अलंकारसर्वस्व · भाग 2140
"ते ऽस्त्यर्था धातवोज्ञेया य उदासीनकर्तृकाः ।
विकुर्वाणप्रयुञ्जानकर्तृका भूकृञर्थकाः " ॥
इति ॥
येषां कर्तारः उदासतेते ऽस्त्यर्थाः ।
येषां विकुर्वते ते भवत्यर्थाः ।
येषां तु प्रयुञ्जते ते करोत्यर्थाः ।
अतोदृशिः प्रयुञ्जानकर्तृकत्वात् करोत्यर्थ एवेति सिद्धम् ।
ननु स्मररिपुदर्शनकौतुकास्तमये प्रकृतनायकदर्शनं हेतुरिति काव्यलिङ्गं किं न स्यादित्यत आह-मतान्तर इत्यादि ।
अस्मद्दर्शने विशेषालङ्कारः, मतान्तरे काव्यलिङ्गं, स्मरणं तु सर्वत्र न भवतीति भावः ।
काव्यलिङ्गत्वाभावे अशक्यकरणात्मा विच्छित्तिविशेषहेतुः ।
स्मृतिःसा स्मर्यते यत्र सदृशात्सदृशान्तरम् ।
असादृश्यादवाच्यत्वादितः प्रेयान्विभिद्यते ॥
इत्थं भेदाभेदतुल्यत्वे ऽलङ्कारान्विविच्य अभेदप्राधान्यमधिचिकीर्षुराह-तदेते सादृश्येत्यादि ।
तत्राप्यारोपमूललङ्काराणां बीजभूतं रूपकमादौ सूत्रयति-
अभेदप्राधान्य आरोप आरोपविषयानपह्नवे रूपकम्
ऽमुखमेव चन्द्रऽ इत्यादौ हि साधर्म्यमभेदप्राधान्यम् ।
चन्द्रत्वाद्यारोपस्य यो विषयो मुखादिः तस्यानपह्नवश्च रूपकालङ्कार इति सूत्रार्थः ।
तदेतद्व्याचष्टे-अभेदस्येत्यादि ।
भेदस्य वस्तुतःसद्भाव इत्यातिशयोक्तितो वैधर्म्यदर्शितम् ।
अथारोप शब्दार्थं विवृण्वन् व्युदसनीयविषयविवेचनपुरस्कारेण विषयमस्य विवेचयति-आरोपो ऽन्यत्रान्येति ।
अन्यत्र हि मुखादौ अन्यस्य चन्द्रादेरध्यवसानमारोपः ।
स च द्विष्ठत्वात् विषयिणा विषयेण चावष्टभ्यते ।
इत्थं द्वौ शब्दौ सिद्धौ ।
यदा चन्द्र एव न मुखमिति विषयस्यापह्नवः तदापह्नुत्यलङ्कारः ।
अनपह्नवे तु रूपकमिति विभागः ।
लक्ष्यपदं निर्वक्ति-विषयिणा विषयस्य रूपवतः करणादिति ।
विषयी विषयं स्वेन रूपेण रूपवन्तं करोतीति रूपकमित्यर्थः ।
उपमातः प्रभृति साधर्म्याधिकारम् अनुस्मारयति-साधार्म्यं त्वित्यादि ।
तत्रार्थे संवादायाह-उपमैवेत्यादि ।
तिरोभूतभेदा नत्वपह्नुतभेदा ।
आरोपमूलस्याध्यवसायमूलेभ्य उत्प्रेक्षादिभ्यो निर्देशप्राथम्यंन्यायतो ऽवस्थापयति-आरोपादभेदेनेत्यादि ।
प्रकृष्यते ।
अतिसादृश्यप्रत्यायनाद्रसस्य प्रत्यासन्नोपकारी भवतीत्यर्थः ।
इतिर्हेतौ ।
यत इत्थमभेदेनाध्यवसायः प्रकृष्यते, अतस्तन्मूलालङ्काराणां विभजनं पश्चात्करिष्यत इति शेषः ।
अत्रेदमनुसन्धेयम् ।
इह यावानलङ्कारवर्गो विवेचयिष्यते, विवेचितचरश्च, स सर्वश्चैव(तस्य सर्वस्यैव?) अत्र रसं(प्रति?)प्रत्यासन्नोपकारिता पुनरारादुपकारिता ।
तत्र यद्यपि प्रत्यासन्नोपकारिणां प्राधान्यं, तथापि तेषां सूक्ष्मतरत्वात् स्थूलालङ्कारपुरस्कारेण व्युत्पादनमिति ।
तद्भेतानाह-इदञ्च निरवयवमित्यादि ।
परम्परितं परम्परायातम् ।
प्रथमग्रहणं प्रभेदान्तरप्रथनोपोद्घातः ।
निरवयवस्य द्वैविध्यं दर्शयति-आद्यमित्यादि ।
केवलं सहचररूपकान्तररहितं मालारूपकं नानारूपकसाहचर्यावस्थम् ।
सावयवस्य द्वैविध्यमाह-द्वितीयं समस्तेत्यादि ।
वस्तुशब्दो ऽत्र पदार्थवचनः ।
समस्तानि निरवशेषाणि विशेषण विशेष्यात्मकानि वस्तूनि विषयो यस्य तत् समस्तवस्तुविषयम् ।
यत्पुनः विशेषणांशे क्वचिन्न क्रियते विशेषणांशान्तरे विशेष्ये च क्रियते तदेकदेश एव विशिष्य वर्तनादेकदेशविवर्ति ।
परम्परितं तु चतुर्धेत्याह-तृतीयं तु श्लिष्टाश्लिष्टेत्यादि ।
श्लिष्टशब्दम् अश्लिष्टशब्दं चेति द्वैरूप्यमनुप्रपद्य प्रतिस्वं केवलं मालारूपं चेति प्रतम इत्यर्थः ।
भेदचर्चां निगमपति-तदेवमष्टाविति ।
केवलनिरवयवं, मालानिरवयवं, समस्तवस्तुविषयं सावयवम्, एकदेशविवर्ति सावयवं, श्लिष्टशब्द केवलपरम्परितं, श्लिष्टशब्दमालापरम्परितम्, अश्लिष्टशब्दकेवलपरम्परितम्, अश्लिष्टशब्दमालापरम्परितञ्चेति ।
यदा तु विशेषणांश रूपणबलादेव विशेष्ये रूपकमर्थादवगम्यते, तदा समासोक्तिरूपकम् ।
यद्वा समासेनोक्तम् ।
एवमादिभेदाः स्थूलतया न प्रतन्यन्त इति आह-अन्येत्वित्यादि ।
दास इति ।
अस्मीत्यहमर्थे निपातः ।
अत्र पुलकाङ्कुराणां कण्टकत्वेन निरवयवरूपणं ।
तच्च रूपकान्तर-साहचर्याभावात् केवलम् ।
पीयूषप्रसृतिरिति ।
दात्रं लवित्रं, लूनिर्लवनं ।
विमनस्कत्वं निशि विरहेणद्विर्भावो द्विरुदयः एतन्मालानिरवयवम् ।
विस्तारशालिनीति ।
पत्रपात्रं पलाशोपरचितममत्रं, भानिताराः ।
भक्तम् अन्नं, धनं शृतम् ।
अत्र ग्राम्यजनोक्तौ समस्तपदार्थविषयत्वात् समस्तवस्तुविषयं सावयवं रूपकम् ।
आभातीति ।
क्षितिभृद्राजा स एव क्षितिभृत् शैलः ।
निस्त्रिंशः खङ्गः स एव तमालवनान्तलेखा ।
अत्र कीर्तीनां हठहृतमहिलात्वमर्थात् प्रतीयत इति एकदेश विवर्ति सावयवम् ।
क्षितिभृत इत्यंशे तु संकरः इत्यभिप्रायेणाह-क्षितिभृत इत्यत्रेत्यादि ।
किं पद्मस्येत्यादि ।
अत्र न हन्ति किमित्यादौ नाञा प्रथमतो हननादिनाषेधः किमिति काक्वा निराक्रियते ।
अतो हन्त्येवेत्याद्यर्थः सम्पद्यते ।
अत्र वक्त्रेन्दुरिति रूपणम् यस्येन्दुनिष्ठस्य पीयूषस्य हेतुः तदधरामृतेन सह श्लिष्टम् ।
इतरथा तदपीहास्तीत्युपन्यासः कथं सङ्गच्छ्रते ।
अत इन्दुरूपणद्वारा भातत्वात् परंपरितं केवलं च ।
तदेतद्दर्शयितुमाह-अत्र वक्त्रेन्दुरूपणेत्यादि ।
विद्वन्मानसहंस इति ।
विदुषां मानसमेव मानसं तत्र हंसः , वैरिणां कमलायाः लक्ष्म्याः सङ्कोच एव कमलानामसङ्कोचः ।
तत्र दीत्पद्युते गभस्तिमालिन् ।
दुर्गाणां नदीशैलादि परिक्षेपवतामावासानां मार्गणमन्वेषणम् ।
तदभाव एव दुर्गायाः कात्यायिन्या मार्गणं तत्र नीललोहितः ।
समितः संग्रामाः ता एव समिध एधांसि तत्स्वीकारे वैश्वानरः ।
सत्ये प्रीतिरेव ।
सत्यां दाक्षायिण्याम् ।
अप्रीतिस्तद्विधाने ।
दक्षः दक्षप्रजापतिः विजये प्राग्भावो ऽग्रेसरता स एव विजयादर्जुनात्प्राग्भावः पुरोजन्म तत्र भीम!वत्सरशतमित्यन्तसंयोगे द्वितीया ।
क्रियाः कुरु ।
अत्र विदुषां मानसेत्वं हंस इति प्रतीतौ कथमस्य हंसत्वमिति विमर्शो जातो, मानसपदे श्लेषमवगमयति ।
तथावगमितेन श्लेषेण हंसत्वमेव व्यवतिष्ठत इति श्लिष्टशब्द परंपरितम्ष ।
तच्च मालारूपम् ।
तदिदमभिसन्धायाह-अत्र त्वमेवेत्यादि ।
समर्थत्वभयावहत्वलक्षणयोरर्थयोराभासनमात्रमेवेति न विरोधः ।
यद्वा तत्र अंशे श्लेष एवास्तु ।
दक्षभीमपदयोः श्लेष एव प्रतीतिविश्रान्तः अंशान्तरमिहोदाहरणमिति सर्वमवदातम् ।
यामीति ।
तरण्डंल्पवः ।
अत्र तरण्डत्वरूपणसिद्धिः ।
जन्मजरामरणानां अर्णवत्वरूपणायत्तेत्यश्लिष्टशब्दरूपणं केवलं परम्परितम् ।
पर्यङ्क इति ।
पर्यङ्को विष्टरः ।
वंशः कुलम्, वेणुश्च ।
स्त्यानं घनम् ।
मुरलोदेशविशेषः ।
सौविदल्लः कञ्चुरी ।
इदं स्पष्टमेवाश्लिष्टशब्दमालापरम्परितम् ।
ननुक्ष्मासौविदल्ल इत्यत्र भूमेः महिष्यादिरूपणमशाब्दमित्यत आह-अत्र क्ष्मेत्यादि ।
किमनेनांशविषमोदाहरणेन प्रयोजनमित्यत आह-एवमादयो ऽपीत्यादि ।
तथापि अत्र समासोक्त्यादिभेदो निरुदाहरणं सूचितम् ।
आभातिक्षितिभृत इत्यत्र सङ्करः ।
क्ष्मासौविदल्लैत्यत्र परंपरितमप्येकदेशविवर्तीत्येवमादयो भेदा इति यावत् ।
न केवलमिदं परंपरितं रूपकम् अन्वयमुखेनैव यावता व्यतिरेकमुखेनापि संभवतीत्याह-इदं चेत्यादि ।
सौजन्येति ।
सौजन्यरूपस्याम्बुनो मरुस्थली अत्यन्तम् असंभवात् ।
सुचरत रूपस्य चित्रकर्मणो गगनभित्तिरनधिष्ठानत्वादित्यनुसन्धेयम् ।
दुराशया दुरभिप्राया दुष्टया लिप्सया च ।
ननु रूपके यस्यारोपस्तस्य धर्मित्वादाविशष्टलिङ्गसङ्ख्याकत्वं युक्तम् ।
तत्राविष्टलिङ्गत्वं व्यात्पम् आविष्टसङ्ख्यात्वं तु क्वचिद्व्यभिचरति ।
तत्र का गतिरित्यत आह - अत्र चारोप्यमाणस्येत्यादि ।
सत्यम्, आविष्टलिङ्गसङ्ख्याकत्वं धर्मिणो युक्तं, तत्र लिङ्गान्यथा करणो गतिरस्ति काचित् ।
सङ्ख्यान्यथाकारस्तु प्रत्येकमारोपादुपपद्यते ।
तदेतदुदाहृत्य हृदयं गमयति-यथाक्वचिदित्यादि ।
दावाग्निषु प्रत्येकमारोपात् ।
कपिलमुनावसत्यपि बहुत्वसङ्ख्योपपत्स्यत इति यावत् ॥
निपवकाशत्वाद्वली श्लेशःसर्वालङ्कारबाध इति सिद्धान्तयिष्यते ।
तेन श्लेषेणरूपकबाध इति सोदाहरणमाह-भ्रमिमरतिमित्यादि ।
भ्रमिः शिरोघूर्णि ररतिरनवस्था ।
आलस्यम् अभीष्टतानिवृत्तिः ।
प्रलय इन्द्रियोपरतिः , मूर्च्छ्रा तेषामान्ध्यं तमो ऽन्तर्धूमायमानता, शरौरसादः अङ्गानामप्रभविष्णुता, मरणं प्रतीतम् ।
तैरेतैः निमित्तैरष्टभिः विषकार्यैरेव गरलरूपोर्ऽथं उद्भाव्यत इति नेह विषशब्दश्लेषो रूपकहेतुकः ।
यथा विद्वन्मानस इत्यादौ ।
किन्तु श्लेषे पूर्वसिद्धे रूपकहेतुः इति ।
एवंविधे विषये श्लेष एव न तु रूपकमित्याहुः ।
न्यायविद इति शेषः ।
यत्त्वभेदप्रधानं स्यात्साधर्म्यं तद्द्विधा मतम् ।
आरोपाध्यवसानाभ्यामारोपे रूपकं भवेत् ॥
वस्तुतो भेदसद्भावाच्छ्रङ्क्या नातिशयोक्तिता ।
विषयस्याना पह्नुत्या न चैतत्स्यादपह्नुतिः ॥
ततो विषयिरूपेण रूपवान् विषये मतः ॥
आरोपणेन क्रियते तेनैतद्रूपकं मतम् ॥
भेदस्तृतीयो यस्तत्र परंपरितसंज्ञकः ।
साधार्म्येणापि तत्सिद्विर्वैधर्म्येणापि दृश्यते ॥
विषय्यारोप्यते येन प्रतिस्वं विषयेषु तत् ।
भवेद्विषयसङ्ख्यात्वं सङ्ख्याभेदे ऽपि धर्मिणोः ॥
रूपकं पूर्वसंसिद्धं श्लेषमुत्थापद्यदि ।
तदा रूपकमेव स्यादन्यथा श्लेष इष्यते ॥
अथ रूपकात्प्रकृतोपयोगलक्षणवैधर्म्यशालिने परिणामालङ्काराय सूत्रम्-
आरोप्यमाणास्य प्रकृतोपयोगित्वे परिणामः
प्रकृतोपयोगित्वं विविच्य दर्शयितुमाह-आरोप्यमाणं रूपकम् इत्यादि ।
आरोप्यमाणं चन्द्रत्वादि ।
प्रकृतोपयोगित्वाभावादिति ।
प्रकृतं मुखादि, तत्रोपयोगित्वं वाक्यार्थानुप्रवेशपर्यन्तमारोपणविवक्षायां स्यात् ।
तद्वि रूपके न्स्ति ।
"मुखमेव चन्द्रऽइत्येतावतैव रूपकत्वसिद्धिः ।
तस्मादारोप्यमाणं चन्द्रत्वादिमुखादौ प्रकृतार्थे ताद्रूप्यप्रतीत्याधानरूपेण उपरञ्जकत्वेनैव रूपकालङ्कारे ऽन्वयं भजते ।
परिणामेत्विति ।
परिणामालङ्कारे पुनः आरोप्यमाणं न केवलं प्रकृतोपरञ्जकं यावता प्रकृतरूपमपह्नुवानं सत्तदात्मत्वेनोपयुज्यते ।
अत इह वाक्यानुप्रवेशान्तम् आरोपविवक्षा ।
सा चाप्रकृतस्य प्रकृतरूपापत्तावेवोपयुज्यते ।
न पुनः रूपकवत् प्रकृतस्य अप्रकृतरूपापत्तौ ।
तदेतदाह-प्रकृतमारोप्यमाण रूपत्वेनेत्यादि ।
अत्रैतदुपह्वरम् ।
आरोपस्य द्विष्ठत्वे ऽपि प्रकृताप्रकृतयोर्नैकविधा वृत्तिः ।
विषय विषयित्वेन विवक्षा नियमात् ।
विषयः खलु आधेयगुण एव भवति ।
विषयी पुनर्गुणाधात्तैव भवति ।
इत्थं च सति विषयित्वारोपणं विषये ताद्रूप्यप्रतीतिमात्रं चेद्विवक्ष्यते, तदा ताद्रूप्यप्रतीति जनकत्व मात्रमु परञ्जकत्वम् इत्ये तावतैव आरोपणस्य चरितार्थता ।
अतस्ताद्रूप्यप्रतीतिमात्र प्रसिद्ध्यर्थं प्रकृतम् (अ)प्रकृत रूपापान्नं भवति रूपके ।
परिणामे तु प्रकृतोपयोगान्तमारोपविवक्षयेति ।
स्वरूपादप्रच्युतस्यैव प्रकृतस्याप्रकृतरूपो पग्राहित्वलक्षणावस्थान्तरापत्तिरेव ।
इतरथा रूपकन्यायेन प्रकृतस्य स्वरूपस्थगनेन प्रकृतमेव न प्रतीयेत ।
का तत्र प्रकृतोपयोगिता? तदभावे च का रूपकस्य विविक्तविषयता? प्रायेणात्र प्राचामाचार्याणाम् अपि व्यामोहकलानुवृत्तिरिति रहस्यमुद्धाटितम् ।
रूपकपरिणामविषयविवेचनस्यात्र संङ्ग्रहायावान्तरश्लोकौ- विषय्याकारमारोप्य विषयस्थगनं यदा ।
रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ॥
यदा तु विषयो रूपात्स्वस्मादप्रच्युतो भजेत् ।
उपयुक्त्यै पराकारं परिणामस्तदा मतः ॥
इति ॥
नन्वयं लक्षणपरिणामः साङ्ख्यैरप्युपवर्णितः ।
तथाहि-धर्मपरिणामो लक्षणपरिणामो ऽवस्थापरिणामश्चेति त्रिधा परिणामः सङ्ख्यातः ।
तत्र लक्षणपरिणामत्किमस्य वैधर्म्यमित्यत आह-आगमानुगमेत्यादि ।
आप्तोक्तिरागमः ।
अनुगमो व्यात्पिः ।
व्यावृत्तिर्विगमः ।
तदभावात्तद्वैलक्षण्यम् ।
न खल्वयं काव्ये लक्षणपरिणामः आगमरूपेण वा अनुमानरूपेण वा ख्या (त इ)त्यलं प्रसंगेन बहुना ।
तत्रापि साङ्ख्ययोगादिशास्त्रविषयेण प्रतिज्ञातं खल्वस्माभिः श्रीगुरुप्रसादसमनन्तरं शैशव एव यथा - "शैवं विष्णुनिबद्धमौपनिषदं साङ्ख्यं सपातञ्जलं ।
शास्त्रं स्वात्महिताय वेद सकलैःसाकं पुराणादिभिः ॥
भूतानां तु विनोदनाय भरतं नीर्ति च वात्स्यायनं ।
षड्भाषाकवितां च लक्षणवतीं श्रीचक्रवर्ती कविः " ॥
इति ॥
स्पर्धया सिसाधयिषु (षून्)दुस्तार्किकजरद्गवान् प्रत्यापहालपरस्य ममायमन्यः श्लोकः- साङ्ख्यं वेश्मनि वेश्मनि श्रुतिशिरः कक्ष्यासु कक्ष्यासु च द्वारि द्वारि शिवागमाः पथि पथि प्राचां कवीनां गिरः ।
पठ्यन्ते यदसूयिभिर्जडदरप्रज्ञैर्जरत्तार्किकैः तत्सर्वं खलु चक्रवर्तिकवितुर्विद्यायशोडिण्डिमः ॥
इति ॥
महाराज वीरबल्लालास्थानजुषां विदुषां प्रसादाशिषो हि मय्येताः प्रथन्ते ।
कास्ताः? संस्कृतसार्वभौमः , प्राकृत पृथ्वीश्वरः शौरसेनी शिरोमणि मगिधीमकरध्वजः षैशाचीपरमेश्वरो ऽपभ्रंशराजहंसो ऽलङ्कारचक्रवर्ती ध्वनिप्रस्थानपरमाचार्यः सहजसर्वज्ञ(ः)परमयोगीश्वरः शैववैष्णवयोगसाङ्ख्यप्रमुखसमस्तस्वात्मविद्यातत्त्वनिष्णा(तः)श्रुताधिगतसमस्तविद्याकलापो ऽद्वैतविद्याविद्वेषिवनदावानल(ः) कलियुगस्कन्द(ः)अभिनवभट्टाचर्यवैदिकविद्याप्रतिष्ठापनपरमाचार्य(ः)काव्यमीमांसाप्राभाकरवादिमृगेन्द्र(ः) वेशष्याभुजङ्ग इत्याद्या महाराजहोसलराज कुलद्वारि प्रशस्ति शिलाशासनप्रभृतिभिः वयमुपशान्तरभसाः ।
अत्र तु ग्रन्थे काव्यमीमां(सा)निकषतां ममोपयान्तु वत्सलाःसचेतसः ।
प्रकृतमनुसरामः ।
सा चायं परिणामालङ्कारो द्विरूप इति व्युत्पादयति-तस्य सामानाधिकरण्येत्यादि ।
तीर्त्वेति ।
धुनी सरित् ।
आत्मना तृतीय इत्यनेन सीतासौमित्रिव्यतिरिक्तपरिजनविसर्जनं प्रत्याय्यते ।
आतरस्तरणपण्यम् ।
तस्मै नाविकाय गुहाय ।
व्यामशब्देन तत्परिमाणामुच्यते तदिह बाहुद्वयं लक्षयति ।
तद्ग्राह्यस्तनीत्वेन तु कृच्छ्रानुयाने हेतुरूपन्यस्तः ।
अत्रातरस्या प्रकृतस्या न केवलं मैत्रीताद्रूप्यप्रतीतिमात्रं विवक्ष्यते, अपि तु नदीतरणप्रत्युपकरणात्मकं प्रकृतोपयोगित्वमपि ।
अतः अप्रकृतस्य प्रकृतरूपापन्नस्य प्रकृतोपयोग इति प्रकृतस्य स्वरूपादप्रच्युतेः परिणामत्वम् ।
तदेतद्दर्शयितुमाह-अत्र सौमित्रिमैत्रीत्यादि ।
समानाधिकरणग्रहणं प्रथमप्रकारत्वप्रथनाय ।
प्रकृतरूपापन्नस्य प्रकृतोपयोग इति परिणामबीजभूतं उपयोगित्वमुद्धाटयितुमाह-भ्रातसस्य मैत्रीत्यादि ।
यत इत्थं सामानाधिकरण्यप्रयोगे परिणामालङ्कारस्य विषयव्यवस्थातस्मात् समासोक्तिसाधर्म्यमस्तीति व्युत्पिपादयुषुरुपक्रमते-तवत्र यथेत्यादिना ।
विशेषणासाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिर्वक्ष्यते ।
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना नसामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद्गलितं न लक्षितम् ॥
अत्रोपोडरागत्वविलोलतारकत्वादिहेतुना नायिकानायकयोः धर्मविशेषः गृहीतः ।
न लक्षित[मि]ति वाक्यानुप्रेशान्तं विवक्षित इति प्रकृतोपयोगी ।
स चारोपविषयभूतसन्ध्यारागनक्षत्रादिरूपेणैवास्ते ।
अनेन प्रकृतस्य स्वरूपादप्रच्युतिर्दर्शिता ।
अतो व्यवहारान्तमारोपः ।
न तु रूपकन्यायेन रूपसमारोपमात्रमित्यंशे परिणामसमासोक्त्योः साधर्म्यमवगन्तव्यमित्यत आह-एवमिहापीति ।
तर्हि किमनयोर्मिथो वैलक्षण्यमित्याह-केवलं तत्रेत्यादि ।
प्रयोगः शब्देनोपादानम् ।
ननु यदि द्वयोः प्रयोगस्तर्हि परिणामत्वमेव कथमित्यत आह-तादात्म्यात्त्विति ।
न खलु तादात्म्ये सति "क्षीरं दधीति" प्रयोगमात्रात् परिणामत्वहानिः ।
वैधर्म्येणोदाहरति-अथ पक्त्रिमतामिति ।
पाको [विक्लित्तिः] ।
पक्त्रिमता प्रयोजनवत् लक्षणप्राचुर्यम् ।
वक्रः पन्थाः ।
तदिश्रितैस्तदवलम्बिभिः ।
तत्परतः तदनन्तरम् ।
अत्र लक्षणयोजनायाह-अत्र राजसङ्घटनेत्यादि ।
उचितग्रहणेन प्रकृतत्त्वं द्योतितम् ।
आरोप्यमाणः प्रकृते यदासावुपयुज्यते ।
परिणामस्तदा तेन रूपकादस्य भिन्नता ॥
रूपमात्रसमारोपाद्रूपके रञ्जको ह्यसौ ।
व्यवहारसमारोपादिह स्यात् प्रकृतान्वयः ॥
परिणामसमासोक्त्योर् ज्ञातव्यो ऽस्माद्विपर्ययः ।
उपादानानुपादानकृतो भेदस्तयोर्मिथः ॥
विषयस्य सन्दिह्यमानत्वे सन्देहः
सङ्गत्यर्थमधिकारम् अनुस्मारयति-"अभेदप्राधान्य इत्यादि" ।
ननु विषयत्वे निर्ज्ञाते ऽकःसन्देह इत्याह-विषय(ः) प्रकृत इत्यादिऽ ।
निर्ज्ञातमेव णुखादिलक्षणं प्रकृतमर्थं भित्ती कृत्य चन्द्रादावप्रकृतेर्ऽथेसन्दिह्यमाने सन्देहस्य द्विष्ठत्वात् प्रकृतोर्ऽथो ऽपि सन्देहडोलामधिरोहति ।
इत्थं प्रकृताप्रकृतगतत्वेन य उत्थाप्यते प्रतिभयैव सन्देहः, स सन्देहो ऽलङ्कारः न तु स्थाणुपुरुषादाविव स्वरसवाही ।
तद्विशेषार्थमाह-स च त्रिविध इत्यादि ।
किं तारुण्येति ।
उत्कलिका उत्कण्ठा समयः सम्प्रदायः उपदेशयष्टिरक्षरनिर्देशदण्डः ।
शृङ्गारी देवी मन्मथः ।
अत्र निश्चयानुपादानात् सन्देहः शुद्धः ।
निश्चयगर्भं विविच्य दर्शयति-निश्चय इति ।
संशयान्ते कथनात् मध्ये निश्चयो निश्चयाभासो ऽनुसन्धेयः ॥
अयं मार्तण्ड इति ।
इतः प्रात्पः ।
सर्वा दिशो न प्रसरतीति ऊर्ध्व ज्वलनैकस्वभाव रूपत्वात् ।
तिरस्तिर्यक् ।
अत्रासङ्ख्य तुरगत्वा दिना मार्तण्डत्वदिसन्देहापगम एव जायते ।
तेन पुनर्नायकस्य शृङ्ग्राहिकया रूपनिर्ज्ञानमिति निश्चयाभासा एते ।
अत एव पुनःसंशयोत् थानमिति निश्चयगर्भता ।
तृतीयं विवेचयति-निश्चयान्तः इत्यादि ।
इन्दुः किमिति ।
परतो निश्चितमिति कथनात् द्वितीयार्धान्ते इत्थं सन्दिह्येत्यध्याहार्यम् ।
क्वचित्पुनर्विषये संशयितव्ये ऽपिर आरोप्यमाणानां धर्माणां विषयान्तरत्वमपि भवतीति आह-क्वचिदित्यादि ।
रञ्जिता इति ।
रञ्जिता वर्णान्तरं नीताः ।
संहृताःसंक्षित्पाः ।
अत्र भिन्नाश्रतां दर्शयति-अत्रारोपेत्यादि ॥
नन्वत्र सम्भावनापि प्रतीयत इति कथं सन्देहालङ्कार इत्यत आह-केचिदध्यवसायेत्यादि ॥
अध्यवसायः उत्प्रेक्षणम् ।
उत्प्रेक्षाश्रयो ऽयं सन्देह इति केचित् ।
उत्प्रेक्षैवेत्यन्ये ।
उभयत्र नुशब्दस्य सन्देहसंभावनाद्योतकत्वमेव हेतुः ।
वस्तुतस्तु नेह संभावनाप्रतीतिः ।
वितर्कस्यैककोटिपक्षपाताभावात् ।
अतो डोलायमानानानाकोटिको ऽयं सन्देह एवेति भावः ॥
सन्देहः प्रकृतद्वाराप्रकृतं संस्पृशेद्यदि ।
प्रतिभोत्थापिता सेयं सन्देहालङ्कृतिर्मता ॥
अथ भ्रान्तिमतः सूत्रम् ।
सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्
सादृश्यहेतुको विपर्ययो भ्रान्ति मानित्यर्थः ।
सङ्गत्यर्थमाह-असम्यग्ज्ञानेत्यादि ॥
लक्ष्यपदं निर्वक्ति-भ्रान्तिश्चित्तेत्यादि ।
चित्तधर्म मात्रस्यालङ्कारता मा भूदित्याशङ्क्याह-सादृश्यप्रयुक्तेत्यादि ।
ओष्ठे बिम्बेति ॥
शोणो मणिर्माणिक्यम् ।
निष्पत्य आलीय सादृश्यादिति यदुक्तं तत्र प्रत्युदाजिहीर्षुराह-गाढमर्मेत्यादि ।
दामोदरेति ।
वक्षोरूपमर्मचूर्णनं नभसः शतचन्द्रत्वेन हेतुः ।
सादृश्यहेतुकापि लोकविलक्षणैव भ्रान्तिरलङ्कारबीजमित्याह-सादृश्यहेतु कापीत्यादि ।
विच्छ्रित्तिरलौकिकी शोभा ।
शुक्तिकारजतवत् ।
शुक्तिकारजते यथेत्यर्थः ।
अलौकिकत्वनयो ऽयं सन्देहे ऽपि समान इति व्युत्पादयति-एवं स्थाणुरित्यादि ।
"सादृश्योत्थापिता भ्रान्तिर्यत्रासौभ्रान्तिमान्मतः ॥
" अथोल्लेखालङ्काराय सूत्रम्-
एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः
एकस्यापि वस्तुनो नानाविधधर्मयोग निमित्तवशादनेकधाग्रहे सत्युल्लेखालङ्कारः ।
तच्च अनेकधात्वं गृहीतृभेदाद्भवति विषयभेदाद्वा भवति ।
तदेतद् व्याचष्टे-यत्रङ्कं वस्त्वित्यादि ।
यत्रोक्तिप्रकारे ।
गृह्यते ज्ञायते ।
उल्लेखनं नुर्धारणम् ।
नानाविधधर्माभावे त्वनेकधाग्रहणमात्रेणा नोल्लेख इत्याह-न चेदमित्यादि ।
एतत्क्रियते, उल्लेखनं निष्पाद्यत इत्यर्थः ।
ननु नानाविधधर्मयोगमात्रान्नोनोकधाग्रहणमनुपश्यामः इत्यत आह-तत्र च रुच्यर्थित्वेत्यादि ।
रुचिरभिरतिः ।
अर्थित्वं लिप्सा ।
व्यत्पत्तिः शब्दार्थमङ्केतज्ञानम् ।
यथायोगमिति ।
योदो योग्यता ।
तामनतिक्रम्य रुच्यादिषु त्रिषु यथायोगमेकं द्वयं त्रयमेव वा प्रयोजकं भवतीतियावत् ।
तत्र संवादायाह-तदुक्तम् ।
यथारुचीत्यादि ।
रुर्च्यर्थित्वव्युत्पत्त्यनुसारेण एकस्मिन्नप्यनुसन्धानेन साधिते निर्धारितेर्ऽथे आभासः प्रतीतिर्भिद्यते ।
नानोल्लेखात्मिका जायत इत्यर्थः ।
यस्तपोवनमित्यादि ।
एक एव श्रीकण्ठजनपदः मुन्यादिभिस्तपोवनत्वाद्याकारेण गृह्यते ।
तथा चानेकधा ग्रहणे तपोवनत्वादिनानाविधधर्मयोगो निमित्तम् ।
जनपदे हि तपोवनत्वादि धर्मा निसर्गत एव सन्ति ।
इतरथा नोल्लेखः ।
रूपकत्वप्रात्पेः ।
लक्षणं योजयति-अत्रह्येक एवेत्यादि ।
समस्ता व्यस्ता इति मुन्यादीनां तपोवना दित्वेनोल्लेखे तथाविधा रुच्यादयो हि समस्ततया व्यस्ततया वा संभवन्ति ।
विषयपरिशुद्ध्यै चोदयति-नन्वेतन्मध्ये इत्यादि ।
वज्रपञ्जरत्वादेर्हि तपोदित्यादि ।
न तावदस्य रूपकविविक्तविषयता नास्ति ।
यत्र त्वंशे रूपकं तत्र यद्युल्लेखात्मिका विच्छित्तिर्न संभवति तदा नास्त्येव विवादः ।
अथ संभवति, तदा सङ्कर एव न्याय्यः ।
न पुनरस्य स्वरूपत एवापलापः शक्यः ।
भ्रान्तिमतो विविक्तविषयतामस्य दर्शयितुम् आक्षिपति-एवं तर्हीत्यादि ।
तत्रोति ।
यो रूपविविक्तः तत्र विषय इत्यर्थः ।
भ्रान्तिमत्त्वशङ्काया बीजमुद्धाटयति-अत द्रूपतेति ।
यद्यपि जनपदे तपोवनत्वादयः सन्त्येव धर्माः ।
वस्तुतस्तु न तद्रूपो जनपदः ।
तस्मादतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनेन भ्रान्तमानस्त्विति यावत् ।
परिहरति-नैतत् ।
अनेकधेत्यादि ।
न ह्यनेकधाग्रहणरूपं वैचित्र्यं भ्रान्तिमानपि स्वलक्षणोपपन्न इत्यत आह-सङ्करप्रवृत्तिस्त्विति ।
अतोशयोक्तिविषयतो ऽप्यस्य विभक्तविषयतायै शङ्कते-यद्येवमभेदे भेद इत्यादि ।
वस्तुतो हितपोवनाद्यवयवापेक्षया न जन पदस्यावयविनो भेदो ऽस्ति ।
इत्थं च सत्यभेदे भेद इत्येवं रूपातिशयोक्तिरत्रास्तु किं मन्यकल्पनेनेत्याक्षेपनिष्कर्षः ।
परिहरति - नौष दोषः ।
ग्रहीतृभेद इत्यादि ।
न ह्यतिशयोक्तौ ग्रहीतृभेदेपयोगः ।
अत्र पुनरुपयोग इति ।
नातिशयोक्तिमात्रमेतत् ।
न च ग्रहीतृभेदस्याप्रयोजकत्वंशङ्क्यमित्याह-तस्य चेत्यादि ।
यत इत्थमतः सर्वथा नास्यान्तर्भावः शक्यक्रियः ।
रूपकासङ्कीर्णतयोदाहरति-णाराअणोत्तीति ।
नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभैः ।
बालाभिः पुनः कौतुकेन एवमेव दृष्टः ।
अत्र पुरः प्रवेशावसरे एक एव कृष्णो जरतीभिः साक्षान्मोक्षप्रदो नारायण इतिदृष्टः ।
तासां रुच्यादेस्तथाविधत्वात् ।
तरुणीभिः पुनः लक्ष्म्याः प्राणवल्लभघ इति ।
बालाभिः पुनः कौतुकेन एवमेव दृष्टः ।
एवमेवेति निपातो यत्किञ्चिदित्यर्थे विवक्षितः ।
न चात्र शङ्कनीयं कौतुकेनेति प्रयोजकान्तरोपादानान्नेह रुच्यादयः प्रयोजका इति ।
कौतुकस्यापि रुच्या दिकमन्तरेणासंभवात् ।
एवं ग्रहीतृभेदादुदाहृत्य विषयभेदादुदाहरति-एवं गुरुर्वचसीत्यादि ।
वचसि विषयभूते गुरुः प्रामाणिकत्वात् अनुल्लङ्घ्यो वाचस्पतिश्च ।
तथोरसि पृथुः प्रथीयान् पृथुनामा नृपश्च ।
यशस्यर्जुनो ऽवदातो धनञ्जयश्च ।
इत्यादौ ह्येक एव उपवर्ण्यो नायको वचः-प्रमुखर्विषयभेदाद्ग्रहीतृभेदनैरपेक्ष्येण रुच्यादिवशात् अनेकधा गृह्यत इत्युल्लेखालङ्कारत्वम् ।
प्रकारद्वयस्यावान्तरवैधर्म्यायाह-इयांस्त्वित्यादि ।
अत्रोल्लेखाभावम् आशङ्कते-नन्वयमित्यादि ।
श्लेषस् सर्वालङ्कारबाधकत्वं हि वक्ष्यते ।
अतो लक्षणोपपन्नम् अलङ्कारान्तरं सति श्लेषे न स्यादिति नात्रोल्लेखो युक्त इत्याक्षेपः ।
परिहरतिसत्यमित्यादि ।
सत्यम् ।
उक्तनयेन श्लेषेणोल्लेखो बाध्यते ।
अथापि स्वरूपेण अविद्यमानस्य बाधासंभवात् बाध एवोल्लेखसद्भावे लिङ्गम् ।
अनेकधा ग्रहणारूपविच्छित्तिविशेषबलात् प्रतिभात्युल्लेख इति यावत् ।
यत इत्थमतो न तु सर्वथा तदभाव इत्यलङ्कारान्तरमेव ।
एतदेव साधयितुम् अत्रैवोदाहरणे श्लेषनैरपेक्ष्यं दर्शयति-यदेवंविध इत्यादि ।
अत्र "अनुल्लङ्घ्यो वचसि, प्रथीयान् उरसि, निर्मलो यशसि" इति श्लेषाभावे ऽपि न उल्लेखाभावः ।
यस्मादित्थं तस्मादेवमादौ विषये उल्लेखालङ्कार एव विशेषविच्छित्तिक इति अलङ्कारान्तरापेक्षया श्रेयान् प्रशस्यतर इत्यर्थः ।
इत्थं रूपकातिशयोक्तिश्लेषादिविच्छित्त्याश्रयत्वन्यायेन अलङ्कारान्तरविच्छित्त्याश्रयोणाप्ययं संभवति ।
स तु स्वयमनुसन्धेयः ।
न्यायस्य व्युत्पादितत्वात् इत्यभिप्रायेणाह-एवमलङ्कारान्तरेत्यादि ।
निदर्शनीयः उदाहरणीयः ।
क्वचित् कारकान्तरेति पाठः ।
नानाधर्मबलादेकं यदि नानेव गृह्यते ।
नानारूपसमुल्लेखात्स उल्लेख इति स्मृतः ॥
यदेकं तद्धि नानेति गृह्यते रूपभेदतः ।
रुच्यादिवशतो लोके नानात्वं चेदकृत्रिमम् ॥
अतद्रूपस्य ताद्रूप्यान्नह्यासौ भ्रान्तिरिष्यते ।
न चाप्यतिशयोक्तिःस्यादभेदे भेदरूपिणी ॥
आद्ये नानेकधत्वं स्याज्ज्ञातृभेदौ न चान्तिमे ।
विषयज्ञातृभेदाभ्यां विना नोल्लेखसंभवः ॥
यद्यपि श्लेषतो बाधो न तथाप्यस्य निह्नवः ।
अनपेक्ष्यापि यच्छ्रलेषं तथैव स्थातुमर्हति ॥
अथापह्नुत्यै सूत्रम् ।
विषयापह्नवे ऽपह्नुतिः
ननु मुखं न भवतीति विषयापह्नवमात्रे सत्यपि नापह्नुतिरित्यतो ऽधिकारं स्मारयति-वस्त्वन्तरप्रतीतिरित्येवेति ।
अतः प्रकृतनिषेध पुरस्कारेण अप्रकृतसमर्थनमपह्नुतिरित्यर्थः ।
तथाहि काव्यप्रकाशकृत्- "प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः ।
" ननु यदि सादृश्याद्वस्त्वन्तरप्रतीतिरिहापि को विशेषः तर्ह्यस्य भ्रान्तिमत इत्यत आह-प्रकान्तानपह्ववेत्यादि ।
प्रक्रान्तं प्रकृतम् ।
तस्य ह्यत्रापह्नुवः ।
भ्रान्तिमत्यनपह्नव इति विशेषः ।
उल्लेखे तु न प्रकृतानपह्नवमात्रं विशेषः किन्तु अनेकधाग्रहणमपि ज्ञेयम् ।
इदमिति वचनं क्रियाविशेषणम् ।
यत्त्वेवमिदमपह्नुतिवचनं तत्प्रक्रान्तानपह्नववैधर्म्येणेत्यर्थः ।
लक्षणं निष्क्रष्टुमाह-आरोपप्रस्तावादित्यादि ।
आरोपप्रस्तावो रूपकात्प्रभृतीति ॥
तत्प्रकारवैचित्र्यायाह-तस्य त्रयीत्यादि ।
त्रयी त्रिप्रकारेत्यर्थः ।
बन्धच्छायाग्रथ नवैचित्र्यम् ।
त्रैविध्यं विविनक्ति-अपह्नवपूर्वक इत्यादि ।
छ्रलादयः छ्रलछ्रद्मकैतवनिभादयः ।
तैरपि हि नञर्थ एव अवस्थाप्यते ।
तर्हि तृतीयभेदे को विच्छ्रित्तिविशेषः इत्यत आह-पूर्वक इत्यादि ।
यदेतदिति ।
नो मां प्रति तथेति प्रकृतापह्नवः उत्तरार्धे ऽप्रकृतसाधनमिति ।
यद्यपि अपह्नुतिरेषा तथापि दोषानुविद्धत्वात् उदाहरणाभास इत्यत आह-अत्रैन्दवस्येत्यादि ।
शशक प्रतिवस्त्विति ।
अपह्नोतुमिष्यस्य शशकस्य यः प्रतिवस्तुभूत उल्कापातकिणः तस्यैवारोपो न्याय्यः ।
न पुनस्तद्वतः इन्दोःअतो नान्वयः संघटते ।
इत्थं लक्षणोपपन्नो ऽपि अलङ्कारो दोषानुविद्धःसन् आभासी भवतीति व्युत्पाद्य सम्यगुदाजिहीर्षुराह-तत्तु यथेति ॥
पूर्णोन्दोरिति ।
दृष्टश्रुताद्यपराधजन्मा रोषो मानः ।
तेनोन्नद्धः उत्सिक्तो जनः शृङ्गारी लोकः तस्याभिमानःसान्त्वासहिष्णुता ।
हेवाकः स्वाच्छ्रन्द्यम् ।
अत्र न मण्डलम् अपि तु आतपत्रमेवेत्यन्वयो घटते अयमपह्नवपूर्वक आरोपः ॥
आरोपपूर्वकमुदाहरति-विलसदमरेति ॥
संयमो मनोनिग्रहः ।
तेनाधःकृतान्याक्रान्तानि ।
अत्र नेत्रषण्डानि अध्यास्ते ।
न तु मयूरे वर्तत इत्यारोपपूर्वकता ।
उद्भ्रान्तेति ।
सार्धं धावतामित्यनेन यशसस्तत्प्रदेशव्यात्पिः समकालमेव सूचिता ।
मुक्ताफलच्छ्रद्मना ।
अम्भः कणैर्भष्टमित्यत्र हि न मुक्ताफलानि, अपि तु अम्भः कणा एवेति प्रतीतिः ।
इत्थमेवापह्नुतिम् उत्प्रेक्षाङ्गत्वेन प्रतिपिपादयुषुरुपक्षिपति-अत्र शून्यं इत्यस्य इत्यादि ॥
"मन्ये मरावि"त्यादि पाठे हि मन्येशब्दमाहात्म्यादुत्प्रेक्षा ।
छद्मशब्दतस्त्वपह्नुतिः सा चोत्प्रेक्षाङ्गं भविष्यति ।
इत्थमुत्प्रेक्षाङ्गत्वं न केवलं तृतीयभेदस्यैव, यावता पूर्वभेदद्वयस्यापि संभवतीत्याह अहं त्विन्दुमित्यादि ॥
वाक्यभेदग्रहणं प्राथमिकभेदद्वयप्रथनाय ।
इत्थं त्रिरूपाप्यपह्नुतिरुत्प्रेक्षाङ्गत्वेन सूचिता ।
ननु च्छ्रलादिप्रयोगे ऽप्यपह्नवारोपपौर्वापर्यविपर्ययनिबन्धनं वैचित्र्यं किं नोच्यत इत्यत आह-एतस्मिन्नपीति ॥
अत्रेदमाकूलम् ।
यद्यपह्नवारोपपौर्वापर्यविपर्ययेभेदद्वयं भवत्येव, न तु चमत्कारः कश्चित् ।
नहि भेदसंभवो ऽलङ्कारप्रथनहेतुरपि तु सचमत्कारभेदसंभवः ।
सचमत्कारता च सति वाक्यभेदे स्यात्, एकवास्यतायां तु च्छ्रलादि शब्दस्य पौर्वापर्यविपर्ययप्रसङ्गे ऽपि न प्रतीतिभेदःकश्चित् ।
क्रियाविशेषणत्वेन क्रियापेक्षया प्रतीतौ प्राथम्यनियमात् अथ श्छ्रालादिप्रयोगे द्विधा न गणितम् ।
वैचित्र्याभावमेव सोदाहरणं दर्शयितुमाह-तत्रापह्नवेत्यादि ।
समनन्तरमिहोक्तप्रतियोगिकम् उद्भ्रान्तोज्भ्फतेत्यत्रेति याव्त् ।
ज्योत्स्ना भस्मेति ।
छुरणामुद्धूलनम् ।
अन्तर्धानं रात्रिपक्षे तिरस्कृतिः विलयः, अन्यत्र त्वद्दश्यत्वसिद्धिः ।
मुद्रा भिक्षापिण्डस्तदर्थं कपालं मुद्राकपालम् ।
परिमल(ः)परिमर्दस्तेन तज्जनितं लक्ष्म लक्ष्यते ।
यथाच्छ्रलादिप्रयोगेण अर्थाक्षेपात् असत्यत्वं, तथा प्रकारान्तरेणापि संभवतीत्याह-क्विचित्पुनरित्यादि ।
वस्त्वन्तरं प्रकृतापह्नवक्षमम् ।
अमुष्मिन्निति ।
अत्र हि धूमशिखा रोमावलिवपुः परिणमतीत्युक्तौ , न रोमावलिरपितु धूमशिखेति प्रतीयते ।
अनेनैषा प्रतीयमानापि दर्शिता मन्तव्या ॥
प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः ।
नञाच्छ्रलादिशब्दैश्च सा शब्दान्तरतस्त्रिधा ॥
स्याद्भेदाभेदतुलया विच्छित्तिरूपमादिकः ।
रूपकाद्स्त्वभेदांशे मुख्ये त्वारोपसंश्रयात् ॥
तामेव सङ्गतिं विशदीकुर्वन् उत्प्रेक्षाप्रस्तावायाह-एवमभेदप्राधान्य इत्यादि ।
आरोपमूला रूपकादयो अपह्नुत्यन्ताः ।
अध्यवसायगर्भास्तु उत्प्रेक्षादयः ।
अत एव टीका -तत्रेति ।
अध्यवसायगर्भेषु मध्ये इत्यर्थः ।
अथ सूत्रम् -
अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा
अध्यवसायो निश्चयज्ञानम् ।
स च लोके द्विरूपः सम्यगात्मा मिथ्यारूपश्च ।
उभयरूपो ऽप्ययं नालङ्कारः ।
नहि शुक्तिरिति सम्यगध्यवसाये रजतमिति मिथ्याध्यवसाये वा विच्छित्तिः काचित् ।
उभय विसक्षणास्तु जानतो ऽप्येतस्मिन् तदेवेति यो ऽध्यासरूपस्य इहालङ्कारत्वेन परिगृङ्यते ।
तस्यैव अलौकिकस्य विच्छित्तिरूपत्वात् ।
तस्य च द्वयी गतिः ।
कदाचिदध्यवसायात्मनः स्वरूपस्य प्राधान्यं, कदाचिदध्यवसितस्य विषयस्य ।
इत्थं च सत्यध्यवसाये विषयभूते यदा अध्यवसानस्य प्राधान्यं तदोत्प्रेक्षालङ्कार इति सूत्रार्थः ।
तदेतदवयवशो व्याचष्टे-विषयनिगरणेनेत्यादि ।
निगरणं निगलनम् ।
स्वरूपतो ऽपलापैत्यर्थः ।
विषयं निगीर्णवतो विषयिणो विषयितादात्म्येन प्रतीतस्य इहाध्यवसायो अभिमत इति यावत् ।
अनेनालौकिकस्यैवाध्यवसायस्य अलङ्कारबीजत्वं दर्शितम् ।
व्यापारप्राधान्यग्रहणस्य व्यावर्त्यमुद्धाटयितुमाह- स च द्विविध इत्यादि ।
तत्र साध्यस्य स्वरूपमाह-साध्यो यत्रेत्यादि ।
साध्य - इति यदैकं वाक्यमाक्षिप्तेन तच्छब्देनार्थेनाभिसंबन्धः ।
उत्तरवाक्यगतो ऽपि यच्छब्दः पूर्ववाक्याच्छब्दोपादाननिरपेक्ष एव तदर्थेन सम्बन्धमीष्टे ।
यत्र विषयिणो ऽसत्यतया प्रतीतिः स साध्य इत्यर्थः ।
अत्रेदमनु सन्धेयम् ।
मुखं मुखत्वेन जानन्नेव यदा नूनं चन्द्र इति संभावयति तदा विषयी चन्द्रो मुखत्वेनासत्यः प्रतिभाति तदाध्यवसायः साध्यः ।
ननु साध्य एवास्तु अध्यवसायः सिद्धो वा, अभेदप्रतीतौ कथमसत्यत्वं इत्यत आह- असत्यत्वं चेत्यादि ।
विषयिगतस्य चन्द्रादिगतस्य माधुर्यादेः धर्मस्य विषये, मुखादावुपनिबन्धे, नूनं चन्द्र इत्यस्यां दशायां विषयिण्येव संभवत्ययं विषथयेतु न संभवतीति प्रतीयमानत्वात् ।
विषयविषयिणोरभेदस्फुरणे ऽपि धर्मस्यासत्यताप्रतीत्या न प्ररोहति ।
अतो ऽध्यवसानव्यापारस्य साध्यता ।
ननु को धर्मः? किंप्रमाणा चासौ? तदाश्रयस्य सत्यत्वासत्यत्व प्रतीतिरित्यत आह-धर्मो गुणक्रियारूपः इत्यादिना ।
गुणक्रियारूप इति धर्मस्य साकल्यकथनात् तदुभयमूलतया उत्प्रेक्षासंभवस्मूचितः ।
अस्य हि धर्मस्य संभवो ऽसंभवश्च विषय्याश्रयतया संभवः असंभवस्तु विषयाश्रयतया ।
इत्थं च सति सत्यत्वासत्वप्रतीतिर्नाप्रामाणिका ।
कुतः? संभवाश्रयस्य तत्रावस्थायां परमार्थबुद्ध्यनुदयात् असत्यत्वं प्रतीयते ।
यतस्तदितरस्य तु सत्यत्वमेव परमार्थत्वात् ।
चर्चितमर्थं निष्कर्षयति-यस्यासत्यत्वमित्यादि ।
अतश्चेति ।
यत इत्थमध्यवसायः साध्यः अतः उत्प्रेक्षायामध्यवसायव्यापारस्यैव प्राधान्यमित्यर्थः ।
अथ सिद्धं विवेचयति-सिद्धो यत्रेत्यादि ।
सिद्ध इति पूर्ववदेकं वाक्यम् ।
स इति द्योतितः को ऽसावित्यत आह - यत्र विषयिणो वस्तुत इत्यादि ।
यदा तु मुखमुद्दश्य चन्द्रो ऽपमिति प्रयोगः तदा वस्तुतो ऽसत्यो ऽपि विषयी सत्यतया प्रतीयते ।
सत्यत्वप्रतीतेर्हेतुमाह-सत्यत्वं चेत्यादि ।
संभवाश्रयस्य अपरमार्थत्वप्रतीतिरसत्यत्वस्य निमित्तम् ।
यत इत्थमतश्चाध्यवसितस्यार्थस्यैव प्राधान्यं, तदातिशयोक्तिर्वक्ष्यते ।
यदा साध्यत्वप्रतीतिः तदाध्यवसायस्य पर्यायान् व्युत्पादयति - तत्र साध्यत्वेति ।
चर्चितलक्षणानिष्कर्षणम्-तदेवमित्यादि ।
तस्याःसामान्यतस्तावद्द्वैविध्यमाह-सा च वाच्येत्यादि ।
तत्रापि सामान्याच्चातुर्विध्यं दर्शयति-सा च जातिक्रियेत्यादि ।
अध्यवसेयत्वेन संभव्यत्वेन ।
नन्वप्रकृतग्रहणं किम्? प्रकृते ऽप्येवं संभवादित्यत आह-प्रकृतस्यैतदित्यादि ।
प्रकृतं हि लौ किकं कविकॢत्प विच्छ्रत्तिविधुरतया न वैचित्र्याय ।
भेदचतुष्टयमपि द्विधा दर्शयति-प्रत्येकं च भावाभावेत्यादि ।
भावरूपा संभावना अभावरूपा चेति ।
अयं व्यापारभेदाद्भेदः ।
पूर्वं व्यापारवद्भेदात् व्यापारनिमित्तभेदादाह-भेदाष्टकस्य चेत्यादि ।
भेदषोडशकमपि निमित्तोपादानानुपादानाभ्यां द्विगुणायति-तेषां चेत्यादि ।
अथ संभाव्यस्य हेत्वादि रूपतया पुनस्त्रैविध्यमाह-तेषु च प्रत्येकमित्यादि ।
वा(च्यां)निगमयति-एषा गतिरित्यादि ।
तत्रापोह्य अंशायाह- तत्रापि द्वव्यस्येत्यादि ।
पातनोयाः हापनीयाः ।
प्रतीयनामां विभक्तुमाह-प्रतीयमानायाश्चेत्यादि ।
उद्देशत एतावन्त ।
लक्षणापरीक्षयोस्तु कृतयोः कतिचन हीयन्त इति भावः ।
ये हीयन्ते तान् प्रस्तौतितथापि निमित्तस्येत्यादि ।
तैरिति (निमित्ता)नुपादाननिबन्धनैः ।
अयं प्रकार इति प्रतीयमानोत्प्रेक्षाप्रकारः इत्यर्थः ।
निमित्तानुपादानं न संभवतीति यत्प्रतिज्ञातं तत्प्रमाणो न द्रढयति-इवाद्यनुपादान इत्यादि ।
इवाद्यनुपादाननिमित्तकीर्तनयोरन्यतराभावे न किञ्चित्प्रमाणामुत्प्रेक्षणे ।
अनुपात्तनिमित्तका हि या वाच्योत्प्रेक्षा तस्याम् इवाद्युपादानबलादेवोत्प्रेक्षणप्रतीतिः ।
इह पुनरिवाद्यनुपादानवन्ध्यायां प्रतीयमानायां निमित्तबलादेवेति निमित्तोपादाननियमः ।
स्वरूपोत्प्रेक्षणमपि न संभवतीत्याह-प्रायश्चेत्यादि ।
प्रायोग्रहणात् पर्यायोक्तनयेन स्वरूपस्य क्वचित्संभवदप्युत्प्रेक्षणं गम्यस्यापिभङ्ग्यन्तराभिधानान्न निरापणार्हमिति द्योतितम् ।
प्रतीयमानां निगमयतितदेवमिति ।
यथासंभवं संभवमनतिक्रम्य ।
तथा हि प्रतीयमानोत्प्रेक्षा तावत् वाच्योत्प्रेक्षाप्रकृतिका ।
वाच्योत्प्रेक्षाषण्णावतिधोद्दिष्टा ।
यथा जातिगुणक्रियाद्रव्याणाम् उत्प्रेक्ष्यत्वेन चतस्र उत्प्रेक्षाः ।
जातयः प्रतिस्वं चतुर्विशतिधा प्रथन्ते ।
यथा जात्युत्प्रेक्षा तावत् भावाभावाभिमानरूपतया द्विधा ।
द्विविधापि गुणनिमित्तिका, क्रियानिमित्तिका च ।
इत्थं चतुर्धा ।
साचोपात्तनिमित्तानुपात्तनिमित्ता चेत्यष्टधा ।
अष्टविधापि हेतुस्वरूपफलोत्प्रेक्षारूपतया त्रिविधा इति चतुर्विशतिप्रकारा ।
अनेनैव नयेनान्यदप्युत्प्रेक्षात्रयं प्रत्येकं चतुर्विशतिधामन्तव्यम् ।
तथा च प्रत्येकं त्रिस्कन्धिका एता हेतुस्वरूपफलोत्प्रेक्षणतया स्कन्धत्रयमपि प्रतिस्वमष्टविधम् ।
तथा हि उपात्तगुणनिमित्ता भावाभिमानरूपिणी हेतुजात्युत्प्रेक्षा ।
सैवानुपात्तगुणनिमित्ता ।
तथोपात्तक्रियानिमित्ता, सैवानुपात्तक्रियानिमित्ता चेति भावाभिमानरूपतया चतुर्धा ।
एवमभावाभिमानरूपतया चतुर्धेति हेतूत्प्रेक्षास्कन्धो ऽष्टविधः ।
अनयैवरीत्या स्वरूपोत्प्रेक्षास्कन्धः फलोत्प्रेक्षास्कन्धश्च प्रतिस्वमष्टविधेति जात्युत्प्रेक्षा त्रिस्कन्धतया चतुर्विशतिधा ।
एवं गुणक्रियाद्वव्योत्प्रेक्षापि प्रत्येकं चतुर्विशतिधा विज्ञेया ।
तत्र द्वव्योत्प्रेक्षायां हेतुफलोत्प्रेक्षापातेषोडशकहानिः ।
अतः स्थूलदृशा तावत् अशीतिविधा वाच्या ।
प्रतीयमानायां तु अनुपात्तनिमित्ताया निरवशेषं पाते अष्टचत्वारिशद्धानिः ।
उपात्तनिमित्तायां च स्वरूपोत्प्रेक्षापाते षोडशकहानिः ।
अतो द्वर्त्रिंशद्भेदाः प्रतीयमाना मन्तव्याः ।
उभयरूपायामपि अस्य वैचित्र्यान्तरायाह-एषा चेत्यादि ।
अर्थाश्रयापि अर्थालङ्कारो ऽपीत्यर्थः ।
धर्मोगुणक्रियात्मको विषयो यस्य सः ।
श्लिष्टशब्दः कश्चिद्धेतुर्भवत्यस्याः ।
उत्प्रेक्षा ह्यर्थालङ्कारः ।
श्लेषः पुनरुभयालङ्कारो ऽलङ्कारान्तरबाधकश्च ।
तथापि धर्मविषयेश्लिष्टशब्दहेतुका संभवत्येषा न बाध्यते, न चोभयालङ्कारप्रात्पिरिति यावत् ।
यथेत्थं श्लेषमुत्प्रेक्षाङ्गं तथोपमापि अङ्गमस्याः भवतीत्याह-क्वचित्पदार्थान्वयेत्यादि ।
पदार्थसमन्वयदशायाम् उपमयोपक्रमः ।
तथोपक्रान्ताप्युपमावाक्यार्थतात्पर्यपर्यालोचनमहिम्ना अभिमन्तुःसंभावयितुर्व्यापारो ऽपारोहक्रमेणसंभावनव्यापारस्य प्रतीतिविश्रान्त्यन्तं उपर्युपरि प्रसरपरिपाट्या उत्प्रेक्षायां पर्यवस्यति ।
अथ अपह्नुतिप्रस्तावः ।
उत्प्रेक्षाङ्गत्वेन यदपह्नुतिः प्रतिज्ञान्ता, तस्या अयमवसर इत्यभिप्रायेणाह-क्वचिच्छ्रलादि इत्यादि ।
इत्थंये प्रकाराः उक्ताः, ये च वक्ष्यन्ते तेषां वैचित्र्यादस्या इयत्तैव नास्तीत्याह-अतश्चोक्तवक्ष्यमाणेत्यादि ।
ननु यद्यानन्त्यं कथमुदाहरणतो दर्शयिष्यते इत्यत आह-साम्प्रतन्त्वित्यादि ।
दिङ्मात्रेणेत्यादि ।
यथा दिङ्मात्रेणोदाहृता अपि न्यायतःसाकल्येन ज्ञातुं शक्यते, तथेति यावत् ।
उद्देशक्रममाविश्चिकीर्षुराह-तत्र जात्युत्प्रेक्षा यथेति ।
स वः पायादिति ।
कुटिलत्वलक्षणो गुणो निमित्तम् ।
अङ्कुरशब्दो जातिवचनः ।
अत उपात्तगुणनिमित्तिका भावाभिमानरूपिणी जात्युत्प्रेक्षेयम् ।
तत्र यद्यपि स्वरूपमुत्प्रेक्ष्यते न तु हेतुफले, अथाप्युद्देशक्रमविरोधात्सोंऽशो नोदाजिहीर्षितः ।
एवमुदाहरणेषुदाहर्तव्या विशेषांशाः स्वयमनुसन्धेयाः ।
क्रमस्याविवक्षणात् नास्माभिः प्रतिस्वं प्रतन्यन्ते ।
अत्र जात्युत्प्रेक्षात्वं विविच्य दर्शयति-अत्राङ्कुरेत्यादि ।
अथ क्रियोत्प्रेक्षा-लिम्पतीवेत्यादि ।
क्रियोत्प्रेक्षात्वं विवेचयति-अत्र लेपनेत्यादि ।
न च मन्तव्यं वर्षणस्य नभःकर्तृकत्वात् न तमोगतत्वमिति ।
नभसो ऽपि तमसाधिष्ठिन्तस्यैव वर्षणकर्तृकत्वसंभवादनेन परंपरायाताया अपि सम्भावनाया उत्प्रेक्षात्वं द्योतितम् ।
ननूत्तरार्धानुदाहरणे को हेतुरित्यत आह-उत्तरेत्वित्यादि ।
उपमैव नोत्प्रेक्षेति ।
अत्रैतदुपह्वरम्-उपमानांशश्चेल्लोकतः सिद्धस्तदोपमैव द्वयोःसिद्धत्वादिवशब्दः साधर्म्यद्योतकः ।
यदा तु कविकल्पितः तदोत्प्रक्षैव ।
उपमानस्य लोकतो ऽसंभवादिवशब्दः संभावनां द्योतयति यतः ।
अत्रावान्तरश्लोकौ- यदायमुपमानांशो लोकतःसिद्धिमृच्छ्रति ।
तदोपमैव येनेवशब्दः साधर्म्यसूचकः ॥
यदा पुनरयं लोकादसिद्धः कविकल्पितः ।
तदोत्प्रेक्षैव येनेवशब्दःसंभावनापरः ॥
इति ॥
अथ गुणोत्प्रेक्षा-सैषास्थलीति ।
इयं प्रतिष्ठमानस्य दाशरथेः सीतां प्रत्युक्तिः ।
गुणोत्प्रेक्षात्वं दर्शयति-दुःखं गुणं इति ।
अथ द्रव्योत्प्रेक्षा-पातालमेतदिति ।
द्रव्यत्वं दर्शयति-चन्द्रस्येत्यादि ।
उदाहरणचतुष्के ऽपि अनुगतं विशेषम् उद्धाटयति-एतानि भावाभिमान इत्यादि ।
अथाभावाभिमाने-कपोलफलकाविति ।
कष्ट कृच्छ्रात् ।
तथाविधाविति ।
स्वनुभवैकसमधिगम्यो रमणीयातिशयोद्योत्यते ।
क्षामतागमनं नैसर्गिकम् ।
परस्परदर्शनाभावो हेतुत्वेनोत्प्रेक्ष्यते ।
अत एवाभावाभिमानरूपना ।
तदेतद्दर्शयति-अत्रापश्यन्तावितीत्यादि ।
न्यायस्य सुज्ञानत्वात् ।
स्थालीपुलाकन्यायेनोदाहरणमात्रमिति न व्युत्क्रमदोषः शङ्कनीयः ।
क्रमापेक्षया तु जात्याद्युत्प्रेक्षापुरस्कारेणोदाहर्तव्यम् ।
तदेतदभिसन्धायाह-एवं जात्यादावप्यूह्यमिति ।
इत्थं जात्यादि चतुष्कम् अभावाभिमानरूपतयोदाहृतम् ।
अथ भेदाष्टकस्य गुणक्रियानिमित्ततोदाहर्तव्या ।
तत्र गुणनिमित्तकत्वेनोदाजिहीर्षुराह-नवबिसलतेत्यादि ।
तद्विवेचितचरम् ।
एवं गुणनिमित्तकत्वं क्रियाद्युत्प्रेक्षात्रये स्फुटतरत्वादुदाहरणनिरपेक्षनित्यभिसन्धाय क्रियानिमित्तकत्वेनोदाहरतिर्-इदृक्षमित्यादि ।
क्षामता गमनलक्षणक्रियाह्यदर्शनोत्प्रेक्षाया निमित्तम् ।
इयता षोडशकमुदाहृतं मन्तव्यम् ।
अथ निमित्तोपादानानुपादानाभ्यां षोडशकस्य यद्द्वैविध्यं प्रतिज्ञातं तत्र निमित्तोपादानस्य समनन्तरोदाहरणान्येवोदाहरणत्वेन दर्शयति - एते निमित्तेत्यादि ।
कुटिकत्व क्षामतागमनयोरुपादानादनुपादानमप्युदाहृतेष्वेव दर्शयति-लिंपतीवेत्यादि ।
अत्र लेपनादित्वेन संभावने व्यापनादि निमित्तं नोपात्तम् ।
इयता द्वात्रिंशद्भेदा उदाहृताः ।
अथ द्वात्रिंशद्धेतुफलस्वरूपात्मकतया त्रिधोदाहर्तव्या ।
तत्र हेतुरूपतयोदाहरति-विश्लेषदुःखादिवेत्यादि ।
अत्र दुःखगुणो हेतुत्वेनोत्प्रेक्षितः ।
इत्थं जातिक्रिये हेतुत्वेनावगन्तव्ये ।
द्रव्योत्प्रेक्षायां तदभावात् तन्निबन्धनम् अष्टकं पातनीयम् ।
अथ स्वरूपतयोदाहरति-कुबेरजुष्टामित्यादि ।
जुष्टां सेविताम् ।
कुबेरजुष्टा दिगुदीची, सा प्रतिनायिकात्वेनानुसन्धीयते ।
समय एकदर्तुविशेषः ।
अन्यदात्वनन्यत्र गमनलक्षणाः संकेतः ।
दक्षिणस्यां दिशि नायिकात्वमनुसन्धीयते ।
व्यलीकम् अपराधः ।
अत्र निश्वासस्य स्वरूपमेवोत्प्रेक्ष्यं, न तु हेतुः फलं वा ।
इत्थं गुणोत्प्रेक्षादित्रये स्वरूपात्मकत्वं ज्ञेयम् ।
अथ फलवोत्प्रेक्षा-चोलस्येत्यादि ।
अत्र दर्शनक्रिया विपाटनफलत्वेनोत्प्रेक्ष्यते ।
इत्थं जातिगुणयोरपि फलत्वमनुसन्धेयम् ।
द्रव्योत्प्रेक्षायां हेतुफलासंभवात् तन्निबन्धनं षोडशकं पातनीयम् ।
इत्थमशीतिविधापि वाच्योत्प्रेक्षा साकल्येनोदाहृतकल्पैव ।
तदेतन्निगमयन्नाह-एवं वाच्योत्प्रेक्षाया इत्यादि ।
अथ प्रतीयमाना परिपाट्योदाह्रियते-महिलासहःसेत्यादिना ।
महिलासहस्रभरिते तव हृदयेसुभग! सा अमान्ती ।
दिवसमनन्यकर्मा अङ्गं तन्वपि तनयति ॥
दिवसमित्यत्यन्तसंयोगे द्वितीया ।
प्रतीयमानामुत्प्रेक्षामुद्धाटयति-अमा(अ)न्तीत्यत्रेत्यादिना ।
न्यायस्य सुज्ञानत्वात् विस्तरभीरुराह-एवं भेदान्तरेष्विति ।
अर्थाश्रियापि धर्मविषये श्लिष्ट शब्दहेतुका संभवतीति योद्दिष्टा तामुदाहरति-श्लिष्टशब्देत्यादि ।
अनन्येति ।
प्रसिद्धस्त्यागीति गानप्रकारः ।
मार्गणाःशाराः याचकाश्च ।
लक्ष्ययोजनायाह-अत्र धर्मविषय इति ।
मार्गणविषयीभावो धर्मः संभावनाशं एव प्रतीतिविश्रान्तेः श्लेषो नोत्प्रेक्षाबाधकः ।
कस्तूरीति ।
रोलम्बाभृङ्गाः ।
अङ्कः पर्यान्तः ।
स्थासकश्चर्चिका ।
उपमोपक्रमतामुपपादयति-अत्र यद्यपीत्यादि ।
"सर्वप्रातिपदिकेभ्य उपमानार्थे क्विप् इत्येके आचार्या" इति सूत्रार्थः ।
अत्र क्विपो माहात्म्यादुपाप्रतीतापि संभावनायां पर्यवस्यतीति ।
कण्ठत्विषां तिलकादिरूपत्वनियमासिद्धेः तिलकादिरूपतापि कदाचित्स्यादुपमानांशे संभावनाप्राणत्वमेव नतु वास्तवत्वम् ।
अत उत्प्रेक्षायां पर्यवसानम् ।
तदिदमभिसन्धायाह-तथाप्युपमानस्येत्यादि ।
उपमानस्य तिलकादेः प्रकृते कण्ठत्विङ्रुड्पे संभवैचित्यात् संभावनमात्रस्योचितत्वात् ।
संभावनस्योत्थाने उत्प्रेक्षणस्योदयात् ।
अथोपमार्थकप्रत्ययान्तरप्रयोगे ऽपि उपमोपक्रमत्वं दर्शयितुमाह-यथा वेत्यादि ।
केयूरायितमित्यत्रापि हि क्यङ्गो माहात्म्यादुपमा प्रतीतिरङ्गदादेः ।
केयूरादिवदाचरणे नियमाभावात् तथात्वसंभावनायाम् उत्प्रेक्षैव पर्यवस्यति ।
अथोपमानांशस्य वस्तुतो ऽसिद्धस्य कविकल्पनायातत्वे सर्वैवोपमा (प्रतिपादक)शब्दमाहात्म्यादामुखे प्रतीताप्युत्प्रेक्षात्वेन पर्यवस्यतीत्यभिसन्धायाह-एषा चेत्यादि ।
अप्रपञ्चने हेतुमाह- इति त्विति ।
गतासु तीरमिति ।
ससंभ्रमा गतिः फेनोल्लासहेतुः ।
अत्रेवशब्दादट्टहासस्य संभाव्यता ।
यत्तु व्यक्तिविवेककृदीद्दशि विषये मन्यते-"इवादिशब्दैरेव प्रकृतार्थस्यासत्त्वप्रतीतेः छ्रलादिशब्दाः पुनरक्ता" इति तत् मन्दम् ।
न खल्वीद्दशि विषये छलादिशब्दाप्रयोगे ऽपि प्रकृतार्थस्यासत्यासत्यता गम्यते ।
अपि तु उत्प्रेक्षां प्रति हेतुभाव एव ।
यथा अत्रैव "फेनपरंपराभि"रिति पाठे ।
अतःसापह्नवत्वलक्षणमुत्प्रेक्षावैचित्र्यं छ्रलादिप्रयोगैकशरणम् ।
तदेतदभिसन्धायाह-अत्रेवशब्देत्यादि ।
अथोत्प्रेक्षाया एव प्रपञ्चनार्थं तत्तदलङ्कारबीजभूत तत्तत्पदावापोद्धाराभ्याम् अलङ्कारवैचित्र्यमाविर्भवतीति व्युत्पादयति-अपर इवेत्यादिना ।
अपरशब्दाप्रयोगे ऽपि पाकशासनः सिद्धतया प्रतीयत इत्युपमैव ।
तत्प्रयोगे तु प्रकृतो राजैव अपरपाशासनत्वेनाध्यवसीयते ।
इवशब्दाञ्चाध्यवसानस्य साध्यतेत्युत्प्रेक्षैव ।
इव शब्दापोहे रूपकभेदप्राधान्यप्रतीतेः ।
इत्थं नानावैचित्र्यनिर्भरायामस्यां कुत्रचिदंशे नियमेन वाच्यता, कुत्रचित्तु कामचारः इति व्युत्पिपादयिषुर्हेतूत्प्रेक्षां तावत् व्युत्पादयति-तदेवंप्रकारेत्यादिना ।
प्रकृतसंबन्धिनः उपमेयसंबन्धिनः ।
यस्य धर्मस्य हेतुरुत्प्रेक्ष्यते, स धर्मो ऽध्यवसायवशात् अभेदोपचरणवशात् अभिन्न उत्प्रेक्षानिमित्तमाश्रीयते नियमेन वाच्यो भवति ।
अस्योपमानधर्मेण सहाभेदाश्रयणं वाच्यत्वं वेति नियमद्वयमनुसन्धेयम् ।
यदैवं न स्यात् तदोत्प्रेक्षमाणो हेतुरभित्तिकमेव चित्रं स्यादित्याह-अन्यथा कं प्रतीति ।
तामिमां व्यवस्थामुदाहरणतो हृदयं गमयति-यथा अपश्यन्तावित्यादिना ।
अत्र कपोलौ प्रकृतौ तत्संबन्धी धर्मः क्षामता तद्धेतुत्वेन दर्शनमुत्प्रेक्षतम् ।
तदुत्प्रेक्षणे च न केवला कपोलक्षामता निमित्तम्, अपि तु लोके परस्परमद्रष्ट्रोर्या क्षामता तदभिन्नत्वेना ध्यवसिता सैवं चोत्प्रेक्षिता दर्शनलक्षणस्य हेतोः फलम् ।
तददमभिन्धायाह-अत्र कपोलयोरित्यादि ।
तच्च भिन्नमिति फलदशायाम् अभेदेनाध्यवसीयत इत्यर्थः ।
अदर्शनं प्रत्य प्रकृतैव हि क्षामता फलं, तत्र निमित्तं हेतूत्प्रेक्षणे प्रयोजकम् ।
परस्परमद्रष्ट्रोर्यत्क्षामतागमनं तेन सहाभेदेनाध्यवसितमित्यर्थः ।
इयमभावाभिमानरूपक्रियालक्षणा हेतूत्प्रेक्षा ।
एवं भावाभिमानरूपलक्षणाहेतूत्प्रेक्षायामपि न्यायःसमान इत्याह-एवम् दृश्यतेत्यादिना ।
अत्रापि हि नूपुरगतमौनित्वस्य हेतुत्वेन दुःखमुत्प्रेक्षितम् ।
तदुत्प्रेक्षणे च लौकिकदुःखमौनत्वाभेदेनाध्यवसितं नूपुरमौनित्वमेव निमित्तं दुःकोत्प्रेक्षणफलं च ।
इयं प्रक्रिया सर्वत्रैव हेतूत्प्रेक्षायामेकरूपेत्याह-एवं सर्वत्रेति ।
अथ स्वरूपोत्प्रेक्षायां क्वचिद्धर्मीं धर्म्यन्तरगतत्वेनाध्यवसीयते ।
क्वचित्तु धर्म एव धर्म्यन्तरगतत्वेन ।
तत्रोभयत्रापि निमित्तांशः कदाचिद्वाच्यो भवति ।
कदाचित्तु नेतिविवेचयुतुमारभते - स्वरूपोत्प्रेक्षायां यत्र धर्मीत्यादिना ।
स वः पायादित्यादि ।
अत्रेन्दुकलाकपालाङ्कुरयोः साधर्म्यस्यासिद्धत्वात् ।
कुटिलत्वलक्षणस्य शब्देनोपादानम्, "वेलेव रागसागरस्ये"त्यत्र तु संक्षोभकारितायाः प्रसिद्धत्वादनुपादानम् ।
अथ धर्मस्य धर्मिगतत्वेनाध्यवसाने निमित्तोपादानानुपादाने दर्शयति-यत्र च धर्मं एवेत्यादि ।
प्राप्याभिषेकमिति ।
द्विषां भूरिति समन्वयः ।
अत्र धर्मसंभावनं, निमित्तोपादानञ्च विवेचयति-अत्र भूगतत्वनेत्यादि ।
लिप्मतीवेति ।
निमित्तानुपादानं विवेचयति-अत्र तमोगतेत्यादि ।
ननु धर्मे धर्मोत्प्रेक्षणवैचित्र्याय व्यापने लेपनमुत्प्रेक्ष्यतामित्यत आह-व्यापानादौ त्विति ।
निमित्तमन्यदन्वेष्यं स्यादिति ।
यथा लेपनोत्प्रेक्षणे व्यापनं निमित्तत्वेन गम्यते, न हि तथा व्यापनोत्प्रेक्षणे निमित्तमन्यदवगम्यते ।
अतो ऽनवगतस्य कल्पनमवगतस्य परित्याग इति दोषद्वयमापतेदिति भावः ।
देषान्तरमप्युद्भावयति-न च विषयस्येति ।
यदि व्यापनमेव उत्प्रेक्षणविषयः न हि तस्यगम्यमानता युक्ता ।
तत्र हेतुः - तस्योत्प्रेक्षिताधारत्वेनेति ।
उत्प्रेक्षितम् उत्प्रेक्षिणं, तदाधारत्वेनाभिधातुं , प्रस्तुतस्याभिधातुमेवोचितात्वात् ।
अतो लेपनमेवोत्प्रेक्ष्यमिति निगमयति-तस्माद्यथोक्तमेर्वेति ।
अथ फलोत्प्रेक्षायां निमित्तानुपादानम् असंभवमित्यारभते-फलोत्प्रेक्षायामित्यादि ।
तस्य फलस्य यदेव लोकस्थित्या कारणं , तदेवोत्प्रेक्षणनिमित्तम् ।
तच्चेन्नोपादीयेत, तदेवोत्प्रेक्ष्यमाणं फलं कस्य फलतयोक्तं स्यात् ।
अतः फलोत्प्रेक्षायां निमित्तोपादाननियम एव ।
तदिदमुदाहृत्य दर्शयति-रथस्थितानामिति ।
अत्रोत्तरदिशस्तुरगोत्पत्तिभूमित्वात् तद्गमनं पुरातनतुरङ्गपरिवर्तने हेतुः ।
तदेवोत्प्रेक्षणनिमित्तम् ।
तदनुपादाने परिवर्तमानं उत्प्रेक्ष्यमाणं कस्य फलं स्यात् ।
तदिदमभिप्रेत्याह-अत्र परिवर्तनस्येत्यादि ।
अनेनाशीचिलिधत्वेन दृष्टेषु प्रभेदेषु पुनः केषाञ्चित् पातोदर्शितः ।
तथाहि-उपात्तनिमित्ता ये षोडषभेदास्तेषां प्रतिस्वं हेतुस्वरूप फलोत्प्रेक्षणरूपत्वे अष्टचत्वारिंशत् ।
द्रव्ये हेतुफलोत्प्रेक्षा पाते ऽष्ट कहानिरिति चत्वारिंशत् ।
अनुपात्तनिमित्तत्वे तु षोडशकेहेतुफलरूपताभावात् स्वरुपोत्प्रेक्षैकरूपतैवेति षोडशैव ।
अतः तत्षट्पञ्चाशदेव प्रभेदाः ।
यदित्थमियमुत्प्रेक्षा अतिसूक्ष्मेक्षिकया प्रपञ्चिता ।
तत्र-हेतुमाह-तदसावित्यादि ।
कक्ष्याविभागो जातिगुणादिरूपतया स्थितः ।
प्रचुरस्थितो ऽपि अनाकुलन्यायतया प्रभूतवृत्तिरपि ।
लक्ष्ये दुःरवधारत्वात् उत्तानधियां लक्ष्ययोजनान्तमशक्याधिगमत्वात्(न)प्रपञ्चित इत्यर्थः ।
अथ मन्येप्रमुखस्य शब्दस्य संभावनाद्योतकत्वे ऽपि तत्प्रयोगमात्रेणोत्प्रेक्षाभ्रमो न कार्य इति व्युत्पादयति-अस्याश्चेत्यादि ।
उत्प्रेक्षासामग्रयभाव इति ।
अप्रकृतगतगुणक्रियाभिसम्बन्धात् अप्रकृतत्वेन प्रकृतसंभावनमुत्प्रेक्षासामग्री ।
तदभावे वितर्को नूनमित्यभ्यूहमात्रम् ।
तदिदमनुस्मारयति-यथोदाहृतं प्रागित्यादि ।
अत्र संग्रहश्लोकाः - गुणक्रियाभिसम्बन्धात्प्रकृते ऽप्रकृतात्मना ।
संभावनं स्यादुत्प्रेक्षा वाच्येवाद्यैः परान्यथा ॥
जातिक्रियागुणद्रव्योत्प्रेक्षण सा चतुर्विधा ।
भावाभावाभिमानत्वे जात्यादेःसाष्टधा पुनः ॥
गुणक्रियानिमित्तत्वे ज्ञेया षोडशधा तथा ।
द्वात्रिंशच्च निमित्तस्योपादानादन्यथा स्थितेः ॥
हेतौ स्वरूपे चोत्प्रेक्ष्ये फले षण्णावतिः पुनः ।
द्रव्यहेतुफलात्मत्वासंभवात्तद्भिदाच्युतिः ॥
तथा प्रतीयमानायां निमित्तस्यानुपग्रहः ।
नापि स्वरूपं तैर्भेदैः तस्मान्न्यूना भवेदियम् ॥
क्वचिच्छ्रलेषेण धर्मांश गतेर्नैषा न बाध्यते ।
उपमोपक्रमाप्येषा भवेत्सापह्नवापि च ॥
अथोत्प्रेक्षां निगमयन् अतिशयोक्तिं सङ्गतिपुरस्कारेण प्रस्तौति-एवमध्यवसायस्येति ।
सिद्धत्व इति ।
अध्यवसितस्य विषयिणः प्राधान्ये अध्यवसायस्य सिद्धत्वम् ।
अथ सूत्रम्-
अध्यवसितप्राधान्ये त्वतिशयोक्तिः
उत्प्रेक्षातिशयोक्त्योः विषयं विभक्तुमाह-अध्यवसाये त्रयमित्यादि ।
स्वरूपमध्यवसानं व्यापारात्मकम् ।
विषयः प्रकृतोर्ऽथः विषयी त्वप्रकृतः ।
तत्राध्यवसायस्वरूपम् उत्प्रेक्षाप्रस्तावे विवेचितम् ।
प्रतीतिवैशद्याय स्मारयति-विषयस्य हीत्यादि ।
अन्तर्नीतत्वे निगीर्णत्वे ।
तत्रोत्प्रेक्षाविषयं विभजति-शाध्यत्वे स्वरूपप्राधान्यमिति ।
अतिशयोक्तिविषयं विभजति-सिद्धत्वे अध्यवसितप्राधान्यमिति ।
अध्यवसितो गुणीकृताध्यवसानो विषयी ।
विषयस्तु प्राधान्यं नार्हतीत्याह-विषयप्राधान्यमिति ।
नैव संभवतीति विषयस्य ।
विषयिणानिगीर्णस्वरूपप्रतीतिरेव तिरोधीयते ।
प्राधानयसंभवः कुत इति भावः ।
अतिशयोक्तिलक्षणं निगमयति-अध्यवसितप्राधान्ये चेति ।
तद्भेदानुद्दिशति-तस्याश्चेत्यादि ।
क्रमेणोदाहरणानि-कमलमनम्भसीति ।
अत्र मुखनयनगात्रलक्षणान्विषयान् निगीर्य कमलकुवलयकनकलतालक्षणा विषयिणः तदभेदेनाध्यवसिताः ।
भेदे ऽभेदं विवृणोति - अत्र मुखादीनामित्यादि ।
अण्णं सडहेति ।
अन्यत्सौन्दर्यमन्यापि च कापि वर्तनच्छ्राया ।
श्यामा सामान्यप्रजापते रेखैव न भवति ॥
लडहत्वं प्रौढत्वम् ।
अभेदे भेदं दर्शयति-अत्र लडहेत्यादि ।
अत्राभेदे भेदो धर्मनिष्ठ एकविषयो दर्शितः ।
धर्मिनिष्ठतया विभिन्नविषयतया च दर्शयितुमाह-यथावेति ।
णाराणोत्तीति ।
"नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः ।
बालाभिः पुनः कौतुकेन एवमेव दृष्टः" ॥
इत्यत्र परिणातवयस्कानां श्रीवल्लभत्वाभेदे ऽपि नारायण इति (भे)देन दृष्टस्तथैवाभिरुचेः ।
मूल पाठ: Alaṃkārasarvasva with Vidyācakravarti's commentary Saṃjīvanī · Edition: S.S. Janaki: Alamkara-sarvasva of Ruyyaka, with Sanjivani Commentary of Vidyacakravartin - Text and Study, Delhi : Meharchand Lachhmandas 1965 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0