अलंकारसर्वस्व · भाग 101110
अतःशब्दसाम्यात्सङ्गतिः ।
तदेतदाह-उदात्तशब्देत्यादि ।
तदिदमिति-अत्रारण्यं तद्वृत्तान्तः पातादङ्गी, यद्वृत्तान्तःपातात् रामचरितमङ्गम् ।
तदेतदाह-अत्रारण्य इति ।
अस्य चेह कीर्तनं दर्शनान्तरानुसारेण ।
ध्वनिदर्शने तु द्वितीयोदात्तविषये रसवदादय एव ।
विवेचयिष्यते चैतत् ।
अङ्ग्यन्तरे ऽङ्गतापन्नं महच्चरितलक्षणम् ।
द्वितीयोदात्तविषयो व्यात्पो रसवदादिभिः ॥
रसवदाद्यर्थं सूत्रम्-
रसभावतदाभासतत्प्रशमानां निबन्धे रसवत्प्रेयऊर्जस्वसमाहितानि
विभावादिभिः अभिव्यञ्जितोरत्यादिभावो रसः ।
तथा विभावानुभावैः सूचिता व्यभिचारिणः देवताविषया रतिश्च भावः ।
तावेवाविषयप्रवृत्तावाभासौ ।
प्रयास्यदवस्था तु प्रशमः ।
एषां चतुर्णामुपनिबन्धे परिपाट्या रसवान् प्रेयः ऊर्जस्वि समाहितमिति अलङ्कारा इति सूत्रार्थः ।
ससङ्गतिकं व्याचष्टे-उदात्ते महापुरुषेत्यादिना ।
तदलङ्काराणां चित्तवृत्तिविच्छित्त्यात्मनामलङ्काराणामित्यर्थः ।
अत एवेति ।
यतश्वत्वारो ऽपि चित्तवृत्त्यात्मानः अतःसमानयोगक्षेमतया युगपदेकसूत्रक्रोडीकारेण लक्षिताः ।
रसस्वरूपं विवेचयति-तत्र विभावेति ।
रतिहासशोकादीनां वासनात्मनां स्थायिभावानां यानि लोके कार्यकारणसहकारीणि तानि काव्ये सन्दृब्धानि नाट्ये चाभिनीतानि गुणालङ्कारमहिम्ना चतुर्विधाभिनयमहिम्ना च विभावना दनुभावनाद्विशिष्याभिमुख्यचरणाच्च विभावानुभावव्यभिचारिणा उच्चन्ते ।
तैः प्रकाशितो व्यञ्चितो रत्यादिः सामाजिकचित्तवृत्तिविशेषः शृङ्गारादिको रस इति दिक् ।
विशेषः सम्प्रदायप्रकाशिन्यादौ ज्ञेयम् ।
इहानुपयोगान्न प्रपञ्च्यते ।
भावस्वरूपमाह-भावो विभावेत्यादि ।
विभावानुभावाभ्यामिति ।
व्यभिचारिव्यञ्जने व्यभिचार्यन्तराभावोव्यञ्जितः ।
विभावानुभावाभ्यां व्यञ्जितो व्यभिचारि वाक्यार्थीभावदशायां भाव उच्यते ।
सो ऽपि त्रयस्त्रिंशद्भेदः ।
निर्वेदग्लान्यादिरूपतया ।
तथा कान्ताव्यतिरिक्ते देवतादिविषये व्यञ्जितो रत्यादिरपि भावः ।
तस्माद्वूयभिचारिस्थाय्यात्मकतया भावो द्विजातिको ऽवगन्तव्यः ।
यदाह- रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ।
भावः प्रोक्तः...................... ॥
आभासयोःस्वरूपमाह-तदाभासो रसेत्यादि ।
तच्छब्देन रसभावप्रत्यवमर्शः ।
आभासीभावस्तु अविषयप्रवृत्त्यानौचित्यात् ।
भावप्रशमस्वरूपमाह-तत्प्रशम उक्तेत्यादि ।
उक्तभावप्रकाराणां निवृत्तौ प्रयास्यदवस्था भावप्रशम उच्यते ।
ननु रसे ऽपि प्रशमः किं नोच्यते इत्यत आह-तत्रापीत्यादि ।
रसस्य हि अखण्डनिरन्तरायप्रतीति चर्वणीयस्य परमविश्रान्तिरूपत्वात् मध्ये प्रयास्य दवस्था दुर्लक्ष्येति रसव्यतिरिक्तपरिशिष्टभेदविषयो ऽयं प्रशमो द्रष्टव्यः ।
एषां च रसभावादीनामुपनिबन्धे परिपाट्या रसवदादयो ऽलङ्काराः ।
चत्वार्यपि लक्ष्यपदानि निर्वक्ति-रसो विद्यत इत्यादिना ।
यत्र हि व्यञ्जनोपस्कृते ऽर्भिधादिव्यापारात्मनि निबन्धे रसो ऽस्ति तद्रसवत् ।
प्रियतरनिबन्धनमेव प्रेयोज्ञेयम् ।
ऊर्जो बलं तद्योगिनिबन्धनमेव ऊर्जस्वि ।
ननु निबन्धने बलं नाम किमित्यत आह-अनौचित्येति ।
रसस्यानौचित्येन प्रवृत्तत्वात् दौर्बल्यम् ।
निबन्धने तु तदुपकृते बलयोगः ।
समाहितः परिहारः ।
कस्य? प्रकृतत्वादुक्तस्य भावभेदस्य यस्य प्रशम इत्यपि पर्यायः ।
ननु रसवदादिना द्वितायोदात्तस्य च का कक्ष्येत्यत आह-तत्र यस्मिन्नित्यादि ।
यत्र हि भामहादिदर्शने वाक्यार्थीभावात् प्रधानभूता एव रसादयो रसवदाद्यलङ्काराः तत्र अङ्गभूतरसादिविषय उपपद्यते ।
कल्पो(?)द्वितीय उदात्तालङ्कारः ।
यस्मिंमस्तु रसवदादिरलङ्कारो अङ्गभूतरसादिविषय एव अङ्गिनस्तु रसादेरलङ्कार्यभावापन्नस्य रसभावादिध्वनिरूपतया व्यात्पत्वात् तत्र धव निदर्शने द्वितीयस्याङ्गभूतमहापुरुषचरितलक्षणस्योदात्तालङ्कारस्य विषयो नावशिष्यते ।
कुत इत्यत आह-तद्विषयस्येति ।
इयमिह प्रक्रिया ।
यत्र रसादयो वाक्यार्(थी)भूताः तत्र रसवदादयो ऽलङ्कारा इत्यलङ्कारमात्ररसिकानां भामहादीनां दर्शने ।
यदा तु अवाक्यार्थीभावादङ्गभूतो रसादिः, तदाङ्गभूतमहापुरुषचरितलक्षणो द्वितीय उदात्त उपपद्यते नाम ।
ध्वनिदर्शने तु काव्यात्मनो रसादेः प्राधान्यदशायां अलङ्कार्यत्वादलङ्कारभावानुपपत्तौ अङ्गभूता रसादयो रसवदाद्यलङ्काराः ।
तथा च सति रसभावादिनायकमहापुरुषचरिताविर्भावो ऽपि रसभावाद्यङ्गभावानतिरेकी व्यङ्ग्यव्यञ्जकमन्बन्धात् ।
व्यञ्जकं हि महापुरुषचरितम् ।
व्यङ्ग्यं रसभावादि ।
व्यङ्ग्यभावाविनाभूताङ्गभावं रसवदलङ्कारस्यैव विषयः ।
व्यञ्जकमात्र विश्रान्तानां अनवगाढधियां द्वितीयोदात्तभ्रम इति ।
किं हास्येनेति-स्वप्नदृष्ट नायकं स्वरूपसन्दर्शननिह्नवपरिहासप्रवृत्तं मन्यमानस्य रिपुस्त्रीजनस्योक्तिवर्णनम् ।
किं हास्येन चिरात्प्रात्प्रःसन् पुनर्मे दर्शनं न प्रयास्यसि? निष्करुणता तवेयं प्रात्पिसमकालमेव प्रवासरुचिता इत्युदीरयन्नेवतमदृष्ट्वा "केनासि दूरीकृतः"इति वदन् व्यासक्तकण्ठग्रहो बुद्ध्वा रिक्तबाहुलयचस्तारं रोदितीति ।
अत्राङ्गाङ्गिनौ द्वावपि रसावङ्गी रसः ।
रसवान् मतान्तरे ।
स्वमते त्वङ्गभूतो रसवान् ।
अत उदाहरणमेतन्मतद्वयार्हम् ।
तदेतदभिसन्धायाह-एतन्मतद्वये ऽपीति ।
तदेतद्विभज्य दर्शयितुमाह-अत्र वाक्यार्थीभूत इति ।
वाक्यार्थीभावात् करुणे रसवान् ।
मतान्तर इति शेषः ।
अङ्गभावाद्विप्रलंभशृङ्गारो रसवान् ।
अस्मन्मत इति शेषः ।
एवंविधे हि विषये वाक्यार्थीभावात् अङ्गिनं रसं रसवन्तमन्ये प्रतिपेदिरे ।
अङ्गिभूतं तु द्विततीयोदात्तम् ।
ध्वनिदर्शनविदस्तु अङ्गिनो अलङ्कार्यतां अङ्गिभूतस्य रसवदादिरूपतां द्वितीयोदात्तासंभवं च सिद्धान्तितवन्तः ।
इयं च प्रक्रिया रसान्तरेष्वपि ज्ञेयेत्याह-एवं रसान्तरेष्विति ।
उदाहार्यं उदाहर्तुमर्हं शक्यम् ।
प्रात्पकालता वोदाहरणस्य ।
अर्हे शक्ये प्रात्पकालतायां च कृत्यः ।
इत्थं रसवदलङ्कारे मतद्वयं कक्ष्यानिभागेनोदाहृतम् ।
प्रेयो ऽलङ्कारादौ तु विशेषांशस्तु ज्ञात इति साधारण्येनोदाहीर्षुराह-प्रेयो ऽलङ्कारादाविति ।
गाढालिङ्गनेति ।
मानद मानखण्डन मामेत्यर्धोक्त्या भावावसानहर्षः प्रत्याय्यते ।
लक्ष्ययोदजनायाह-अत्र नियिकाया इति ।
हर्षाख्यो व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात् प्रेयो ऽलङ्कार इति शेषः ।
व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात् प्रेयो ऽलङ्कार इति शेषः ।
व्यभिचार्यन्तरायोदाहरति-तद्वक्त्रेति ।
अत्र चिन्तालक्षणोव्यभिचारी विप्रलंभशृङ्गाराङ्गतया प्रेयान् ।
तदेतदाह-अत्र चिन्ताख्या इति ।
अलङ्कारान्तरभ्रमौ मा भूदेति पर्यायमस्याह-एष एव चेति ।
प्रेयान् भावालङ्कारश्चेति पर्यायौ ।
भावशान्त्युदयादिभ्यो ऽस्य भेदमाह-भावस्य चात्रेति ।
स्थितिरूपतायां भावालङ्कारः ।
शान्त्युदयाद्यवस्था तु पृथगलङ्कारा इति भावः ।
कौ तौ शान्त्युदयाविति अत आह-शान्त्युदयेति ।
शान्त्यवस्था ऊर्जस्वी समनन्तरं समाहितत्वेन वक्ष्यते ।
उदयावस्था तु सन्धिशबलताभ्यां सह पृथगलङ्कारत्वेनेत्यर्थः ।
दूराकर्षणेति ।
कालकलामपि नावस्थितिं प्रकुरुते ।
अत्र विप्रलम्भशृङ्गारो ऽनौचित्येन प्रवृत्तः देव्याःसीताया अविषयत्वाद् ।
अतो रसं गुणीकृत्य निबन्धनमेव बलादिति ऊर्जस्वी ।
औत्सुक्यव्यभिचारिणो ऽप्यनौचित्यात् प्रेयो ऽलङ्कारसङ्करः ।
तदेतदभिप्रेत्याह-अत्र रावणस्येत्यादि ।
शान्त्यवस्था लक्ष्यत इति प्रतिज्ञातमुदाजिहीर्षुराह-समाहितं यथेति ।
अक्ष्णोरिति ।
उत्क्षुभितेनाश्रुणा पर्याविलो ऽरुणिमा चक्षुषोरपगत इत्यादिना रोषापगमः ।
कटाक्षविलासतारकातारल्याद्यनाविर्भावात् प्रसराप्रदानम् ।
अतः प्रशाम्यदवस्था कोपस्येत्याह-अत्र कोपस्येति ।
इत्थं व्यभिचार्यन्तेरे ऽपि प्रशमो ज्ञेय इत्याह-एवमन्यत्रापीति ।
रसभावगुणीभावादनौचित्यप्रवृत्तितः ।
रसवत्प्रेयऊर्जस्विसमाहितचतुष्टयम् ॥
रसवत्त्वप्रियत्वाभ्याम् ऊर्जःप्रशमयोगतः ।
निबन्धनं रसवदाद्याख्यां सम्प्रतिपद्यते ॥
भावोदयाद्यर्थं सूत्रम्-
भावोदयसन्धिशबलताश्च पृथगलङ्काराः
उक्तसर्वालङ्कारान्यत्वात् सर्वालङ्कारशेषतयौतत् त्रयोक्तिः ।
पृथग्रसवदादिविविक्तविषयतयेत्यर्थः ।
व्याचष्टे-भावस्याङ्कुररूपेत्यादि ।
अङ्कुररूपस्योद्गमदशोदयः ।
विरुद्धयोः तुल्यकक्ष्यतया विनिवेशनं सन्धिः ।
पूर्वपूर्वोपमर्देन बहूनामुत्तरोत्तरनिबन्धःशबलता ।
पृथक्प्रतिपादने हेतुमाह-एतत्प्रतिपादनं चेति ।
केवलालङ्कारत्वात्संसृष्टिसंकरवैलक्षण्यम् ।
तयोः सम्पृक्तत्वं स्वरूपमित्याह-संसृष्टिसंकरयोर्हीति ।
एकस्मिन्निति-विपक्षनामग्रहणं ग्लपितत्वे, ग्लपितत्वमावेगे, आवेगो ऽवधीरणे,, अवधीरणं प्रियतमतूष्णींभावे, तूष्णींभावस्तु पुनर्वीक्षणे हेतुः ।
अत्रौत्सुक्यं भावस्योदयः तस्य च गुणभाव इह विवक्षणीयः ।
वामेन नारीति ।
वामेन करेण प्रियतमाया नयनाश्रुधारां दक्षिणीन कृपाणाधारां प्रमार्जयन् कर्तव्यमूढो ऽभूदित्यत्थः ।
अत्र रतिभावरणौत्सुक्ययोः सन्धिः ।
तदेतदाह-अत्र स्नेहाख्य इति ।
स्नेहग्रहणादृते शृङ्गारस्थायितामाह भाविस्थायित्वे (भावः, अस्ययित्वे?) तु रतिः प्रीतिमात्रम् ।
क्काकार्यमिति ।
अत्र क्काकार्यं क्व च शशलक्ष्मणः कुलमिति वितर्कः ।
भूयो ऽपि दृश्येत सा इति औत्सुक्यम् ।
श्रुतं दोषप्रशमायेति मतिः ।
अहो कोपे ऽपि मुखं कान्तमिति स्मृतिः ।
किं वक्ष्यन्त्यपकल्मषा इति शङ्का ।
स्वप्ने ऽपि दुर्लभेति दैन्यम् ।
चेतः स्वास्थ्यं उपेहीति धृतिः ।
को धन्यो ऽधरं पास्यतीति चिन्ता ।
अत्रोत्तरोत्तरेषां पूर्वपूर्वोपमर्देन अवस्थानात् शबलता ।
तदेतदाह-अत्र वितर्केत्यादि ।
तानिमान्निगमयति-तदे[त]इत्यादि ।
स्थितिप्रशमवद्भावस्योदयःसन्धिरेव च ।
शाबल्यं च गुणीभावे पृथक्पृथगलङ्क्रिया ॥
सङ्करसंसृष्टी प्रस्तुष्टूषुराह-अधुना एषामिति ।
संश्लेषःसम्बन्धः ।
तस्यद्वैविध्यमाह-तत्र संश्लेष इत्यादि ।
भेदकोटेरुद्भटतायां संयोगन्यायः अनुत्कटत्वे तु समवायन्यायः ।
दृष्टान्तेन न्यायभेदमवस्थापयति-तिलतण्डुलन्यायः क्षीरनीरसादृश्यमिति च ।
उभयमपि परिपाट्या सूत्रयितुमाह-क्रमेणेति ।
एषां तिलतण्डुलन्यायेन मिश्रत्धे संसृष्टिः
व्याचष्टे-उक्तालङ्काराणामित्यादि ।
य एते अनुप्रासादयो भावशबलतान्ताः पृथगुक्ताः तेषां संभवानुसारेण यदि कुत्रचित् विषये सहभावः तदैते किं पृथक्पृथगेवालङ्काराः उत्त सहभाववैचित्र्यमलङ्कारान्तरमेवेति चिन्तायां सिद्धान्तयितुमाह-तत्र यथेत्यादि ।
सौवर्ण मणिमयानां पृथक् चारुत्वहेतुत्वे ऽपि संश्लेषतो यथा चारुत्वान्तरं तथानुप्रासादीनां अप्यलङ्कारान्तरमेव ।
संश्लेषे ऽपि भेदांशस्फुटत्वास्फुटत्वाभ्यां विच्छ्रित्तिद्वयमाह-अलङ्कारान्तरत्वे चेति ।
तत्र सङ्करसंसृष्टी व्यवस्थापयति-पूर्वत्रेत्यादि ।
यतोभेद उत्कटो ऽनुत्कटश्च अतो दृष्टान्तौ समञ्जसावित्याह-अत एवेत्यादि ।
उत्कटामुत्कटत्वे भेदस्य यथार्थता ।
संसृष्टिस्त्रिधेत्याह-तत्र तिलतण्डुलेत्यादि ।
सङ्करः सप्रभेदं जिज्ञासितो ऽपि संसृष्ट्यनन्तरं वक्ष्यत इत्याह-सङ्करस्त्विति ।
कुसुमसौरभेति ।
अलकैर्व्याकुलैः लोलदृशा ।
अत्र पूर्वार्धे भकारापेक्षया उत्तरार्धे च लकारापेक्षया वृत्त्यनुप्रासः ।
लकलोलकलो इत्यादौ यमकमिति विजातीययोःसंसृष्टिः ।
तथा लकलोलकलो इति कलोलकलोल इति च सजातीययमकयोरपि ।
तदेतदाह-अत्रानुप्रासेत्यादि ।
देवि क्षपेति ।
अत्र नलिनीव रुचेवेति उपमाद्वयं संसृष्टम् ।
तदेतदाह-अत्र सजादीययोरिति ।
लिम्पतीवेत्यत्र तु विजातीयसंसृष्ठिः स्फुटा ।
आनन्दमन्थरेति ।
मन्थरो मन्दक्रियः ।
हठेन बलेन ।
अत्रोपमावृत्त्यनुप्रासयोः उभया लङ्कारयोः संसृष्टिः ।
नन्वत्रोपमाव्यवस्था कुत इत्यत आह-पादाम्बुजमिति ।
पादाम्बुजमिवेत्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकः ।
पाद एवाम्बुजमिति रूपकपक्षेस प्रतिकूलः अम्बकूलः अम्बुजे तदयोगात् ।
अतःशिञ्जितयोगो ऽयं पारिशेष्यादुपमां प्रसादयति ।
निगमयति-तदेवमिति ।
तिलतण्डुलनीत्या संश्लेषः संसृष्टिरिष्यते ।
सा शब्दार्थोभयगतैरलङ्कारैस्त्रिधा मता ॥
संकरम् उपक्षिपति-अधुनेत्यादि ।
क्षीरनीरन्यायेन सङ्करः
अधिकारमनुस्मारयति-मिश्रत्वमेवेति ।
चर्चितं सङ्करस्वरूपमनुवदति-अनुत्कटेति ।
तत्र त्रैविध्यायाह-तच्चेति ।
अङ्गाङ्गीभावात् संशयादेकवाचकानुप्रवेशाच्च त्रिधा तु सङ्करोत्थानम् ।
अङ्गुलीभिरिवेति ।
अत्र अङ्गुलीभिरिवेत्युपमा सरोजं लोचनमिवेत्युपमां साधयति ।
रूपकापोहनं साधने प्रकर्षः ।
मुखशब्देन प्रारम्भवदनयोरभिधानात् श्लेषः ।
मुखयोरभेदाध्यवसायात् श्लेषमूलातिशयोक्तः ।
अतो ऽनयोरङ्गिभावः ।
एवं च सति अङ्गुलीभिरिवेति या वाक्येनोक्ता या च सरोजलोचनम् इति समासेन ताभ्यामुपमाभ्यां श्लेषेण चानुगृहीता मुखम् इति अतिशयो(क्तिः)चुम्बतीवेत्युत्प्रेक्षाया अनुग्राहिका ।
तेषां बलेन समुत्थानादुत्थिता चोत्थापकानां चमत्कानां चमत्कारकत्वहेतुः इत्यङ्गाङ्गिता ।
अतो ऽङ्गाङ्गिभावे मिथो ऽप्युपकारप्रथनायोदाहरणान्तरम्-त्रयीमयो ऽपीति ।
वारुणी पश्चिमा दिक् सुरा च ।
पतनमवतरणमुपहतिश्च ।
व्याचष्टे-अत्र प्रथम इत्यादिना ।
अत्र वारुणीति श्लेषः त्रयीमयो ऽप्यगमदिति विरोधप्रतिभोत्थापकः तद्वाधकश्च ।
श्लेषस्य निरवकाशत्वानङ्गीकारिणां मते द्वावपि ।
तदनुग्राहश्च "मन्ये पतित"इति शुद्धिं प्रति हेतूत्प्रेक्षा ।
शुद्ध्यै विवेशेति फलोत्प्रेक्षा च ।
एतद्विशिष्योपपादयति-तथाहीत्यादि ।
वारुणीगमनं पातादिकारणमुत्प्रेक्षितम् ।
तत्र विरोधश्लेषा वनुप्रविष्टौ यच्च कारणोत्प्रेक्षानिमित्तं पातादिकार्यं तत्र वास्तवौ पाताग्रिप्रवेशावुपहतिहेतुकपाताग्रिप्रवेशाभ्यामभेदेन अध्यवसितौ ।
तेन श्लेषेण सह हेतुफलोत्प्रेक्षयोरङ्गाङ्गिता ।
ननु विरोधश्लेषयोरतिशयोक्त्युत्प्रेक्षयोश्च कुतो नाङ्गाङ्गिभाव इत्त्याह-न च विरोधेत्यादि ।
यद्यपि श्लेषो विरिधप्रतिभोत्पत्तिहेतुः यद्यपि चातिशयोक्तिः उत्प्रेक्षानिमित्तं तथापि नानयोः श्लेषाभ्यां सहाङ्गाङ्गिभावः ।
तत्र हेतुः-ताभ्यां विनेति ।
विरोधातिशयोक्तिभ्यां विना श्लेषोत्प्रेक्षयोः अनुत्थानात् ।
अतो निरवकाशयोः श्लेषोत्प्रेक्षयोर्बाधकत्वमेव ।
नन्वभेदाध्यवसायमन्तरेणानुत्थानात् उत्प्रेक्षा वा माभूत् ।
अतिशयोक्तिर्विविक्तौ विषयः ।
श्लेषस्य तु विविक्तौऽस्त्येवेत्यत आह-न च मन्तव्यमित्यादि ।
अलङ्कारान्तरविविक्तश्लेषयो नास्तीति श्लेषविवेचने वितत्यौक्तम् ।
अतः श्लेषेण अन्यबाध इति तम्नध्यानुप्रविष्टो विरोधो ऽपि बाध्य एव ।
अर्थालङ्कारसङ्करं निगमयति-एवमर्थेति ।
शब्दालङ्कारेति ।
कैश्चिदित्यवधीरणा ।
राजतीति ।
दानवानां रासः आक्रोशस्तदतिपातिनः ।
सारावा तदा यत्र सेयमद्रेस्तटी राजति ।
गजता गजसमूहः ।
स च यूथमतिपाति अतितरां रक्षति ।
कीदृशी? अविरतेन दानेन मदेन ।
वरा उक्तृष्टा सा प्रसिद्धा ।
सारा बलवती ।
वनदा वनस्य खण्डयित्री ।
योजनायाह-अत्र यमकेत्यादि ।
पादावृत्तिलक्षणं यमकम् ।
आदितो अन्यतश्च पाठे सन्दर्भैक्यादनुलोभप्रतिलोमता च ।
तदेतदुभयं सापेक्षमिति शब्दालङ्कारसङ्करः ।
तदेतद्दूषयति-एतत्त्विति ।
अनावर्जकत्वे हेतुमाह-शब्दालङ्कारयोरिति ।
यथा हि शब्दयोर्मिथो नोपकारः तथा शब्दालङ्कारयोरपि ।
कस्तर्हिर् इदृशि विषये प्रकार इत्यत आह-शब्दालङ्कारेति ।
मिथो ऽनुपकारात् नैरपेक्ष्यम् ।
अतः संसृष्टिः श्रेयसी ।
सङ्करतया चैकवाचकानुप्रवेशः स्यादित्याह-यद्वेति ।
अतः शब्दालङ्कारपरिहारेण अङ्गाङ्गिभाव इति निर्णायति-एवमेष इति ।
सन्देहसङ्करं विवेचयति-द्वितीय इति ।
सन्देहं दर्शयति-यत्रोभयोरित्यादि ।
यः कौमारेति ।
व्याख्यातं प्राक् ।
योजयति-अत्र विभावनेत्यादि ।
अन्यत्र काव्यप्रकाशादौ ।
इत्थमुपमरूपकयोः सन्देहं दर्शयितुमाह-यथा चेति ।
यद्वाक्त्रचन्द्रेति ।
श्मश्रुच्छ्लेन नवयौवनेनोल्लिखितो मन्त्रश्चकास्तीव ।
योजयति-अत्र वक्त्रेत्यादि ।
संशयस्य हेतुमाह-समासस्योभयथापीति ।
व्याघ्रादीनामाकृतिगणात्वाद्विशिष्टगुणानां चन्द्रादीनाम् उपसङ्ग्रह इति ।
मुखं चन्द्र इवेत्युपमासमासः ।
"अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्य"इति नीत्या ।
मयूरव्यंसकादीनामाकृतिगणत्वात् ।
मुखमेव चन्द्र इति रूपकसमासश्च साधकबाधक प्रमाणविरहादनयोःसन्देहः ।
साधकबाधकान्ततरसद्भावे तु नियतपरिग्रह इत्याह-यत्र त्विति ।
साधकबाधकस्वरूपं विवेचयति-तत्रानुकूलमिति ।
प्रसरद्विन्द्विति ।
बिन्दुः शुद्धाध्वोपादानमहामाया नादो ऽनाहतः तौ प्रसरतोयस्मात् सिसृक्षोस्तस्मै ।
शुद्धम् अमृतम्, निष्कृष्टं चैतन्यं तन्मयात्मने ।
अनन्तो देशकालाद्यनवच्छिन्नः प्रकाशो यश्च तस्मै ।
अन्यदा तु बिन्दवः शीकराः ।
नादो लहरीघोषः ।
अमृतं सुधा ।
अनन्तः शेषो मथनादौ शेषीभूतः , तेन प्रकाशः प्रथितः ।
इह शङ्कर एव क्षीरसिन्धुरिति रूपके साधकम् ।
दर्शयति-अत्र शङ्कर एवेत्यादि ।
अमृतशब्दो हि सुधायां प्रचुरप्रसिद्धिकः क्षीरसिन्धावनुकूलतरर इति रूपकसमास एवायम् ।
अमृतमयत्वं च नोपमां प्रति बाधकमित्याह-उपमायास्त्विति ।
न बाघकं किन्तु तटस्थमिति भावः ।
तत्र हेतुः-शङ्करे ऽप्युपचरितस्येति ।
शङ्करत्वेनोपचरितस्य हि सिद्धो रूपकत्वसिद्धिः ।
अत उपमोत्थापिते रूपके विश्रान्तिरिति यावत् ।
उदाहरणान्तरेणापि न्यायमिमं द्रढयितुम् आह-यथा वेति ।
एतान्यवन्तीति ।
अवन्तीश्चररूपात् पारिजातात् जातानि यशोरूपाणि प्रसूनानि दिग्रूपाणां वधूनामवतंसयामि, पश्यत ।
अत्राप्युपमाबाधवैमुख्येन रूपकसाधकं दर्शयति-अत्रावतंसनमिति ।
बाधकार्थमुदाहरति-शरदीवेति ।
हरिः सिंहो विष्णुश्च ।
उपमाबाधकं दर्शयति-अत्र विन्ध्य इत्यादि ।
विनिद्रजृम्भितहरित्वं हि साधारणमुपमासमासं बाधते ।
उपमितं व्याघ्रादिभिः सामान्याप्रयेगे इति वाचनात् ।
ननु रूपकसिद्धिसाधकाभावे कथमित्तयत आह-अतश्च पारिशेष्यादिति ।
ननु शरदीवेति समभिव्याहृतेयम् उपमा कथं नोपमासाधिकेत्यत आह- नतु शरदीवेति ।
न्यायतो वाक्यार्थीभूतं रूपकमाभासत एकदेशविर्तिन्युपमा न हि बाधितुर्म् इष्टे ।
यावता स्वयमप्याभासीभवतीति भावः ।
अत्रोपहासायाह-न हि चाषेणेति ।
चाषथाणां समूहः चाषमिति स्थितौ पञ्चाशब्ध्रब्दः(दे?)शषयोरभेदाश्रयणा(णो?)प्यव्युत्पन्नप्रतीतेयं चाषश्रुतिः ।
न खलु तन्निबन्धना पञ्चाशद्रूपसमूहसिद्धिः ।
नन्वतरथा अलङ्कारप्रक्रमभेदः स्यादित्यत आह-न ह्येकेनेति ।
प्रकान्तेनैकेनैव निर्वहणीयमिति नैषा राजाज्ञा येन दृष्टबाध आशङ्क्यते ।
यल्लङ्घनेनदृष्टबादृष्टयोर्द्वयोरपि बाधःस्यात् यतो न्यायो ऽयमित्यतत आह-नाप्येष इति ।
प्रक्रान्तेन निर्वहणीयमिति न सार्वत्रिको न्यायः ।
किन्तु विशेषा विवक्षायामेव ।
इह तु उत्तरोत्तरं प्रकर्षविवक्षेति उपमापेक्षया रूपके साम्यप्रकर्षः ।
अतो ऽवयवगतोपमापरित्यागेन वाक्यार्थी भूतरूपक परिग्रह एवोचितः ।
विपर्ययस्तु साम्यनिकर्षाद्दुष्ट एव ।
तदेतत्प्रत्युदाहरणेन द्रढयति-येनेन्दुरिति ।
अत्रेन्दुमलयजयोः दहनविषयत्वरूपणात् साम्यप्रकर्षः प्रक्रान्तः ।
हारः कुठारायत इति तूपमया प्रकर्ष नीतः ।
चर्चां निगमयति-तस्मात्प्रकृत इति ।
सामान्यप्रयोगे उपमाबाधक इति न्यायोपन्नो रूपकप्रक्रम एव निर्वहीणीय इति यावत् ।
न्यायो ऽयमत्रापि ज्ञेय इत्याह-भाष्याब्धैरिति ।
गाम्भीर्यसाधारण्यादुपमाबाधे रूपकमेव द्रष्टव्यम् ।
साधकबाधकाभावे तु सन्देह इत्युक्तमनुस्मारयति-साधकबाधकेति ।
इत्थमङ्गाङ्गिभावसन्देह रूपं प्रकारद्वयं विविच्य तृतीयं प्रकारं विवेचयति-तृतीयस्त्विति ।
तं विशदयति-यत्रैकस्मिन्निति ।
मुरारि निर्गतेति ।
नरको ऽसुरो निरयश्च ।
(गङ्गेवेति)सद्गतिप्रात्पिहेतुत्वम् ।
योजयति-अत्र मुरारीति ।
गङ्गेवेत्युपमा मुरारिनिर्गतेत्यर्थभेदाभावात् साधारणविशेषणेन समुत्थापिता ।
नरकेति श्लिष्टविशेषणोत्थोर्ऽथः श्लेषश्चापमाप्रतिपत्तिहेतुः ।
एकत्रैव नरकशब्दे ऽनुप्रविष्टौ श्लिष्टशब्देनोभयोपकारात् शब्दश्लेषेणाप्युपमा सङ्करार्थमाह-अत्र च यथेत्यादि ।
सत्पुष्करेति ।
पुष्कारं वाद्यभाण्डमुखं पद्मं च ।
द्योतिनस्तरङ्गा द्योतितो रङ्गश्च ।
रज्यन्ते ऽस्मिन् सामाजिकमनांसि इति रङ्गो नाट्यारम्भक्रिया ।
मृदङ्गसदृशं जलास्फालनवाद्यं मृदङ्गवाद्यं च ।
योजयति-अत्र पयसीवेत्यादिना ।
रमन्त इति साधारणे धर्मः ।
अतः सामग्रीयोगात् सम्पन्ना द्योतितरङ्गशोभिनीत्येकस्मिन्नेव शब्दे सभङ्गपदत्वात् शब्दश्लेषेण संकीर्णम् ।
शब्दालङ्कारयोरेकवाचकानुप्रवेशमुदाहृतचरमनुस्मारयति-शब्दालङ्कारयोः पुनरित्यादि ।
विजातीययोरेवैकवाचककानुप्रेशं(श?)व्यवस्थेति यदन्यैरुक्तं तदप्रयोजकमित्याह एकवाचकेत्यादि ।
अत्र ऽराजति तटीयमिऽत्यादौ ।
एवकारेणाङ्गाङ्गिभावसन्देहसङ्करावपोहति ।
शब्दालङ्कारत्वं तुल्यजातीयता ।
उद्भाटप्रकाशितस्तु प्रकारान्तरगोचरशब्दार्थालङ्कारसंकरः संसृष्टौ अन्तर्भावित इति तस्य संकरत्वमङ्गाङ्गिभाव एवोक्तमित्याह-शब्दार्थालङ्कारेत्यादि ।
अङ्गाङ्गिभावात्सन्देहात् प्रवेशादेकवाचके ।
त्रिधा तु संकरः शब्दालङ्कृत्योरेकवाचके ॥
प्रकरणामुपसञ्जिहीर्षुराह-इदानीमिति ।
तत्र सूत्रम्-
एवमेते शब्दार्थोभयालङ्काराः संक्षेपतःसूत्रिताः
व्याचष्टे - एवमितीति ।
तत्र पुनरुक्तवदाभासोर्ऽथस्य पौनरुक्त्ये ।
छेकवृत्त्यनुप्रासौ व्यञ्जनमात्रस्य ।
यमकं स्वरव्यञ्जनसमुदायस्य ।
लाटानुप्रासः शब्दार्थयोरिति पौनरुक्त्ये पञ्चकम् ।
स्थानविशेषश्लिष्टवर्णापौनरुक्त्ये चित्रम् ।
अथ सादृश्यविच्छित्तौ भेदाभेदतुल्यातायां उपमानान्वयोपमेयोपमा स्मरणानि ।
अभेदप्राधान्य आरोपाश्रयतया रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापह्नुतयः ।
अध्यवसायाश्रयेणात्प्रेक्षातिशयोक्ती ।
गम्यमानौपम्याश्रयेण तुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तनिदर्शनाव्यतिरेकसहोक्तिविनोक्तयः ।
विशेषण विच्छित्त्या समासोक्तिपरिकरौ ।
विशेषण विशेष्यविच्छित्त्या श्लेषः ।
अप्रस्तुतात्प्रस्तुतावगतावप्रस्तुतप्रशंसा ।
सामान्यविशेष भावादिना निर्दिष्टप्रकृतसमर्थनेर्ऽथान्तरन्यासः ।
गम्यस्य भङ्ग्यन्तरेणोक्तौ पर्यायोक्तम् ।
स्तुत्या निन्दायाः निन्दाया वा स्तुतेर्गम्यत्वे व्याजस्तुतिः ।
प्राकरणिकयोः विशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः ।
विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः ।
विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः ।
विरोधगर्भतया विरोधविभावनाविशेषोक्त्यतिशयोक्ती अन्तरा सङ्गतिविषमसमविचित्राधिकान्योन्यविशेषव्याघातद्वयानि ।
शृङ्खलावैचित्र्येण कारणामालैकावलीमालादीपकसाराः ।
तर्कन्यायेन काव्यलिङ्गानुमाने ।
वाक्यन्यायेन यथासङ्ख्यपर्यायपरिवृत्तिपरिसङ्ख्यार्थापत्तिविकल्पसमुच्चयदुयसमाधयः ।
लोकन्यायेन प्रत्यनीक प्रतीपनिमीलितसामान्यतद्द्गुणातद्गुणोत्तराणि ।
गूढार्थपरत्वे सूक्ष्मव्याजोक्तिवक्रोक्तिस्वभावोक्तयः ।
स्फुटार्थत्वे भाविकम् ।
औदात्त्येन उदात्तद्वयम् ।
चित्तवृत्त्यालम्बेन रसवत्प्रेयऊर्जस्वित्समाहितभावोदयसन्धिशबलत्वानीति शुद्धाः ।
मिश्रतया तु सङ्कुरसंसृष्टी ।
तदिदमभिसन्धायाह-एवमिति ।
पूर्वोक्तप्रकारपरामर्शः-एत इति ।
प्रक्रान्तस्वरूपनिर्देश इति ।
शब्दार्थोभयालङ्कारान् वर्गशो विविनक्ति-तत्र शब्दालङ्कारा इत्यादि ।
लाटानुप्रासादय इत्यादि ।
शेषानुद्घाटयति-संसृष्टिसङ्करेति ।
ननु चान्वयव्यतिरेकाभ्यामुक्ति(क्त)व्यवस्थाभाङ्ग इत्यत आह-लोकवदाश्रया श्रयीति ।
तदलङ्कार्येति ।
तच्छब्देन शब्दार्थोभयपरामर्शः ।
चर्चितं चैतत् श्लेषप्रस्तावे ।
तर्हि अन्वयव्यतिरेकौ कुत्र निबन्धनमित्यत आह-अन्वयव्यतिरेककौत्वति ।
अलङ्काराणां शब्दादिकार्यत्वे शब्दाशब्दाद्यन्वयव्यतिरेकौ तत्र निबन्धनम् ।
ननु शब्दाद्यलङ्कारत्वे को दोष इत्यत आह-तदलङ्कारत्वप्रयोजकत्व इति ।
श्रौतोपमादौ शब्दान्वयव्यतिरेकानुविधानात् शब्दालङ्कारत्वं प्रसजेत् ।
निगमयति-तस्मादाश्रयाश्रयीति ।
चिरन्तरमतेत्युक्तार्थे संवादसमुद्घाटनम् ।
शब्दन्यासो विषयमिषयो दुर्घटार्थव्यवस्था व्यात्पव्यात्पिप्रकटनपरन्यास(य?)चर्चो गभीरः ।
इत्थं भूम्रा रुचकवचसां विस्तरः कर्कशो ऽयं टीकास्माभिः समुपरचितानेन सञ्जीवनीयम् ॥
सूक्ष्मामव्याकुलामत्र शास्त्रयुक्त्युपंबृहिताम् ।
मीमांसामुपजीवन्तु कृतिनः काव्यतान्त्रिकाः ॥
काव्यप्रकाशे ऽलङ्कारसर्वस्वे च विपश्चिताम् ।
अत्यादरो जगत्यस्मिन् व्याख्यातमुभयं ततः ॥
इत्यालङ्कारिकचक्रवर्तिध्वनिप्रस्थानपरमाचार्यकाव्यमीमांसाप्रभाकरसहजसर्वज्ञमहाकविश्रीविद्याचक्रवर्तिविरचितायां सञ्जीवन्यामलङ्कारसर्वस्वटीकायामर्थालङ्कारप्रकरणं समात्पम् ॥
मूल पाठ: Alaṃkārasarvasva with Vidyācakravarti's commentary Saṃjīvanī · Edition: S.S. Janaki: Alamkara-sarvasva of Ruyyaka, with Sanjivani Commentary of Vidyacakravartin - Text and Study, Delhi : Meharchand Lachhmandas 1965 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0