भाषा

ENहिગુ
ग्रंथ पाठ

अलंकारसर्वस्व · भाग 4160

तरुणीनां नारायणत्वाभेदे ऽपि श्रीवल्लभ इत्येव, तथैवार्थित्वात् ।
बालानां तु यत्किञ्चिदिति नूतनं वस्तु द्रष्टव्यमित्येव, तथा व्युत्पत्तेः ।
यद्वा प्रत्येकं समस्ता रुच्यर्थित्वव्युत्पत्तयोभेददृष्टौ निमित्तं प्रपञ्चितम् उल्लेखप्रस्तावे ।
तदिदमभिसन्धायाह-अत्राभिन्नस्यापीति ।
अभिन्नस्य धर्मिणा इति शेषः ।
विषयविभागेन ।
परिणतवयस्कादि(ना) ।
लावण्येत्यत्र सम्बन्धे ऽसम्बन्ध- ।
अत्रैकनिर्मातृनिष्टतया धर्मसम्बन्धे ऽसम्बन्धः ।
अथ भिन्ननिर्मातृनिष्ठतयापि दर्शयितुमाह-यथा वेति ।
अस्याःसर्गेति ।
शृङ्गारैकरस इति प्रत्येकमभिसंबध्यते ।
पुष्पं प्रवालेलि ।
अत्र पुष्पप्रवालादिकयोः साक्षादसम्बन्धे ऽपि यदीति संभावनया सम्बन्धः ।
पुष्पकाले प्रवालत्वापगमात् ।
न च मन्तव्यं संभावनायां व्यापारप्राधान्यात् अत्रोत्प्रेक्षैवेयमिति ।
ततो ऽनुकुर्यादिति समन्वयवाक्ये अध्यवसितप्राधान्यात् ।
अत उत्प्रेक्षानुगृहीतेयमतिशयोक्तिः ।
तदितमभिसन्धायाह-अत्र संभावनया संबन्ध इति ।
अथोत्प्रेक्षाग्रहणमन्तरेणापि असंबन्धे संबन्धमुदारहति-दाहो ऽम्भः प्रसृतिमिति ।
अत्र दाहबाष्पश्वासवपुषामम्भः प्रसृतिं पचत्वप्रणालोचितत्वदीपकलिकाप्रेङ्खोलनपाण्डिममज्जनेषु संबन्धाभावे अपि सिद्धत्वेनोक्तिः ।
तदेतदाह-अत्र दाहादीनामित्यादि ।
कार्यकारणपौर्वापर्यविध्वंसे द्वैविध्यमाह-कार्यकारणेत्यादि ।
विपर्ययः कार्यस्य पूर्वकालभाविता ।
हृदयमिति ।
अत्र हृदयस्य दयटिताधिष्ठानं कुसुमचापबाणाधिष्ठानस्य कारणम् ।
कारणञ्च नियतपूर्वकालभावि ।
तदिहान्यथोपन्यस्तमिति पौर्वापर्यविपर्ययः ।
अविरलेति ।
नीपः कदम्बः ।
प्रावृडयनं पथिकगेहिनीमृतिकारणम् ।
अत्र त्वायातो मृता इति निष्ठाभ्यां तयोःसमकालता ।
ननु भेदे ऽभेदादिकथ नमसङ्गतम् इत्यत आह-एषु पञ्चस्विति ।
लोकातिक्रान्तगोचरंलोकातिशा यित्वलक्षणं गोचरयतीत्यर्थः ।
अतो भेदे ऽभेदरूपो मुख्यार्थो न विवक्षित इतियावत् ।
ननु भेदे ऽभेदाध्यवसायो लक्षणमतिशयोक्तेः ।
तदभेदे भेद इत्यादावव्यापकमित्यत आह-अत्र चातिशयाख्यमित्यादिना ।
यदिह भेदे ऽभेदादिरूपाया अतिशयोक्तिनिमित्तभूतं प्रयोजकमतिशयाख्यं फलं तत्राभेदाध्यवसायो, न तु फलिनोः ।
तदितमुपदर्शयति-तथा हीत्यादि ।
वदनादीनां यद्वस्तुवृत्तसिद्धं सौन्दर्यं तत्कविसमर्पितेन कमलादिसौन्दर्येण सहाभेदेनाध्यवसितं सद्भेदे ऽभेदादिवचनस्य निमित्तं कमलमुखादिकयोरभेदाध्यवसायो योजयितुं शक्यः ।

तथासति अव्यात्पिदोषः स्यादित्यत आह-अभेदे भेद इत्यादि ।
आदिशब्दात् सम्बन्धे ऽसम्बन्धपरिग्रहः ।
प्रकारेष्विति ।
बहुवचनं तदवान्तरभेदपरम् ।
अभेदे वास्तवे यदा भेदकथनं न हि तदा फलिनोरभेदाध्यवसायः ।
फलं तु तत्राप्यभेदेनैवाध्यवसीयत इत्यत आह-अण्णं लडहत्तणअं इत्यादाविति ।
अण्णं लडहत्तणअमित्यादौ हि यत् वस्तु तस्मिद्धं लडहत्वं यच्चान्यत्वेन कविसमर्पितं सातिशयं, न खलु तयोर्भेदः कश्चित् ।
किन्तु समान्यप्रजापतिनिर्माणकविसमर्पितनिर्माणयोरेव फलिनोर्भेदः ।
अयं न्यायःसम्बन्धे ऽसम्बन्धः इत्यत्रापि सम इत्याह-एवमन्यत्रेति ।
तत्रापि खलु "लावण्यद्रविणे"त्यादौ वेधसो लावण्यर्द्रविणसम्बन्धे ऽप्यसंबन्धः केवलं न पुनस्तन्व्या नैसर्गिकलावण्यकविसमर्पितवेधःसम्बन्धि लावण्ययोरसंबन्धः ।
एव "मस्याः सर्गविधा"वित्यत्रापि ज्ञेयम् ।
नियमतो लक्षणभूतमध्यवसितप्राधान्यं फलाभिप्रायेणैवेत्याह-तदभिप्रायेणैवेत्यादि ।
अथ कार्यकारणलक्षणप्रकारे पुनर्विवेचयिष्यमाणो पौनरुक्त्यशङ्कां शमयितुमाह-प्रकारपञ्चकेत्यादि ।
कार्यताश्रयत्वात् तत्रापि सङ्गतिः प्रपञ्चार्थत्वात् नानर्थक्यमिति सर्वमवदातम् ।
अभेदाध्यवसायो हि फले ऽतिशयनामनि ।
न पुनः फलिनोस्तत्राभेदो न सिध्यति ॥
अथाध्यवसायमूलमलङ्कारद्वयं निगमयन् धर्मान्तरमधिचिकीर्षुराह-एवमध्यवसायाश्रयेणेत्यादि ।
गम्यमानौपम्याश्रयेष्वपि यन्न्यायात्प्राधान्यमर्हति तद्द्वयमधिकरोति-तत्रापि पदार्थेत्यादिना ।
तत्र तुल्ययोगितार्थं सूत्रम् ।
औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता
औपम्यस्य गम्यत्वे पदार्थगतत्वेनेत्यधिकारद्वयम्, अन्यत्तु लक्षणं व्याचष्टे-इवाद्यप्रयोग इत्यादि ।
प्राकरणिकानामप्राकरणिकानां वेति विषयद्वयम् ।
गुणक्रिया चेति धर्मद्वयम् ।
अत श्चातुर्विध्यमनुसन्धेयम् ।
प्राकरणिकेषु गुणाभैसंबन्धः, क्रियाभिसम्बन्धश्च ।
अप्राकरणिकेषु तथेति ।
समानगुण क्रियासंबन्धो हि तुल्ययोगि(ता) ।
तामिमां निरुक्तिमाविष्करोति-अन्वितार्थेति ।
अन्वितार्था अन्वर्था ।
सज्जेति ।
तामिमां निरुक्तिमाविष्करोति-अन्वितार्थेति ।
अन्वितार्था अन्वर्था ।
सज्जेति ।
दिनानि सज्जानामातपत्राणां प्रकरैरञ्चितानि ।
पद्मानि तु सज्जातानां सुजातानां पत्राणाम् ।
पाटलेत्येकत्क वर्णाः, अन्वत्र तु पुष्पम् ।
प्राकरणिकार्थविषयतां क्रियाभिसंबन्धं च दर्शयति-अत्र ऋतुवर्णनेत्यादि ।
ऋतुर्ग्रीष्मः ।
प्राकरणिकेषु गुणाभिसन्धायाह-एवं गुणे ऽपीति ।
योगपट्ट इति ।

अत्र तपः प्रस्तावाद्योगपट्टादीनां प्रकृतत्वम् ।
उचितत्वं गुणस्वभावाभिमानरूपतयाभिसंबध्यते, यद्युचितानि तदुच्यतामित्याक्षेपात् ।
अनेन गुणक्रिययोर्भावाभावाभिमानरूपं वैचित्र्यमप्यासूत्रितम् ।
धावत्त्ववश्वेति ।
अश्वपृतनायाःसकाशात् गूर्ञ्जरनृपस्य भग्रस्य मुखे पतितं रजः ।
कयापि सानुकम्पया तन्व्या प्रमृष्टम् ।
यशस्तु तवासिलतया ।
अप्राकरणिकविषयं क्रियाभिसंबधं दर्शयति-अत्र गूर्जरं प्रतीत्यादि ।
गूर्जरापेक्षयाहिकयापीति निर्देशात् तन्व्या अप्राकरणिकत्वम् ।
असिलतायास्तु वर्ण्यनायकविषयतया ।
त्वदङ्गेति ।
त्वदङ्गमार्दवं पश्यतः सर्वस्यैव चित्ते मालत्यादीनां कठोरतावभासत इत्यर्थः ।
अत्र मालत्यादिषु अप्राकरणिकेषु कठोरत्वगुणाभिसंबन्धः ।
तुल्ययोगितां निगमयति-एवमेषेति ।
प्रकृतेष्वथवान्येषु ज्ञातव्या तुल्ययोगिता ।
गुणक्रियाभिसम्बन्धात् समानादन्वितार्थिका ॥
अथ सङ्गतिपुरस्कारेण दीपकं प्रस्तौति-प्रस्तुताप्रस्तुतयोः इत्यादि ।
अथ सूत्रम्-
प्रस्तुताप्रस्तुतानां तु दीपकम्
समानधर्माभिसंबन्ध इत्यनुषज्यते ।
अधिकारमनुस्मारयन् व्यचष्टे - ओपम्यस्येत्यादिना ।
इह प्राकरणिकाः अप्राकरणिकाश्चोपादीयन्ते ।
तेष्वेकतरत्रोपात्तःसाधारणो धर्मो ऽन्यत्रोपकरोति ।
अतो दीपनरूपादुपकारात् दीपसदृशो ऽयमिति कृत्वा दीपकमिदम् ।
तदिदमुक्तम्-प्राकरणिकाप्राकरणिकेत्यादिना ।
औपम्यस्य गम्यत्वं प्राग्वदेवेत्याह-तत्रेवाद्य प्रयोगादित्यादि ।
यश्चात्रोपमानोपमेयभावः स तुल्ययोगितातो विलक्षण इत्याह-स चेत्यादि ।
वास्तवः प्राकरणिकाप्राकरणिकनिम्नत्वात् ।
पूर्वत्र तुल्ययोगितायाम् ।
वैवक्षिकः विवक्षया कॢत्पः ।
वैवक्षिकत्वेहेतुः - शुद्धप्राकरणिकेत्यादि ।
शुद्धप्राकरणिकत्वे हि उपमानत्वं वास्तवम् ।
शुद्धाप्राकरणिकत्वे तूपमेयत्वम् ।
तदिदं विशदीकरोति-प्राकरणिकत्वेत्यादिना ।
ननु प्रतिस्वं क्रियासम्बन्धे कथं पदार्थगतं इत्यत आह-अनेकस्यैकक्रियेत्यादि ।
सम्बध्यमानधर्मस्यैकत्वात्पदार्थत्वोपचरणमित्यर्थः ।
अतो वाक्यार्थगतत्वे वास्तवे त्रैविध्यमुपपद्यत इत्याह-वस्तुतस्त्वित्यादि ।
रेहै इति ।
राजते मिहिरेण नभो रसेन काव्यंः सरेण यौवनम् ।
अमृतेन धुनीधबस्त्वया नरनाथ भुवनमिदम् ॥

धुनी सरिद्धवः पतिः, सागर इत्यर्थः ।
इदं क्रियायाः आदिवाक्यगतत्वादादादिदीपकम् ।
संचारेति ।
निलयो गृहम् अस्तमयश्च ।
पल्लवरागो माणिक्यविशेषः योगाढरागः(?) ।
इदमप्यादिदीपकम् ।
क्रियायाः प्रथम पदत्वम् तन्त्रमिति द्योतयितुम्-(यथा वेति) ।
(विसमअओ)इति ।
एतन्मध्यदीपकम् ।
(बोले इ)इति मध्ये वाक्ये क्रियाविनिवेशात् ।
किवणाणेति ।
कृपणानां धनं नागानां फणामणिः केसराणि सिंहानाम् ।
कुलपालिकानां च स्तनौ कुतःस्पृश्यन्ते ऽमृतानाम् ॥
जीवितान्न (जीवितां न?) स्पृश्यन्ते इत्यर्थः ।
क्रियादीपकत्रयं निगमयति-एव-मेकेति ।
अनयैवनीत्या कारकदीपकं उदाहर्तुमाह-अत्र च यथेत्यादि ।
साधूनामिति ।
कारकदीपकत्वं विकृणोति अत्रोपकरणादिति ।
मालादीपकं तु प्रस्तावान्तरे भविष्यतीत्याह-छायान्तरेण त्विति ।
दीपकं वास्तवौपम्यं प्रकृताप्रकृताश्रयम् ।
आदिमध्यान्तवाक्येषु क्रियाकारकभेदतः ॥
अथ वाक्यार्थगतत्वेन प्रतिवस्तूपमां सूत्रयति-
वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देश प्रतिवस्तूपमा
सङ्गतिमाह-पदार्थारब्वेति ।
इह नानालङ्कार शङ्कामपनेतुं विषयं विभजति-तत्र सामान्यधर्मस्येत्यादि ।
इत्ता(इवा?)दिकमुपादाय सामान्यधर्मस्य सकृन्निर्देश उपमायामेवोदाहृतं ऽप्रभामहत्याशिखयेव दीपऽ इति ।
इवादिकमुपादायवस्तुप्रतिवस्तुभावेनासकृन्निर्देशे ऽपि सैव ऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्त वृन्तशतपत्रनिभऽमिति ।
इवादिकमनुपादाय यथा सकृन्निर्देशस्तदा प्रस्तुताप्रस्तुतानां समस्तत्वे दीपकं, तथैव व्यस्तत्वे तुल्ययोगिता ।
तदुभयमपि समनन्तरमेव दर्शितम् ।
असकृन्निर्देशेतु द्वयी गतिः-शुद्धसामान्यरूपत्वं, बिम्बप्रतिबिम्बो वा ।
शुद्धसामान्यत्वं नाम सम्बन्धिभेदमात्राद्धर्मस्य पृथङ्निर्देशः ।
तथा इवाद्यनुपादाने प्रतिवस्तूपमा ।
प्रतिवस्तूपमांनिर्वक्ति-वस्तुशब्दस्येत्यादि ।
वस्तुशब्द इह वाक्यार्थपरः ।
उपमा तु साम्यम् ।
प्रतिवाक्यार्थं भवतीत्यन्वर्थाश्रयणा ।
ननु यदि धर्मस्यासकृन्निर्देशरूपं शुद्धसामान्यरूपत्वं तदा किं पर्यायान्तरेणेत्यत आह-केवलं काव्येत्यादि ।
उद्देशप्रतिनिर्देशभावाभावे यदा तस्यैव पुनरुपादानं, तदा पर्यायान्तराभावे अनवीकृतदोषः स्यात् ।
अतः पर्यायान्तरेण पृथङ्निर्देशेः इति काव्यसमयः ।
सो ऽयं प्रतिवस्तूपमाविषयः ।

अथ धर्म्यपेक्षो बिम्बप्रतिबिम्बभावो यदा, तदा दृष्टान्तो वक्ष्यत इत्याह-द्वितीयप्रकारेत्यादि ।
सादृश्याधिकारमनुस्मारयतितदेवमौपम्येत्यादि ।
चकोर्य इति ।
आवन्त्यः अवन्तीप्रभवाः ।
धर्मस्य शुद्धसामान्यरूपतां पर्यायान्तरत्वं च दर्शयति-अत्र चतुरत्वमित्यादि ।
विच्छित्त्यन्तरायाह-न केवलमित्यादि ।
लाघवाय प्रागुदाहरणमेव वैधर्म्येण दर्शयति-विनावन्तीरिति ।
असकृद्धर्मनिर्देशादिवादेरनुपग्रहात् ।
प्रतिवस्तूपमाज्ञेयाप्रतिवाक्यार्थसाम्यतः ॥
अथ दृष्टान्तं सूत्रयति-
तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दृष्टान्तः
व्याचष्टे-तस्यापि न केवलमित्यादि ।
प्रतिवस्तूपमान्यायेन द्वैविध्यमाह-अयमपीति ।
अब्धिर्लङ्घित इति ।
गुरुकुलाक्लिष्टः नित्योपासनेन तदेकशरणीभूतः ।
अत्र बहूनां वानरभटैः मन्थाचलेन सहधर्म्यपेक्षो बिम्बप्रतिबिम्बभावः ।
दिव्यवागुपासनस्य अब्धिलङ्घनेन गुरुक्लिष्टत्वस्या पातालनिमग्रत्वेन च धर्मापेक्षः ।
ननु जानाति जानीत इति ज्ञानस्य पृथङ्निर्देशात् कथमिदं दृष्टान्तोदाहरणमित्यत आह-अत्र यद्यपीत्यादि ।
नैतन्निबन्धनमिति ।
न हि ज्ञाननिबन्धनं औपम्यं विवक्षितं, ज्ञानस्योपचारात् ।
यत्र तु विवक्षा तत्र न किञ्चिन्न्यूनमित्यत आह-यन्निबन्धनं चेत्यादि ।
इदं साधर्म्ये ।
कृतञ्चेति ।
त्वया मनसि गर्वाभिमुखे कृते तत्क्षणमेव द्विषो निहता इत्यर्थः ।
द्वौ चकारौ क्रिययोरेक रूपकालतामाहतुर्यतः ।
वैधर्म्येण प्रतिबिम्बनं निदर्शयति-अत्र निहितत्वादेरित्यादि ।
निहतत्वं गर्वाभिमुखीकरणं च अन्वयमुखेन उक्तम् ।
तमःस्थानं उदयाद्रिमौलित्वं च व्यतिरेकमुखेन ।
न यावदित्युपन्यासात् ।
अतो वैधर्म्येण प्रतिबिम्बनम् ।
बिम्बानुबिम्बन्यायेन निर्देशे धर्मधर्मिणोः ।
दृष्टान्तालङ्कृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया ॥
निदर्शनां सूत्रयति-
संभवतासंभवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्बकरणंनिदर्शना
सङ्गतिमाह-प्रतिबिम्बेति ।
व्याचष्टे-तत्र क्वचिदित्यादि ।
वस्तुसम्बन्धो वाक्यार्थसम्बन्धः ।
इत्थमियं द्विधा-सम्भवद्वस्तुसम्बन्धा, असम्भवद्वस्तुसम्बन्धाचेति-चूडामणीति ।
यो गिरिरागतं अभ्यागतं रविं सतां आतिथेयी अतिथिसत्कृतिः कार्येति बोधयन् धत्ते ।
योजयति-अत्र बोधयन्धत्त इति ।

बो धनसमर्थस्य आचारोगिरौ प्रयिक्तः तस्याचेतन्त्वे ऽपि कारीषो ऽग्रिरध्यापयतीतिवत् गिरिः गृहमेधिनो बोधनक्रियासमर्थान् करोतीति तत्सामर्थ्याचरणो णिचः प्रयोगात् सम्भवति वस्तुसम्बन्धः ।
अव्यात्स इति ।
स शिवो ऽव्यादित्यर्थः ।
यस्येन्दुः स्मरचापलीलां स्पृशति ।
अत्रान्यसम्बन्धिन्या लीलाया अन्येन स्पर्शासंभवात् इयमसंभवद्वस्तुसम्बन्धा ।
ननु तर्हि असङ्गतिरेव स्यादित्यत आह-लौलासदृशीं लीलामित्यादि ।
लक्षणाश्रयणाददूरविप्रकर्षम् ।
वैचित्र्यान्तरायाह-एषापीत्यादि ।
समनन्तरेदाहृतायामेकक्रियाभिसम्बन्धात् पदार्थवृत्तिता ।
त्वत्पादेति ।
नखरत्नानां निसर्गशोणात्वात् अलक्त(क)मार्जनमेव पाण्डुरीकरणं न भवति यतः अत्र येषां दृष्टान्तधीः ते मन्दा इत्याह-केचिदित्यादि ।
वाक्यार्थनैरपेक्ष्ये दृष्टान्तः ।
सापेक्षत्वे तु निदर्शनेत्याह-यत्र तु प्रकृत इत्यादि ।
सामानाधिकरण्ये नाध्यरोप्यत इति वाक्यैकताश्रयणेन एकक्रियान्वयात् प्रकृतान्तः पातित्वं नीयत इत्यर्थः ।
तत्र वाक्ये प्रकृताप्रकृतवाक्ययोः सम्बन्धानुपपत्तिमूला निदर्शनैवेत्यर्थः ।
यत्राप्यनतिस्फुटं सापेक्षत्वं दृष्टान्तधीर्माभूदिति उदाहरणेन दर्शयति-एवं चशुद्धान्तेत्यादि ।
आश्रमवासिनो जनस्य शुद्धान्तदुर्लभं वपुर्यदीति यच्छ्रब्द उत्तरवाक्ये तर्हिदूरीकृता इति तच्छ्रब्द मुत्थापयति इति वाक्यार्थयोः सापेक्षत्वान्निदर्शनैव इयम् ।
तदेतदाह-उक्तन्यायेनेति ।
अथ वैचित्र्यान्यरायाह-इयं च सामान्यैनैवेत्यादि ।
सामान्येन वाक्यार्थयोपसंबन्धात् प्रतिपादनं वैचित्र्यानतरोपोद्धातः ।
वैचित्र्यान्तरं विवेचयति-उपमेयवृत्तस्येत्यादि ।
शुद्धान्तदुर्लभमित्यादौ हि उपमेयवृत्ते ऽध्यारोपितस्य उपमानवृत्तस्याम्भवः ।
अथैतद्विपर्ययो ऽपि - वियोग इति ।
वियोगेन निमित्तेन पाण्डरीभूतानां नारीणां गण्डतलेयः पाण्डिमासखर्जुरी मञ्जरीगर्भरेणुष्वलक्ष्यतेत्यत्र उपमेयवृत्तस्य गण्डपाण्डिम्रो मञ्जरीगर्भरेणुरूप उपमानवृत्तेर्लक्ष्यत्वासंभवात् उपमा प्रतीयते ।
तदेतदाह-अत्र गण्डतलमित्यादि ।
अस्यैव च प्रकारस्य वैचित्र्यान्तरायाह-एष प्रकार उपमेयवृत्तस्य उपमानवृत्ते ऽन्वयासंभवलक्षणाम् ।
मुण्डसिरेति ।
मण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरन्धारयसि ।
द्विगुच्छ्रायसे आत्मा मूढः छ्रेकाश्छ्रल्यन्ते ॥
छ्रेका विदग्धाः ।
छ्रल्यन्ते छलं नीयन्ते ।
अत्र छ्रेकछ्रलनहेतोर्नष्फलदुःसङ्घटमूढकार्यपरम्परालक्षणस्य प्रतीयमानस्य उपमेयवृत्तस्य बदरधरणादावुपमानवृत्ते ऽन्वयासंभवः ।
स च परस्परसव्यपेक्षत(या)पड्क्त्यवस्थानत् शृङ्खलान्यायेन स्थितः ।
मिथो ऽनपेक्षपड्क्त्यवस्थानलक्षणाया मालारूपेणापि संभवतीत्याह-इयमपीति ।
अपिशब्दो भिन्नक्रमः ।
मालयापि भवन्तीत्यर्थः ।
अरण्येति अरण्यरुदितं कृतं तादृशोदुःखातिभारस्य दुःखभागिजनमन्तरेण अनुभूतत्वात् ।
शवशरीरमुद्वर्तितं अगरुचन्दना दिनानुलित्पम् ।
तथाविधस्य संस्कारस्य तस्य वा स्वस्य वा अन्येषां वा भोगायोगात् ।
स्थले ऽब्जमवरोपितं भुवनलालनीयस्य वस्तुनो ऽपत्वात् ।

सुचिरमिति प्रतिवाक्यमन्वीयते ।
ऊषरे वर्षितं नैरर्थक्यनैष्फल्ययोरुद्वेलत्वात् ।
श्चपुच्छ्रमवनामितं चिरसंस्काराधाने ऽप्य नाहितंसंस्कारत्वात् ।
बधिरकर्णजापः कृतः ।
जापः उपांशुरहस्योक्तिः ।
अपात्रमिति ज्ञात्वैव दुरुत्कण्ठया समारम्भात् ।
अन्धमुखमण्डना कृता तस्य अनुपयोगादन्येषां विडम्बनास्पदत्वात् ।
अबुधो जनः सेवितो यदिति वाक्यार्थेन विशेषितो यच्छब्दः प्रधान वाक्यार्थभूता(म्) क्रिया (मु)पगृह्णाति ।
यदबुधजनसेवनं तदरण्यरुदितादिकरणामित्युपमेयवृत्तस्य उपमानवृत्ते ऽध्यारोपितस्य अन्वयासंभवो मालयावतिष्ठते ।
अथ शाब्दोपादानां विनापि अर्थाक्षेपादेव निदर्शनावैचित्र्यं भवतीत्याह-क्वचित्पुनरित्यादि ।
निषेधो हि प्रात्पिपूर्वक एवेति प्रात्पिमाक्षिपति ।
निषेधाक्षित्पायाः प्राप्तेः सम्वन्धानुवपपत्तिरपि क्वचिन्निदर्शनाबीजमित्यर्थः ।
तदा(नी मिय)मार्थीति भावः ।
उत्कोप इति ।
अत्र पद्भ्यां हंसगतिर्मुक्तेति त्यागरूपनिषेधबलात् पादयोर्हसगतिप्रात्पिराक्षित्पा ।
सा साक्षात्सम्बद्धुमशक्ता सादृश्यमवगमयति ।
तदेतदाह-अत्र मुक्तेतीत्यादि ।
सम्भवद्वस्तुसम्बन्धो ऽसम्भवद्वावबोधयेत् ।
प्रतिबिम्बं यदि तदा निर्ज्ञातव्या निदर्शना ॥
बिम्बानुबिम्बार्थतया वाक्ययोः प्रकृतान्वयोः ।
स्यान्नैरपेक्ष्ये दृष्टान्तः सापेक्षत्वे निदर्शना ॥
इत्थमभेदप्राधान्याधिकारनिपातिनो ऽलङ्काराः विवेचिताः ।
अथ भेदप्राधान्येन व्यतिरेकं सूत्रयति-
भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः
भेदप्राधान्ये साधर्म्य इत्यनुषज्यते ।
भेदप्राधान्यं व्यतिरेकस्योक्तचरमनुस्मारयन् अधिकरोति - अधुनेत्यादि ।
भेदमसम्भववैचित्र्यद्वयं प्रभेदबीजत्वेन उट्घाटयति-भेदो वैलक्षण्यमित्यादि ।
विपर्ययशब्दात् मिथ्याज्ञानभ्रमो मा भूदित्याह-विपर्ययो न्यूनगुणत्वमिति ।
दिद्दक्षव इति ।
अत्र नीलोत्पलिनी विकासापेक्षयाक्षिसहस्रपक्ष्मलताया अधिकगुणत्वम् ।
क्षीणः क्षीणो ऽपीति ।
अत्र अनिवर्तिनो यौवनस्य क्षयिणो ऽपि भूयो ऽभिवर्धितशशिव्यपेक्षया न्यूनगुणत्वम् ।
तदेतदुभयं योजयति-अत्र विकस्वरेत्यादिना ।
भेदप्रधाने साधर्म्ये व्यतिरेको विधीयते ।
आधिक्यादुपमेयस्य न्यूनत्वाद्वोपमानतः ॥
सर्हेक्तिं सूत्रयति-
उपमानोपमेययोरेकस्य प्राधान्यनिर्देशे ऽपरस्य सहार्थसम्बन्धे सहोक्तिः
अधिकारमनुस्मारयन् सामग्रीमस्या विविनक्ति-भेदप्राधान्य इत्येवेत्यादिना ।
ननु सहार्थ तया तुल्यकक्ष्ययोः कथं भेदप्रधानतेत्यत आह-गुणप्रधानभावेत्यादि ।
सत्यम् ।

सहार्थसामर्थ्यात् साधर्म्यमेवात्र ।
भेदप्राधान्यं तु व्यतिरेकनयेन साधार्म्यभित्ति कमिह न भवति अपि तु गुणा प्रधानभावभित्तिकमिति यावत् ।
ननु समानयोगत्वे गुणप्राधानभावो ऽपि कीदृगीत्यत आह-सहार्थप्रक्तेति ।
सहार्थो हि तृतीयां तं गुणत्वेन प्रयोजयति ।
ननु सहार्थत्वे क उपमानोपमेयभाव इत्यत आह-उपमानोपमेयत्वं चेत्यादि ।
तद्धि तृतीयान्तस्य विशेषणत्वादुपमानत्वं विवक्ष्यते ।
इतरस्य तु विशेष्यत्वादुपमेयत्वम् ।
अतो वैवक्षिकमेव न तु वास्तवमिति भावः ।
अवास्ततत्वे हेतुमाह-द्वयोरपीत्यादि ।
ननु द्वयोः प्राकरणिकत्वमेवाप्राकरणिकत्वमेव वेतिकिं नियामकमित्यत आह-सहार्थसामर्थ्यादिति ।
ननु तर्हि वैवक्षिकत्वे कतरत् केन रूपेण विवक्ष्यतामित्यत आह-तृतीयान्तस्येत्यादि ।
ननु प्रधानमपि तृतीयान्तेन निर्देशमर्हतीत्यत आह-शाब्दश्चेति ।
सहशब्दो हि नियमेन तृतीयान्तस्य शाब्दगुणत्वं कल्पयति ।
इतरस्य तु प्राधान्यम् ।
तर्हि अर्थापेक्षया का स्थितिरित्यत आह-वस्तुतस्त्विति ।
गुणस्यापि प्राधान्यं, प्रधानस्यापि गुणत्वं विपर्ययः ।
अपिशब्दादनवस्थितिरपि ।
एवं न्यायक्रमे स्थिते ऽपि विशेषो ऽन्यो ऽस्याः प्रयोजक इत्याह-तत्रापीत्यादि ।
अतिशयोक्तिरपि न साकल्येन अस्या मूलमित्यत आह-सा चेत्यादि ।
कार्यकारणप्रतिनियमविपर्ययो ऽत्र तुल्यकालता न तु कार्यस्य पूर्वकालता सहार्थत्वात् ।
अभेदाध्यवसायस्तु द्विधा भवतीत्याह-अभेदाध्यवसायश्चेत्यादि ।
तेनेयं त्रिविधोपक्षित्पा ।
वैचित्र्यान्तरमुपक्षिपति-साहित्यं चात्र्येत्यादि ।
कर्तृकर्मादि साहित्यनिबन्धनेनापि प्राभेदेन प्रथत इति यावत् ।
क्रमेणोदाहरणानि ।
भवदपराधैरिति- अत्रापराधानां तृतीयान्तत्वाद्गुणता ।
सन्तापस्य प्रथमान्तत्वात्प्रधानता ।
अतो गुणप्रधानभाव निबन्धनैवात्र भेदप्रधानता, न पुनर्वृद्धिक्रियानिबन्धना ।
स च गुणप्रधानभावः सहार्थप्रयुक्तः ।
द्वयोश्च प्राकरणिकत्वादुपमानोपमेयभावो वैवक्षिकः ।
अपराधानां च तृतीयान्तत्वात् विशेषणानामुपमानत्वं नियतमपराधा यथा वर्धन्त इति ।
सन्तापस्य तु प्रधानत्वादुपमेयत्वं सन्तापस्तथा वर्धत इति ।
स चायं गुणप्रधानभावः शाब्दः ।
अर्थं व्यपेक्ष्य तु सन्ताप एव (इव)अपराधा वर्धन्त इत्यपि प्राप्तेः ।
न्याय क्रमो ऽयं उदाहरणान्तरेष्वपि योजनीयः ।
अत्र कार्यकारणसमकालत्वलक्षणातिशयोक्तिर्मुलमिति दर्शयति-अत्रापराधानामित्यादि ।
अस्तं भास्वानिति-संह्रियन्तां विप्रकीर्णानि एकीक्रियन्तामित्यर्थः अत्र श्लेषाभित्तिकाभेदाध्यवसायरूपा मूलमिति दर्शयति-अत्रास्तङ्गमनमित्यादि ।
अस्तम् एकदा गिरिः अन्यदात्ववसाद इत्युभयार्थत्वम् ।
कुमुददलैरिति-अत्र पुनः अश्लेषभित्तिकाभेदाध्यवसायरूपमूलमिति दर्शयति-अत्र विघटनमित्यादि ।
एवमतिशयोक्तिमूलत्वादिलक्षणो यो विशेषः तदभावे सहोक्तिमात्रं नालङ्कार इति व्युत्पादयति-एतद्विशेषेति ।

प्रत्युदाहरति-अनेन सार्धमिति ।
कर्तृसाहित्यलक्षणं वैचित्र्यमप्येष्वेव दर्शितमित्याह-एतान्येवेति ।
एषु हि सन्तापापराधादि कर्तृसाहित्यम्-द्युजन इति ।
द्युजना देवाः ।
द्युजनस्य मृत्युना सह मनोरथावात्पिः दैत्यबलक्षयः ।
अत्र कर्मसाहित्यं दर्शयति-अत्र करोतिक्रियेत्यादि ।
द्युजनमृत्योः आत्पिक्रियापेक्षया कर्तृत्वे ऽपि तस्योपसर्जनत्वात् नेह कर्तृसाहित्यम् ।
या तु (चक्र इति)प्रधानभूता करोतिक्रिया तदपेक्षया कर्मत्वात्कर्मसाहित्यमेतदिति यावत् ।
एवं करणादिसाहित्यवैचित्र्यमुन्नेयम् ।
अथ पुनर्वैचित्र्यायाह-इयं चेति ।
उत्प्रेक्षित्पमिति ।
धनुष उत्क्षेपः ज्यावन्धसङ्घट्टनम् ।
आस्फालनमाकर्षः ।
शिलीमुखमोक्ष इत्यादि क्रमिकाणि धानुष्ककर्माणि ।
तत्रा कर्षणमात्रान्तं परिपणानात्तावन्त्येवोपवर्णितानि ।
तत्रातिवत्सलस्य कौशिकस्य पुलकानां धनुरुत्क्षेपसम समयमुत्क्षेपः, मत्सरग्रस्तत्वात् उत्क्षेपमात्रा परितोषितानां भूपानां धनुर्नति(सम)समयं मुखनतिः ।
परिपणताकर्षणस्य जनकस्य नत्यन्तं संशयानुवृत्तेः ।
ज्यास्फालनसमसमयं संशयबुद्ध्यास्फानम् ।
वैदेह्याः पुनः परिपणनसिद्ध्यन्तमनाकृष्टमनःसमाकर्षसमसम(यं)म(नः)समाकर्षः ।
भार्गवाहङ्कृतिकन्दलस्य तु धनुर्भङ्गान्तमभग्रस्य भङ्गसमसमयं भङ्गःश्रीमता रामचन्द्रेणाकारीति समन्वयात् कर्मसाहित्यमिह मालात्वेनावतिष्ठते ।
एवमन्यदपि मालात्वेन ज्ञेयम् ।
गुणप्राधानभावो यः शाब्दस्तेन भिदोत्कटा ।
संश्रितातिशयोक्तिं च सहोक्तिःसमयोर्मता ॥
अथ विनोक्त्यौ सङ्गतिमाह-सहोक्तिप्रतिभटेत्यादि-प्रतिभटभूतां प्रतियोगिभूताम् ।
तत्र सूत्रम्-
विना कञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः
व्याचष्टेसत्त्वस्येत्या(दि) ।
(व्यत्ययेनाभावशब्दार्थौ)प्रत्येकमभिसम्बध्येते ।
शोभनत्वाभावो ऽशोभनत्वं तत्त्वाभावः शोभनत्वमिति ।
कञ्चिदर्थं विना यत्र शोभनत्वं नास्ति सैका विनोक्तः ।
यत्र त्वशोभनत्वं नास्ति सान्येति द्विरूपेयमित्यर्थः ।
ननु कस्मिंश्चित् तत्त्वासत्वे इत्येतावतैव पर्यात्पौ (किं?)निषेधद्वयाश्रयणगौरवेणोत्यत आह-अत्र चेत्यादि ।
अन्यनिवृत्तिप्रयुक्तेति ।
अन्यनिवृत्तिश्चेत् सदसत्त्वनिवृत्तिं न प्रयोजयति ।
तदा न विनोक्त्यलङ्कारः ।
न ह्यस्मिन् सति तत्त्वमसत्त्वंवेत्युक्तौ विच्छित्तिः काचित् ।
अतो ऽन्यनिवृत्तिप्रयुक्ता सदसत्त्वनिवृत्तिरेव विनोक्त्यलङ्कारः इति भावः ।
अस्मिन्सति सत्त्वमसत्त्वं चेति वस्तुविधिः , सत्त्वलङ्कारफलत्वेन प्रात्पे प्रकाश्यत इत्याह-एवं चान्यनिवृत्तावपि इत्यादि ।
द्विरूपाया अपि परिपाट्योदाहरणं - विनयेति ।
अत्र विनयशशिसत्कत्वनिवृत्त्या श्रीनिशाविदग्धा (धता)नि वृत्तिरिति सत्त्वाभावोदाहरणम् ।

विनयादिषु च सत्सु श्रीप्रभृतिसद्भावः फलत्वेन प्रकाश्यते ।
तदिदमभिसन्धायाह-अत्र विनयादीत्यादि ।
विनादि शब्दाभावे तदर्थं सद्भावे विनोक्तिरेवेति व्युत्पादयितुमाह-अत्र विना शब्द इत्यादि ।
यथा सहोक्ताविति ।
सहोक्तावप्ययं न्याय इति यावत् ।
अत्रोदाहरति-निरर्थकं जन्मेति ।
अत्र तुहिनाशुदर्शनं विना नलिनीजन्म न शोभनमिति प्रतीयते ।
अतो विनोक्तिः इयम् ।
विनाशब्दानुपादाने त्वार्थीति विशेषः ।
तदिदमभिसन्धायाह-इत्यादौ विनोक्तिरेवेत्यादि ।
अत्र च हेतुहेतुमद्भावव्यक्तयो विनोक्तेरेव विच्छित्तिविशेषाधायकः न पुनरलङ्कारान्तरमित्याह-इयं च परस्परेत्यादि ।
उदाहृतविषय इति ।
निरर्थकं जन्मेत्ययमुदाहृतो विषयः ।
मृगलोचनयेति ।
लोके हि मृगलोचनां विना विचित्रव्यवहारप्रतिभाप्रागल्भ्यं नास्ति सुहृदा विना च सुन्दराशयत्वम् ।
अस्य तु नरेन्द्रसूनोर्न तयेति श्लोकार्थः ।
असत्त्वा भावं दर्शयति-अत्राशोभनत्वाभावादित्यादि ।
प्रतिभाप्रागल्भ्यं सुन्दराशयत्वं च शोभनपदार्थौ ।
निगमयति-सैषा द्विधेति ।
सदसत्त्वनिवृत्तिश्चेन्निवृत्त्यान्यस्य वर्ण्यते ।
तदा द्विधा विनोक्तिःस्पाद्विधिरत्र फलं भवेत् ॥
अथ विशेषणविच्छित्तिमूलौ समासोक्तिपरिकरौ प्रस्तौति - अधुना विशेषणेति ।
विशेषण विच्छित्तिश्च द्विरूपा साभ्यं साभिप्रायता च ।
साम्ये समासोक्तिमधिकरोति-तत्रादावित्यादि ।
तत्र सूत्रम् ।
विशेषेणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः
यत्र विशेष्यांशे प्रकृतमात्रपरता विशेषणसाम्यात् पुनरप्रकृतो ऽवगम्यते सा समासेन संक्षेपेणा अभिधानात् समासोक्तिः ।
तदेतद्व्याचिख्यासुर्विषयविभागायाह-इह प्रस्तुतेत्यादि ।
क्वचिद्वाच्यत्वम् ।
उभयेषामिति शेषः ।
क्वचिद्गम्यत्वं, एकतरेषामित शेषः ।
श्लेषनिर्देषभ्ग्येति ।
विशेषणविशेष्यांशयोः श्लेषोरनिबन्धने नेत्यर्थः ।
पृथगुपादानेन विति ।
विशेषणांशे पृथक् शब्दोपादानेनेत्यर्थः ।
एतद्द्विभेदमपि वाच्यत्वं श्लेषालङ्कारस्य विषयः ।
यदा पुर्गम्यत्वं प्रस्तुतविषयं विशेषणसाम्यात् तदानीम प्रस्तुतप्रशंसा, यदा त्वप्रस्तुतविषयं तदा समासोक्तिरिति विवेकः ।
अप्रस्तुतस्य गम्यत्वे यदि विशेष्यस्यापि साम्यं तदा किं स्यादित्यत आह-विशेष्यस्यापि साम्ये श्लेषप्राप्तेरिति ।
श्लेषमूलध्वनिप्रात्पेरिति यावत् ।
ननु श्लेषालङ्कारः शब्दशक्तिमूलध्वनिश्चेति त्रिषु विषयेष्वप्यस्ति श्लिष्टपदापनिबन्धः ।

तत्र यदा श्लेषः तदार्थद्वयस्य नियमेन वाच्यता ।
वाच्यत्वं चैवं संभवति-यदार्थौ द्वावपि प्राकरणिकौ स्तः अप्राकरणिकौ वा तदा विषेषणविष्यांशयोर्द्वयोरपि श्लिष्टपदोपनिबन्धात् श्लेषालङ्कारः ।
अभिधाया अनियन्त्रणात् द्वावप्यर्थौ वाच्यौ ।
अथ यदैकस्य प्राकरणिकत्वमितरस्य अप्राकरणिकत्वं तदा विशेष्यांशे पृथक् शब्दोपादानबलादेव श्लेषालङ्कारः ।
यदि विशेष्यांशे ऽपि श्लिष्टपदोपनिबन्धः तदा प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थः एवोपक्षयाद प्राकरणिकर्थावगतिर्व्यञ्जनस्यैव विषयःस्यात् ।
यदसमासोक्तिस्तदा ।
विशेषणांशे अर्थद्वयप्रतिपादकशब्दोपनिबन्धः विशेष्यांशे तु प्राकरणिकार्थमात्रपरता ।
तदा विशेषणसाम्यादप्रस्तुतस्य गम्यत्वादुक्तलक्षणा समासोक्तिः ।
यदा पुनः प्राकरणिकाप्राकरणिकयोः विशेषणविशेष्यांशे ऽपि श्लिष्टता तदा तावन्न समासोक्तिः विशेषणमात्रसाम्यलक्षणा यतः श्लेषालङ्कारत्वप्रात्पिरपि ।
कथम्? तत्रार्थद्वयस्य वाच्यतैव लक्षणं यतः, न ह्यत्र द्वयोर्वाच्यतोपपत्तिः प्रकरणपक्षपातिन्या अभिधाया अप्राकरणिकेर्ऽथे स्पर्शाभावात् अप्राकरणिकस्य समन्वयसमनन्तर प्रतीतिकत्वात् शब्दशक्तिमूलस्य ध्वनेः श्लेषेण विषयग्रासप्रसङ्गाच्च ।
विविक्तो ऽयं घण्टापथः ध्वनिनिदर्शनरहस्यविदामित्यलम् ।
अथ समासोक्तिरूपकयोः वैधर्म्यं विवेचयति-विशेषणसाम्यवशादित्यादिना ।
हिर्हेतौ ।
यतो विशेषणसाम्यादप्रस्तुतोर्ऽथः प्रतीयते, अतो विशेष्यांशे संस्पर्शाभावाद्विशेष्यं प्रकृतार्थं न स्वेन रूपेण रूपवन्तं कर्तुमीष्टे किन्दु विशेषणांशप्रतीतं स्वव्यवहारं विशेषणांशप्रतीते प्रकृतार्थव्यवहारे ऽवच्छ्रेदकत्वेन समारोपयति ।
तदिदमाह-प्रस्तुता वच्छ्रेदकत्वेन प्रतीयत इति ।
अवच्छेकत्वाच्चेत्यादि ।
व्यवहारसमारोपः न तुरूपकाद्वैधर्म्यमित्याह-अवच्छेदकत्वाच्चेत्यादि ।
व्यवहारसमारोपः न तु रूपसमारोपः ।
ननु यदा रूपसमारोपः तदा किं स्यादित्यत आह-रूपसमारोपेत्यादि ।
अवच्छ्रादितत्वेन क्रोडीकृत्वेन ।
प्रकृतरूपरूपितत्वात् अप्रकृतरूपेण उपरञ्जितत्वात् रूपकमेव ।
विवेचितं चैतद्यथायोगं परिणामालङ्कृतौ ।
अत्रावान्तरश्लोकाः - अप्रस्तुतं प्रतीतं चेद्भेदकांशैकसाम्यतः ।
व्यवहारं समारोप्य प्रस्तुते न्यग्भवत्यथा ॥
तेनाप्रस्तुतवृत्तान्तारोपेण प्रस्तुतं स्वयम् ।
संक्षेपेणोच्यते तस्मात्समासोक्तिरियं मता ॥
स्याद्विशेष्यांशसाम्यं चेत्प्रस्तुताकाररूपितम् ।
भवेदप्रस्तुतं भेद्यं रूपकालङ्कृतिस्तदा ॥
इति ॥
अस्या विशेषप्रपञ्चनार्थमाह-तच्च विशेषणसाम्यमित्यादि ।
साधारण्यमुभयत्र प्रवृत्तिनिमित्तसंभवः ।
औपम्यगर्भत्वं तद्गर्भसमासाश्रयणात् ।
इत्थं तद्विशेषणसाम्यं त्रिधा भवतीत्यर्थः ।
अतःसमासोक्तिरंपि त्रिधा ।
क्रमेणोदाहरणानि-उपोढरागेणोति ।
रागः सन्ध्यारुणिमा कामश्च ।
तारकेत्यतो नक्षत्रदृगन्तर्मण्डलयोः प्रतिपत्तिः ।
मुखं प्रारभ्भो वक्त्रं च ।
तिमिरमंशुकमिव तिमिरसदृशमंशुकं च ।
लक्षणं योजयितुमाह-अत्र निशाशशिनोरित्यादि ।

नायकश्चनायिका च नायकौ ।
"पुंमांस्त्रिये"त्येकशेषः ।
उपोढरागत्वादिश्लिष्ट विशेषणमहिन्मा खल्वत्र निशाशशिनौ नायकव्यवहार विशिष्टौ प्रतीयेते ।
ननु कथम् अत्र निर्ज्ञायते व्यवहारसमारोपो न रूपसमारोप इत्यत आह-अपरित्यक्तेत्यादि ।
यदि रूपसमारोपस्तदा प्रकृतौ रूपकन्यायेन स्वं स्वं रूपमवच्छ्रादितत्वेन परित्यज्य यदवच्छ्रादकमुपमानरूपं ताद्रूप्यमुपगृह्णाति ।
इह पुनर्विशेष्यांशे निष्प्रतियोगिकतया ज्ञातयोरत एवापरित्यक्त स्व रूपयोः निशाशशिनोर्विशेषणसाम्यावगमितेन नायकत्वधर्मेण विशिष्टतया प्रतीतेः ।
अतो व्यवहारसमारोप एव ।
तन्वीति ।
पुष्पम् आर्त्तवं रजः, प्रसूनं च ।
इह तनुत्वादीनां विशेषणानामुभयत्रैकार्थतासाम्यं न तु श्लिष्टता ।
तदेतदाह-अत्र तनुत्वेत्यादि ।
ननु तनुत्वादिधर्मसाम्यात् कथं लताव्यवहारप्रतीतिरित्यत आह-तत्र च लतैकेत्यादि ।
विकासो हि लताया एव तत्समारोपो लोलाक्ष्या लताव्यवहारप्रतीतेः कारणम् ।
ननु विकासस्य लतैकगामित्वात्कथं साधारण्यमित्यत आह-विकासस्त्वित्यादि ।
यथैवं विशेषणसाधारण्यं धर्मसमारोपश्च व्यवहारसमारोपस्य कारणं तथा कार्यसमारोपो ऽपीति व्युत्पादयुतुमाह-एवं च कार्येत्यादि ।
कार्यसमारोपनिबन्धनो हि भेद इह धर्मसमारोपनीत्या सुज्ञानः उपरि च शुद्धत्वेन पृथग्राशीकरिष्यति ।
अत इह नोदाहृतः ।
एवमादौ धर्मकार्ययोरन्यतरारोपमन्तरेण अप्रकृतार्थो नावगम्यते ।
प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थ एवोपक्षयात् ।
अतो धर्मकार्ययोरन्यतरारोप एव व्यञ्जनव्यापारोत्था पनेनाप्रकृतार्थावगतिहेतुः ।
इतो विशेषणसाधारण्यनिबन्धनासमासोक्तिर्न्यायविदामेव विभक्तविषया ।
अस्फुटत्वात्तदिदमभिसन्धायाह-इयञ्चेत्यादि ।
पूर्वापेक्षया श्लिष्टविशेषणनिबन्धना समासोक्तिः पूर्वा तदपेक्षयेत्यर्थः ।
दन्तप्रभा पुष्पचितेति ।
अत्रानपेक्षिताख्याने वाक्ये श्रवण समनन्तरमेव दन्तप्रभापुष्पचितत्वादिना हेतुना हरिणेक्षणायाः सुवेषता प्रतीयते ।
अतस्तदा सुवेषत्वलक्षणकार्यवशाद्विशेषणानां दन्तप्रभाः पुष्पाणीवेत्युपमासमासपरत्वम् ।
अथ दन्तप्रभासदृशैः पुष्पैरिति मध्यमपदलोपि समासान्तरप्रत्यायितैः पुष्पपल्लवादिभिः विशेषणासाम्यदशायां लताव्यवहारप्रतीतिः ।
तदेतदवबोधयति-अत्र दन्तप्रभा इत्यादिना ।
लताव्यवहारप्रतीतिरिति वदता रूपकसमासस्याप्रात्पिरासूचिता ।
व्यवहारसमारोपे समासोक्तिः ।
रूपसमारोपे तु रूपकमिति प्रतिपादितम् यतः अतः प्रतीतो ऽपि रूपकसमास इह न्यायतो न प्राप्नोति ।
नन्वेवमादौ प्रागुपमासमासाससमाश्रयणनिमित्तं यदि सुवेषत्वादिना नोपात्तं तदा किं स्यादित्यत आह-अत्रैव परीतेत्यादिना ।
परीता केशपाशालिवृन्देन परिगता ।
इह दन्तप्रभापुष्पाणीवेत्यादिना किमुपमासमासः, उत दन्तप्रभा एव पुष्पाणीत्यादिको रूपकसमास इति सन्देहः, उपमारूपकयोः साधकबाधकाभावात् ।
अतः सन्देहरूपसङ्करसमाश्रयेण पूर्वं योजना ।
न च मन्तव्यं समासः सन्देहो पपन्न इति, सन्देहस्य कविप्रतिभोत्था पितस्य विच्छ्रित्तिरूपत्वात् ।
अतःसङ्करसमाश्रयेणादौ योजना ।
अथ सन्देहोपशमकाले दन्तप्रभासदृशैः पुष्पैरित्यादि पूर्ववदेव मध्यमपदलोपसमासः लताव्यवहारप्रतीतौ समासोक्तावेव विश्रन्तिः ।
इत्थं च सति उपमा समासगर्भतया सङ्करसमासगर्भतया च समासोक्तिभेदो ऽयं द्विधा दर्शितो मन्तव्यः ।
ननु केवलरूपकसमासाश्रयेणापि समासोक्तिभेदो ऽयं किं नेष्यत इत्यत आह-रूपकगर्भत्वेन त्विति ।

प्राक् रूपकसमासे अथ तद्गर्भतयोपमासमासाश्रये यद्यपि विशेषणसाम्यं भवत्येव, तथापि न तत् समासोक्तेः प्रयोजकम् ।
कुतः? एकदेशविवर्तिमुखेनैव लताव्यवहारप्रतीतौ समासोक्तेः वैयर्थ्यात् ।
ननु उपमासमासे सङ्करसमासे च समासोक्तिवैपर्थ्यं किं न स्यादित्याह-न च प्राङ्निदर्शितेत्यादि ।
एष न्यायः समासोक्तिवैपर्थ्यापत्तिलक्षणः ।
तत्र हेमुमाह-उपमासङ्करयोरेकदेशविवर्तिनोरभावात् ।
न ह्युपमालङ्कारः सङ्कराङ्कारश्च एकदेशविवर्तित्वेन केनचिदनुशिष्टौ ।
अतः स्वतन्त्रालङ्कारत्वसंशयान्नान्यबाधक्षमौ ।
रूपकं तु एकदेशविवर्तितयानुशिष्टमन्यबाधक्षममेव ।
अत एवंविधे विषये रूपकप्रात्पौ समासोक्ते प्रात्पिरिति सोदाहरणं दर्शयितुमाह-तच्चैकदेशविवर्तीत्यादि ।
नीरक्ष्य विद्युन्नयनैरिति ।
पयोदो विद्युन्नयनैर्निशायामभिसारिकायाः मुखं निरीक्ष्य धारानिपातैः सह चन्द्रो मया वान्त इति धियेवार्ततरं ररासेत्यर्थः ।
अत्राश्लिष्टम् एकदेशविवर्तिरूपकं समासोक्तेर्नावकाशं ददातीति दर्शयति-अत्र निरीक्षणेत्यादि ।
निरीक्षणं हि पुरुषधर्मो न पयोदधर्मः ।
अतः पुरुषानुसारेण योजने विद्युत एव नयनानीति रूपकमेव न पुनरुपमा सङ्करो वा ।
अतः पयोदे द्रष्टृपुरुषरूपणमर्थादिति एकदेषविवर्तिता ।
तच्चेदमार्ततरं ररासेति प्रतीयमानोत्प्रेक्षाया एव निमित्तं समासोक्ते रप्रात्पिरेवेति भावः ।
मगनणनेति-पत्राणि दलानि तान्येव पत्राणि तालदलानि ।
लिपयोरीतयः ता एव लिपयो ऽक्षर सन्निवेशाः ।
कायस्थो देही गणकः ।
एषु रूपणसामर्थ्यान्मदनो महाराजतया मधुश्च श्रीकरणाग्रणीत्वेन रूपितः प्रतीयते ।
तदेतदुपदर्शयति-अत्र हि पत्रलिपीत्यादि ।
ननु पत्राणीवेत्यादिरुपमा किं न स्यादित्यत आह-द्विरेफमषीत्यादि ।
मषीयोगो हि मधावसंभवन्नुपमा समासंबाधित्वा गणकवृत्तेः संभवस्तदनुसारेण रूपकसमासं साधयतीति यावत् ।
ननु समासोक्तिप्रस्तावे किं सोदाहरणं रूपकभेदप्रदर्शनेनेत्यत आह-अस्य च प्रचुर इत्यादि ।
अस्य एकदेशविवर्तिरूपकस्य ।
अत्रावान्तरश्लोकौ- स्यादौपम्यसमासेन समासोक्तिर्विनिश्चये ।
स्यात्सङ्करसमासेन समासस्य तु संशये ॥
न रूपकसमासस्य प्रात्पावस्याः प्रवर्तनम् ।
रूपकादर्थसंसिद्धेरेकदेशविवर्तिनः ॥
अतः प्रभेदान्तरप्रथनाय उक्तभेदान् संचष्टे-तदेवमित्यादि ।
इयं खलु श्लिष्टात्साधारणादौपम्यगर्भाच्येति विशेषणवैचित्र्यात् त्रिधोद्दिष्टा ।
तत्र श्लिष्टाद्विशेषणादेकविधा ।
साधारणात्पुनर्धर्मसमारोपकार्यसमारोपाभ्यां द्विधा ।
औपम्यगर्भादपि उपमासमासेन सङ्करसमासेन चेति द्विधा ।
श्लिष्टाश्लिष्टतया तु रूपकसमासद्वयमस्या न विषयः ।
अतः पञ्च प्रकाराः ।
इत्थं विशेषणसाम्यात्पञ्चप्रकारत्वसिद्धा ववान्तरं विशेषसहितामिमां पुनस्त्रिराशिकतया संचष्टे-इत्थं शुद्धकार्येत्यादिना ।
कार्यस्य शुद्धत्वं नाम निरूपित विशेषणसाम्या संकीर्णता ।
प्रथमं विशेषणसाम्यनिबन्धनभेदोदयावर्वागित्यर्थः ।
अत्रैतदाकूतम्-विशेषण साम्यादप्रस्तुतस्य गम्यत्वे हि समासोक्तिः ।

तच्च विशेषणसाम्यं शुद्धकार्यसमारोपे सत्युपचरितं, यथा विलिखतीत्यादावुदाहरिष्यमाणेपद्ये स एको राशिः , यदा पुनरिदमनुपचरितं तदा पञ्चधोदाहृतम् प्राक् स द्वितीयः ।
उभयमयत्वे तु तृतीयो राषिः ।
अनुपचरितविशेषणसाम्यनिबन्धनस्य न्यायनिर्भरत्वेन प्राक् प्रदर्शनं पञ्चविधत्वेन कृतमिति ।
अथ तदेव प्राक् प्रदर्शनमनुस्मारयति-विशेषणासाम्यं चेति ।
ननु शुद्धकार्यसमारोपे विशेषणसान्यमुपचरितम् , अन्यदात्वनुपचरितं अनुगतमेकरूपं तु प्रयोजनं नानुपश्याम इत्यत आह-सर्वत्र चात्रेत्यादि ।
एवकारेण तदेकप्राणतां समासोक्तेरभैप्रैति ।
तस्य चातुर्विध्यं दर्शयति-स च लौकिक इत्यादि ।
वस्तुजातिगुणादि ।
अनेन च व्यवहारसमारोपचातुर्विध्येन राशित्रयमपि प्रत्येकं चतुर्धा प्रथते ।
अतःसमासोक्तिः प्रपञ्चचवतीत्याह-तदेवं बहुप्रपञ्चेति ।
तत्राद्यं राशिमुदाजिहीर्षराह-तत्र शद्धकार्येति ।
विलिखतीति ।
उच्चैर्विलेख(न)(?)गाढं कचग्रहः पत्रावल्यामसामञ्जस्यमंशुकविकर्षश्चेचेति हठका (मु)ककार्यम् ।
हठादिति विकर्षथण क्रियाविशेषणम् ।
अत्रोपचरितत्वादप्रस्तुतावगतौ विशेषणसाम्यं नातिबद्धभरम् अपि तु शुद्धकार्यसमारोप एव इत्याह-अत्र पत्रावलीत्यादि ।
खदिरे ऽत्यसंभवात् पत्रावलीग्रहः ।
व्युत्क्रमोक्तानां क्रमस्वारस्यायानुस्मारयतिविशेषणसम्येनेति ।
विशेषणसाम्यं हि यदा श्लिष्टता तदोभयार्थता ।
यदा साधारण्यं तदोभयत्र प्रवृत्तिनिमित्तसंभवः ।
यदौपम्यगर्भविशेषणता तदा समासभेद इति ।
विशेषमसाम्यवशादेव अप्रस्तुतावगतिरिति ज्ञेयम् ।
अथोभयमयत्वेनोदाहरतिलिर्लूनानीति ।
नीरसैः शुष्कै रहृदयैश्च ।
कण्टकिभिः क्षुद्रशङ्कुमद्भिः घातकजनयोगिभिश्च ।
उभयमयतां योजयति-अत्र कण्टकिभिरिति ।
एषित्रिषु राशिषु व्यवहारसमारोप वैचित्र्यनिबन्धनात् भेदानुपदर्शयितुकाम आह-व्यवहारसमारोपेत्यादि ।
द्यामालिलिङ्गेति ।
अम्बरं नभो वासश्च ।
निमग्रचरपुष्प शरत्वं दाहेन ।
तरुणः प्रबलो युवा च ।
अत्र अम्बरकरतरुणेषु विशेषण साम्यम् ।
अन्यत्र कार्यसमारोपः ।
अत्र लौकिकवस्तुनि लौकिकव्यवहारसमारोपः ।
प्रदर्शितोदाहरणेषु च ।
तत्र लौकिकं वस्तु विविधमित्याह-लौकिकं चेति ।
यैरिति ।
एकरूपमविकृतं ।
वृत्तिषु जागरितादिषु ।
अव्ययं सौषु(प्त्या)दिषु स्थगितम् ।
अत एवासङ्ख्यतया प्रवृत्तम् ।

जागरे विश्वः प्रथमः , स्वप्ने तैजसो द्वितीयः, सौषुप्ते प्राज्ञस्तृतीय इति ।
सङ्ख्यया वस्तुतो रहितं तुरीयस्य सर्वानुस्यूतत्वात् ।
उक्तं हि श्रीमद्गौडपादौः-"माया सङ्ख्या तुरीयमि"ति ।
यैरीदृशं त्वांपश्यद्भिः परत्वजुषो विभक्तेर्लोपः कृतः ।
अस्मात्परमस्तीति विभागो लुत्पः ।
तैस्तव सक्षणं कृतं (मन्ये)परमेश्वरस्य हि सर्ववृत्तिष्वकत्वं रूपमव्ययत्वं असंख्यता न कुतश्चिदपिदेशकालादेर्भेद इति इदमेव लक्षणम् ।
इदमागमशास्त्रप्रसिद्धं वस्तु ।
अथ सर्वासु कारिकादिवृत्तिष्वेकत्वादिसंख्यारहितमव्यये हि स्यादिति प्रतियोग्येकत्वं नास्ति किं त्वभेदैकत्वमेवर् ।
इदृशमव्ययं पश्यद्भिः परत्वजुषः प्रकृतेः परत्वलक्षणायाः विभक्तेः प्रथमादेर्लोपः कृतः ।
इदमव्ययलक्षणं"सदृशं त्रिषु लिङ्गेष्वि"त्यादिना प्रतिपादितम् ।
इदं व्याकरणाप्रसिद्धं वस्तु ।
अत्र विशेषणासाम्यमेव ।
सीमानमिति ।
अत्र नयनसीमालङ्घनेन प्रत्यक्षप्रमाणस्याविषयता ।
अन्येनासङ्गत्या नियतसम्बन्धाभावात् अनुमानस्य, वचःस्पर्शाभावाच्छब्दस्य लौकिकस्य अदृष्टो पमानतयोपमानस्य, अर्थादनापातादर्थापत्तेर्न च न यदिति प्रमाणानुक्तावपि वस्तुतर् इदृशि लावण्ये मीमांसादिसिद्धादृष्टादिवस्तुसमारोपः ।
चोदनैकलक्षणस्य प्रमाणान्तरासन्निकर्षादत्र विशेषणासाधारण्यम् ।
शास्त्रीयवस्तुनो वैविध्यं प्रदर्शयति-एवं तर्के त्यादि ।
स्वपक्षेति ।
पक्षो गरुत् साध्यधर्मविशिष्टो धर्मी च ।
हेतिसायुधं हेतुर्लिङ्गं च ।
विशेषो ऽतिशयः पदार्थविशेषश्च ।
मानारोषः प्रमाणं च ।
मन्दमग्निमिति ।
अत्र मन्दाग्रिश्वयथुतिमिरदोषाविर्भावः ओषधिपतेर्भिषजो ऽसन्निधाविति ।
अत्र विशेष्यांशे ऽपि साम्यमित्युदाहरणान्तरं मृग्यम् ।
यद्वा चन्द्रमस इति विशेष्याध्याहारादोषधिपतेरित्येतत् विशेषणातया विवक्षिणीयम् ।
प्रसर्पत्तात्पर्यैरिति ।
ये तात्पर्यविदः ये चानुमानरसिकाः तैरपि (अवि)ज्ञेयश्चासौ पारिमित्यं जहाति न वक्तुं शक्यः न च लक्षयितुं किन्तु गुरुवरः !तव सहृदयस्थो गुणगणो बुधैरपूर्वव्यापारगुणगणान्तरव्यापारातिशायि व्यापार इत्यवसितः ।
अत्र गुणगणे शृङ्गारादिरसव्यवहारः समारोपित इत्याह-अत्र भरतेत्यादि ।
रसं हि भरतोपज्ञम् आमनन्ति ।
विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्याम्नानात् ।
तद्व्यवहारमुपपादयति-तथा ह्यत्रेत्यादिना ।
न तात्पर्यशक्तिज्ञेय इति ।
तात्पर्यं हि नाम अभिहितान्वयमते समन्वयशक्तिः अभिधोत्तीर्णा समन्वयमात्र विश्रान्तयानया समन्वयसमनन्तर प्रतीतिको रसो न ज्ञायते ।
विभावानुभावव्यभिचारिभाःसह नियतसम्बन्धाभावादनुमानस्यापि न विषयः ।
साक्षात्सङ्केता विषयत्वात् न वाच्यः ।
मुख्यार्थबाधाद्यभावन्नापि लक्ष्यः अपि तु वेद्यान्तरविगलनादपरिमितःसन् अभिधालक्षणातात्पर्योत्तीर्णेन व्यञ्जनाख्येन काव्यैकगामिना शास्त्रान्तरापूर्वेण व्यापारेण विषयीक्रियमाणो लौकिकत्वात् अनुकार्यमभिनयप्रयासनिघ्नत्वात् अनुकर्तारं च परिहृत्य सहृदयैकगत इति बुधैरवसीयते ।
दिङ्मात्रमिदं, रसमीसांसायां विस्तरः ।
प्रकृतानुपयोगीति न क्रियते ।
संप्रदायप्रकाशिन्यां काव्यप्रकाशटीकायां वितत्य कृत इति तत एवावधार्य इत्यलम् ।

ज्योतिःशास्त्रादिवस्तुसमारोपो ऽनया रीत्या ज्ञेय इत्याह-एवमन्यदिति ।
पश्यन्तीति ।
अत्रैदुपह्वरम्-वाग्देवता हि परा पश्यन्ती मध्यमावैखरी चेति चतुष्पदपरिमिता ।
तत्र नामरूपात्मकं प्रपञ्चं स्वात्मन्युपसंहृत्य स्वरूपज्योतीरूपिणी जागरितादिधामत्रयोल्लङ्घिनी परा ।
नामरूपप्रपञ्चोल्लासनाय प्राथमिकप्राणपरिस्पन्ताभिमानिनी कन्दमन्दिरा मणिपूरकावधिप्रसरन्ती बीजभावापन्ननिर्विभागवर्णमयीविश्वाभिमुखी भवन्ती सौषुत्पवृत्तिः पश्यन्ती ।
पारायाः सकाशादुदिता मणिपूरकात् अनाहतावधि प्राणपरिस्पन्दोत्क्षुभितबुद्धिवृत्त्यभिमानिनी वर्णपदादिपरिग्रहान्तःसंजलपात्मिका पश्यन्तीप्रभावा स्वप्नवृत्तिर्मध्यमा ।
अनाहतान्मुखकरन्दरावधि प्रसृताबहिःसंजल्पात्मिका स्थूला मध्यमोद्भवाजागरितवृत्तिर्वैखरी ।
आसां नाम निरुक्त्यादिविशेषः प्रथमश्लोकविवरणे प्रपञ्चितः ।
अथ संहारावसरे जागरितलयपुरस्कारेण वैखरी मध्यमायां लीयते ।
मध्यमाययां लीयते ।
मध्यमा स्वप्नलयपुरस्कारेण पश्यन्त्याम्, सा च सौषुत्पलयपुरस्कारेण परायाम्, परा तुरीयपर्वात्मिका समाधिवृत्तिरुच्यते ।
इत्थं च सति शक्तिमानात्मा परायां तुरीयां , पश्यन्त्यां प्राज्ञाः, मध्यमायां तैजसः, वैखर्यां विश्व इत्यागमार्थदिक् ।
अथ शब्दसङ्गत्या व्याकुर्मः ।
प्रभो!वश्येन्द्रियतया प्रभवनशील! तव परया देव्या सह क्रीडादृढालिङ्गने अप्रयासेन तादृशी समाधिसामरस्ये प्रवृत्ते बाह्या वाक् कथं चाटूच्चारणाचापलं स्फुटताल्वोष्ठपुटव्यापारमखततां कथं नाम वितनुतां चापलकथैव नास्तीत्यर्थः ।
कुतो नास्तीत्यत आह-आभ्यन्तरी पश्यन्ती त्रपयेवात्मानं यत्र तिरयति, मध्यमापेक्षयाभ्यन्तरतमा स्वात्मानं न प्रकाशयतुमीष्टे ।
तुरीयपर्वणि प्राणानुदयाद्यत्र मध्यमापि मधुरध्वन्युज्जिहासारसात् त्रुट्यति ।
अन्तःसञ्जल्परूपं मधुरमपि ध्वनिं नोन्मूलयतीत्यर्थः ।
यत्र परा समाधौ पशायन्तीमध्यमयोरनुदयः ।
तत्र वैखरी कथं नाम प्रवर्तताम् इति तात्पर्यार्थः ।
अत्रागमसिद्धे वस्तुनि लौकिकवस्तुव्यवहारः शृङ्गारात्मकःसमारोपितः ।
यथा परयोदेव्या पट्टमहिष्या सह तव क्रिडादृढालिङ्गने प्रवर्तमाने अन्या काचिदाभ्यन्तरी आभ्यन्तरत्वादेव युवयोरालिङ्गनं पश्यन्ती त्रपयेवात्मानं यत्र तिरयति गोपयति ।
मध्यमापि नाभ्यन्तरी न च बाह्या ।
मध्यमावृत्तिर्मधुरध्वनिः यथा भवति तथा उज्जिहासारसात् त्रुट्यतिष ।
उद्गातुकामा कौतुकादुपरमति ।
तत्र बाह्या परिग्रहवेश्या चाटूच्चारणचापलं कथं वितनुतामिति ।
अत्र लक्षणयोजनायाह-अत्रागमेति ।
लौकिकवस्तुनि काव्योपयोगिवैविध्यं उक्तचरंम् अनुस्मारयति-लौकिकवस्त्विति ।
ननु विशेषसाम्यं समासोक्तिलक्षणमुक्तम् ।
शुद्धकार्यसमारोपे तु तदव्यापकमित्यत आह-तत्र शुद्धकार्येत्यादि ।
शुद्धकार्यसमारोपे हि विलिखति कुचावित्यादौ यत् कुचविलेखनादि ह(ठ)का(मु)ककार्यं तस्य यद्यपि न मुख्यतया यत् खदिरादिविशेषणत्वं, अथाप्युपचारेण विशेषणीकरणं , तत् (तत्र?)यथाकथञ्चिल्लक्षणयोजना कार्या ।
ननु किं उपचाराश्रयणेनेत्यत आह-पूर्वशास्त्रानुसारेणेत्यादि ।
अथ यत्र समासोक्तेरसामञ्जस्यं तत्र न्यायसञ्चारेण समञ्चारेण समञ्जसीकर्तुमाह-इह त्वित्यादिना ।
ऐन्द्रं धनुरिति ।
आर्द्रनखक्षताभम् ऐन्द्रं धनुः पाण्डुपयोधरेण दधाना सकलङ्कमिन्दुं प्रसादयन्ती शरद्रवेस्तापभभ्यधिकं चकार ।
पयोधरो मेधः कुचश्च ।
प्रसादाति शयेकलङ्कोद्धुरीभावात् सकलङ्कत्वोक्तिः जारत्वाविष्करणाय ।
प्रवृडपेक्षया शरदिरवेः तापाधिक्यम् ।
अत्र चर्चा-अस्तितावदित्यादि ।
नायकत्वप्रतीतिरस्तीति प्रतिज्ञघाया तदाक्षिपति-न चेत्रेति ।
साकुकस्त्या नायकत्वप्रतीतिरस्तीति प्रतिज्ञाय तदाक्षिपति-न चात्रेति ।

साकुतस्त्या नायकत्वप्रतीतौ नास्तिहेतुरित्यर्थः ।
हेतुसद्भावमाशङ्क्य निराचष्टे-प्रसादयन्तीत्यादि ।
सकलङ्कप्रसादलक्षणविशेषणसाम्यात् शरदस्तावदिस्ति नायिकात्वप्रतीतिः, तजनुदुणत्वेनेन्दुररयोर्नायकत्वप्रतीतिरिति चेत् मन्यसे, नैतद्धयते ।
कुतः आर्द्रनखक्षताभं ऐन्द्रं धनुरिति विशेषणस्यासाम्यात् ।
ऐन्द्रं धनुः शरद एवविशेषणं न नायिकायाः ।
नन्वार्द्रनखक्षताभमिति विशेषणौपम्यादेकदेशविवर्तिन्युपमा शरदि तत्सामर्थ्यादिन्दुरव्योः नायकत्वप्रतीतिरस्त्वित्यत आह-न चैकदेशेति ।
यद्येकदेशवर्तिन्युपमा केनचिदुक्ता तदा तत्सामर्थ्यादनयोर्नायकत्वप्रतीतिः स्यात् ।
न चेयमुक्ता केनचित् ।
अत स्तत्सामर्थात् कथमनयोर्नायकत्वव्यवस्थितिः ।
अत्र समाधित्सुराह-उच्यत इति ।
एकदेशविवर्तिनीत्यादि ।
यद्यपि साक्षान्नोक्ता अथापि नास्याः प्रतिषेधो ऽस्ति ।
ननूक्तिप्रतिषेधयोर्द्वयोरप्यभावे कथं संभव इत्यत आह-समान्यलक्षणेति ।
ननु यद्येकदेशविवर्तिन्युपमाया इह संभवः तदर्युपमालङ्कारस्यैव प्रात्पिर्म समासोक्तेरित्यत आह-अथात्रेत्यादि ।
अथेत्यधिकारे ।
यद्युपमानत्वेन नायको ऽधिकारी कश्चित्प्रतीयते, भवेत्प्रात्पिरुपमालङ्कारस्य ।
नहि प्रतीयते नायको ऽत्र कश्चिदधिकारी ।
अपि तु रविशशिनोरेव नायकत्वव्यवहारे प्रतीतिः , तयोरेवास्यां शरदि नायकत्वोपचारात् ।
इत्थं समासोक्तिप्रात्पौ, तदनुसारेण शब्दन्यासो न्याय्य इत्यत आह-तदत्रेत्यादि ।
आर्द्रनखक्षते श्रुत्यास्थितमप्युपमानत्वमिन्द्रधनुषिसंचारणीयम् ।
कुतः? वस्तुपर्यालोचनया ।
तामेव वस्तुपर्यालोचनां स्फुटयति-इन्द्रचा(पाभं)इत्यादि ।
प्रतीतिः पदार्थान्तरसमभिव्यवहारादित्थम् एव यतः ।
अन्यनिष्ठस्य धर्मस्यान्यत्र संचारणं कुत्र दृष्टमित्यत आह-यथा दध्नेत्यादि ।
दध्ना जुहोतीत्यत्र हि हवनगतत्वेन विधिः प्रतीतः स त्वग्निहोत्रं जुहोतीत्य(त)एव सिद्ध इति ।
वस्तुपर्यालोचनया यथादध्नि संचायेते तथेहाप्यनुसन्धेयमिति यावत् ।
अतः समासोक्तिरेवेयमिति निगमयति-एवमुपमानुप्राणितेति ।
ऐन्द्रधनुष उपमेयस्योपमानत्वङ्कॢप्तेः वैवक्षिकोपमानुप्राणितत्वम् ।
अथ यत्र न्यायतः समासोक्तिमपोह्य एकदेशविवर्तिन्युपमैव प्रथते तं विषयं दर्शयितुमाह-इह पुनरिति ।
नेत्रैरिवेति ।
अत्र सरःश्रियां नायिकात्वप्रतीतौ निमित्तं विवचयति-सरः श्रियमिति ।
विशेषणसाम्यान्नायिकात्वप्रतीतिर्न समासोक्त्या ।
अत एव व्यवहारसमारोपो ऽपि न भवतीत्याह-तस्मान्नायिकेति ।
नायिकाप्यत्र सरः श्रियामुपमानतया, न तु व्यवहारससारोपेण सरःश्रीधर्मतया अत एवंविधे विषये गत्यन्तराभावादेकदेशविवर्तिनी उपमैवोपास्या ।
अनुक्ता कथमुपास्येत्यत आह-यैस्त्विति ।
अस्माभिस्तावदुपपत्तिभिरुक्ता ।
यैस्तु नोक्ता तैरपि गत्यन्तराभावादुपसंख्यातव्यैवेत्यर्थः ।
ननु पूर्वमेकदेशविवर्तिन्युपमा निराकृता, सम्प्रति साधितेति व्याघात इत्यत आह-यत्र तु केशपाशेत्यादि ।
दन्तप्रभाः पुष्पाणीवेत्यादि समासेनोक्तायामुपमायां सत्यामपि दन्तप्रभासदृशैः पुष्पैरिवेत्यादि समासान्तरमहिम्ना विशेषणसाम्यमुपपद्यते ।
तत्रौपम्यगर्भविशेषणोत्थापिता समासोक्तिरेव युक्ता ।

सम्प्रति तु नेत्रैरिवेत्यत्र गत्यन्तराभावादेकदेशविवर्तिन्युपमैव व्यवस्थापितेति व्यघाताभावात् सर्वमवदातम् ।
अथार्थान्तरन्यास प्रभावितायामस्यां वैचित्र्यान्तरं अस्तीत्याह - सा चेत्यादि ।
समर्थ्यः प्रकृतोर्ऽथः समर्थकस्त्वप्रकृतः ।
अथोपगूढ इति ।
उपगूढे आलिङ्गिते ।
ययौ अपगता ।
अत्र समर्थ्यगता ।
असमाप्तेति ।
अत्र तु समर्थकगता ।
उभयत्र योजनायाह-अत्रोपगूढत्वेनेत्यादि ।
उपगूढत्वं शान्ततटित्कटाक्षत्वं च विशेषणसाम्यं तदुत्थापितया समासोक्त्या नायकव्यवहारप्रतीतिः ।
तथा सति समासोक्त्यालिङ्गितो यो ऽयं विशेषात्मा स सामान्यात्मना अर्थान्तरन्यासेन समर्थ्यते ।
सामान्यरूपस्य च समर्थकस्योत्थानम् ।
परिभ्रष्टपयोधराणामिति श्लेषवशादुपगूढ इति विशेषणं साधारणतया स्फुटम् ।
शान्ततटिदित्येतत्तु प्रागुपमागर्भम् ।
तटितः कटाक्षा इवास्या(व यस्या?) इति ।
अथ तटित्सदृश कटाक्षेति समान्यरूपसमर्थोर्ऽथः स्त्रीलिङ्गपुल्लिङ्गनिर्देशगर्भेण भजनरूपेण कार्येणोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण विशेषात्मना रविसन्ध्यावृत्तान्तेन समर्थ्यते ।
उत्प्रेक्षावशात् वैचित्र्यायाह-आकृष्टिवेगेति ।
वेष्टना वेष्टनं यस्य मन्दरगिरेः, पादः पर्यन्तपर्वतः चरणश्च ।
अत्र समासोक्तेरुत्प्रेक्षायाश्च समकालतां दर्शयितुमाह-अत्र निर्मोकेत्यादि ।
निर्मोकपट्टपरिवेष्टनया मन्दाकिनीति कथनात्तदपह्नवेन मन्दाकिनीसमारोपः, तस्याश्च यत्प्रान्तपर्वतवेष्टनं तच्चरणमूलवेष्टनमेवेति, पादशब्दश्लेषोत्थया भेदे ऽभेदः इत्येवंरूपया अतिशयोक्त्याध्यवसीयते ।
तथाध्यवसितं च मन्थव्यथेत्यादि फलोत्प्रेक्षामुत्थापयति ।
सा च अम्बुरशिम्दाकिन्योर्भर्तृपत्नीव्यवहारसमाश्रयां समासोक्ति स्वसमकालमुत्थापयतीति अनयोरेककालता ।
इत्थमन्यत्रापि दर्शयति-एवं नखक्षतेति ।
उत्प्रेक्षान्तरमनुप्रविष्टेति समकालता सूचिता ।
इत्थं वैचित्र्यम् अनुसन्धेयमिति निगमयति-एवमियमित्यादि ।
विशेषणांशसाम्येनाप्रस्तुतार्थस्य गम्यता ।
समासोक्तिर्मता येन संक्षिप्यार्थो ऽभिधीयते ॥
शुद्धकार्यसमारोपे साम्यं स्यादौपचारिकम् ।
व्यवहारसमारोपः साक्षादस्यां प्रयोजकः ॥
स्याद्विशेषणसाम्यं चेत् समासान्तरसंक्षयात् ।
उपमा बाधते नैनामेकदेशविवर्तिनी ॥
दृश्यतेर्ऽथान्तरन्यासे समर्थ्ये च समर्थके ।
उत्प्रेक्षायोगिनी चैषा क्वचित्स्यादेककालगा ॥
परिकरं लक्षयति-
विशेषणसाभिप्रायत्वं परिकरः
सङ्गतिमाह-विशेषणवैचित्र्येति ।
व्याचष्टे-विशेषणनामित्यादि ।
प्रसन्नगंभीरत्वं नाम पदानां व्याङ्ग्यार्थगर्भीकार एव न तु व्यङ्ग्यस्य वाच्यातिशायिता ।
निर्वक्तुमाह-एवं चेति ।

वाच्योन्मुखत्वं वाच्याङ्गता ॥
राज्ञः इति ।
राज्ञो न तु यादृशतादृशस्य ।
तत्रापि मानधनस्य न त्ववमानसहस्य ।
कार्मुकभृतो न निरायुधस्य ।
दुर्योधनस्य न तु शक्ययोधनस्य ।
अग्रतो न त्वसमक्ष्यम् ।
कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च न निःसहायस्य ।
सर्वैवेय-"मनादरे षष्ठी" ।
इत्थं मिषतो दुर्योधनकर्णशल्याननादृत्येत्यर्थः ।
दुःशासनस्येत्यनुक्त्वातस्य पाण्डववधूकेशाम्बराकर्षिण इत्युक्तिः हन्तव्यत्वप्रसिद्ध्यै ।
जीवता एव न तु मूर्च्छितस्य मृतस्य वा ।
तीक्ष्णाकरजक्षुण्णाद सृग्वक्षसः न त्वायुधविदारितात् ।
कोष्णं न तुपर्युषितम् ।
मयाद्य पीतमिति भीमसेनोक्तिः ।
साभिप्रायतां दर्शयति-अत्रेत्यादि ।
वाक्ये ऽपि दर्शयति-एवमङ्गराजेत्यादि ।
विशेषणानां व्यङ्ग्यार्थगर्भीकरणलक्षणा ।
सोत्प्रासता परिकरो व्यङ्ग्यः परिकरो यतः ॥
श्लेषं लक्षयति-
विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः
अर्थद्वयस्य यदा प्राकरणिकत्वमप्राकरणिकत्वमेव वा तदा विशेषणविशेष्ययोः शब्दसाम्ये श्लेषः ।
यदा तूभयमयत्वं अर्थद्वयस्य तदा विशेष्यांशे पृथगुपादाने श्लेष इति सूत्रार्थः ।
सङ्गतिमाह-केवलविशेषणेति ।
इदमिति वचनविशेषणम् ।
व्याचष्टे-तत्र द्वयोरित्यादि ।
विशेषणविशेष्यसाम्य एवेति ।
उभयत्र शब्दसाम्ये सत्येवेत्यर्थः ।
विशेष्यांशे ऽपि शब्दसाम्यं तदा अर्थप्रकरणादिना अभिधानियास्यात् न तु श्लेषस्य ।
अनेकार्थो हि शब्दः प्रकरणादिना प्राकरणिक एवार्थे नियम्यते ।
आद्ये तु प्रकारद्वये नियमहेत्वभावात् द्वावपि वाच्यौ ।
इत्थं सति विकल्पो व्यवतिष्ठत इत्याह-अत एवेति ।
श्लिष्टप्रकारद्वयेति ।
आद्यं प्रकारद्वयं श्लिष्टं विशेष्यांशे ऽपि श्लेषार्थत्वात् ।
येन ध्वस्तेति ।
अनःशाकटम् ।
अभवेन असंसारेण बलिदैत्यजित्कायः पुरामृतसंविभागकाले स्त्रीकृतः स्त्रीभावं नीतः ।
यश्च उद्वृत्तकालियादिभुजङ्गघातीति ।
अरवलयवान् अरवलयं चक्रम् ।
अगं गोवर्धनं गां महीं च यः कृष्णः वराहावतारे अधारयत् ।

यस्य च स्तुत्यं नाम अमरः शशिमच्छिरोहर इत्याहुः ।
शशिमद्राहुः शशिनं मथ्नातीति ।
अन्धकानां वृष्णिसरहचराणां क्षयकृत् आवासकरः ।
स माधवस्त्वां सर्वदा पायात् ।
अथ येन ध्वस्तमनोभवेन नाशितमन्मथेन बलिजित्कायः विष्णोर्वपुः पुराणां संहरणे अस्त्रीकृतः ।
यश्चेद्वृन्द्रकलावत् स्तुत्यं च नाम हर इत्याहुः ।
अन्धकासुरक्षयकरः उमाधवो गौरीपतिःसर्वदा त्वां पायात् ।
अत्र हरिहरयोर्द्वयोरपि प्राकरणिकता ।
नीतानामिति ।
लुब्धैर्मधुलंपटैः व्याधैश्च भूरिति क्रियाविशेषणम् एकदा शिलीमुखैर्भ्रमरैः अन्यदा भूरिबाणैः ।
वनं जलं विपिनं च ।
कमलानां पद्मानां मृगाणां च ।
अत्र पद्ममृगयोरप्राकरणिकता ।
स्वेच्छेति ।
विषयो देशकोशादिस्त्र्यादिश्च ।
देहीति वितरेति देहवानिति च ।
मार्गणशतैर्याचकसार्थैः ।
वक्तुं न यातीत्येकदा मार्गणशतैः प्रयोगभेदान् (त्)शतसङ्ख्यैर्बाणैः दुःखं ददातीत्यन्यदा ।
जीवितं जीविका जीवश्चर् ।
इश्वरः दुर्विदग्धः ।
प्रभुरत्र प्राकरणिकतः, अप्राकरणिको मनोभवःष अत्र विशेष्ययोर्द्वयोरुपादानम् ।
उदाहरणत्रये ऽपि योजनायाह-अत्र हरिहरेत्यादि ।
पुनस्त्रैविध्यायाह-एष च शब्दार्थेति ।
उदात्तादीति ।
लौकिकशब्देष्वपि स्वरभेदादेवार्थावगतिः ।
ताल्वोष्ठादिव्यापारः प्रयत्नः अयं शब्दान्यत्वे हेतुः ।
शब्दश्लेषे लिङ्गान्तरमाह-यत्र प्रायेणेति ।
अर्थश्लेषस्तु अन्यथेत्याह-अत एवेति ।
उभयश्लेषमाह-सङ्कलनयेति ।
उभयश्लेषमुदाहरति-रक्तच्छदत्वमिति ।
छदोदलंवासाश्च ।
विकचाः विकस्वराः, कचरहिताश्च ।
जलैःसङ्गतं नालमादधानाः जडजनैःसख्यमलं नादधानाः ।
पुष्पेषु कुसुमानतरेषु रुचिं शोभां पुष्पबाणप्रियतां च ।
उभयश्लेषतां दर्शयति-अत्ररक्तेत्यादि ।
पृथगनुदाहरणे हेतुमाह-ग्रन्थगौरवेति ।
अथास्य सावकाशनिरवकाशादिचर्चाम् आरभते-एष चेत्यादिना ।
अलङ्कारान्तरेष्वप्राप्तेषु अनारभ्यमाणो ऽयं निरवकाशत्वात् बलीयानिति बाधित्वा तत्प्रतिभामात्र मुत्पादयतीति केचित् ।
येन ध्वस्तेति ।
अन्ये पुनः "येन ध्वस्तमनोभवेने"ति अलङ्कारान्तरविविक्तो ऽस्य विषयः इति सावकाशत्वान्नान्यबाधकः ।

मूल पाठ: Alaṃkārasarvasva with Vidyācakravarti's commentary Saṃjīvanī · Edition: S.S. Janaki: Alamkara-sarvasva of Ruyyaka, with Sanjivani Commentary of Vidyacakravartin - Text and Study, Delhi : Meharchand Lachhmandas 1965 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc