुक्तं तत् कथं प्रयोजकीभवेत् ।
वस्तुमन्निवेशिधर्मगतत्वेनापि भाविकसंभवे निष्प्र योजनमेव स्यात् ।
अतो न द्वितीयप्रकारे भाविकमिति निगमयति-तस्माद्वास्तवमेवेत्यादि ।
अत्र उत्तरे प्रकारे ननु वास्तवे ऽपि सौन्दर्ये लौकिकतया मा भूद्विच्छित्तिः ।
कवेः ककविनिबन्धस्य वा वक्तुः निबन्धवशादस्त्येव सकलव्यवहर्तृगोचरीभातता दुरपह्नवाविच्छित्तिः ।
तत्र कुतो न भाविकमित्यत आह-यदि तु वास्तवमपीत्यादिना ।
यदि वस्तुसन्निवेश्यपि सौन्दर्यनिबन्धवशात् सविच्छित्तिकं प्राञ्च आचार्याः स्वभावोक्तिवदलङ्कारतया वर्णयेयुः तदा अयमपि वास्तवसौन्दर्यविषयतया समाशङ्कितो भाविकप्रकारो नातीव दुःश्लिष्ट एव सत्यां सामग्याम् ।
अयमिहाशयः-यथा हि स्वभावोक्तिः वास्तवसौन्दर्यावलम्बिनी वस्तुस्वभावसौक्ष्म्यात् साधारण्येन सचोतनसंवादाच्च विच्छित्तिमती वर्णिता तथैव वास्तवसौन्दर्यावलम्बितया निबन्धा द्विच्छित्ति विशेषो ऽयमलङ्कारतया वर्णनीय एव ।
तथा च सतिभूतभावित्वादि सामग्रीसद्भावे ऽन्यकल्पनागौरवादयमपि भाविकप्रकार इति उन्मीलनं योग्यतया सुशकमेव ।
उन्मीलिता श्चोल्लेखभावोदयसन्धिशबलतादय अतिप्रथन स्वातन्त्र्ये ऽपि चिरन्तनसमयव्यतिक्रमः स्यादिति ।
अमुमेवाशयमाविश्चिकीर्षुः अभियुक्तसंवादायाह-अतैवेत्यादि ।
भूतभाविनः प्रत्यक्षा इव यत्र क्रियन्ते इत्येतावदेव भाविकलक्षणमकारि यैः खलु तैरशब्दानाकुलत्वादिव लक्षणत्वेनोक्तम् ।
नापि वा वस्तुसन्निवेशिनः ।

सौन्द्रर्यस्यनिबन्धाद्विच्छित्तिः स्वभावोक्तितुल्यनयशालिनी अलङ्कारत्वेन प्रसिञ्जिता ।
अतो भूतभाविप्रत्यक्षवद्भाविकलक्षणस्य भाविकस्य शब्दानाकुलत्ववास्तव सौन्दर्यावलम्बेनापि भाविकप्रभेदो ऽभ्यनुज्ञायते ।
यत इत्थं स्वभावोक्तिप्रतियोगितया मीमांसा प्रवर्तयितव्या, अतः सम्प्रति सङ्गतिमाह--स्वभावोक्त्या किञ्चिदिति ।
वास्तवसौन्दर्यत्वं सादृश्यम् ।
तच्च लौकिकत्वसूक्ष्मत्वस्फुटत्वसाधारण्यताटस्थ्यप्रतीत्तयादिभिः वैधर्म्यप्राचुर्यात् अल्पकमित्यभिसन्धायोक्तं-किञ्चिदिति ।
सत्यपि सादृश्यं किञ्चिन्मात्रं अथापि न्यायसञ्चारायेहास्माभिः लक्षणमस्य कृतम् ।
यो ऽयं प्रत्यक्षवद्भावस्त्वतीतानागतार्थयोः ।
तद्भावबिम्बनाच्चित्ते विनिवेशाच्चभाविकम् ॥
नाविपर्ययतो भ्रान्तिः साक्षात्त्वान्नेतिवृत्तकम् ।
अन्यत्वानध्यवसितेर्नचात्रातिशयोक्तिता ॥
न परं वर्तमानार्थं धर्मः प्रत्यक्षतेष्यते ।
प्रतिपत्र्तनपे क्षायां प्रत्यक्षत्वपरिक्षयात् ॥
प्रत्यक्षत्वे च सामग्री भावनाद्भुतवस्तुजा ।
प्रत्तयक्षत्वं न संभाव्यमिह नोत्प्रेक्षणं ततः ॥
अलिङ्गलिङ्गभावाच्च काव्यलिङ्गं न चेष्यते ।
ताटस्थ्यात्स्फुटसंवित्तेः न तदा रसवद्भ्रमः ॥
पश्चात्साधारणीभावे रसवांस्तन्निमित्तकः ।
स्फुटत्वान्नर स्वभावोक्तिर्लोकोत्तीर्णस्य वस्तुनः ॥
स्वभावोक्तेः रसवतो भेदःसंवादभेदतः ।
न प्रसादगुणश्चैतद्यस्यादौत्तरकालिकम् ॥
वास्तवे ऽपि हि सौन्दर्ये योग्यत्वादस्य सम्भवः ।
चिरन्तनानुरोधात्तु तथा व्यक्तं न कीर्तितम् ॥
भाविके बुद्धिसंवादो मया स्याद्यदि कस्यतचित् ।
व्याख्याशिल्पस्य निकषः स मे धीमान्भविष्यति ॥
उदात्ताय सूत्रम्-
समृद्धि मद्धस्तुवर्णनमुदात्तम्
समृद्धिमतो वस्तुनः कविप्रतिभोत्थापितैश्चर्य वर्णनमुदात्तालङ्कारः ।
ससङ्गतिकं व्याचष्टे-स्वभावोक्तावित्यादिना ।
यथावस्थितत्वं लौकिकत्वम् ।
आरोपितत्वं ककविकल्पितत्वम् ।
अव(सरः) प्रात्पिः ।
ऐश्वर्यलक्षितमिति लक्ष्यपदनिरुक्तिः ।
मुक्ताः केलीति-विसूत्रता छ्रिन्नसूत्रता ।
संमार्जनीभिः प्राङ्काणासीम्नि कृताः यत्कर्षन्तीति वाक्यार्थपरामर्शः ।
यदेतत्कर्षणं तत्त्यागलीलायितमित्यर्थः ।
उदात्तं तु समृद्धस्य वस्तुनः कविवर्णनम् ।
उदात्तान्तराय सूत्रम्-
अङ्गभूतमहापुरुषचरितञ्च
पूर्वमैश्वर्ययोग उदात्तत्वम् ।
इह पुनश्चरितस्य उदात्तत्वम् ।

मूल पाठ: Alaṃkārasarvasva with Vidyācakravarti's commentary Saṃjīvanī · Edition: S.S. Janaki: Alamkara-sarvasva of Ruyyaka, with Sanjivani Commentary of Vidyacakravartin - Text and Study, Delhi : Meharchand Lachhmandas 1965 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc