भाषा

ENहिગુ
ग्रंथ पाठ

अलंकारसर्वस्व · भाग 6180

अतो ऽन्यसम्पाते सङ्करः न्यायतो वा दौर्बल्ये बाध्यत्वमित्याहुः ।
तत्र स्वमतनिरवकाशत्वमाविश्चिकीर्षुराह-तत्र पूर्वेषामित्यादि ।
अनेकार्थगोजरत्वेनेति प्रत्येकमभिसम्बन्धः ।
आद्यं प्रकारद्वयं प्राकरणिकानेकार्थगोचरत्वं अप्राकरणिकानेकार्थगोचरत्वं च ।
तदुभयमपि हि तुल्ययोगिताया विषयः ।
तस्याः प्रस्तुतानां वा समानधर्माभिसम्बन्धो लक्षणम् ।
यत्रोभयरूपानेकार्थगोचरत्वं तृतीयः प्रकारः तत्र तु दीपकं प्रभवति ।
तस्य प्रस्तुताप्रस्तुतानां समानधर्माभिसम्बन्धो लक्षणं यतः ।
अतः श्लेषविषथयो ऽनेनालङ्कारद्वयेन व्यात्पः ।
अलङ्कारान्तरेणापि व्याप्यत इत्यत आह-तत्पृष्ठेचेति ।
यत इत्थं नास्य विविक्तविषयता अतो ऽलङ्कारान्तराणि श्लेषबाधितानि प्रतिभामात्रावशेषाणि भवन्ति ।
इत्थं सति विवक्तो यःशाङ्कितो विषयः सो ऽपि अविविक्त एवेत्याह-येन ध्वस्तेत्यादि ।
इत्थं विविक्तो यःशाङ्कितो विषयः सो ऽपि अविविक्त एवेत्याह-येन ध्वस्तेत्यादि ।
इत्थं निरवकराशत्वादन्यबाधकत्वमुपपाद्य शब्दार्थो भयविषयतामस्य उपस्थापयितुमाह-अलङ्कार्येत्यादि ।
अलङ्कार्यलङ्करणभावो हि आश्रयाश्रयिभावेनोपपन्नो लोके कर्णाश्रितः कर्णालङ्कार इति ।
अतो रक्तच्छ्रदेत्यादावर्थाश्रयणादर्थालङ्कारो ऽयं , नालमित्यादौ तु स्फुटःशब्दभेद इति शब्दालङ्कारः ।
ननु अर्थभेदे शब्दभेदो ऽपि भिन्न एवेति रक्तच्छ्रदमित्यादावपि न शब्दैक्यमित्यद आह-यद्यपीत्यादि ।
औपपत्तिकत्वादिति ।
प्रत्यर्थं शब्दभेद इत्युपपत्त्या हि शब्दभेदोपपादनम् ।
प्रतीतौ पुनरैक्यमेवावसीयते ।
अतः साहित्यसरणेः प्रतीत्यैकसारत्वात् शब्दैक्यप्रतिपादकदर्शनावष्टाम्भाच्च नास्ति शब्दभेदः ।
नालमित्यादौ तु शब्दभेदः प्रतीत्यनुरोधी ।
अतो रक्तच्छदमित्यादौ शब्दैक्यादेकवृन्तगतफलद्वयन्यायेन अर्थयोः श्लिष्टता, नालमित्यादौ तु जतुकाष्ठन्यायेन शब्दयोरेव ।
रक्तच्छदमित्यादौ पुनःशब्दाललङ्कारतामाशङ्कते - पूर्वात्रान्वयेति ।
परिहरति-न ।
आश्रयेत्यादि ।
अलङ्कारत्वं हि लोकेशङ्कते-पूर्वात्रान्वयेति ।
परिहरति-न ।
आश्रयेत्यादि ।
अलङ्कारत्वं हि लोकेनान्वयव्यतिरेकाभ्यां व्यवतिष्ठते, अपि त्वाश्रयाश्रयिभावेनैव, इहापि तद्वदित्यर्थः ।
एव मुभयालङ्कारतां प्रसाध्यबाध्यबाधकभावविवेचनमुपक्रमते-एवं च सकलेत्यादि ।
इत्थं निरवकाशत्वोभयालङ्कारत्वसिद्धौ सकलकलमित्यादौ श्लेष एव नोपमा ।
तत्रहेतुः - गुणक्रियासाम्यवत् शब्दसाम्यं नोपमाप्रयोजकमिति ।
सुधांषुबिम्बं कलाभिरुपेतं परन्तु कलकलसहितमिति शब्दसाम्यमेवेह ।
अत उपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसीयते ।
ननु निरवकाशत्वाच्छ्रलेषश्चेद्वाधकः, तर्हि रूपकसमासोक्त्योः कुतो च बाध इत्यत आह-श्लेषगर्भेत्वित्यादि ।
रूपकं हि सिद्धश्लेषमुत्थाप्य स्वस्वरूप एव विश्राम्यतीति श्लेषबाधकः ।
तत्रापि यदि श्लेषः पूर्वसिद्धो रूपकमुत्थाप्य यदि स्वरूपे विश्राम्यति, तदा रूपकं बाध्यमेव, यथा भ्रमिमरतिमित्यादौ ।
चर्चितं चैतत् रूपकप्रस्तावे ।
रूपकं पूर्वसंसिद्धं श्लेषमुत्थापयेद्यपि ।

तदा रूपकमेव स्यादन्यथा श्लेष इष्यते ॥
इति ॥
श्लिष्टविशेषणोति ।
समासोक्तौ तु श्लिष्टविशेषणनिबन्धनायां विशेष्यांशस्य गम्यत्वात् समासोक्तिरेव बाधिका ।
श्लेषे हि वाच्यत्वमेव लक्षणम् ।
अतो लक्षणविकलत्वात् विशेषणोष्वाभातो ऽपि बाध्य एव ।
विशेषणान्तरे ऽपि श्लेषस्य बाधकतां दर्शयितुमाह-इह त्वित्यादि ।
जगत्सु त्रयीमयत्वेन प्रथितो ऽपि विवस्वान् वारुणीं प्रति यदगमत् ।
वारुणी प्रतीची दिक् सुरा च ।
अत एवास्तशैला(त्पतितः) ।
पातित्यं अधः प्रदेशसंयोगः उपहतिश्च पतितत्वादेव शुद्ध्यैबडवाग्निमध्यं विवेशेत्यर्थः ।
व्याचष्टे-विवस्वतो वस्तुवृत्तेत्यादि ।
लोकेत्रयीमयस्य सतो वारुणी स्पर्शतो यौ पति तत्वाग्रप्रवेशौ, ताभ्यां श्लेषमूलयातिशयोक्त्या द्वे अपि विवस्वत्क्रिये ऽध्यसिते ।
सो ऽयं तत्क्रिया(एकक्रिया)योगो नाम अतिशयः ।
यद्यप्येकैव क्रिया कर्तृभेदभिन्ना सत्यभेदेनाध्यवसिता स तु तत्क्रिया(एकक्रिया)योगः , तद्धेतुकातिशयोक्तिहेतुका ।
अत्र (उत्प्रे)क्षायाम् ।
अत एवेति सर्वनाम्ना परामृष्टो यो विरोधालङ्कारः विरुद्धचरणाभासरूपः तेनालङ्कृतोर्ऽथः पातित्यरूप हेतुत्वेनोत्प्रेक्ष्यते ।
शुद्ध्यै इति च फलत्वेन ।
अतो हेतूत्प्रेक्षा फलोत्प्रेक्षा च ।
विरोधालङ्कारो ऽपि सम्पन्नलक्षण इत्याह-विरोधालङ्कारस्य चेति ।
अतो विरोधोत्प्रेक्षालङ्कायोस्तुल्यकालता एकवृत्तन्तः पा(ति)ता, उत्तरकालं तु विरोधोपशम इति प्रतीतिक्रमः ।
इत्थञ्च सति श्लेषः सर्वबाधकःसन् विरोधालङ्कारं बाधित्वा प्रतिभामात्रेणावस्थापयति ।
विरोधबाधे च तद्धेतुकोत्प्रेक्षाबाधः सिद्ध एवेत्याशयः ।
अतः श्लेष एवायम् ।
यत्र तु नाटकादौ भाव्यर्थोपक्षेपात्मकं बीजन्यासलक्षणं सूचकत्वं तत्र मीमांसार्थमाह-यत्र त्वित्यादि ।
प्रस्तुताभिधेयपरत्वे ऽपि वर्तमानार्थनिष्ठत्वे ऽपि ।
उपक्षेपापराभैधानमिति ।
उपक्षेप इति तस्य संज्ञा ।
यदाह-"बीजन्यासः उपक्षेप"इति ।
अर्थद्वयस्येति ।
तत्रार्थद्वयमभैधागोचरत्वेनान्वितं वक्तुं नेष्यते ।
किं तर्हि? एकोर्ऽथो ऽभिधेयः प्रस्तुतः ।
वक्ष्यमाणस्तु सूच्यः ।
अतो न श्लेषः ।
श्लेषे द्वयोरभिधेयत्वनियमात् नापि ध्वनिः ।
कुतः ? उपक्षेप्यस्य भाव्यर्थस्य असम्बन्धेनौपम्या विवक्षणात् ।
श्लेषध्वनिव्यतिरेकिणी गतिरपि नास्ति, तत्र किं कर्तव्यमित्याक्षेपः ।
समाधत्ते-उच्यत इत्यादि ।
श्लेषस्तु द्वयोर्वाच्यत्वाभावात् सर्वथा न प्रवर्तत इति ध्वनेः एव विषयो ऽयम् ।
एतदुपपादयति-तथाहीति ।

शब्दशक्तिमूले हि ध्वनौ वाच्यप्रतीयमानयोः सम्बन्धाभावात् सम्बन्धायौपम्यक्लॄत्पिः ।
स(च)सम्बन्धः औपम्यानपेक्षया प्रकारान्तरेण यदि सूपपादः तर्हि उपमाध्वनौ को ऽभिनिवेशः? न कार्य एव, यतो वस्तुध्वनिरपि तत्र विषये सम्बगन्धान्तरेणोपपन्नः ।
अत एव ध्वनिकृता शब्दशक्तिमूलो ध्वनिः अलङ्काररूपो वस्तुरूपश्चेति द्विधा न्यायत उक्तः- अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते ।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥
इति ॥
इत्थं च सति प्रकृते ऽपि सूचकत्वसम्बन्धात् शब्दशक्तिमूलो वस्तुध्वनिरवसेयः ।
अत्र उदाहरणम्-सद्यः कौशिकेति ।
हरिश्चन्द्रचरिते नाटके ।
कौशैकदिक् उलूकदिशा हर्षात्मिका ते हि प्रभाते हर्षेण कूजन्ति ।
यद्वा कौशिक इन्द्रः , तस्य दिक् प्राची तद्विजृम्भणवशात् ।
प्रभाते हि प्राची प्रतायते ।
आकाशं राष्ट्रसमं इच्छ्या त्यक्त्वा वल्कलसदृशधूसरकान्तिधरश्चन्द्रः अस्तशैलं यौ ।
अथ तत्कान्तापि निशा समुल्लासिभिरलिकुलैः क्रन्धन्तं सुतमिव कुमुदाकरं सान्त्वयन्ती तेन सह क्षिप्रं प्रतस्थे ।
सूचनीये त्वर्थे विश्वामित्रक्रोधवशात् इच्छ्या राष्ट्रं त्यक्त्वा वाराणसीं प्रस्थितः ।
तत्कान्ताप्यौशीनरी क्रन्दन्तं रोहिताश्वं सुतं सन्त्वयन्ती तेनैव सह प्रस्थितेति ।
इह वस्तुध्वनिरेवेति दर्शयितुमाह-अत्र प्रभातेत्यादि ।
ननु धूसरकान्तिवलकलेति सुतमिवेति च औपम्यसम्बन्धसद्भावात् कथमयं वस्तुध्वनिरित्यत आह-वल्कलसूताभ्यां त्विति ।
सूचनीयार्थनैरपेक्ष्येण सादृश्यं हि संभवति ।
प्रकृतार्थविषयत्वेन तावन्मात्रेण विश्रमणीयं सूचनीयेर्ऽथे अनुपयोगात् ।
अतः प्रकृतेन सह सूचनीयस्य सूचनसम्बन्धाच्च शब्दशक्तिमूलो वस्तुध्वनिरेव ।
इत्थं सर्वत्र नाटकादौ ज्ञेयम् ।
अथ यत्र न तुल्ययोगिता नापि दीपकं तत्रापि नास्त्यलङ्कारान्तरविविक्तो ऽस्य विषय इति दर्शयितुं आह-इहेति ।
अत्र विशेषणानां अलकाकर्षवक्त्रासञ्जनादीनां वल्लभपरतया प्रथमं प्रतीतिः ।
अथ इत्थं वदन्त्यास्ते लज्जा प्रलीनेति सखीव्यवहाके नहि नहीति वल्लभस्य निह्नावपुरःसरं कूर्पासकवल्यपदेशः क्रियते ।
अत्र हि न तुल्ययोगिता दीपकं वा अतो विविक्तो ऽयं श्लेषविषय इति न शङ्कनीयम् ।
तत्र हेतुः- अपह्नवुतेर्विद्यमानत्वदिति ।
चोदयति-वस्तुत इति ।
अपह्नवो हि वस्तुतःसादृश्यार्थं प्रवर्त्तते इह तु सादृश्यं अपह्नवाय प्रवृत्तिमिति नायमपह्नव इति चोद्यम् ।
परिहरति-न उभयथापीति ।
भूतार्थस्य प्रकृतार्थस्य ।
प्रकृतापह्नवोह्यपह्नुतिलक्षणम् ।
स चोभयथापि संभवतीति अपह्नुतिः ।
अत्र संग्रहश्लोकमाह-सादृश्यव्यक्त इति ।
आद्यासादृश्यपर्यवसाय्यपह्नवरु(पा)स्वप्रस्तावे अपह्नुतिप्रस्तावे ।
द्वितीयापह्नवपर्यवसायिसादृश्यात्मिका ।
निगमयति-तेनालङ्कारान्तरेति ।
शब्दसाम्यं भवेच्छ्रलेषो विशेषणविशेष्ययोः ।
यद्येको ऽप्रकृतार्थश्चेत् भेद्यांशे भिन्नशब्दता ॥
शब्दार्थोभयनिष्ठो ऽयं सर्वालङ्कारबाधकः ।
पूर्वसिद्धस्य चेदङ्गं तदा न्यायेन बाध्यते ॥

इत्थं न्यायनिर्भघरतया अनेन प्रपञ्चितो ऽपि काव्यप्रकाशकृता प्रतिपदं खण्डितो ऽयं श्लेषो ऽलंङ्कारः ।
खण्डनयुक्तयस्तु अनौचित्यान्नेह लिख्यन्ते ।
संप्रदायप्रकाशिन्यां तु काव्यप्रकाशटीकायां वितत्य दर्शिता इति तत् एवावधार्याः ।
अप्रस्तुतप्रशंसां लिलक्षयिषुः विशेषणविच्छ्रित्तिसङ्गतिसमाप्तेः सङ्गत्यन्तरं दर्शयति-प्रस्तुतादप्रस्तुतेत्यादि ।
तत्र सूत्रम्-
अप्रस्तुतात् सा मान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीता वप्रस्तुतप्रशंसा
सामान्यविशेषभावादि संबन्धावलम्बेनाप्रस्तुतात् प्रस्तुतावगतौ अप्रस्तुतप्रशंसा ।
व्याचष्टे-इहाप्रस्तुतस्येति ।
नह्यप्रस्तुतं प्रस्तुतपरकत्वाभावे वर्णनीयम्, अप्रस्तुतत्वात् ।
प्रस्तुतप्रत्यायकं च संबन्धः ।
त्रिधैव सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति ।
तत्र सामान्याद्विशेषस्य विशेषाद्वा सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति ।
तत्र सामान्यद्विशेसषस्य विशेषाद्वा सामान्यस्य प्रतीतिरिति द्वैविध्यम् ।
एवं कार्यकारणभावे ऽपि ।
सारूप्ये तु यद्यपि नैवम्, अतः पञ्चप्रकारः ।
तथापि साधर्म्यवैधर्म्याभ्यां द्वैविध्यं भेदान्तरवत्सारूप्ये ऽपि ।
अथसर्वैवेयं वाच्यस्य संभवेन उभयरूपतया चेति त्रिधा ।
श्लिष्टशब्दप्रयोगे तु श्लेषेण न बाध्यते प्रस्तुतस्यावाच्यत्वात् ।
तण्णात्थीत्यादि ।
तन्नास्तिकिमपि(पत्युः प्र)कल्पितं(यन्ननियति)गृहिण्या ।
अनवरतमनशीलस्य कालपथिकस्य पाथेयम् ॥
व्यख्यातं प्राक् ।
सामान्याद्विशेषप्रतीतिं दर्शयति-अत्र प्रहस्तेत्यादि ।
एतत्तस्येति ।
तस्य मुखात् एतत् कियत् ।
वक्ष्यमाणस्य जाड्यापेक्षया जाड्यमस्य अल्पकमित्यर्थः ।
एतदित्युक्तम् ।
किं तत्? कमलिनीपत्रे पाथसः कणं मुक्तामणिरित्यामंस्तेति यत् ।
एवं मन्ता नातिजड इत्यर्थः ।
स एवातिजडः यस्तु मुक्तामणिधियाऽदीयमाने तत्र पाथःकणे अङ्गुल्यग्रक्रियाप्रविलयिनि सतिमम मणिरुडडीय गत इति अन्तःशुचा न निद्राति ।
अत्र विशेषात्सामान्यप्रतीतिं दर्शयति-अत्र जडानामिति ।
पश्याम इति-सुहृदा सह नायिकावृत्तान्तोपवर्णनरूपा नायकोक्तिरियम् ।
किमियं प्रपद्यत इति पश्याम इति धिया संलापपरिहारादिरूपं स्थैर्यं मयालम्बितम् ।
तया तु "अयं खलु शठः मां न किमप्यालपतीति"कोप आश्रितः ।
इत्यन्योन्यवैलक्षण्येन दर्शनचतुरे तस्मिन्नवस्थान्तरे मया व्याजेन हसितं, तयापि धैर्यतहरो बाष्पो मुक्तः ।
उद्वाष्पायां तस्यां धैर्यमेव मुक्तमित्यर्थः ।
अत्र कारणात्कार्यप्रतीतिं दर्शयति-अत्र तथा धाराधिरुढेति ।
माननिवृत्तिकार्ये प्रस्तुते बाष्पमभिहितम् अप्रस्तुतत्वेन विवक्षणीयम् ।
इन्दिरिति-इन्दुरञ्जनेन लित्प इवेत्यनेन मुखस्य सौन्दर्यं, मृगीणां दृष्टीर्जडितैवेति दृक्वाञ्चल्यं, विद्रुमदलं प्रम्लानारुणिमेवेति अधरप्रभा, कोकिलवधूकण्ठेषु कार्यश्यं प्रस्तुतमेवेति स्निग्धकण्ठता, बर्हाःसगर्हा इवेति च केशभारवैपुल्यं प्रतीयते ।
कार्यात्कारणप्रतीति दर्शयति-अत्र संभाव्यमानैरित्यादि ।

संभाव्यमानैरुत्प्रेक्ष्यमाणैः ।
अत्रातिव्यात्पिमाशाङ्कते-ननु कार्यादित्यादि ।
येन लम्बालक इति-अत्र लम्बालकत्वादिना कार्येण गजासुरवधरूपकारणप्रतीतिः ।
चक्राभिघातेति-अत्र रतस्यालिङ्गनवन्ध्यत्वचुम्बनमात्रशेषत्वरूपकार्यभेदाद्राहुशिरश्छेदः कारणम् ।
अत्रातिव्यात्पिं दर्शयति-अत्र हीत्यादि ।
परिहरतिनैष दोष इति ।
द्वयोरपि प्रस्तुतत्वे कारणापेक्षया कार्योपवर्णनस्य सचमत्कारत्वे तद्द्वारा कारणप्रत्यायनं पर्यायोक्तविषयः ।
कार्यस्या प्रस्तुतत्वे त्वप्रस्तुतप्रशंसाया इति विभागः ।
विभक्तविषयतया निगमयति-एवं यत्रेत्यादि ।
तादृशमेवं, प्रकृतमेव ।
आगूरयति सामर्थ्यादानयति ।
इत्थं च सति प्रकृतस्यच सतौर्ऽथस्य स्वोपस्काराय प्रकृतानतरागूरणे पर्यायोक्तमेवेचि प्रथनाय पुनराह-ततश्च अनयेत्यादि ।
राजन्निति ।
कुब्जा शुकभोजननियुक्ता ।
कुमारेति संबोधनम् ।
तत्सचिवाःसजग्ध्याधिकारिणः ।
राजशुकः श्रेष्ठशुकः ।
अत्र राजशुकवृत्तस्यापि नायकप्रतापाङ्गतया प्रकृतत्वात् पर्यायोक्तमेव बोद्धव्यम् ।
अन्येषां हृदयमाह-अन्ये त्विति ।
कारणरूपस्य अरिपलायनलक्षघणस्यर् ।
इदृशि विषये अन्येषामप्रस्तुतप्रशंसासात्वे बुद्धावपि न विरोधः कश्चित् ।
द्वयोः प्रस्तुतत्वे पर्यायोक्तम् ।
कार्यस्याप्रस्तुतत्वे तु अप्रस्तुतप्रशंसेति विभागस्याना कूलत्वात् इत्यभिप्रायेणाह-सर्वथेति ।
अथ एतानि साधर्म्योदाहरणत्वेन विज्ञेयानीत्याह-एतानि साधर्म्य इति ।
वैधर्म्ये तु उन्नेयानि ।
सारूप्यहेतुकं तु भेदम् अनया नीत्या साधर्म्येण सुज्ञानत्वातां वैधर्म्यणोदाहरति-धन्या इति ।
वैधर्म्यं दर्शयति- अत्र वाता इति ।
वाच्यसंभवे पृथङ्नोदाहर्तव्यानीत्याह-वाच्येति ।
कस्त्वं भो इति ।
कस्त्वमिति पृष्ट शाकोटकतरुर्वक्तिभोः कथयामीत्यादि ।
तत्र पुनः प्रश्रः-वैराग्यादिव वक्षीति ।
तत्रोत्तरं-साधु विदितमिति ।
अथ कस्मादिदमिति प्रश्ने ऽवशिष्टम् उत्तरम् ।
असंभवं दर्शयति-अत्राचेतनेनेति ।
नन्वेवमसंभवत्वं प्रात्पमित्यत आह-प्रस्तुतं प्रतीति ।
प्रमुख एव शाकोटकवृत्तस्य आरोपितत्व प्रतीतेर्युज्यत एवासम्भवः वाच्यस्य जहत्स्वार्थलक्षणामूलत्वेन अत्यन्ततिरस्कारात् ।
अन्तश्छ्रिद्राणीति-छ्रिद्राणि रन्ध्राणि अनर्थद्वाराणि च ।
कण्टकाः पुलकाः विधातकाश्च ।
अत्र वाच्येर्ऽथे छ्रिद्राणि गुणभङ्गुरीभावे हेतुरित्युभयरूपता ।
प्रस्तुततात्पर्येण प्रतीतेः तदध्यारोपात् सङ्ग(त)मेव ।

तदिदमाह-अत्र वाच्य इत्यादि ।
श्लेषगर्भत्वे चैतदेव द्रष्टव्यम् छ्रिद्रकण्टकगुणानां श्लिष्टत्वादित्याह-एतदेव चेति ।
अस्यार्थान्तरन्यासदृष्टान्ताभ्यां विषयविवेकं दर्शयति-तदत्रेति ।
अर्थान्तरन्यासे हि सामान्यविशेष्ययोः कार्यकारणयोश्च वाच्यत्वं(दृष्टान्ते तु)सरूपयोः वाच्यत्वम् ।
सर्वत्रैव प्रस्तुतस्य गम्यत्वे अप्रस्तुताभिधानादप्रस्तुतप्रशंसैव ।
अप्रस्तुतप्रशंसा तु प्रस्तुतावगमो ऽन्यतः ।
सा सामान्यविशेषादिविच्छ्रित्या पञ्चधा मता ॥
भवेत्साधर्म्यवैधर्म्ययोगतःसा पुनर्द्विधा ।
संभने ऽसंभवेद्वैधे वाच्यस्याथ पुनस्त्रिधा ॥
प्रस्तुतस्यावगम्पत्वात्पर्यायोक्ताद्विभिद्यते ।
इयमर्थान्तरन्यासाद् दृष्टान्तालङ्कृतेरपि ॥
अर्थान्तरन्यासार्थं सङ्गतिमाह-उक्तनयेनेति ।
सामान्यविसेषादिसम्बन्धयोगत उक्तो नयः ।
तत्र सूत्रम्-
सामान्यविशेषकार्यकारणाभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः
आभ्यां सम्बन्धाभ्यां समर्थ्यत्वेन निर्दिष्टस्य प्रकृतस्य समर्थनमर्थान्तरन्यास इत्यर्थः ।
व्याचष्टे-निर्दिष्टस्येत्यादि ।
समर्थनार्हस्य न तु समर्थननिर्व्यपेक्षस्य ।
समर्थकात्पूर्वं पश्चाद्वेति पूर्वपश्चाद्भावे कामचार उक्तः ।
न त्वपूर्वत्वेनेति ।
निर्दिष्टत्वेनैव प्रतीतिर्नत्वपूर्वत्वेन ।
अपूर्वत्वे को दोषः इत्यत आह-अनुमानरूपेति ।
तथा प्रतीतावनुमानरूपत्वमेव प्रसजेदित्यर्थः ।
भेदान् संचष्टे - तत्र सामान्यमित्यादि ।
संभवतो ऽपि वैचित्र्यविरहिणो भेदानपोहति-हिशब्देत्यादि ।
उट्टङ्कितं निष्टङ्कितम् ।
अनन्तरत्नेति-सन्निपातो बहूनां सङ्घातः ।
अत्र गुणसन्निपाते दोषनिमज्जनलक्षणं सामान्यं साधर्म्येण विशेषसमर्थकम् ।
लोकोत्तरमिति ।
पुंसां लोकोत्तरं चरितमेव प्रतिष्ठाम् अर्पयति औदार्यं प्रतिष्ठापयतीत्यर्थः ।
न तु कुलमिह निमित्तम् ।
वातापितापनो ऽगस्त्यः ।
कलशः कुलस्थानीयस्तस्य समुद्रपाने को ऽधिकारः ।
लीलायितं चरितस्थानीयम् ।
अत्र अगस्त्यवृत्तलक्षणो विशेषः साधर्म्येण सामान्यसमर्थकः ।
सहसेति-क्रिया ध्यवसायः सहसाविधानरूपो ह्याविवेकः आपदां पदम् अनेनापत्पदत्वरूपं कार्यं सहसा विधानाभावरूपस्य कारणस्य वैधर्म्येण समर्थकम् ।
विमृश्यकारिणां सम्पदो (वृणत)इति ।
सहसाविधानाभावात्मनो विमृश्यकारित्वस्य कारणस्य सम्पद्वरणं कार्यं साधर्म्येण ।
अत्र साधर्म्यस्य प्राथमिकत्वात् उत्तरार्धार्थपुरस्कारेण योजयति-अत्र सहसाविधानेत्यादि ।
विमृश्यकारित्वरूपस्य कारणस्येति शेषः ।

तस्यैव कारणस्येत्यर्थः ।
पृथ्वीति-द्वितयं पृथ्वी भुजङ्गरूपं तत् त्रितये कूर्मराज युक्तद्वितयात्मनि ।
दिधीर्षा धारयितुमिच्छा ।
अत्राततज्यीकरणं कारणं स्थिरीभावादिकार्ये साधर्म्येण समर्थकम् ।
तदिदं योजयति- अत्र हरकार्मुकेति ।
अहो हीति-आयुषा बह्वपराद्धं हि सुह्यदः पराभवं दृष्ट्वा रिदृशमप्रियं वक्तव्यत्वेनापतितं यतः ।
त एवर हिधन्या, सुहृत्पराभवमट्टष्ट्वा ये क्षयं गताः ।
अत्र सामान्यस्य वैधर्म्येण समर्थकत्वम् ।
योजयति-अत्रायुः कर्तृकेति ।
आयुः कर्तृकेण हि अपराधेनाधन्यत्वं आक्षित्पम् ।
आयुर्विरुद्धक्षयगमनप्रयुक्तं यद्धन्यत्वं तद्वैधर्म्येण समर्थकं सामान्यमुक्तम् ।
अनुस्मारयति-कार्यतकारणातायामिति ।
अपोढेष्वौदासीन्यमाविष्करोति - हिशब्देत्यादि ।
समर्थ्यत्वे न निर्दिष्टः प्रकृतो यः समर्थ्यते ।
सो ऽयमर्थान्तरन्यासः सामान्यादिभिरष्टधा ॥
पर्यायोक्तार्थसङ्गतिं शोधयति-एवं अप्रस्तुतेति ।
गम्यप्रस्तुवेति ।
प्रतीयमानार्थप्रस्तावो हि वर्तते ।
तत्र सूत्रम्-
गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्
प्रतीयमानस्यापि कार्यादिमुखेन प्रकारान्यचरेणाभिधानं पर्यायोक्तम् ।
व्याचष्टे-यदेवेत्यादि ।
गम्यस्य सतो ऽभिधानमाक्षिप्योपपादयति-गम्यस्यैवेति ।
भङ्ग्यन्तरेणेत्येतद्विवृणोति-न हीत्यादि ।
ननु कार्याद्यभिधाने गम्यस्य कथमभिधानमित्यत आहकार्यादेरपीति ।
अप्रस्तुतप्रशंसातो भेदं निरूपितचरमनुस्मारयति-एतच्चेति ।
स्पृष्टास्ता इति ।
व्याख्यातं प्राक् ।
योजयति-अत्र हयग्रीवस्येति ।
कार्यं मञ्जरीस्पर्शः ।
पर्यायोक्तं तु कार्यादिद्वारा गम्यस्य वर्णनम् ।
अप्रस्तुतप्रशंसातो वाच्यस्य प्रस्तुतेभिदा ॥
व्याजस्तुतेःसङ्गतिमाह-गम्यत्वेति ।
सूत्रम्-
स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः
स्तुत्या निन्दाया गम्यत्वे एका निन्दया स्तुतेस्त्वन्या ।
अतो व्याजरूपास्तुतिः व्याजेन स्तुतिरिति च विग्रहः ।
व्याचष्टे-यत्र स्तुतिरित्यादि ।
प्रमाणान्तरात् आभासीकरणक्षमात् ।
अनुगमेन अर्थान्वयेन द्वितीया तु निन्दाव्याजेन स्तुतिरिति आह-यत्रापीति ।

अतो योगविभागात् व्याजस्तुदिद्वयम् ।
ननु स्तुतिनिन्दयोर्गम्यांशस्य प्रस्तुतत्वाद प्रस्तुतप्रशंसातः को भेद इत्यत आह-स्तुतिनिन्देति ।
हे हेलेति ।
बोधिसत्त्वो जीमूतवाहनः ।
स हि कदाचिदेव परस्य हितमाधात् त्वं तु ये यावन्तस्तृष्यन्ति, तेभ्यःसर्वेभ्य एव वैमुख्यलब्धानामयशोभाराणं प्रोद्वहने मरोःसाहायर्कं करोषि ।
अतो हेलाजितबोधिसत्त्वे त्वयि स्तुतिवचोविस्तरो(न)पर्याप्नोतीत्यर्थः ।
स्तुतेर्निन्दागमकत्वं दर्शयति - अत्र विपरीतेति ।
इन्दोर्लक्ष्मेति ।
उर्वीवलयतिलक इन्दुलक्ष्मादिषु श्यामलेषु सत्सु त्वद्यशोभिर्नकिञ्चिद्धवलितं इति स्तुतिर्गम्यते ।
तदेतदाह-अत्र धवलत्वेति ।
अनवकॢत्पिः अपर्यात्पिः ।
यत्र तु गम्यांशस्य न्यग्भावस्तत्र नास्याःसामञ्जस्यमिति दर्शयितुमाह-किं वृत्तान्तैरिति ।
अत्र वल्लभा भ्रमति हन्तेत्युक्त्या निन्दायाःसुतिपर्यवसायित्वं न स्फुटीभावति, अनौचित्यादिति क्लिष्टता ।
तदेतदाह-अत्र प्रक्रान्तापीति ।
व्याजेन व्याजरूपा वा स्तुतिर्व्याजस्तुतिद्वयम् ।
अप्रस्तुतप्रशंसातः स्तुतिनिन्दात्मिका भिदा ॥
आक्षेपार्थं सङ्गतिमाह-गम्यत्वमेवेति ।
विशेषो ऽतिशयः ।
विशेषप्रतिपत्तिगभ्यविषयेत्यर्थः ।
तत्र सूत्रम्-
उक्तवक्ष्यमाणयोः प्राकरणिकयोः विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः
उक्तस्य वक्ष्यमाणस्य वा प्राकरणिकस्य विशेषप्रतीत्यर्थं आभासतो निषेधनम् आक्षेपः ।
विजातीयमिदम् आक्षेपद्वयं ज्ञेयम् ।
व्याचष्टे - इह प्राकरणिक इत्यादि ।
तथाविधस्य विवक्षितस्य ।
अत एव विधेयस्य स कृतः अविषये प्रवर्तित इत्यर्थः ।
अत एव बाधितस्वरूपः आभासीभवति ।
ननु किमेतेन प्रयासेनेत्यत आह-तस्यैतस्तयेति ।
अन्यथेति ।
विशेषप्रतिपत्त्यर्थताभावे पुनर्विधिपर्यवसानात् गजस्नानतुल्यता स्यात् ।
गजो हि स्नात एव सन् सद्यो धूलिधूसरो भवति ।
तस्य द्वैरूप्यायाह-स चेति ।
आसूत्रिताभिधानत्वेन अभिधातुमुपक्रान्ततयेत्यिर्थः ।
तत्र कस्य कः प्रकार इत्यत आह-उक्तविषयत्वेनेत्यादि ।
कैमर्थक्यं निरर्थकता ।
आगूरणम्, सामर्थ्यात् साधनम् ।
अतो विजातीयत्वमित्यत आह-एवं चेति ।
उभयत्र निषेध्यांशो विभिन्न इत्याह-तत्रोक्तेति ।
अतो वैलक्ष्यमित्याह-तेनात्रेति ।
शबानुपात्तत्वादिति ।

निषेधाभासबलायत्तत्वात् शब्दानुपात्तता ।
उक्तविषय इति ।
वस्तुनो वस्तुकथनस्य निषेधाद्द्वैविध्यम् ।
वक्ष्यमाणेति ।
वस्तुनो ऽनुक्तत्वात् कथखनस्यैव निषेधः ।
तत्रान्यथा द्वैविध्यमाह-तत्र सामान्येति ।
इत्थं चातुर्विध्यम् ।
अत्र च प्रकारप्रकारिभावहेतुःसामान्यविशेषभावो अर्थानपेक्ष इत्याह-शब्दसाम्येति ।
बालश्च इति ।
बालक! नाहं दूति तस्याः प्रियो ऽसीति नास्माकं व्यापारः ।
सा म्रियते तवायश एतद्वर्माक्षरं भणामः ॥
प्रसीदेति ।
यति प्रसीदेति ब्रूयामसति कोप इदं वचो न घटते ।
एवं न पुनः करिष्यामीति चेद्ब्रूयां तथा विद्यमानस्याभ्युपगमः, न मे दोषो ऽस्तीति चेद्ब्रूयां त्वं पुनरिदं दोषाभाववचो मृषेतिज्ञास्यासि ।
अतः किं वक्तुं क्षममिति न वेद्मि ।
सुहश्च इति ।
सुभग!विलम्बस्व स्तोकं यावदिदं विरहकातरं ह्यदयम् ।
संस्थाप्य भणिष्याम्यथवाप(व्यति)क्राम किं भणामः ॥
मम विरहकातरहृदयं संस्थाप्य भणिष्यामीत्यनेन जीवितसंशयहेतुरूपद्रवरूपद्रवः? )आसूत्रितः ।
अथवा व्यतिक्राम किं भणम इति तु तस्यैव प्रत्यासन्नतरत्वाद्भणत्यनर्हता ।
ज्योत्स्नेति ।
अत्र विरहवेदनावशात् ज्योत्स्नापिकवचः प्रभृतीनां तमःक्रकचादिरूपापत्त्या यतो दुरन्तता ।
अतो सा न्यूनमित्यर्धोक्त्या प्राणसंशयदशोपक्षित्पा ।
आःकिमथवा जीवितेनेत्यनेन तु तद्विपत्तेरर्वाक् प्राणोपेक्षात्वा ।
एषु क्रमतोयोजयितुमाह-आद्य इत्यादि ।
"नाहं दूती"ति दूतित्वरूपवस्तुनिषेधः ।
किमेतस्मिन् वक्तुं क्षममिति तूक्तिनिषेधः ।
तदुभयमपि उक्तविषयम् ।
उभयत्र निषेधाभासद्योत्यं विशेषमुद्धाटयति-तत्र चेति ।
वस्तुवाचित्वं यर्थार्थवाचित्वम् ।
विशेषो गम्यत इति शेषः ।
भण्यमानस्य (प्रसादे)ति ।
उदीर्यमाणस्य इदं न घटत इति निषेधमुखेनैव ।
उत्तरस्मिन्निति ।
किं भणाम इति सामान्यद्वारेण वक्तुमिष्टस्य जीवितसंशयादेः स्वरूपत एव भणितिनिषेध इत्यर्थवशादागूरणम् इत्यर्थः ।
सा नूनमित्यं शोक्तौ जीवितुं न शक्नोमीत्यंशान्तरस्य स्वरूपतो भणितिनिषेधादागूरणम् ।
उभयत्र द्योत्यविशेषणोद्घाटनायाह-तत्र चेति ।
अतिशयकोपजनकत्वं प्रस्थानाध्यवसायात् ।
अत्र सामग्रीं निष्कर्षति-एवञ्चेति ।
अत आक्षेपस्वरूपमीदृगित्याह-तेनेति ।

ननु निषेधाक्षेपः किं न स्यादित्यत आह-विधिना त्विति ।
विधिना विध्याभासेनेत्यर्थः ।
वक्ष्यते सूत्रान्तरेणेति शेषः ।
यत इत्थं निषेधेन विधेराक्षेपः अतर् इदृशि विषये नालङ्कान्तरमित्यत आह-ततश्चेति ।
यस्मादात्मसंभावनमत आनुरूप्योक्तिर्नयुज्यत इत्युक्तिनिषेधः ।
इत्थं न स्नेहसदृशमित्यत्रापि याननिषेधः ।
अतो ऽयमुक्तविषय आक्षेपः ।
अविषयं दर्शयति-केवलमित्यादि ।
अत्र ह्यपरित्याज्यतादि बाल्यादेर्न निषेधकमपि तु तस्य साधकमेवेति नाक्षेपबुद्धिः कार्या ।
किन्तु व्याघातविशेषेत्यनुयोगपुरस्कारेण दर्शयति-कस्यर्हीत्यादि ।
अत्र निष्कर्षाय श्लोकः-तदिष्टस्येति ।
तस्मात् कारणात् सौकर्येण विशेषसिद्ध्यर्थं तस्य निषेधाभास आक्षेपोक्तेः निमित्तं, न तु वस्तुतो निषेधैकता ।
अतो यत्र निषेधो वास्तवो न तत्राक्षेप इति सोदाहरणं दर्शयति-इह त्वित्यादि ।
अत्र पूर्व श्लोके दैत्या इव काव्यार्थचोरा लुण्टनाय यत्प्रगुणीभवन्ति, अतः काव्यामृतं रक्षतेति रक्षणं विहितम् ।
उत्तरश्लोके तु सर्वे यथेच्छं गृह्णन्तु लोके ऽपि न क्षतिरिति, पूर्वविहितङ्काव्यरक्षणं साक्षान्निषिध्यते ।
तथा वायोः कारागृहकॢप्त्यै कन्दरासु शिलाकवाटदानं विहितं, उत्तरश्लोके एवं चिन्तारूपं दैन्यं मृषा किराता मरुतासह निरोधनवैरं नेच्छ्रन्दीति कवाटदानं साक्षान्निषेध्यत इति नैतद्युगलकयुगमाक्षेपोदाहरणम् ।
आक्षेपाभावे युक्त्यन्तरमाह-चमत्कारो ऽपीति ।
व्यङ्ग्यत्वेनास्य संभवं दर्शयति-अयं चेत्यादि ।
गणिकास्विति ।
गणिका धनपरायणाः सत्यः सर्वम् असाम्प्रतमाचरन्ति यतः ।
अतस्त्वया विश्वासो न कार्य इति गणिकाया एवोक्तौ विश्वासनिषेध आभासायते ।
धनवैमुख्येन शुद्धस्नेहभाजन मियम् इति प्रतीतेः ।
अतो उक्तविषयो ऽयमाक्षेपो व्यङ्ग्यः ।
एतद्दर्शयति-अत्र हि गणिकाया इत्यादि ।
व्यङ्ग्यतायामप्यविषयं दर्शयति-न तु स वक्तुमिति ।
यो ऽम्बुनिधेः परिच्छे निषेधाभास आक्षेपः प्रकृतस्येष्टसिद्धये ।
स उक्तविषये वस्तु तदुक्त्यो वरिणात्मकः ॥
वक्ष्यमाणो पुनस्त्वन्यो ज्ञेय आगूरणात्मकः ।
सामान्यतो विशेषांशादंशश्चेत्येष च द्विधदा ॥
इष्टार्थो ऽस्य निषेधो ऽस्य बाधो ऽथातिशयध्वनिः ।
चतुष्टयमिदं ज्ञेयं संभूयाक्षेपकारणम् ॥
आक्षेपान्तरमुपक्षिपति-एवमिष्टेत्यादि ।
समानन्यायत्वादिति ।
अन्वयव्यतिकेकावस्थायिनो वस्तुनो न्याय्यो ऽपि अन्वयव्यतिरेकावस्थायितया समान इति भावः ।
तत्र सूत्रम्-
अनिष्टविध्या भासश्च
प्राकरणिकस्य विशेषप्रतीत्यर्थमिति अनुवर्तते, न तु प्राकरणिकयोरिति, वक्ष्यमाणैकविषयत्वात् ।
अस्य यथेष्टस्य निषेधाभासः आक्षेपः प्राक् ।
तथा विशेषप्रतीत्यर्थम् अनिष्टविध्याभासो ऽप्याक्षेपः ।
व्याचष्टे-यथेष्टस्येत्यादि ।

यथेति यद्वृत्तेन समानन्यायतायै निरूपितचरमाक्षेपमनुस्मारयति ।
एवमित्यादि तु प्रस्तुतविषयम् ।
प्रस्खलद्रूपत्वमविषयप्रवृत्तेः ।
विधिनायम् इति ।
यतो विधिरयं आभासमानो निषेधे व्यज्यमान उपकरणम् अतो विध्याभासेन व्यञ्जकेनायं निरूप्यमाणो निषेध इत्यर्थः ।
स चानिष्टविशेषे पर्यवस्यन् आक्षेपालङ्कार इति योजना ।
नन्वाक्षेपो द्विधा दर्शितः ।
उक्ते विषये कैमर्थक्यपरतया लक्ष्यमाणे त्वागूरकत्वेन ।
इह तु कतर इत्यत आह-निषेधागूरणादिति ।
निषेधो ह्यनुक्त इह विध्याभासेन आगूर्यते ।
अतो ऽयं वक्ष्यमाणैकविषय इति ज्ञातव्यः ।
उक्तं हि "वक्ष्यमाणविषयत्वेन आनयनरूपमागूरणमाक्षेप"इति ।
गच्छेति ।
गच्छसि चेदित्यनेन, जिगमिषास्ति चेत् नाहं निराकरोमि इति गम्यते ।
गच्छ्रेत्यत्र तु तेन पुरस्कृतो विधिर्ममापि तत्रैव गतिर्भूयादिति तु प्राणनैराश्याविष्कारान् निषेधप्रत्यायनम् ।
योजयति-अत्र कयाचिद्त्यादि ।
अनिराकरणमुखेनेत्यनेन गच्छसि चेदित्यर्थानुगमो दर्शितः ।
(प्रस्खलद्)रूपत्वम् इह साक्षात् वाक्याननुप्रवेशः ।
विशेषप्रतिपत्तिरूपं फलं चोपदर्शयति-फलं चात्रेति ।
गम्यस्यात्यन्तपरिहार्यत्वं फलम् ।
तत्र किं निमित्तम् इत्याह-असंविज्ञानेति ।
न सम्यग्विज्ञायते येनार्थः तदसंविज्ञानम् ।
पदं चेदिति निपातात्मकम् ।
गच्छसिचेदित्युक्तो हि किं तत्र गमनेन मम संविज्ञानेत्यादि प्रतीयते ।
इदमेवार्थप्रत्यायकं सत्पदमत्यन्तपरिहार्यत्वे निबन्धनम् इत्यर्थः ।
नन्वेतदत्यन्तपरिहार्यत्वं केन व्यवस्थापितम् इत्यत आह-एतच्चेति ।
निषेधापगमं प्रकारान्तरेण दर्शयितुमाह-यथावेति ।
नो किञ्चिदिति ।
प्रौढाः कथनमन्तरेणापि कथनीयार्थाभिज्ञाः ।
शिथिलेति ।
हंसो हि शिथिलांसःसन् सविशेषं रम्यो भवति, अन्तर्धवलिमा विष्कारात् ।
तत्सदृशरुचयो वीचय इतिनैर्मल्यकाष्टा ।
योजयति-अत्रानभिप्रेतमित्यादि ।
अनभिप्रेतस्यैव सतो गमनस्य नो किञ्चिक्तथनीयमस्तीति प्रमुख एवाभ्युपगमः प्रतीयते ।
इत्थं च सति विधिरयं अनिष्टत्वेनाभासमानो निषेधागूरणात्मन आक्षेपस्याङ्गम् ।
स्मर्तव्या इत्यनेन भूयस्तरान्निषेध एवोपोद्विलितः तथाविध वीचिस्मृतौ गमनवार्ताया अप्ययोगात् ।
निगमयति-तस्मादिति ।
अभिनवत्वेनान्यैरप्रहरत्वेन ।
अनुक्तस्य निषेधस्य विध्याभासेन सूचिनम् ।
आक्षेपो वक्ष्यमाणैकविषयस्त्वेष संमतः ॥

अथ विरोध विच्छित्तिमधिचिकीर्षुराह-आक्षेप इष्टेत्यादि ।
आक्षेपालङ्कारे हि विरुद्धत्वमनुप्रविष्टम् ।
इष्टनिषेधावलम्बेन अनिष्टविध्यवलम्बेन वा सूत्रद्वयप्रवृत्ते ऽस्मिन्ननृपपत्तिसद्भावात् इत्यर्थः ।
तमिमं प्रस्तुतं विरोधम् अधिकुर्मः इत्याह-एतत्प्रस्तावेनेति ।
तेष्वपि अधिष्ठानभूतं विरोधालङ्कारं प्रामुख्यात् प्रथममुपगृह्णाति-तत्रापीति ।
तत्र सूत्रम्-
विरुद्धाभासत्वं विरोधः
विरोधस्य समाधानसद्भावात् आभासत्वं विरोधालङ्कारः ।
व्याचष्टे-इह जात्यादीनामिति ।
जातेर्जातिःसजातीयं अन्यद्विजातीयम् ।
एवं गुणस्य गुण इत्यादि ।
भेदान् सञ्चष्टे-तत्र चेति ।
जातिविरोधस्य जातिनिबन्धनस्य विरोधालङ्कारस्य ।
परिच्छेदेति ।
अपरिच्छेद्यः सर्ववचनानाम् अविषयः ।
अत्र जन्मनि पुनरित्थाम् अनुभूतमनस्त्वमिह न प्राक्कोट्यपेक्षं पूर्वमित्यर्थः ।
विवेकस्य विशेषतो ध्वंसादुपचितेन मोहान्धकारेण दुरुत्तरः को ऽपि विरहविकारो अन्तर्जडयति तापयति च ।
योजयति-अत्र जडीकरणेति ।
अप्रात्पिर्विरहः तद्धेतुको ऽयं विरुद्धक्रियोपनिपात इत्यर्थः ।
अयं वारामिति ।
तृष्णा पिपासा रत्नविषया लप्सा च ।
क एवं जानीते? न कस्यचिदिदं संभाव्यम् इत्यर्थः ।
योजयति-अत्र जलनिधिरिति ।
भेदान्तरं सुज्ञानमित्याह-एवमिति ।
इह श्लेषगर्भत्वे किं वृत्तमित्यत आह-विविक्तेति ।
श्लेषतो विविक्तविषयतयोक्तोदाहरणादौ दृश्यते यतः ।
अतः श्लेषगर्भत्वे श्लेषो बाधकः उद्भटमतावलम्बिनाम् अन्येषां तु सङ्करः ।
उदाहरणम्-सन्निहितेति ।
बालान्धकारा केशकालिमा नूतनतिमिरं च ।
भास्वन्मूर्तिः भास्वतो रवेमूर्तिश्च ।
इदं द्वयोरपि विरोधिनोः श्लिष्टत्वे ।
कुपतिमिति एकतरस्य ।
पृथ्वीपतिः कुत्सितपतिश्च ।
अत्र विशेषमाह-एकविषयेति ।
विरोधस्यैकविषयत्वे विरोधालङ्कारः ।
विषयभेदे त्वसङ्गत्यादिर्वक्ष्यते ।
विरोधस्तु तदाभासो जात्याद्यर्थसमाश्रयः ।
तद्वैचित्र्याद्दशविधो विषयैक्ये व्यवस्थितः ॥
अथ विरोधमूलाः ।
तत्रापि कार्यकारणविरोधालङ्कारत्वेन विभावनोच्यते ।

तत्र सूत्रम् -
कारणाभावे कार्यस्योत्पत्तिर्विभावना
प्रसिध्दकारणाभावे सूक्ष्मकारणवशात् कार्योत्पत्तिर्विशिष्टतया कार्यभावनात् विभावना ।
व्याचष्टे-इह कारणेति ।
कार्यं हि कारणमन्तरेण न संभवतीति तदन्वयव्यतिरेकानुविधानात् तदभावे ऽपि यदि कार्यसंभवः, तदवास्तवत्वात् विरोधोदुष्परिहरः ।
यदि केनचिदुक्तिवैचित्र्येण कारणाभावे ऽपि कार्यसंभव उपनिबद्धः तदा वैशिष्ट्येन कार्यभावना द्विभावना ।
क (या)चिदित्युक्तम् ।
सा केत्यत आह-साचेति ।
प्रसिध्दस्यैव कारणस्य अनुपनिबन्धः अप्रसिद्धकारणसंभवात्तु विरोधि ।
विरोधाद्वैलक्षण्यायाह-कारणाभावेनेति ।
प्रामाणिकत्वात् बलिना कारणाभावेन कार्यमेव बाध्यते, न तु कारणाभावः, अत उभयविरोधानुप्राणितात् विरोधात् विशेषः ।
एतद्वव्यतिरेकरूपया नीत्या वक्ष्यमाणस्य विशेषोक्त्यलङ्कारस्यापि विरोधतो भेद इत्याह-एवं विशेषोक्तवित्यादि ।
तत्र हि कार्याभावः कारणसत्ताया बाधकः ।
अतः सापि वोरोधाद्विभिन्ना ।
लक्षणांशेविमतिमुपन्यस्य दूषयति-इह लक्षणा इति ।
क्रियाग्रहणं कृतम् ।
क्रियाभावे कार्योत्पत्तिः विभावनेति तथापि कारणपदविधानार्हत्वान्निवेशितम् ।
तत्र हेतुः- न हि सर्वैरिति ।
क्रियाफलमेव कार्यमिति न हि सर्वेषामभ्युपगमः, किन्तु वैयाकरणानामेव ।
अतः क्रिया व्यतिरेकिणो ऽपि कारणास्य संभवात् सामान्यतः कारणग्रहणमेव कृतम् ।
अत्र द्वितीयेति ।
मदस्यासवकारणापोहेन यौवनकराणोपनिबन्धो यौवनासवमदयोरभेदाध्यवसायात् ।
सा चातिशयोक्तिर्विभावनां न व्यभिचरतीति न बाध्यते ।
अपि त्वनुग्राहकत्वेनावतिष्टते ।
तद्द्वैविध्यमाह-इयं चेति ।
अनेन विशेषोक्तेरपिद्वैविध्यं सूचितम् ।
तत्रासंभृतमिति ।
इयमेवोक्तनिमित्ता वयसो निमित्तत्वात् ।
अङ्गलेखामिति ।
काश्मीरसमालम्भनङ्कुड्कुमालेपः निमित्तानुक्तिं दर्शयति-अत्र सहजत्वमिति ।
वैचित्र्यान्तरम् आह- इयं चेति ।
अनिद्र इति ।
प्रपतनं मरणाध्यवसायेन पातः ।
तिमिरसहितस्त्राससमयो निषा अयं तु तदभावात्मकः ।
आघातो वधस्थानं, धृतिर्धारणं अन्वयो ऽनुवृत्तिः ।
आद्योदारहरणे द्वितीयतृतीयपादयोर्विमतिरित्याह-असंभृतमिति ।
सभरणपुष्पकारणाभावे ऽपि मण्डनकामास्त्रकार्योत्पत्तेरियमेव विभावनेति केचित् ।
अन्ये तु संभरणापुष्पयोर्मण्डनास्त्रे प्रत्यासवमदन्यायेन साक्षादकराणत्वाद्वाङ्मात्रं विभावनात्ववचनम् ।
किञ्च एकगुणहानिकल्पनायां साम्यदाढर्यं विशेषोक्तिरित्युक्तलक्षणविशेषोक्तिरियम् ।
संभरणाद्येकगुणहान्या मण्डनादेः वयसा सह साम्यदार्ढ्यादित्याहुः ।

अपरे तु वयसि मण्डनत्वाद्यारोपात् रूपकमेव यत्त्व संभरणादि वैशिष्ट्यं तदत्रैव अधिरोपितमित्याहुः ।
अथ सिद्धान्तः - आरोप्यमाणस्येति ।
आरोप्यमाणस्य मण्डनत्वादेर्वयोरूपे प्रकृते प्रतिपत्तिरूपादुपयोगात् परिणामो ऽयम् ।
मण्डनादिकं हि वयोरुपो पग्राहिप्रतिपत्तिकत्वेन उपयुज्यते ।
रूपकत्वे हि वयसो मण्डनं रूपोपग्राहिताया मण्डनमेवेदमित्यादि प्रसजेत् ।
अतः परिणाम एव ।
अद्यतना इति आचार्यः स्वात्म प्रमुखान्वक्ति ।
प्रसिद्धकारणाभावे कार्योत्पत्तिर्विभावना ।
कार्योत्पादनवैशिष्ट्याद्द्विधा चेयं निमित्ततः ॥
विशेषोक्त्यौ सङ्गतिमाह-विभावनामिति ।
तत्र सूत्रम्-
कारणसामग्र्ये कार्यानुत्पत्तिर्विशेषोक्तिः
विभावनावैपरीत्येन विशेषमभिव्यङ्क्तु प्रयुज्यमाना विशेषोक्तिः ।
व्याचष्टे-इह समग्राणीत्यादि ।
अन्यथेति ।
सामग्रयं हि कार्यनिष्पत्त्यवसानकम् ।
तदेव चेत्यार्यं न जनयेत(त्)तदा किमेषां समग्रत्वम् ।
अतः कारणानि चेत् समग्राणि तदा नियमेन कार्योत्पत्तिरिति स्थितम् ।
अनेन व्यात्पिर्दर्शिता ।
अत्राभासतो विरोधमुत्थापयति-यत्त्विति ।
कश्चिदिति ।
यदि कारणासमाग्रये कार्यानुत्पत्तिस्तदा विशेषः कश्चिदभिव्यङ्ग्यःस्यात् ।
इत्थं च सति विशेषमभिव्यङ्गक्तुम् उक्तिरिति विशेषोक्तिः ।
तद्भेदार्थमाह-सा चेति ।
अचिन्त्यत्वमतर्किता ।
तदनुक्तेर्निमित्तमित्यनुक्तनिमित्तैव ।
कर्पूरैवेति ।
अत्र निर्भस्मांशं दाहशक्तिवैकल्ये सामग्री ।
अथापि जने जने शक्तिमानिति कार्यानुत्पत्तिः ।
आहूतो ऽपीति ।
आह्वानप्रत्युक्ति जिगमिषा(ः)सङ्कोचशैथिल्य कारणसामग्री ।
नैवेति तु कार्यानुत्पत्तिः ।
तत्र हेतुः कान्तास्वप्नादि चिन्तितुं शक्यम् ।
स एक इति ।
तनुहरणं बलहरणे सामग्री ।
न हृतमिति तु कार्यानुत्पत्तिः ।
तत्र हेतुः अनुक्तश्चिन्तितुमशक्यः त्रिष्वपि योजयति-अत्र सत्यपि दाहेति ।
स्वरूपेण शक्तिमानिति स्वशब्देन विरुद्धेन धर्मेण क्वचिदियं विभावनया सङ्कीर्यत इति दर्शयितुमाह-कार्यानुपत्तिरित्यादि ।
यः कौमारेति ।
नायिका काचिदुद्दीपन विभावना(विभावा)भिरता वक्ति ।

यो मे प्रथमपरिभोगेन कौमारं हृतवान् अद्यापि स एव वरः वसन्तक्षपाः अपि ता एव ।
उन्मीलितमालतीवत् सुरभयः कदम्बानिलाः त एव ।
कदम्बो ऽत्र धूलिकदम्बाख्यस्तद्विशेषः यो वसन्ते विकसति ।
अहमपि सा चैवास्मि, पुरातनी प्रेमदारा न कुण्ठितेत्यर्थः ।
अथापि रेवानदीकूले तत्र वेतसीतरुतले सुरतव्यापारलीलाविधौ चेतःसमुक्तण्ठते ।
योजयति -अत्र विभावनेत्यादि ।
कौमारहरादिसद्भावो ऽनुत्कण्ठा कारणसामग्र्यम् ।
अथापि चेतःसमुत्कण्ठक इति विरुद्धोपनिबन्धेनानुत्कण्ठानुत्पत्तिरुक्ता ।
अतो विशेषोक्तिः ।
तथा कौमारहराद्ययोरूपकारणाभावे तत्सद्भावरूपविरोधिमुखेनोपनिबद्धेत्युक्तण्ठाकार्योत्पत्तिर्विभावना ।
तयोश्च साधकबाधकाभावात् सन्देहसङ्करः ।
कार्यकारणभावयोश्च विरोधिसद्भावायातत्वादस्फुटत्वम् ।
अनयोश्च न सर्वदा सङ्करः ।
कार्योत्पत्त्यनुत्पत्त्योरन्यतर विवक्षणे शुद्धत्वात् ।
प्रकृतोदाहरणे तु उत्कण्ठोत्पत्त्यनुत्कण्ठानुत्पत्त्योर्द्वयोपरि विवक्षा ।
अत्र श्लोकः- कार्यांशस्य यदा भावाभावौ वक्तुमपेक्षितौ ।
विभावनाविशेषोक्त्योस्तदा सन्देहसङ्करः ॥
लक्षणान्तरमव्यापीत्याह-यात्वेकगुणेत्यादि ।
विशेषोक्तिर्भवेत् कार्यानुत्पत्तिःसति कारणे ।
अत्रैकगुणहान्या तु साम्यदाढर्यमलक्षणम् ॥
प्रतिज्ञातचरायातिशयोक्त्यन्तराय सङ्गतिः-अतिशयोक्ताविति ।
तत्र सूत्रम्-
कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः
कार्यकारण विरोधमूलत्वादिह कथनम् ।
प्रपञ्चाय व्याचष्टे - इह नियतेति ।
एतद्रूपापगमः पौर्वापर्ये नियमभङ्गः ।
द्वौविध्यमाह-एतद्रूपेति ।
पश्यत्सूद्गतेति ।
राजसुविस्मेरेषु पश्यत्सु तव खङ्गे युगपत्कीर्त्या निर्गमेन श्रिया प्रवेशेन चेन्द्रजालं कृतम् ।
अत्र श्रीप्रवेशे कीर्ति निर्गमहेतौ समकालोपनिबन्धः ।
पथि पथीति ।
आभा प्रभा ।
लासकी नर्तकः ।
नरि नरि पुंसि पुंसि ।
अत्र सायककिरणकार्यभूता माननिवृत्तिः प्राक् सिद्धत्वेनोक्ता ।
उभयत्र योजयति-पूर्वत्रेत्यादि ।
प्रौढोक्तिनिर्मित मिन्द्रजालात्मकं व्यङ्गयम् ।
विशेषमाह-कार्यस्य चेति ।
कार्यकारणयोर्यौ तु कालसाम्यविपर्ययौ ।
अन्या त्वतिशयोक्तिःसा विरोधांसोपजीवनात् ॥

असङ्गत्यै सूत्रम्-
तयोर्विभिन्नदेशत्वे ऽसङ्गतिः
व्याचष्टे-तयोरिति ।
उचितेति ।
समदेशत्वमुचिता सङ्गतिः ।
असङ्गतिमाह-विरोधीति ।
प्रायः पथ्येति ।
प्रायेण भूपाः स्वतो स्वतो हितपराङ्मुखा विषयाक्रान्ता भवन्ति ।
लोकापवादस्तु निर्देषान् सचिवानेति ।
विपिने सन्तोषभाजो मुनयः ।
यद्वा बाह्यो मन्त्रानधिकृतःसेवकजनो वर मन्त्रिणस्तु धिक् ।
योजयति-अत्रेति ।
लोकापवादस्य पथ्यविमुखत्वं विभिन्ना8यो हेतुः ।
इत्थं वैचित्र्यान्तरे ऽपि दर्शयति-एवमिति ।
सा बालेति ।
योजयति-अत्र चेत्यादि ।
निगमयति-एवमिति ।
अन्यत्र विच्छ्रित्त्यन्तरे ।
कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिः ।
अभेदाध्यवसायादि विच्छित्या दृश्यते च सा ॥
विषमार्थं सूत्रम्-
विरूप कार्यानर्थयोरुत्पत्तिर्विरूपसङ्घटना च विषयम्
कारणविरूप कार्योत्पत्तिरेकं, अनर्थोत्पत्तिरन्यत् अननुरूपयोः संघटना तृतीयमिति त्रिधा ।
विषयम् सङ्गतिः-विरोधेति ।
व्याचष्टे-तत्र कारणेति ।
निर्वक्ति-अननुरूपेति ॥
सद्य इति ।
करस्पर्शः पाणिग्रहः ।
नीलायाः पाण्डुरूपं कार्यम् ।
तीर्थेति ।
तीर्थान्तरेषु पातकपङ्किलाः तनूर्विहाय दिव्यास्तनूर्लभन्ते ।
वाराणासि!त्वयि तु त्यक्ततनूनां दिव्यतनुलाभस्तावदास्तां मूलं प्राचीना तनुरप्यपुनर्लाभाय याति ।
अत्र मूलनाशलक्षणानर्थोत्पत्तिः ।
अरण्यानीति ।
आकूतं हृदयम् ।
निभृतं गूढं पल्लवयति प्रकाशयत् ।
अत्रारण्यान्यादीनां विरूपाणां असङ्घटनीयानां सङ्घटना ।
त्रिष्वपि योजयति-अत्र कृष्णोत्यादि ।
ननु मध्यमोदारहणे व्याजस्तुतिपर्यवसानम् इत्यत आह-केवलमिति ।
स्तुतिनिन्दाछ्रायापरित्यागेशुद्धं सुज्ञातत्वादभ्यूहितुं शक्यम् ।

विरूपानर्थयोर्हेतीरुत्पत्तिर्विषमं मतम् ।
तथा विरूपघटना तेनेदं त्रिप्रभेदकम् ॥
समार्तं सूत्रम् -
तद्विपर्ययः समम्
तृतीयभेदापेक्षया विषमविपर्ययःसमम् ।
सङ्गतिपुरस्कारेण व्याचष्टे-विषमेत्यादि ।
अनलङ्कारत्वादिति ।
सरूपकार्यस्यार्थस्योत्पत्तौ न हि विच्छित्तिः ।
द्वैविध्यमाह-सस चेति ।
ल चान्त्यो भेदः ।
त्वमेवमिति ।
त्वमेवाञ्चिधसौन्दर्या स च रुचिरतायाः परिचितः युवां कलाभिज्ञौ च ।
शेषं पाणिग्रहणम् ।
तदा गुणत्त्वं विश्वोत्कर्षी स्यात् ।
योजयति-अत्रेति ।
नायकेत्येकशेषः नायको नायिका चेति ।
चित्रं चित्रमिति ।
स्फातिः स्फीतता ।
कोविदो निगुणः ।
योजयति-अत्रेति ।
द्वयोरनभिरूपत्वं आनुरूप्यम् ।
सरूपयोःसंघटना समालङ्कार इष्यते ।
श्लाध्या श्लाध्यत्वयोगेन द्वौ भेदावस्य सङ्गतौ ॥
विचित्राय सङ्गतिः-विरोधेति ।
सूत्रम्-
स्वविपरीतफल निष्पत्तये प्रयत्नो विचित्रम्
विपरीतफलाय प्रयत्नो विचित्रम् ।
व्याचष्टे-यस्येति ।
तद्वि परीतेति ।
तस्य विपरीतफलस्येत्यर्थः ।
निर्वक्ति-आश्चर्येति ।
विषमप्रकाराद्वैलक्षण्यायाह-न चायमिति ।
इह हि स्वनिषेधो वैपरीत्यं गमयति ।
विषमे तु व्यत्ययः ।
उदाहरणतो द्रढयति-तमालेति ।
इह त्वन्यथा-धेत्तुमिति ।
(ग्रहीतुं)मुच्यते ऽधरो ऽन्यतो वलति (प्रेक्षितुं)दृष्टिः ।
घटितुं विघटेते भुजौ (रतायसुरतेषु)विश्रमः ॥
योजयति-अत्रेत्यादि ।
उन्नत्या इति ।

भोगेच्छ्रया भोक्तुमित्यर्थः ।
योजनं स्फुटमित्याह-अत्रेति ।
प्रयत्नस्तु विचित्रं स्याद्विपरीतफलात्पये ।
निषेधतो वैपरीत्याद्विषमालङ्कुतेर्भिदा ॥
अधिकार्थं सूत्रम्-
आश्रयाश्रयिणोरनांनुरूप्यमधिकम्
आश्रयाश्रयिणोरयथात्वम् आधिकम् ।
ससङ्गतिकं व्यचष्टे-विरोधेत्यादि ।
आश्रयाधिक्यात् आश्रय्याविक्याञ्च द्वैविध्यमाह-तत्रेत्यादि ।
द्यौरत्रेति ।
द्यौःस्वर्गः, धरा पृथ्वी, जलाधाराःसमुद्रास्तदवधिरिति निःशेषत्वोक्तिः अहो कियत्, इयत्तैव नास्तीत्यर्थः ।
पूरणं दूरे ऽस्तु का पूरणकतयेत्यर्थः ।
यावता शून्यमिति नाम्नो ऽपि नास्ति गतिः काचित् ।
दोर्दण्डेति-आञ्चितं आयामितम् ।
नत्वञ्चितामिति पाठः ।
गतिपूजनयोरनुपयोगात् ।
आञ्चिरायामार्थो धातुः ।
भ्राम्यत्पिण्डितचण्डिमा च ।
योजयति-पूर्वन्त्रेति ।
अनानुरूप्यमधिकमाश्रयाश्रयिणोर्मतम् ।
आश्रयाश्रयिवैपुल्यवशतो द्विप्रभेदकम् ॥
अन्योन्यार्थं सूत्रम्-
परस्परं क्रियाजनने ऽन्योन्यम्
क्रियाव्यतीहारे ऽन्योन्यालङ्कारः ।
ससङ्गतिकंव्याचष्टे-इहापीत्यादि ।
न स्व रूपापेक्षया परस्परजननस्यासंभवेन सम्यग्विरोधित्वात् क्रियाद्वारकमेवेह परस्परजननम् ।
कण्ठस्येति ।
तनुत्वरम्यत्वे देवीकण्ठस्य आत्मोत्कृष्टत्वे सामग्रीमुक्ताकलापस्य च वृत्तत्वात् निस्तलत्वमानोचनीयत्वे ।
इत्थं द्वयोरपि सम्पन्नसामग्रीकत्वात् भूषणभूष्यभावःसाधारणः ।
योजयति-अत्र शोभेति ।
क्रियामुखकं क्रियाद्वारकम् ।
क्रियाजननमन्योन्यमन्योन्यालङ्कृतिर्मता ।
विशेषार्थं सूत्रम्-
अनाधारं माधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं च विशेषः
दिवमपीति ।
दिवमुपयातानामपि गिरो रमयन्ति जगन्तीत्यनाधाराधेयता ।
प्रासादेति-अत्रैकस्यानेकगोचरता ।
निमेषमपीति ।
अत्र सर्वसम्पादनात्मनो ऽशक्यवस्त्वन्तरस्य करणम् ।
त्रिष्वपि योजयति-अत्र कवीनामिति ।

येषाम् इति षष्ठीनिदेशे ऽपि न गीर्भिःसह सम्बन्धमात्रम्, अपि तु विशिष्टः सम्बन्ध इत्याह-अन्यत्रेति ।
भावि लोकोत्तरेति ।
किंशब्देन नञा चाक्षित्पोर्ऽथः ।
अनाधारादिभेदेन विशेषो ऽपि त्रिधा मतः ।
व्याघातार्थं सूत्रम्-
यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः
एकेन यद्यथा साधितं तस्य तथैवान्यथीकरणं व्याघातः ।
व्याचष्टे-कञ्चिदिति ।
दृशेति ।
दृशा दग्धस्य दृशैव जीवनाञ्चारुलोचना विरूपाक्षस्य जन्यिन्यः ।
योजयति-अत्र दृष्टीति ।
जोवनीयत्वमिति ।
प्राणितव्यं जीवनमित्यर्थः ।
अयं चात्र व्यतिरेकहेतुरित्याह-सो ऽपीति ।
विरूपाक्षचारुलोचनाशब्दौ हि व्यतिरेकगर्भौ ।
जयेन च व्यतिरेक उक्तः ।
सङ्गतिमाह-पूर्ववदिति ।
अनानुरूप्यं इह लक्षणां प्रकरणस्य ।
यथा साधकमेकेन तथैवान्येन बाधनम् ।
व्याघातो ऽथ विरुद्धस्य सौकर्येण क्रिया तथा ॥
तत्र सूत्रान्तरम्-
सौकर्येण कार्यविरुद्धक्रिया च
कार्यापेक्षया सुकरस्य विरुद्धस्य करणं कार्यव्याहतिहेतुरिति व्याघातान्तरम् ।
व्याचष्टे-व्याघात इत्यादि ।
अयं लक्ष्यपदानुषङ्गः ।
कार्यार्थंसंभावितस्य कारणविशेषस्य तद्विरुद्ध निष्पादनं व्याघातः ।
विरुद्धनिष्पत्तिश्च सुकरा कारणस्य विशिष्टानुगुण्यात् ।
इत्थं च सति अनर्थोत्पत्तिलक्षणाद्विषामात् भेद इत्याह-न त्वत्रेति ।
न ह्यत्र कार्यमकार्यं किन्तु तद्विरुद्धं सुकरं कार्यम् ।
अतो द्वितीयविषमाद्भेदः ।
यतस्तत्र कार्यमकार्यं विरुद्धस्तु अनर्थः ।
इहोभयमपि कार्यमिति ।
यदि बाल इतीति ।
अत्र बाल्यं रक्ष्यत्वं चाप्रस्थाने हेतुत्वेन सम्भावितं प्रत्युत सौकर्येण प्रस्थानं साधयति ।
सङ्गत्यन्तरायाह-एवमिति ।
तत्र कारणामालार्थं सूत्रम्-
पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला
यदा पूर्वमित्यादि ।
जितेन्द्रियत्वमिति ।
जितेन्द्रियत्वाद्विनयः, विनयाद्गुणप्रकर्षः ततो जनानुरागः ।

अत्र सारादिविच्छ्रित्त्यन्तरसंभवे ऽपि नालङ्कारान्तरमित्याह-कार्यकारणेति ।
कार्यं कारणमालायां प्राचः प्राचः परं परम् ॥
एकावल्यै सूत्रम्-
यथापूर्वं परस्य विशेषणातया स्थापनापोहने एकावली
यदि पूर्व पूर्वस्य परं परं विशेषणतया स्थाप्यते, सैका एकावली यञ्चापोह्यते सान्या ।
पुराणीति ।
अत्र पराणां वराङ्गनास्तासां रूपं तस्य विलासः स कुसुमायुधस्य विशेषणतया स्थाप्यते ।
योजयति-अत्र वराङ्गना इति ।
न तज्जलमिति ।
अत्र जलादेः पूर्वं पूर्वस्य पङ्कजाद्युत्तरोत्तरं विशेषणमपोह्यतया स्थितम् ।
एकावल्यां यथापूर्वं भेदकं तूत्तरोत्तरम् ।
स्थाप्यते ऽपोह्यते चैव तेनेयं द्विविधा मता ॥
मालादीपकार्थं सूत्रम्-
पूर्वपूर्वस्योत्तरोत्तरगुणवहत्वे मालादीपकम्
एकावल्यामुत्तरोत्तरस्य पूर्वपूर्वगुणवहत्वम् इह तु व्यत्ययः ।
व्याचष्टे-उत्तरोत्तरस्येति ।
प्रस्तावोल्लङ्घने हेतुमाह-मालात्वेनेति ।
संग्रामेति ।
अत्र कोदण्डादेः पूर्वपूर्वस्य शराद्युत्तरोत्तरसमासादनं दीपनेन गुणावहत्वम् ।
व्याचष्टे-अत्र कोदण्डादिभिरिति ।
मालादीपकमाद्यस्योत्तरोत्तरदीपनम् ।
सारार्थं सूत्रम्-
उत्तरोत्तरमुत्कर्षःसारः
व्याचष्टे-पूर्वपूर्वेति ।
निबन्धनं ग्रथनम् ।
राज्य इति ।
सारमित्यत्र वस्त्वित्यध्याहर्तव्यम् ।
इतरथा लिङ्गासङ्गतिः ।
योजयति-अत्र राज्येति ।
उत्तरोत्तरमुत्कर्षावहत्वे सार इष्यते ।
सङ्गत्यन्तरायाह-एवं शृङ्खलेति ।
तत्र काव्यलिङ्गार्थं सूत्रम्-
हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम्
वाक्यार्थपदार्थरूपहेतौ द्विधा काव्यलिङ्गम् ।
व्याचष्टे-यत्र हेतुरिति ।
तर्कवैलक्षण्यं दर्शयति-न ह्यत्रेति ।
अनुपाधिकः सम्बन्धो व्यात्पिः ।
हेतोः पक्षे ऽवस्थितिः पक्षधर्मता ।
उपसंहारो निगमनम् ।
आदिशब्दादुपनयादिः ।

मूल पाठ: Alaṃkārasarvasva with Vidyācakravarti's commentary Saṃjīvanī · Edition: S.S. Janaki: Alamkara-sarvasva of Ruyyaka, with Sanjivani Commentary of Vidyacakravartin - Text and Study, Delhi : Meharchand Lachhmandas 1965 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc