भाषा

ENहिગુ
ग्रंथ पाठ

अलंकारसर्वस्व · भाग 120

श्रीमद्विद्याचक्रवर्तिविरचिता सञ्जीवन्याख्या व्याख्या विश्वं प्रकाशयति या जातिगुणाद्यात्मकैः निजैः प्रसरैः ।
संस्कारगुणसमृद्धा वाणी मामवतु सरलसन्दर्भी ॥
रुचकाचार्योपज्ञे सेयमलङ्कारसर्वस्वे ।
सञ्जीवनीति टीका श्रीविद्याचक्रवर्तिना क्रियते ॥
उदाहरणशेषो ऽत्र ध्वनौ ग्रन्थकृताकृतः ।
तदीयन्यायसम्पनैः स्वपद्यैः पूरयामि तम् ॥
ध्वनिदर्शनानुरक्ताः सूक्ष्मेक्षिकया निरीक्ष्य टीकां मे ।
कवयःसचेतना अपि वितनुत साहित्यसाम्राज्यम् ॥
किं विस्तरेण बहुना टीकां सञ्जीवनीमिमां कश्चित् ।
यद्यभ्यसूयति जडः स्वमेव पाण्डित्यमभ्यसूयति सः ॥
तत्र तावदधिकृतेष्टदेवतानमस्कार पुरस्कारेण प्रकरणप्रतिपाद्यमर्थं प्रतिजानीते नमस्कृत्य परमिति ।
सर्वैव खल्वियं वाक् परा पश्यन्ती मध्यमा वैखरीति चतुर्भिः पदैः परिमीयते ।
यच्छुतिः - "चत्वारि वाक्परिमिता पदानि"इत्यादिका ।
तत्र परा नाम निरुपधिकं रूपम् ।
पश्यन्त्यादीनि त्रीणि पुनरौपाधिकानि स्थूलत्वात् विग्रहस्थानीयानि ।
यथा चागमः-
स्वरूप ज्योतिरेवान्तः परा वागनपायिनी ।
यस्यां दृष्टस्वरूपायाम् त्रधिकारो निवर्तते ॥
अविभागेन वर्णानां सर्वकतःसंहृतक्रमा ।
प्राणाश्रया तु पश्यन्ती मयूराण्डरसोपमा ॥
मध्यमा बुद्ध्युपादाना कृतवर्णपरिग्रहा ।
अन्तःसञ्जल्प रूपा सा न श्रोत्रमुपसर्पति ॥
ताल्वोष्ठ व्यापृत्ति व्यङ्ग्या परबोधप्रकाशिनी ।
भनुष्यमात्रसुलभा बाह्या वाग्वैखरी मता ॥
इति ॥
तत्र पश्यन्त्याद्य परवाक्त्रयापेक्षया ज्येष्ठत्वादाद्य परा ।
द्वितीया विश्वाभिमुखीभावात्पश्यन्ती ।
तृतीया नाभ्यन्तरी न च बाह्येति कृत्वा मध्यमा ।
तुरीया तुपरावबोधार्थं प्रवृत्तेति वैखरी ।
यद्वा "खं सुखं दुःखं च; तद्विशिष्य राति ददातीति विखरो देहेन्द्रियसङ्घातः तत्र भवा वैखरीति" ज्ञेयम् ।
तदेवाभिसन्धायोक्तम्-वाचं त्रिविधविग्रहामिति ।
चतुर्विधामपि ।
कीदृशीं देवीम्? परादिभिश्चतुर्भिः पदैः क्रीडन्तीं नामपूर्वकत्वात् सर्वस्यैव रूपस्य जगदेतद्विजिगीषमाणां समस्तव्यवहारात्मिकां स्वरूपावबोधक्षमतया द्युतिमयीमन्यस्तुतौस्तोतव्यतायां च प्रभवन्तीमविमर्शान्धतमस ध्वंसनात् कान्तिमयीमप्रतिहतप्रसरत्वात् गत्यात्मिकाञ्चेत्यर्थः ।
तामिमां नमस्कृत्य ।
नमस्कारो हि नाम पृथगहङ्कारपरित्यागेन नमस्कर्तव्यमहिमोद्घाटनं सामरस्यमिति यावत् ।
तथाहि-येयं परा सा शक्तत्वम् ।
या पश्यन्ती सोद्युक्तता ।
या तु मध्यमा सा प्रवृत्तता ।
या पुनर्वैखरी सा निर्वाहकतेति ।
शक्तिमतो वक्तुरेव स्वरूपं परादिशक्तयः ।

इत्थमिमां वाचं नमस्कृत्य निजानां स्वेनैव प्रणीतानाम् अलङ्कारसूत्राणां तात्पर्यमुच्यते ।
हृदयमुद्घाट्यते ।
केन प्रकारेण? वृत्त्या वृत्ति स्वरूपेण सन्दर्भेण ।
अथ ध्वनिदर्शनानुसारेण प्रकारणं प्रणिनीषुः भामहोद्भटादीनां दर्शनस्थितिं पूर्वपक्षत्वेनो पन्यस्यति-इह हि तावद्भामहोद्भटेत्यादिना ।
अत्रेयं दर्शनस्थिति दिक् ।
काव्यं हि नाम विशिष्टशब्दार्थात्मकम् ।
तत्रार्थो वाच्यः, प्रतीयमानश्च ।
यथा- भम धंमिअ वीसत्थो सो सुणाओ अज्ज मारिओ देण ।
गोलाणै कच्छ कुडङ्ग वासिणा दरिअ सीहेण ॥
अत्र स्वैरिण्युक्तौ श्वभयनिवृत्त्या धार्मिकभ्रमणाविधिर्वाच्यत्वेन स्थितः, साक्षात्सङ्केतितत्वेना व्यवधान प्रतीतिकत्वात्; गोदावरीतीरे सिंहोपलब्ध्या भ्रमणनिषेधस्तु प्रतीयमानः, वाक्यार्थसमन्वयसमनन्तरमसङ्केतितत्वेन प्रतीतेः ।
इत्थं वाच्यविलक्षिणः प्रतीयमानो योर्ऽथः स यथायोगं रसवस्त्वलङ्कारस्वरूपेण त्रिस्कन्धः सन् सचमत्कारत्वात् कविसंरम्भ गोचरत्वात् सहृदयप्रतीति विश्रान्तिविषयत्वाञ्च काव्यात्मा ।
तस्य माधुर्यादयो गुणाः शौर्यादिवत्समवायवृत्त्या उपकुर्वते ।
उपमादयः पुनः कटकादित्संयोगतवृत्त्येति ध्वन्याचार्याः ।
त्रिविधो ऽपि प्रतीयमानो वाच्योपस्कारकत्वादलङ्कारकक्ष्यैवेत्यन्ये ।
अथ ग्रन्थमवयवशो व्याकुर्मः ।
इह काव्यमार्गे ।
अलङ्कारपक्ष निक्षिप्तं मन्यन्ते, तत्त्वं पुनरन्यथेति यावत् ।
यन्मन्यन्ते तत्सविशेषं दर्शियितुमाह-तथाहीत्यादिना ।
पर्यायोक्तमप्रस्तुतप्रशंसा समासोक्ति राक्षेपः व्याजस्तुतिरुपमेयोपमा अनन्वयः इत्यादिषु वस्तुमात्रमेव प्रतीयते न तु रसालङ्कारौ ।
व्यञ्जनाव्यापारस्येह लक्षघणामूलत्वात् ।
लक्षणामूलत्वे रसालङ्कारयोर्व्यङ्ग्यत्वासम्भवात् ।
तत्र प्रतीयमानलस्यार्थस्य प्रकारान्तरेणाभिधानं पर्यायोक्तम् ।
यद्वक्ष्यति "गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्" इति ।
यथा- स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः ।
सावघज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥
अत्र हयग्रीवस्य स्वर्गविजयः सैनिकसावघज्ञपारिजातमञ्जरी स्पर्शलक्षणेन कार्येण प्रत्याय्यते ।
सामान्यविशेषभावादीनां सम्बन्धेन यदप्रस्तुतात्प्रस्तुतप्रतीतिः सेयमप्रस्तुतप्रशंसा ।
यद्वक्ष्यति - "अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा" इति ।
यथा- तण्णात्थिं किंपि पहणो पकप्पियं जं ण णिऐ घरणीए ।
अणावरअगमणसीलःस कालपहिअःस पाहिज्जं ॥
[कन्नास्ति किमपि पत्युः प्रकल्पितं यन्न नियतिगृहिण्या ।
अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ॥
इति च्छ्राया] ।
अत्र अनवरतगमनशीलस्य पत्युर्निजगृहिण्या पाथेयत्वेन यन्न कल्पितं तद्यथा नास्ति, तथा कालपथिकस्य पाथेमत्वेन यदकल्पितं तन्नास्तीत्यत्र कालःसव ग्रसतीति सामान्यरूपादप्रस्तुतात् प्रस्तुतो विशेषात्मा प्रहस्तवधः प्रत्याय्यते ।
विशेषणासाम्यादप्रस्तुतोर्ऽथो यदवगम्यते सा समासोक्तिः ।
यद्वक्ष्यति-"विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः" इति ।
यथा- उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद्गलितं न लक्ष्यितम् ॥
अत्रोपोढरागत्वादिना विशेषणसाम्येनाप्रस्तुतो नायकवृत्तान्तः प्रतीयते ।
उक्तस्य वक्ष्यमाणस्य वा प्राकारणिकस्य विशेषप्रतीत्यर्थम् आभासतो निषेधनमाक्षेपः ।

यद्वक्ष्यति उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः इति ।
यथा - बालग्र!णाहं दूरि तीए पिओसित् ति णाम्हवावारो ।
सा मरै तुज्भ्फ अयसो एअं धंमक्खरं भणिमो ॥
[ऽबालक!नाहं दूति तस्याः प्रियो ऽसीति नास्मद्व्यापारः ।
सा म्रियते तवायश एतद्धर्माक्षरं भणामः ॥
इति च्छ्राया ऽ] अत्र ऽनाहं दीतितिऽ दीतित्वनिषेधो विशिष्टास्मि दूतीत्यवगमयति ।
स्तुतिनिन्दयोः निन्दास्तुतिगमकत्वे व्याजस्तुतिः ।
यद्वक्ष्यति-"स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः" इति ।
यथा - हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥
अत्र मरोरुपकारं करोषीति स्तुतिर्निन्दामवगमयति ।
उपमानोपमेययोः पर्यायेण तथात्वं चेदुपमेयोपमा ।
यद्वक्ष्यति- "द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा" इति ।
यथा-ऽखमिव जलं जलमिव खं हंसश्वन्द्र इव हंस इव चन्द्रःऽ ।
अत्रोपमानोपमेयभावविनिमयः तृतीय सब्रह्मचारिणां निवर्तयति ।
एकस्यैवोपमानोपमेय भावकत्वे ऽनन्वयः ।
यद्वक्ष्यति-"एकस्यैवोपमानोपमेयत्वे ऽनन्वय" इति ।
यथा -ऽयुद्धे ऽर्जुनोर्ऽजुन इव प्रथितप्रभावःऽ-इति ।
अत्र द्वितीयसब्रह्मचारिनिवृत्तिः ।
आदि शब्दाल्लाटानुप्रासादि परिग्रहः ।
एषु पर्यायोक्तादुषु यदेतद्वस्तुमात्रं प्रतीयते स्वर्गविजयादिकं रसालङ्कारपरिहारेण तदिदं सर्वैरपि प्रमाणैरात्मत्वेना वभासमानमेव सद्गज निमीलिकया वाच्यापस्कारकत्वेन तैरुद्भटादिभिः प्रतिपादितम् ।
न्यग्भावितवाच्यस्य वाच्यकक्ष्यातिलङ्घिनः कथमस्तु वाच्योपस्कारकत्वमिति भावः ।
केन प्रकारेण प्रतिपादितम्? "स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्" इति द्विविधया भङ्ग्या ।
भङ्गि प्रकारः ।
अत्रायमाशयः ।
लक्षणमूलो ऽयं पर्यायोक्तादिषु प्रतीयमानोर्ऽथः ।
लक्षणा च द्विरूपा-अजहत्स्वार्थैका "कुन्ताः प्रविशन्ति" इत्यादौ ।
परा तु जहत्स्वार्था "गङ्गायां घोषः" इत्यादौ ।
तत्राजहस्त्वार्थायां कुन्तानां स्वतः प्रवेशासंभवे कौन्तिकान् आक्षिप्य प्रवेशसंभवः ।
अतःस्व सिद्धये परानाक्षिपतीति तत्र लक्षणा ।
स्वकीय प्रवेशादेःसिद्धये परस्य कौन्तिकस्याक्षेप इति ।
जहत्स्वार्थायां तु गङ्गादेर्मुख्यार्थस्यात्यन्तमनुपपत्तिरेव ।
अतः परार्थं स्वसमर्पणमिति लक्षणम् ।
परार्थं तटादेर्घोषाद्यधिकरणार्थं स्वसमर्पणं स्वस्वरूपपरित्याग इति ।
इत्थं च सतिस्पृष्टास्ता नन्दनऽ इति पर्यायोक्तोदाहरणे सैनिकानां सावज्ञपारिजातमञ्जरीस्पर्शः स्वर्गविजयमनाक्षिप्य न संभवतीति कुन्तादिनयेन स्वसिद्धये पराक्षेपः ।
एवम् "उपोढरागेण" इति समासोक्त्युदाहरणे ऽपि ज्ञेयम् ।
नायकत्वाक्षेपे सति निशादेः तिमिरांशुकादियोगसंभवात् अजहत्स्वार्थत्वम् ।
अथ "तं णात्थी" ति अप्रस्तुतप्रशंसोदाहरणे मुख्यार्थस्याप्रस्तुतत्वात्; "बाळग्रणाहम्"इत्याक्षेपोदाहरणे दूतीत्वनिषेधस्याभासरूपत्वात् "हे हेलाजिते" ति व्याजस्तुत्युदाहरणे खजलयोर्द्वयोरपि चैकस्यानेकत्त्वलाभाभावात् मुख्यार्थस्य अत्यन्तमनुपपत्तिरेव ।
अतः परार्थं स्वसमर्पणामिति लक्षणम् ।
तमिमं विषयविभागम् अभिसन्धायोक्तम्-यथायोगं द्विविधयेति ।

योगो योग्यता तामनतिक्रम्येत्यर्थः ।
इत्थं वस्तुध्वनौ विमतिर्भामहादिषु दर्शिता ।
अथ रुद्रटे रसालङ्कारध्वन्योर्विमतिमुपन्यस्यति-रुद्रटेनापीत्यादिना ।
भावालङ्कारः प्रेयो ऽलङ्कारः स द्विधैवोक्तः ।
तथा हि- यस्य विकारः प्रभवन्नप्रतिबन्धेन हेतुना येन ।
गमयति तदभिप्रायं तत्प्रति बन्धं च भावो ऽसौ ॥
इति ॥
भावस्थितिभावशान्तिरूपेण रुद्रटो भावालङ्कारं द्विधैवोक्तवान् ।
तदिदम् उत्प्रेक्षावत् कृत्यमिति भावः ।
यतो भावासङ्कारस्य सन्धिशबलतादि लक्षणा अपि भेदाः संभवन्ति ।
वक्ष्यति हि - भावोदय सन्धिशबलताश्च पृथगलङ्कारा इति ।
रूपकादिष्वपि उत्तानदर्शितामुद्घाटयति-रूपकदीपकेत्यादि ।
रूपकं दीपकम् अपह्नुतिस्तुल्ययोगिता ।
आदिशब्दान्निदर्शनादिकं च लक्षयिष्यते ।
तत्रोपमालङ्कारः प्रतीयमानो वाच्यशोभाहेतुत्वादुपसर्जनत्वेन नोक्तः ।
तदप्यसारमिति भावः ।
उपमालङ्कारस्य वाच्यशोभा हेतुत्वादुपन्यग्भावनेन उत्थापितस्य प्राधन्येन तेष्ववस्थानात् ।
अथ रसभावयोः अयथादृशमुद्घाटयति-रसवत्प्रेयऊर्जस्वीत्यादि ।
रसो गुणीभूतो रसवानलङ्कारो, भावस्तु प्रेयान्, रसाभास ऊर्जस्वी, भावाभासःसमाहितम् ।
एवं रसभावादिः वाच्यशोभा हेतुत्वेनोक्तः ।
तदपि मन्दमिति भावः ।
यतो रसादेरलङ्कारत्वं सदातनं न भवति, प्राधान्यदशायामलङ्कार्यत्वात् ।
उत्प्रेक्षात्विति ।
प्रातीयमाना स्वयमेव कथिता प्रतीयमानाप्यलङ्कार्यत्वेन कथितेत्यर्थः ।
तदप्य गंभीरमिति यावत् ।
प्रतीयमानदशायां सर्वस्यैव अलङ्कारस्यालङ्कार्यकत्वं सिद्धान्तितं यतः ।
त्रिविन्धं वस्त्वलङ्काररसरूपमलङ्कार्यतया ख्यापितमेव ।
काव्यजीवितत्वेनालङ्कार्यमेव सत्तथा न चेतितमिति यावत् ।
इत्थं काव्यजीवितांशविचारविमुखानाम् अलङ्कारमात्ररसिकत्वात् उत्तानदृशां मतम् उपन्यस्य, काव्यजीवितकांशपराणां, मतानि यथावदुपन्यस्यति-वामनेन त्वित्यादिना ।
सादृश्यनिबन्धनाया इति वदता सादृश्यं संबन्ध-निबन्धना शब्दवृत्तिर्गौणीति वदन्तो दूष्यत्वेन कटाक्षिताः ।
ध्वन्याचार्याणां गौण्या वृत्त्या लक्षणान्तर्भावो नोष्टः ।
सादृश्यनिबन्धना लक्षणा वक्रोक्त्यलङ्कार "इति प्रथयता कश्चित् ध्वनिभेदो लक्षणामूलो ऽत्यन्ततिरस्कृतवाच्य नामालङ्कारत्वेनोक्तः काव्यात्मभूतःसन्नलङ्कार्यत्वेन नावधारित इतियावत् ।
यस्त्त्वंशो ऽलङ्कार्यो न भवति सो ऽप्यलङ्कार्यत्वेन कथित इत्याह-केवलं गुणविशिष्टेति ।
केवलग्रहणाद्रसालकारनैरपेक्ष्यं कटाक्षितम् ।
रसालङ्कार निरपेक्षैर्माधुर्यादि भिर्गुणैर्विशिष्टा येयं संघटनाधर्मभूता वैदर्भ्यादि रूपिणी रीतिः सैव काव्यात्मेत्युक्ता ।
तथा च सूत्रितं तेन - "रीतिः आत्मा काव्यस्य"इति ।
प्रख्यापितं च - अविदितगुणापि सत्कविभणितिः कर्णोषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ।
इति ॥
इदमप्ययुक्तमिति भावः ।

तथाहि-काव्यस्य शरीरस्थानीयौ (शब्दार्थौ) कटकमुकुटादिकल्पा अनुप्रासोपमादयः ।
व्यङ्ग्यार्थस्तु आत्मभूत इति स्थिते, शब्दालङ्कारेभ्योषऽपि यो बाह्यो वर्णालङ्कारो ऽनुप्रासस्तत्समकक्ष्यका एता रीतयः ।
यतो द्वयोरपि वर्णधर्मता ।
एतदभिसन्धाय वृत्त्यनुप्रासवर्णालङ्कारप्रस्तावे वैदर्भ्यादयो रीतयो विवेचिताः काव्यप्रकाश कृदादिभिः ।
ग्रन्थकारो ऽपि तत्र विवेचयिष्यति ।
व्यञ्जकास्वेतासु व्यङ्ग्यरससन्निकर्षादात्मत्व भ्रमः उत्तान धियाम् ।
तदनुप्रासादावपि समानमिति मन्दमेतद्रीतिमात्रपक्षपातित्वम् ।
वस्तुतस्तु व्यङ्ग्यार्थ एव आत्मा काव्यस्य ।
अथोद्भटादिभिः गुणालङ्कारयोर्भेदो ऽपि नावधारित इत्याह-उद्भटादिभिस्त्विति ।
साम्यं सजातीयत्वमित्यर्थ- ।
तत्र हेतुः - "विषयमात्रेण भेदप्रतिपादनादिति" ।
मात्रग्रहणात्स्वरूपभेदाभावः कटाक्ष्यते ।
काव्यशोभाहेतुत्वलक्षणं तु स्वरूपमेकविधमेवेति तेषामाशयः ।
विषामाशयः ।
विषयभेदं दर्शयति-ऽसङ्घटनेत्यादिऽ ।
"सङ्घटनाधर्मागुणा, अलङ्कारास्तु शब्दार्थधर्माः" इति ।
तदिदमप्यगम्भीरमिति भावः ।
गुणालङ्कारयोश्च स्वरूपत एवातिविभिन्नत्वात् ।
तथाहि-अङ्गिनो रसस्य धर्मा गुणाः अङ्गयोः शब्दार्थयोस्त्वलङ्काराः ।
गुणास्तुनियमेनोत्कर्षहेतवः अलङ्कारास्त्वनियमेन ।
गुणाःसमवायेन वर्तन्ते, अलङ्कारास्तु संयोगेन ।
यदाह- "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युः अचलस्थितयो गुणाः ॥
उपकुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्ते ऽनुप्रासोपमादयः " ॥
इति ॥
इत्थं च सति अलङ्कारापेक्षया गुणेष्वेव प्रकृष्टः काव्योपस्कारः यद्वदस्फुटटालङ्कारत्वे ऽपि काव्यत्वाभ्युपगमः, न हि तद्वत् अस्फुटगुणत्वे ।
यदाह-ऽअनलङ्कृती पुनः क्वापीतिऽ ।
यदेतदेवंविधं गुणानामलङ्काराणां च प्राधान्यं , तत्रापि पुरातनानां दृष्टिरसमीचीनेत्याह-ऽतदेवं अलङ्कारा एवेतिऽ ।
अथ वक्रोक्तिजीवितकारभट्टनायक योःसं [दृष्टी] सन्निकृष्टे ध्वनिदर्शनस्येत्यभिप्रायेणाह-ऽवक्रोक्तिजीवितकारः पुनरित्यादिना ।
वैदग्ध्यभङ्गीभणितिस्वभावां वैदग्ध्यप्रकारोपेतभणितिस्वरूपामित्यर्थः ।
जीवितमुक्तवानित्यलङ्कारमात्रदुराग्रहाभावो द्योतितः ।
अन्यो ऽपि सारभूतः सूक्ष्मोंऽशः तेन अवधारित इत्यभिप्रायेणाह-व्यापारप्राधान्यं चेति ।
व्यापारो रसप्रत्यायनात्मा ।
तस्य प्राधान्यं प्रतिपेदे ।
न पुनः अप्राधानस्य अलङ्कारमात्रस्येति यावत् ।
अलङ्काराः पुनर्वाच्यकक्ष्यैवास्य संमतेत्याह-अभिधाप्रकारेत्यादि ।
यश्च वस्त्वलङ्काररसरूपः त्रिविधः प्रतीयमानोर्ऽथः यत्र विद्यमानो ऽपि तत्प्रत्यायनलक्षणस्यऽ व्यापारस्यैव प्राधान्यमस्य मतमित्याह-सत्यपि चेत्यादि ।
उपचारो लक्षणाश्रयणां तद्वक्रतेति अविवक्षितवाच्यादि समस्तध्वनिः कटाक्षितः ।
इत्थं च सति ध्वनिदर्शना देतद् दर्शनस्याल्पकोभेद इत्याह-ऽकेवलमुक्तिवैचित्र्येतिऽ ।

अथ भट्टनायकमतम्-भट्टनायकेनत्वित्यादि ।
प्रौढोक्त्याभ्युपगतस्येति ।
भोग इतिस्वकपोल कल्पितो व्यवहारः प्रौढोक्तिस्तयाङ्गीकृतस्येत्यर्थर्ः ।
इदृशस्य व्यञ्जनव्यापारस्य काव्यात्मत्वं कथयता न्यग्भावितशब्दार्थ स्वरूपो ऽयं व्यापारस्तस्यैव प्राधान्यमुक्तम् ।
स च व्यापारो लौकिको न भवतीत्याह-तत्राप्यभिधाभावक त्वेत्यादि ।
तत्र तेषु व्यापारेषु मध्यादभिधाभावकत्वे इति ।
साक्षात्सङ्केतार्थ विषया शक्तिरभिधा ।
असाधारण्येन प्रतीतेष्वर्थेषु साधारणीकरणरूपा शक्तिर्भाविकत्वम् ।
एतद्व्यापारद्वरद्वयोत् तीर्णः साधारणीकृतेषु विभावादिषु रसचर्वणात्मां भोगापरनामधेयो व्यापारो विश्रान्तिस्थानतया प्राधन्येनाङ्गीकृतः ।
अत्र दर्शने भोगादिव्यावहारस्य स्वकपोलकल्पितव्यापारप्राधान्यमि[त्यंशो] ध्वनिकारदर्शनविलक्षणाः ।
अथ सिद्धन्तः-ध्वनिकारः पुनरित्यादि ।
ध्वनिकारस्तु व्यङ्ग्यात्मनो वाक्यार्थस्यैव काव्यात्मत्वं सिद्धान्तितवान् ।
तत्रहेदतुः -व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वादिति ।
कीदृशस्य ? अभिधालक्षणातात्पर्याख्य व्यापारत्रयोत्तीर्णस्य ।
तात्पर्य नाम पदार्थाधिगमसमनन्तरभाविनी समन्वयशक्तिः ।
एतत्त्रयोत्तीर्णस्येति चतुर्थकक्ष्यावस्थापियोक्ता ।
ध्वननद्योतनेति ।
ध्वननं द्योतनं प्रत्यायनं व्यञ्जनमित्यादिप्रसिद्धपर्यायसहतस्त्रस्यावश्याभ्युपगम्यत्वात् तदनभ्युपगमे व्यङ्ग्यार्थप्रतीतौ न गत्यन्तरं यतः, अतः व्यङ्ग्योर्ऽथ एवात्मेत्यर्थः ।
ननु व्यञ्जनाव्यापारः प्रधानं किं न भवति, इत्यत आह-व्यापारस्य च वाक्यार्थत्वाभावादिति ।
अप्रत्यक्षत्वेन निरुक्त्यनर्हत्वाद्वाक्यार्थत्वाभावः ।
सर्वा एव खलु पदार्थशक्तयः कार्यादिप्रतीत्यन्यथानुपपत्त्या अभ्यूह्यन्त एव ।
अतो व्यापारो न प्राधानम् ।
यश्च हेतुः प्राधान्ये सो ऽपि व्यङ्ग्य एवोपपद्यते, न तु व्यञ्जनव्यापार इत्याह-वाक्यार्थस्यैवेति ।
गुणालङ्कारोपस्कर्त्तव्यत्वं विश्रान्तिस्थानत्वं च प्राधान्ये हेतुः ।
अतो व्यङ्ग्यार्थ एव काव्यात्मेति सिद्धान्तितवन् ।
अथ भूयस्तरा युक्तीरभ्युच्चिनोति-व्यापारस्य विषयमुखेनेत्यादि ।
व्यञ्जनादेगि व्यापारस्य व्यङ्य्यार्थमुखेनैव स्वरूपसिद्धिः ।
अतो न वाक्यार्थत्व संभवः ।
यथास्वरूपोपलम्भो विषयमुखेन तथा प्राधान्यं विचारक्षमत्वमपि तन्मुखेनैवेत्याह-तत्प्राधान्येन प्राधान्यात् ।
स्वरूपेण विचार्यत्त्वाभावादिति च ।
विषय एव तु पुष्कलं वाक्यार्थं भावमर्हतीत्याह-विषयस्यैवेति ।
साक्षात्स्वरूप प्रतिलंभः स्वतः प्राधान्यं स्वलरूपेण विचार्यत्वं चेत्यादि समग्रे भरः ।
तत्सहिष्णुत्वं हि व्याङ्ग्यार्थलक्षणस्य विशषयस्यैव ।
अतो विषयस्यैवात्मत्वं युक्तमित्याह-तस्माद्विषय एवेति ।
समग्रभर सहिष्णुत्वात् स निरवशेषवैभवमर्हतीत्यत आह-यस्य गुणालङ्कारेत्यादि ।
ननु रसादयो रसवदाद्यालङ्कारा एव प्राचां मताः ।
कथमेषामलङ्कार्यत्वमित्यत आह - रसादयस्त्विति ।
तत्र हेतुः - अलङ्काराणामुपस्कारकत्वात् रसादीनां च प्राधान्येनोपस्कार्यत्वाच्च इति ।
रसादीनां हि यदा गुणीभावः तदालङ्कारत्वं , यदा तु प्राधान्यं तदालङ्कार्यत्वमेव ।
यत इत्थं व्यवस्था , अतोः व्यङ्ग्यार्थ एव काव्यात्मेति निगमयति - तस्माद् व्यङ्ग्य एवेत्यादि ।

वाक्यार्थीभूत इति प्राधान्यदशां कटाक्षयति, अप्राधानय दशायामनात्मत्वात् ।
तदिदं ध्वनिकृतो दर्शनाम् ।
एतदनुसारित्वमात्मनो दर्शयुतुमाह -एष एव पक्ष इत्यादि ।
एवकारेणपक्षान्तरेष्वनुपपत्तिराविशष्क्रियते ।
आवर्जकः बलादात्माभिमुखीकारकः ।
तत्र हेतुः - व्यञ्जनव्यापारस्येत्यादि ।
य इच्छ्रन्ति व्यङ्ग्यार्थस्य काव्यात्मतां, ये च नेच्छन्ति , सर्वैरेव खल्वेभिः न शक्यते हि व्यञ्जनव्यापारो ऽपह्नोतुम् ।
यदि नापह्नुतः किं तत इत्यत आह-तदाश्रयणे चेत्यादि ।
पक्षान्तरस्याप्रतिष्ठानं दर्शैतचरीभिर्युक्तिभिः सिद्धम् ।
यत्तु तत्र व्यक्तिविवेककारः प्रत्यवस्थैतः तदुपन्यस्यति - यत्तु व्यक्तिविवेककारः इत्यादिना ।
लिङ्गतया गमकतया ।
तादात्म्यतदुत्पत्त्यभावादिति ।
धर्मधर्मिणोर्लिङ्गलिङ्गिभावे तादात्म्यं नाम नियतःसम्बन्धः ।
कार्यकारणायोस्तु तदभावे तदुत्पत्तिर्नामास्तीति ।
अनयोर्नियतसम्बन्धयोः यद्यन्यतरो न स्यात् तदा व्यभिचारान्न संभवति लिङ्गलिङ्गिभाव इति यावत् ।
यत इत्थमेतत् अतस्तदविचारिताभिधानं , तदेतद्व्यक्तिविवेककृतो दर्शनं वायसवाशितकल्पमिति यावत् ।
एवं ध्वनिदर्शनसमर्थने यद्यावदस्ति युक्तिजातं तदतिगहनम् ।
ध्वनिगुणीभूतव्यङ्ग्ययोरेव काव्ययोर्मीमांसायामुपयुज्यते; चित्रकाव्यमीमांसायां तु नात्युपयुज्यते इत्याशयेन निगमयिति-तदेतत् कुशाग्रीयेत्यादि ।
इह चित्रकाव्ये ।
न प्रतन्यते, यथोपयोगमनूद्यत एवेति यावत् ।
अथ यावानुपयोगश्चित्रप्रस्तावे ध्वनेस्तावन्मात्रमनुवदति-अस्ति तावदित्यादिना ।
यद्यस्ति किं तत इत्यत आह-तत्र व्यङ्ग्यस्येत्यादि ।
प्राधान्ये ध्वनिर्नमोत्तमः काव्यभेदः ।
अप्राधान्ये तु गुणीभूतव्यङ्ग्य नामा मध्यमः ।
चित्रस्य विषयमाह-तत्रोत्तमो ध्वनिरित्यादिना ।
स चाभिधामूलतया लक्षणामूलतया च प्रथते इत्याह-तस्य लक्षणाभिधामूलत्वेनेति ।
लक्षणामूलत्वे सति अविवक्षित वाच्याख्यः मुख्यार्थबाधशालिन्यां लक्षणायां वाच्यांशस्याविवक्षितत्वात् ।
अभिधामूलत्वे तु विवक्षितान्यपरवाच्याख्यः , अभिधायां वाच्ये बाधाभावाद् विवक्षितत्वं, व्यङ्ग्याङ्गत्वेन विवक्षणात् अन्यपरता चेति विवक्षितान्यपरत्वम् अभिधामूलस्य ।
इत्थं लक्षणामूलो ऽभिधामूलश्चेति सामान्यतो ध्वनिर्द्विराशिकः ।
तत्र लक्षणामूलस्यावान्तरभेदमाह-आद्योर्ऽथन्तर इति ।
आद्यो लक्षणा मूलःसोर्ऽथान्तरसङ्क्रमितवाच्यो अत्यन्ततिरस्कृतवाच्यश्चेति द्विधा ।
अजहत्स्वार्थतया स्वसिद्धये पराक्षेपे सति अर्थान्तरसङ्क्रमितवाच्यः ।
यथा - प्रारम्भे श्रुतिसुन्दरं परिणातौ पथ्यं जनैःसुग्रहं ।
नानाशास्त्ररसैः प्रसन्नमधुरैः प्रत्यक्षरं क्षालितम् ।
आह्लादाय न कस्य नाम विदुषां वक्त्राम्बुजादुद्गतं चित्तान्तर्विकसद्विवेक मुकुलामोदानुबिद्धं वचः ॥
अत्रैवंविधवच उपदेशालक्षणे अर्थान्तरे सङ्क्रामति ।
वचोमात्रस्यैवं वैशिष्ट्यासंभवात् ।
अथ यदा जहत्स्वार्थतया परार्थं स्वसमर्पणं तदात्यन्ततिरस्कृतवाच्याख्यः ।
यथा - एके मूकवदासते जडधियो जिह्नेति तत्सन्निधा वन्ये दुर्विचिक्त्सितं विदधते तेभ्यो ऽपि बीभत्सते ।
अस्थाने बहुधा स्तुवन्ति कतिचित्तैरुल्कया दह्यते विद्या विक्लवते कया न विधया प्राप्यान्तिकं दुष्प्रभोः ॥

अत्र विद्यायां ह्लीबीभत्सादिः गङ्गादौ घोषाधिकरणतादीव सर्वथा स्वसंयोगिनो स्वार्थं परित्यज्य न संभवतीत्यत्यन्त तिरस्कृतवाच्यता ।
इत्थम विवक्षितवाच्यस्यार्थान्तरसंक्रमित वाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्वौ भेदौ ।
अथाभिधामूल प्रभेददिक् ।
द्वितीयो ऽपीति ।
द्वितीयो ऽभिधामूलो विवक्षितान्यपरवाच्याख्यः ।
तत्र क्विचिद् व्यङ्ग्य क्रमो न संलक्ष्यते ।
क्वचित्संलक्ष्यते ।
तस्माद्विवक्षितान्यपरवाच्यो ऽपि असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।
अथानयोः सक्षणाभिधामूलध्वन्योर्वस्त्वलङ्कार रसरूपता विषयविशेषं व्यवस्थापयितुमाह-लक्षणामूल इत्यादिना ।
यो हि लक्षणामूलः स नियमेव शब्दशक्तिमूलो वस्तुरूपश्च भवति ।
यद्वि यावदस्ति जातिगुणाक्रियाद्यात्माकं पदार्थजातं सर्वमेवैतद्वस्तु कथ्यते ।
तदेव कविकल्पितविच्छित्ति सध्रीचीनमलङ्कारः ।
रसास्तु विभावानुभावव्यभिचारिभिव्याज्यमाना रत्यादयः सहृदयप्रतीतिविशेषाः ।
अथ विवक्षितान्यपरवाच्यो यो ऽयं असंलक्ष्यक्रमव्यङ्ग्यः स नियमेनार्थशक्तिमूल उभयशक्तिमूलश्च भवति ।
नियमेन वस्तुरूपो ऽलङ्काररूपश्च भवति ।
तत्र यदा रसभावरसाभास भावाभासभावोदयभावशान्ति भावसन्धिभावशबलता व्यज्यन्ते, तदा क्रमो न संलक्ष्यत इति असंलक्ष्यक्रमत्वम् ।
तत्र रसेषु शृङ्गारःसंभोगात्मा यथा- पुष्पोद्भेदमवाप्य केलिशयनाद्दरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते ।
आच्छाद्य स्मितपूर्णा गण्डफलकं चेलाञ्चलेनाननं मन्दान्दोलितकुण्डलस्तबकया तन्व्या विधूतं शिरः ॥
अत्र नायिकानायकवृत्तान्तलक्षणो यो वाच्योर्ऽथः या च सहृदयप्रतीतेः वेद्यान्तरविगलनेन वर्ण्यवस्तुतन्मयीभावलक्षणा रससंवित्, न खलु तयोः क्रमःसंलक्ष्यते ।
विद्यमानो ऽपि पद्म पत्रशतव्यतिभेदनयेन अविद्यमानवदुपलक्ष्यते ।
विप्रलम्भशृङ्गारो यथा - नान्तः प्रवेशमरुणाद्विमुखी न चासी दाचष्टरोष परुषाणि न चाक्षराणि ।
सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ॥
एवमादिष्वक्रमत्वं प्राग्वदनुसन्धेयम् ।
हास्यो यथा - पैमरणामण्डणाज्जलवेसा पासंग एसु तरुणेसु ।
णिद्धसरं परुग्रन्ती सविब्भमं हणा इ थणावट्ठम् ॥
अत्र पतिमरणामण्डनोज्ज्वलवेषायाः तरुणेषु पार्श्वमुपगतेषु सत्सु सद्यः स्निग्धस्वरंप्ररुदत्याः सविभ्रमं यदेतत्स्तनवृत्तहननं तत् प्रच्छन्नानुरागस्यानौचित्येन प्रवृत्तेर्हास्यमभिव्यनक्ति ।
करुणस्य यथा - साहित्यलक्षणकले समुपैषि नव्य वैधव्यमद्य विरते गुरुविष्णुदेवे ।
कर्णान्तिकप्रणायन प्रणायोत्सवाय तालीदलार्पणमितः परमक्षमं ते ॥
रौद्रन्य यथा - दृप्यत्सूकर कालकण्ठ शकलव्याकीर्ण धारान्तरा क्रोधोत्ताललुलायकण्ठनलकच्छेदार्धवक्त्राननाः ।
श्रीबल्लाल विधाय केलि मृगयामावर्तमानस्य ते शार्दूलेन्द्रवसाभिषेकसमये जीयासुरुग्राःशराः ॥
वीरस्य यथा - आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटका-द् दिव्यं चक्षुरनन्यलभ्य मुभयत्रास्ते परं दुःसहम् ।
फाले भूतपतेर्मनोभवमुख क्षुद्र क्षयोज्जागरं बाणे च प्रतिराजदर्पदलनं बल्लाल पृथ्वीपतेः ॥
भयानकस्य यथा - गिरिकुञ्जेषु गूढानां तवारि वरयोषिताम् ।
असूर्यंपश्यतामात्रं भूतिचिह्नेष्वशिष्यत ॥
बीभत्सस्य यथा - स्वात्मानन्दं किमपि परमं साधु संभुञ्जते ये तेषामस्यां विषयविततौ जायते हेयबुद्धिः ।
अन्येषां तु प्रसरतितरां प्रत्युतास्वादनेच्छा छर्दिक्लिन्ने कफकलुषिते मक्षिकाणामिवान्ने ॥
अद्भुतस्य यथा - आकर्णितोत्तमगुणानुगुणेति कृत्वा यामुल्लिलेख सुचिरेण मनो मदीयम् ।
तामाकृतिं विसदृशीमतिमात्रमस्या दास्ये ऽपि नास्मि विनिवेशयितुं विदग्धः ॥
अत्र सुचिर मदृष्टचरनायिकारूपस्यानुगुण श्रवणानुरागिणो नायकस्य नायिकाप्रथमदर्शने आकर्णितोत्तम गुणानुगुणतया मनसा समुल्लिखितचरी या नायिकामूर्तिः, सा सम्प्रति साश्रात्कृतनायिकामूर्तेरतिमात्रं विसदृशी सती दासीत्वेनापि निवेशयितुं न शक्यत इत्युक्तिराभिरूप्यनिबन्धनस्य परां काष्ठामाविष्करोति ।
शान्तस्य यथा - मा भैषीः कुल मा व्यथस्व विनय क्लेशो ऽस्तु मा ते श्रुत प्रध्वंसाय यतस्व मा खलु मते माहात्म्य मा मा त्यज ।

युष्मद्रौरवसारदारणापरान्मत्वा तृणाय प्रभून् भिक्षापर्यटनार्जितेन कलये पिण्डेन पिण्डस्थितिम् ॥
इत्थं रसध्वनिर्दिङ्मात्रेणोदाहृतः ।
अथ भावध्वनिः-भावो हि नाम नायिकाव्यतिरिक्ते देवतागुरुनृपपुत्रादौ व्यज्यमाना रतिर्वाक्यार्थत्वेन व्यज्यमाना निर्वेदादयो व्यभिचारिणाश्च ।
यथा- अद्य स्वप्नमुपागतेन यमुनातीरे मयावस्थितं दृष्टस्तत्र च वेणुवादनिपुणो बालो गवां पालकः ।
तं दृष्ट्वा करणैरनन्यविषयैरन्तर्विलीनो ऽभवं यावत्तावदहं चिरादुपचितैः पापैः प्रबोधं गतः ॥
यथा च - संसारार्त्या विधुरविधुरो ब्रह्म यत्नाद्विचिन्वन् नानारूपं जगदिदमहं दृष्टवानेव पूर्वम् ।
हस्ते न्यस्ते सति तव गुरो सांप्रतं मस्तके ऽस्मिम् ब्रह्मैवैतत्सकलमभवन्नो जगन्नापि चाहम् ॥
यथा च - काष्ठाप्रात्पिरियं परा खलु परीपाकस्य भाग्योन्नतेः श्री बल्लाल नृपाल!यद्वयमिंमौ पादौ तवोपास्महे ।
यस्तिष्ठेत्प्रतिहार सीम्नि भवतो रुद्धप्रवेशश्चिरं किं नासावपि चोलपाण्ड्यपृथ्वीपालैःसमं गण्यते ॥
इत्थं पुत्रादिविषयो व्यभिचारिरूपश्च भावः स्वयमूह्यः ।
रसाभासो यथा - स्फुरन्मुखामोदविवृद्ध गन्धं, जिघ्रन्मुहुर्मीलितरक्तनेत्रः ।
पूर्वं प्रियाचञ्चुपुटोपयुक्तं चूताङ्कुरं चुम्बति चञ्चरीकः ॥
इत्यादि ॥
अत्र तिर्यग्विषयत्वाद्ररसस्याभासता ।
धीरोदात्तत्वाद्यभावात् ।
यदाह- "उत्तमप्रकृतिरुज्ज्वलवेषः शृङ्गारः" इति ।
भावाभासो यथा - क्वणादूद्विरेफावलिनीलङ्कणां प्रसार्यं शाखाभुजमाम्र वल्लरी ।
कृतोपगूहा कलकण्ठकूजितैः अनामयं पृच्छति दक्षिणानिलम् ॥
अत्र सौहार्दस्यारोपितत्वात् भाव आभासी भवति ।
भावोदयो यथा - केलितल्पगतमङ्घ्रियावकं, सूचयत्युषसि चक्षुषा प्रिये ।
भू[भ्रू] त्रिभागमुपकल्प्य भङ्गुरं, गूढ हास मधुरं चुकोप सा ॥
अत्र लज्जाहर्षयोरुदयः ।
भावसन्धिर्यथा - नेत्रे जिह्यखरारुणे क्षणामथ व्यामील्यमानेक्षणां हस्तं व्यग्रगमागनं क्षणामथो दन्ते शयानं क्षणम् ।
सञ्चारं विषमाकुलं क्षणमथ प्रक्रान्तलीलं क्षणं धत्ते तोत्रिषु षट्पदेषु च समं दत्तावधानो गजः ॥
अत्र गजस्य मदाकुलस्य यदेतत्क्षणमात्रं नेत्रयोः जिह्याखरा रुणायोः धरणां समनन्तरमेव यच्चैतदूव्यामीलनं, तथा हस्ते च यत्क्षणामत्रं व्यग्रो गमागमः यच्च समनन्तरमेव दन्ते शयनं, सञ्चारे च क्षाणामात्रं येयं विषमाकुलता, समन्तरमेव यश्चायं लीलाप्रक्रमः, तदेतत् विविधं विलक्षणं विचेष्टितद्वयं उद्भवाभिभवधर्मितया क्षणं क्षणामाविर्भवत् तोत्रिविषयं रोषं षट्पदशब्दलक्षितषट्पदगीतविषयं हर्ष च परस्परस्यादत्ता वसरतयासमुत्क्षुभितम् अभिव्यनक्ति ।
द्वन्द्व वृत्तिषु च त्रिष्वपि वाक्येषु प्रतिस्वं क्षणं क्षणमित्युपादानाद्यथा यथा समुत्क्षुभिताब्धिकल्लोलकत्प [ल]तयो तोत्रिणामुपर्युपरि विनिपात जन्मानो रोषावेशमहावेगाः तथा तथा तदभिभवक्षमाणां षट्पदगीताकर्णानसुखाभिनिवेशविकासानां मध्ये प्रादुर्भाव इति प्रत्याय्यन्ते ।
धत्त इति वर्तमाननिर्देशेन प्रारब्धापरिसमात्पभावादेकतरस्यां कोटावनिष्ठेति द्योत्यते ।
तथा जिह्वाखरारुणत्वव्यग्रगमागमत्वविषमाकुलत्वलक्षणाधर्मयोगाद्व्यालयमानत्वदन्तेशयनत्वप्रकान्तलीलत्वलक्षणाधर्मयोगाच्चानुक्षणामाकुलीभावमापाद्यमानैर्नैत्रहस्तसञ्चारैर्लिङ्गैर्यदेतद्वोध्यते, तोत्रिषुषट्पदेषु च तुलितमवधानदानं तदप्येक तरस्यां कोटा वनिष्टामेव व्यनक्ति ।
अतो रोषहर्ष भावयोरयं सन्धिः ।
भावशबलता यथा - मध्येसखीजनमुपह्वरवृत्तजातं वाचा प्रकाशयति मय्युपदेशवृत्त्या ।
सासूयसप्रणायसत्रप सप्रसादैः सा मां विलोकितवती चटुलैः कटाक्षैः ॥
अत्रासूयादीनां कटाक्षेषु समारोपाद्वाच्यता न मन्तव्या ।
अतो हृद्येवं भावशबलता व्यज्यते ।
भावशान्तिर्यथा तौ संमुखप्रचलितौ सविधे गुरुणां मार्गप्रदानरभसस्खलितावधानौ ।
पार्श्वापसर्पणामुभावपि भिन्नदिक्कं कृत्त्वा मुहुर्मुहुरपासरतां सलज्जौ ॥
अत्र मतिविबोध योरुपशमः ।
एषु रसादिध्वनिषु प्रपञ्चो ऽन्यतो ज्ञेयः ।
चित्रकाव्यप्रपञ्चनपरेण ग्रन्थकृतौवातिसङ्कोचितत्वात् अस्माभिर्दिङ्मात्रमुदाहरणैः प्रदर्शितम् ।
अथ संलक्ष्यक्रमे शब्दशक्तिमूलो ऽलङ्काररूपो वस्तुरूपश्च नियमेन भवति ।
तत्रालङ्काररूपो यथा - प्राप्याधरद्वयधुरां परिचुम्बतीव लीलोत्तरं विलिखतीव नखत्वमेत्य ।

तस्याः कटाक्षवलनं गुरुसन्निधौ मामाश्र्लिष्यतीव समवाप्य च बाहुभावम् ॥
अत्रोत्प्रेक्षालङ्कारेण चुम्बनादिकारणा भावे ऽपि संभोगसुखा वात्पिलक्षणाकार्योत्पत्तिरूपा विभावना व्यज्यते ।
वस्तुध्वनिर्यथा - दृष्टिः कातरतामुपैति सहसा तस्मिन्पुरो ऽवस्थिते, नर्मालापिनि तत्र न प्रतिवचो जिह्वाग्रमारोहति ।
संस्पर्शं च न तस्य वेत्युपचितस्तम्भं ममैतद्वपुः संवृत्तःसखि सङ्गमो ऽपि विरहप्रायो विधातास्मि किम् ॥
अत्र वस्तुनि अवस्तुत्वभ्रमात् मौग्ध्यलक्षणं वस्तु प्रत्याय्यते ।
अथार्थशक्तिमूलोव्यञ्जकोर्ऽथः स्वतः संभवी कविप्रौढोक्तिनिष्पादितः कविर्निबद्धवक्तृप्रौढोक्तिनिष्पादितश्चेति त्रिरूपः ।
स चालङ्काररूपो वस्तुरूपश्चेति प्रत्येकं द्वैविध्ये षोढा ।
षड्विधस्य च व्यङ्ग्योर्ऽथो वस्तुरूपो ऽलङ्काररूपश्चेति द्वादशंभेदो ऽयम् ।
तथा हि - स्वतःसंभविना वस्तुना वस्तु स्वतःसंभविना वस्तुना अलङ्कारः ।
स्वतःसंभविनालङ्कारोण वस्तु, तेन अलङ्कार इति चतुर्धा ।
तथा कविप्रौढोक्तिनिष्पादितेन वस्तुना वस्तु, तेनालङ्कारः कविप्रौढोक्तिनिष्पादितेन अलङ्कारेण वस्तु तेन अलङ्कारः इत्यपि चतुर्धा ।
इत्थङ्कविनिबद्धवक्तॄप्रौढोक्तिनिष्पादिते ऽपि विषयेचातुर्विध्यमनुसन्धेयम् ।
अत्र प्रपञ्चः संप्रदायप्रकाशिन्यां काव्यप्रकाशटोकायां अस्माभिः वितत्योप दर्शित इति ततो ऽवधार्यः ।
इह तु ग्रन्थगौरवभयात् प्रस्तावानुपयोगाच्च न प्रतन्यते ।
दिङ्मात्रन्तूदाह्लियते- तत्र स्वतःसंभविना वस्तुना वस्तु यथा - अद्यापि लोके न कविर्न सो ऽस्ति प्राचां तुलां यः प्रबलो ऽधिरोढुम् ।
पुरातनो नायमितीय देव तथापि निन्दा यदि किं करोतु ॥
अत्र स्वतःसंभविना वस्तुना अहम् एवंविध इति वक्तुः स्वमाहात्म्यप्रख्यापनलक्षघणं वस्तु प्रत्याय्यते ॥
कविनिबद्धेनालङ्कारेण वस्तु यथा - दृष्टिर्निष्ठुर बद्धसारखदिराङ्गार स्फुलिङ्गोपमा जिह्वे सज्जनतर्जनोल्बणाबलत्कालाङ्गुलीचञ्चले ।
दन्ताश्चान्तककेलिकाननविषां (?)कूरानुकारःसखे जङ्घे द्वे यदि तेभुजङ्गभुवनं वल्मीकशेषं भवेत् ॥
अत्र कविप्रौढोक्तिनिष्पादितेन अप्रस्तुतप्रशंसालङ्कारेण विधिविहितमनार्याणां क्विचिदंशे दौर्बल्यं विश्वमभिरक्षतीति वस्तु ।
कविनिबद्धवक्तृप्रौढोक्तिनिष्पादितो ऽलङ्कारेणालङ्कारो यथा - अणिवारओवगूहण संछ्रन्दालावसोअ ववसजणा ।
बन्धवमरणामहूसव दिअहे दिअहे समो अरसु ॥
छाया-अनिवारितोपगूहनस्वच्छ्रन्दालापशोकविवशजनः ।
बान्धवमरणमहोत्सवः दिवसे दिवसे समवतरतु ॥
इति ॥
कविनिबद्धायाः स्वैरिण्याः प्रौढोक्तिनिष्पादितेन रूपकालङ्कारेण उपगूहनादिनिवारणाशालिभ्यो ऽस्य बान्धवमरणमहोत्सवस्य अतिशयप्रत्यायनात्मा व्यतिरेकालङ्कारः प्रत्याय्यते ।
इत्थमन्यदप्यूह्यम् ।
अथ गुणीभूतव्यङ्ग्यस्वरूपदिक् ।
गुणीभूतव्यङ्ग्यं वाच्याङ्गेत्यादि ।
वाच्याङ्गत्वमगूढत्वमपराङ्गत्वमस्फुटत्वम्, सन्दिग्धप्राधान्यं तुल्यप्राधान्यं काक्काक्षित्प मसुन्दरत्वम् इति वाच्याङ्गत्वादयो भेदाः ।
समासोक्त्यादौ प्रदर्शितमिति ।
ध्वनिकारादिभिरिति शेषः ।
तत्र वाच्याङ्गत्वं यथा - शून्ये त्वद्रिपुराजधाम्नि सुदृशां चित्रार्पिता नां करं संल्लापस्पृहया पतन्नपि मुहुः कीरःसमारोहति ।
श्रीबल्लालनृपाल! शिञ्जितरसान्मञ्जीररेखामुखं चञ्च्वग्रेण च हन्त हंसपृथुकःसञ्चालयन्क्रन्दति ॥
अत्र शून्यीकृतरिपुराजवेश्मा नायकप्रभावातिशयः प्रतीयमानो ऽपि शुकहंसवृत्तान्तोपपादकत्वेन स्थित इति वाच्याङ्गत्वम् ।
इत्थमगूढत्वादयो ऽपि भेदा ज्ञेयाः ।
इत्थं ध्वनिगुणीभूतव्यङ्ग्ययोः काव्ययोःस्वरूपमुपोद्गधातत्वेन यथायोगमुपन्यस्य प्रकरणा प्रतिपिपादयिषितं चित्राख्यं काव्यमधिकीर्षुराह-चित्रं त्विति ।
ध्वनिगुणीभूतव्यङ्ग्यापेक्षया भेदबाहुल्यं तरबर्थः ।
अथादिसूत्रमवतारयितुमाह-तथाहीति-अथ सूत्रम् ।
इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः

ननु चित्रमित्युपक्रम्य पौनरुक्त्यप्रकारकथने का सङ्गतिः इत्यत आह आदौ पौनकुक्त्येत्यादि ।
पौनरुक्त्यप्रकाराणाम् एषां यदेतदादौ वचनन्तिन्निरूपयिष्यमाणानां शब्दार्थोभयाश्रयतया कक्ष्याविभागं घटयितुं कक्ष्याविभागस्यैव च स्फुटीकाराय प्रत्येकं पौनरुक्त्यग्रहणम् ।
अतो ऽनुप्रासयमकादयः शब्दालङ्काराः ।
उपमारूपकादयोर्ऽथालङ्काराः ।
लाटानुप्रासादयस्तूभयालङ्काराः इति कक्ष्याविभागो ऽनुसन्धेयः ।
ननु शब्दप्रतीतिपूर्वकत्वादर्थप्रतीतेः प्रथमं अर्थपौनरुक्त्यनिर्देशो न युज्यत इत्यत आह-अर्थापेक्षयेत्यादि ।
अन्तरङ्गत्वं प्राथमिकत्वं, अर्थगतनिर्देशः अर्थविषयक पौनरुक्त्य निर्देश इत्यर्थः ।
चिरन्तनप्रसिद्ध्या भामहोद्भटादिपूर्वाचार्यप्रसिद्ध्यनुसारेण ।
ते हि पुनरुक्तवदाभासाख्यमर्थालङ्कारमेव पूर्वं लक्षितवन्तः ।
निर्दिष्टस्य च पौनरुक्त्यत्रयस्य सम्पब्रतिपन्नतामभिसन्धायाह-शाब्दे प्रस्थान इत्यादि ।
इतिशब्दं योग्येर्ऽथे व्यवस्थापयति -इतिशब्दः प्रकार इति ।
ननु त्रय एवेतिसमाप्त्यर्थता किं नेष्यत इत्यत आह-त्रिशब्दादेवेत्यादि ।
अत्रायमाशयः ।
विभागेनैव त्रित्वमवगतम् ।
त्रिशब्दात्तु परिसमात्पिःसिद्धा, ऽसिद्धे सत्यारम्भो नियमायऽ इति न्यायात् ।
अत इतिशब्दः प्रकारे विवक्ष्यते ।
न च मन्तव्यं सति प्रकारशब्दे पौनरुक्त्यं प्रसजेदिति ।
प्रकारशब्दो हि पौनरुक्त्यप्रकारमाबह-स च पौनरुक्त्यप्रकारः केन प्रकारेण त्रिप्रकार इति जिज्ञासायाम् इतिशब्दः तत्प्रकार वचन इति सर्वमवदातम् ।
विभावाधिगगतं त्रित्वं त्रिशब्देन समाप्यते ।
त्रिप्रकारत्व वचनः इति शब्दस्ततो मतः ॥
इति ॥
अथैषु पौनरुक्त्येषु हेयांशं विभक्तुं सूत्रम्-
तत्रार्थपौनरुक्त्यं प्ररूढन्दोषः
प्ररुढग्रहणस्य व्यावर्त्यमुद्घाटयति-प्ररुढाप्ररुढत्वेनेति ।
उपादेये विश्रान्त्यर्थमिति ।
उपादेये प्रतियेग्यन्तरे प्रसृतायाः प्रतिपत्तॄ प्रतीतेः अव्याक्षेपाय इत्यर्थः ।
हेयांशैर्हि विविच्य त्यक्तके स्वरसा भवत्युपादेयमीमांसा ।
त्रयनिर्धारण इति ।
भावानयने द्रव्यानयनमिह अनुसर्तव्यं निर्धारिते पौनरुक्त्यत्रय इत्यर्थः ।
ननु प्ररुढं दोष इत्युच्यते ।
को ऽयं प्ररोह इत्यत आह-यथावभासनमित्यादि ।
यच्छ्रवणसमनन्तरं यथावदवभातं तत्तथैव चेत्प्रतीतिःविश्रान्त्यन्तं निर्बाधम् अवतिष्ठेत स प्ररोह इत्यर्थः ।
यथोद्देशं पौनरुक्त्यमधिकृत्य सूत्रम्-
आमुखाव भासनं पुनरुक्तवदाभासम्
आमुखम् आरम्भः ।
पर्यवसानान्यथात्व इत्यनेन हेयात् वैधर्म्यं दर्शितम् ।
ननु लक्ष्यपदे पुनरुक्तवदाभास इति स्वरूपप्राधान्येन निर्देशो न्याय्यः, न तु पुनरुक्तवदाभासमिति काव्यपरतन्त्रतया इत्यत आह-लक्ष्यनिर्देश इत्यादिना ।
नापुंसकः संस्कारः पुनरुक्तवदाभासो यत्रेति बहुब्रीहिसमासाश्रयणेनालङ्कार्यपारतन्त्र्यध्वननार्थः इति लौकिकालङ्कारवन्न काव्यालङ्काराणां अलङ्कार्यपृथग्भावेनाप्यवस्थानसंभवः ।
अपि तु नियमेन काव्यपारतन्त्र्यमेवेति ।
अतिगम्भीरेंऽशे वृथाप्राथनभीरुतामाविश्रिकीर्षुराह-प्रभेदास्त्विति ।

अवान्तरभेदाः प्रभेदाः ।
मङ्खीये मङ्खाख्यकविकर्तृके ।
अहीनेति ।
इनःस्वामी अहीनाम् इनो भुजङ्गानामधीशश्चेति ।
वलयं कङ्कणाञ्चेति आमुखे पौनरुक्त्या वभासनं, पर्यवसानेषु अहीनस्य महतो भुजङ्गाधीशस्य वपुर्वलयं कङ्कणमस्येत्यन्यथात्वम् ।
इत्थं शिलादेरपत्यं शैलादिः शैलादेः नन्दिन इव चरितमस्येति, शैलादिं नन्दयति चरितमस्येति च ।
तया क्षतः कन्दर्पो दर्पश्चेति, क्षतः कन्दर्पदर्पो येनेति च ।
तथा वृषः पुंरूपो गौश्चेति, वृषःश्रेष्ठ इति च ।
तथा शिखी पावकश्च लोचने यस्येति च शिखिपावकलोचन इति च ।
तथा सर्वमङ्गलासहितः पार्वतीश इति च सर्वैर्मङ्गलैस्महितश्तेति पौनरुक्त्यं चामुखाभासनं, पर्यवसानान्यथात्वं च अनुसन्धेयम् ।
अथ व्यस्ततया समासान्तरायश्रयतया च दर्शियितुमुदाहरणान्तरं-दारुण इति ।
पौनरुक्त्यापेक्षया दारुणा इति पञ्चम्यन्तम् ।
पर्यवसाने तु प्रथमान्तम् ।
इत्थं भस्म च भूतिश्चेति भस्मवनो ऽभिवृद्दिरिति च ।
तथा रक्तं च शोणां चेति च रुधिरवच्छ्रेणमिति चावगन्तव्यम्ष ।
इत्थं सुबन्तापेक्षया द्विधोदाहृतम् ।
अथ तिङन्तापोक्षया-भुजङ्गेति ।
कुण्डली सर्पो भुजङ्गश्च कुण्डली चेति भुजङ्गकुण्डलवानिति च ।
शशी शुभ्राशुः, शीतगुश्चेति ।
शं शिवः शुभ्रैः अंशुभिः शीतं चक्षुरिन्द्रियमिति च ।
हरःशिव इति चेतो हर इति च योजनीयम् ।
शशिशुभ्रांशुशीत गुरिति त्रुषु पौनरुक्त्यं दर्शितम् ।
पायादव्याच्चेति तु तिङन्तापेक्षया इत इत्यपायविशेषणत्वेन पर्यवसाने पञ्चम्यन्ततया पायादव्यादित्यन्यथात्वम् ।
पुनरुक्तवदाभासो यत्रेत्येवं हि संस्क्रिया ।
अलङ्कार्यैकनिध्नत्वव्यक्त्ये समुपाश्रिता ॥
अथ शब्दपौनरुक्त्यप्रस्तावाय सूत्रम्-
शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च ।
अत्राद्यं पदमुद्देश्यं चरमं तु द्वयं विधेयम् ।
शब्दपौनरुक्तयं व्यञ्जनमात्रनिष्टतया, स्वरव्यञ्जनसमुदायनिष्ठतया च द्विप्रकारमित्यर्थः ।
ननु केवलस्वरपौनरुक्त्यस्य किं वृत्तमित्यत आह-अलङ्कारप्रस्ताव इत्यादि ।
अलङ्कारो हि विच्छ्रित्तिः, तत्प्रस्तावे केवलस्वरपौनरुक्त्यम चारुत्वात् न गणनामर्हतीति भावः ।
तत्र व्यञ्जनमात्रमधिकृत्य सूत्रम्-
सङ्ख्यानियमे पूर्वं छेकानुप्रासः
को ऽयं सङ्ख्यानियम इत्यत आह-द्वयोर्व्यञ्जनेत्यादि ।
युग्मशो ऽवस्थितानां व्यञ्जनसमुदायानां परस्परमनेकधासादृश्यम् इह सङ्ख्यानियमः ।
किन्नामेति ।
दर्दुरो भेकः ।
कायं निपीड्य वपुरायास्य ।
सितच्छ्रदाः हंसाः ।
अत्र दर्दुरदुरध्यवसाय इत्यादौ सङ्ख्यानियमः ।

ननु सायं कायमित्यत्र को ऽलङ्कार इत्यत आह-अत्र सायं शब्देत्यादि ।
यकारमात्रसादृश्यापेक्षया हि साय सायेतिच्छ्रेकानुप्रासः ।
सायं कायमिति तुसानुस्वार यकारमात्रापेक्षया वृत्त्यनुप्रासः ।
इत्थं च सति सायं शब्दे द्वयोरेकाभिधानलक्षणाःसङ्करः अभिधत्त इत्यभिधानं वाचक शब्दः एकवाचकानुप्रवेशलक्षणा इत्यर्थः ।
लक्ष्यपदं निर्विवक्षुराह-छ्रेका विदग्धाः इति ।
छेकोपलालितत्वाच्छेकानुप्रास इत्यर्थः ।
अथानुप्रासान्तराय सूत्रम्-
अन्यथा तु वृत्त्यनुप्रासः
अनयथात्वं त्रिधा संभवतीत्याह-केवलव्यञ्जनेत्यादि ।
केवलव्यञ्जनसादृश्यं समुदायत्वाभावादन्यथात्वम् ।
एकधा समुदायसादृश्यं त्वनेकधात्वविरहात् ।
त्र्यादीनां पुनःसमुदायानां द्वयातिरिक्तत्वादन्यथात्वम् अनुसन्धेयम् ।
लक्ष्यपदं निर्वक्ति-वृत्तिस्त्विति ।
शृङ्गारादिरसविषयो यो ऽयं प्रतिनियमभाजां वर्णानां व्यञ्जनव्यापारः स वृत्तिरुच्यते ।
सो ऽयं वर्णव्यापारो ऽस्मिन् वर्णारचनात्मके कविव्यापारे ऽस्तीत्युपचारेण वर्णरचनावृत्तिरित्याह-तद्वती पुनरित्यादि ।
तस्यास्त्रैविध्यं दर्शयति - सा च परुषेत्यादि ।
श्रुतिप्रतिकूलता वर्णानां परुषत्वम् ।
या परुषवर्णारब्धा सा गौडीयी रीतिः ।
या तु कोमलवर्णारब्धा सावैदर्भी ।
मध्यमवर्णारब्धा तु पाञ्चाली ।
एता रीतयो वामनादिभिः काव्यात्मत्वेन सिद्धिन्तताः ।
उपपत्तिपर्यालोचनायां तु काव्यात्मकथा तावदास्ताम् ।
यावता शब्दालङ्कारेष्वपि यो बहिरङ्गो वृत्त्यनुप्रासात्मा वर्णालङ्कारः तद्धर्मत्वात् तच्छ्रेषभूता एता इत्यलमप्रासङ्गिकवैदद्ध्य प्रवचनेन ।
सह्या इति ।
विषद्रवमुच इति ।
किरणापेक्षया दुःसहत्वम् ।
वाय्वपेक्षया तु गरलकल्पजलकणायोगः ।
सरला अनरालपातिन्यः ।
सितासितरुचेः उत्तरलतारकत्वात् अनवस्थितवर्णसन्निवेशाः साचीकृताः अपाङ्गान्निर्गन्तुम् इवेहमानाःसालसा रसानुशयं निवर्तमानाः ।
यदुक्तं भावप्रकाशे-"आलस्यं तदभीष्टार्थात् व्रीडादेर्यन्निवर्तनम्" इति ।
साकूता भवतु पश्याम इतीव व्याहरन्त्यः सरसाः ।
रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ।
रोषारुणिम्ना विषयं विंलिंपन्त्यः मानानुविद्वाः दृष्टश्रुताद्यपराधजन्मा रोषोमानस्तेन संमूर्च्छिताः ज्वलत्कल्पा इत्यर्थः ।
अत्र केवलव्यञ्जनपौनरुक्त्यलक्षणामन्यथात्वम् ।
वृत्तिस्तु रोषवर्णनात्परुषा ।
आटोपेनेति ।
यद्यपि कवेर्वाणी प्रबलेन शब्दाडम्बरेण खेलन्ती प्रारम्भे प्रथते, तथापि सतां मानोरञ्जनं न कुरुते अमन्दैः सुन्दरैश्च गुणालङ्कारैः मुखरीकृतः सनिष्पन्दं विलसद्रसायन रसा सारानुसारी शृङ्गारादिको रसो यावन्न स्यादित्यत्र केवलवर्णा साम्यञ्चतुर्ष्वपि पादेष्वलङ्कारः ।
भ्फङ्कारितेत्यादावेकधा समुदायसादृश्यं रसायन रसेत्यत्र तु रसेति समुदायत्रयस्य परस्परसादृश्यमित्यनुसन्धेयम् ।
तथा च "आटोपे" त्यादौ गौडीया "अमन्दसुन्दरे" त्यादौ वैदर्भी, "गुणालङ्कारे"त्यादौ पाञ्चालीया च तत्तदर्थानुसारेण द्रष्टव्या ।
प्रकृष्टो वर्णविन्यासो रसाद्यनुगतो हि यः ।

सो ऽनुप्रासःस च छेक वृत्त्यु पाधिव शाद्रूद्विधा ॥
समुदायद्वयं यत्र विविधं साम्यमृच्छति ।
सच्छेकलालनात्प्रौढैः छ्रेकानुप्रासर् इरितः ॥
व्यञ्जनव्यापृतिर्वृत्तिः वर्णानां रसगोचरा ।
तत्संयोगदियं वर्णरचना वृत्तिरिष्यते ॥
सा वैदर्भ्यादिभेदेन त्रिधा पूर्वैर्निरूपिता ।
तयोपलक्षितत्त्वात्तु वृत्त्यनुप्रास इष्यते ॥
इत्थं वर्णालङ्कारो द्विधा दर्शितः ॥
अथ शब्दालङ्कारप्रस्तावः ।
तत्र यमकलक्षणाय सूत्रम् ।
स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम्
स्वरव्यञ्जनात्मकस्य शब्दसमुदायस्य यत्तेनैव रूपेण पुनर्वचनं तद्यमनाद्यमकम् ।
तस्य पादावृत्त्यर्धावृत्तादयो भेदाश्चिरन्तनैरेव बहुधा प्रपञ्चिताः ।
ते काव्यगडुभूता इति नेहप्रतन्यन्ते ।
किन्तु सर्वेषामेवैषां भेदानामेतद्वैचित्र्यत्रयम् आवहतीति अभिप्रायेणाह-अत्र कचिद्भिन्नार्थेत्यादि ।
यम्यमानयोः समुदाययोर्द्वयोरपि कचिद्भिन्नार्थता, क्वचिदनर्थकतका, क्वचिदेकसस्यार्थ वत्त्वमपरस्य अनर्थकत्वमिति क्रोडीकृतसकलविशेषमेतद्भेदत्रयम् ।
यो य इति ।
रुचिरे रम्ये वनजायते पद्मदलवत् दीर्घे तस्याः नेत्रे यो यः पश्ययति, तस्य तस्यान्यनेत्रेषु अभिरतिरेव न जायते ।
इदं द्वयोःसार्थकत्वे अनर्थकत्वे द्वैरूप्ये यथा- त्वं रावण! जगत्पुण्यैर्लङ्कालङ्कारभूरभूः ।
वाल्मीकेर्येन ववृधे सारःसारस्वतःस्वतः ॥
अत्र "रभूरभूरि" ति अनर्थकता ।
"लङ्कालङ्कारे"त्यादौद्वैरूप्यम् ।
इत्थमर्थपौनरुक्त्ये पुनरुक्तवदाभासं शब्दपौनरुक्त्ये तु अनुप्रासयमकालङ्कारौ च विवेचितौ ।
अयोभयपौनरुक्त्ये हेयांशं विभक्तुं सूत्रम् ।
शब्दार्थपौनरुक्त्यं प्ररुढं दोषः
प्ररुढग्रहणस्य प्रयोजनमाह-प्ररुढग्रहणमित्यादि ॥
अप्ररुढपौनरुक्त्यं वक्ष्यमाणो भेदः ।
तस्य प्ररुढाद्वैलक्षण्यमदोषात्मककत्वम् ।
तदेवादोषात्मकत्वमभियुक्तसंवादेन द्रढयति-यदाहुरित्यादि ।
शब्दस्यार्थस्य च पुनर्वचनमनुवादादतिरिक्ते विषये दोषः इत्यर्थः ।
अथोपादेयांशमधिकृत्य सूत्रम् ।
तात्पर्यभेदवत्तु लाटानुप्रासः
यत्र पौनरुक्त्ये शब्दार्थौ तावेव, तात्पर्यमात्रं त्वन्यत् ।
सो ऽयं लाटोपलालनात् लाटानुप्रासः ।
तस्मादसार्वजनीनत्वात् ग्राम्यानुप्रास इति केचित् ।
ताला जाग्रन्तीति ।
तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥
अत्र द्वितीययोर्गुण कमलशब्दयोः श्लाघाद्या श्रयत्वं तात्पर्यभेदः ।
ननु यत्र प्रकृतिमत्रं तदर्थश्च पुनरुच्यते, न प्रत्ययतदर्थौ, अत्र को ऽलङ्कार इत्यत आह-अत्राब्ज पत्रेत्यादि ।

विभक्त्यादेरिति ।
आद्योहि नयनशब्दो बहुव्रीहिवर्तित्वात् अन्यपदार्थलिङ्ग वचनविभक्तिकः ।
द्वितीयस्तु स्वलिङ्गवचनविभक्तिकः ।
अतो नेह विभक्त्यादेः पुनरुक्तिः ।
नापि लाटानुप्रासत्वहानिः ।
कुत इत्यत आह-बहुतरशब्दार्थपौनरुक्त्यादिति ।
इत्थं च सति पदनुबन्धनतया प्रातिपदिक मात्रनिबन्धनतया च लाटानुप्रासो द्विधा मन्तव्यः ।
अनन्वयाद्विशेषमस्य दर्शयति-काशाः काशा इवेत्यादि ।
अनन्वये ह्येकस्यैवोपमानोपमेयत्वम् ।
तत्र यद्यपि अर्थपौनरुक्त्यं लक्षणम्, अथापि शब्दपौनरुक्त्यं दोषभयादङ्गीक्रियत एव ।
"यथोद्देशस्तथैव प्रतिनिर्देश" इति न्यायोल्लङ्घने पर्यायप्रक्रमभेददोषप्रसङ्गात् ।
लाटानुप्रासे तु शब्दपौनरुक्त्यमपि लक्षणमिति विशेषः ।
तदेतदाह-अन्योन्यापेक्षेत्यादि ।
परस्परव्यपेक्षिणोः शब्दार्थयोः पौनरुक्त्यं लाटानुप्रासः ।
अनन्वये त्वर्थमात्रपौनरुक्त्यमित्यर्थः ।
अत्रार्थे सङ्ग्रहश्लोकः - अनन्वये तु इत्यादि ।
औचित्यादुद्देशप्रतिनिर्देशयोः ऐकरूप्यसमाश्रयणलक्षणात् ॥
यत्र तावेव शब्दार्थौ तात्पर्यं तु विभिद्यते ।
तत्पौनरुक्त्यमाचार्यैर्लाटानुप्रास इष्यते ॥
दोषापत्तिभयादेव शब्दैक्यं स्यादनन्वये ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव हि लक्षणम् ॥
अथ पौनरुक्त्यनिबन्धनानामलङ्काराणां नियमनाय सूत्रम् ।
तदेवं पौनरुक्त्ये पञ्चालङ्काराः
यथैवं पौनरुक्त्यं व्यपाश्रित्य वर्गशो ऽवतिष्ठन्ते ।
तथोपमादयो ऽपि साधर्म्यादिव्यपाश्रयेण वर्गशो ऽवस्थायिन इत्यव बोधितं मन्तव्यम् ।
तदिदं न्यायविदामवगतमेवेत्यभिप्रायेणाह-निगदव्याख्यातमिति ।
निगदशब्दोच्चारणं तन्मात्रेण प्रतीतार्थत्वात् व्यख्यातकल्पमित्यर्थः ।
अथ चित्रार्थं सूत्रम् ।
वर्णानां खङ्गाद्याकृतिहेतुत्वे चित्रम्
सङ्गतिमाह-पौनरुक्त्य - प्रस्ताव इत्यादि ।
स्थानविशेषेषु खङ्गाद्यवयवविशेषेषु विन्यासक्रमेणश्लिष्टानां वर्णानां यत्पाठे पौनरुक्त्यं तदात्मकस्य खङ्गबन्धादिचित्रस्य कथनं पौनरुक्त्यप्रस्तावे सङ्गच्छ्रत इत्यर्थः ।
ननु कथमयं शब्दालङ्कारः? लिपिसन्निविष्टानांवर्णानां वाचकत्वाभावात् इत्यत आह-यद्यपीत्यदि ।
खङ्गादिसन्निवेशो हि लिप्यक्षराणाम् एव न श्रोत्राकाश समवायिनाम्ष ।
वाचकत्वं तु श्रोत्राकाशसमवायिनामेव न पुनर्लिपि सन्निवेशिनाम् ।
इत्थं च सति खङ्गादिबन्धगतानां यद्यपि वाचकशब्दालङ्कारता नोपपद्यते, तथापि लौकिकानां लिप्यक्षरेशष्वपि वाचकत्वप्रतीतेवचिकशब्दालङ्कारत्वमुपचर्यत इति भावः ।
अतः स्थूलबुद्धिलालनीयत्वात् वाचकशब्दबहिर्भावाच्च नात्र कविभिरादरः कार्य इति मन्तव्यम् ।
आदिशब्दार्थमाह-आदिग्रहणादित्यादि ।
यथाव्युत्पत्तिसंभवं, यथा शब्दः प्रत्येकमभिसंबध्नाति ।
अतो यथाव्युत्पत्ति यथासंभवं च पद्ममुरज गोमूत्रिकादिबन्धानां परिग्रहो ऽभ्यनुज्ञायत इति शेषः ।
भासत इति ।

प्रतिभया सारभूत सभा ते भासते ।
बतेत्याश्चर्ये ।
रसाभाताशृङ्गारादिना समन्तादुपशोभिता ।
हताविभा निर्णाशितव्यामोहा ।
भावितात्मातत्संस्कारैः आत्मानं भावितवती ।
शुभा वादे तत्त्वबुभुत्सा(सया?) तु (वा?) विजिगीषया वा वादमात्रे विदग्धा ।
अत एव देवाभासुधर्मासदृशीत्यर्थः ।
अत्रोद्धारप्रकारमुपदिदिक्षु - एषो ऽष्टदल इत्यादि ।
दलानि दिक्षु चत्वारि चत्वारि च विगिक्षु, प्रथमाक्षरं कर्णिकायाम् ।
अथ दलेषु द्वयं द्वयमक्षराणां प्राग्दलात् प्रादक्षिण्येन पाठः ।
दिग्दलेषु प्रवेशनिर्गमौ ।
अत्रायं निष्कर्षः- कर्णिकायां लिखेदेकं द्वौ दिक्षु विविक्षु च ।
प्रवेशनिर्गमौदिक्षु पद्मबन्धो भवेदयम् ॥
आरोप्यलिपिवर्णानां साम्याद्वाचकवर्णताम् ।
खङ्गबन्धादिकं चित्रं काव्यालङ्कार इष्यते ॥
इति ॥
इति श्रीविद्याचक्रवर्तिकृतौ अलङ्कारसर्वस्वसञ्जीवन्यां शब्दालङ्कारप्रकरणम्
॥ अर्थार्थालङ्काराः ॥ तत्र सादृश्यविच्छ्रत्तिविशेषैः नानालङ्कारबीजभूतामुपमामादौ लक्षयितुं सूत्रम् ।
उपमानोपययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा
उपमीयते साधर्म्यं नयतीत्युपमानम् अप्राकरणिकोर्ऽथः तच्च नियमेन अधिकगुणमेव भवति गुणाधावृत्वात् ।
उपमीयते साधर्म्यं नीयते इत्युपमेयं प्राकरणिकोर्ऽथः तच्च नियमेनाधेयगुणत्वात् न्यूनगुणामेवं भवति ।
तयोर्यस्तुलित भदाभेदांशः समानधर्माभिसम्बन्धः , स उपमालङ्कार इति सूत्रार्थः ।
तदेतद् व्याचिख्यासुः प्रकरणाविभागायाह-अर्थालङ्कारेति ।
ननु साधर्म्यं नामैतदुपमानोपमेययोरेव भवति ।
न कार्यकारणादिकयोः ।
इत्थमपर्यवसानसिद्धयोरनयोः किं शब्दोपादानेनेत्यत आह-उपमानोपमेययोरितीत्यादि ।
सुद्धे सत्यारम्भो ऽयं, प्रसिद्धयोरेवोपमानोपमेययोरलङ्कारत्वमिति नियमाय ।
अतो मेरुसर्षपादौ विवक्षया परिकल्पयितुं शक्यो ऽपि उपमानोपमेयभावो नालङ्कारविषयः ।
अप्रतीतत्वादित्यनुसन्धेयम् ।
भेदाभेदेत्यस्य व्यावर्त्य दर्शयितुं साधर्म्यं प्रकारान्विविनक्ति साधर्म्ये यत्र इत्यादि ।
व्यकिरेकवदिति ।
"तत्र तस्येवेति"वतिः ।
व्यतिरेकालङ्कारे यथेत्यर्थः ।
यथास्यामिति ।
उदाहरिष्यत इति शेषः ।
भेगाभेदतुल्यत्व एवोपमा स्यादिति यदुक्तं तत्प्रामाणिकसंवादेन द्रढयितुमाह-यदाहुरित्यादि ।
भाष्यकृदादय इति शेषः ।
सामान्यं साधर्म्यम् ।
विशेषोवैधर्म्यम् ।
सदृशतायाः उपमाया; साधर्म्यवैधर्म्ययोः तुलया वृत्तावुपमा स्यादिति यावत् ।

यदेतदस्या उद्देशे प्राथम्यं तत्र प्रयोजनं दर्शयति-उपमैव चेति ।
प्रकारवैचित्र्येणेति ।
तथाहि-मुखं चन्द्र इवेत्युपमा ।
मुखं मुखमिवेत्यनन्वयः ।
मुखं चन्द्र इव सतदिवेत्युपमेयोपमा ।
दृष्ट्वा मुखं चन्द्रमनुस्मरामीति स्मरणम् ।
मुखमेव चन्द्र इति रूपकम् ।
मुखचन्द्रेण तापः शाम्यतीति परिणामः ।
किं चन्द्र आहोस्विन्मुखम् इति सन्देहः ।
मुखं चन्द्र इतिचकोरा नन्दन्तीति भ्रान्तिमान् ।
चन्द्र एव न मुखम् इति अपह्नुतः ।
नूनं चन्द्र इवेत्युत्प्रेक्षा ।
चन्द्रं पश्येत्यतिशयोक्तिः ।
अस्यां प्रावृषि मुखं चन्द्रबिम्बञ्च विच्छ्रायमित्येका तुल्ययोगिता ।
शरदि रम्यमितित्वन्या ।
इदं च तच्च रम्यमिति दीपकम् ।
मुखमेव रम्यं चन्द्र एव हृद्य इति प्रतिवस्तूपमा ।
भुविमुखं दिवि चन्द्र इति दृष्टान्तः ।
मुखदूषणं चन्द्रमसो मलिनीकरणमिति निदर्शना ।
चन्द्रादधिकं मुखं, मुखादधिकश्चन्द्र इति व्यतिकेकः ।
चन्द्रेण सह मुखमिति सहोक्तिः ।
न मुखेन विना चन्द्रः समीचीना इतिविनीक्तिः ।
कलाभिरामं मुखमिति समासोक्तिः ।
कलाभिरामौ मुखचन्द्राविति श्लेषः ।
नमस्ते चन्द्र प्रसन्नो ऽसि इत्यप्रस्तुतप्रशंसा ।
मुखे रोषो न दोषाय नहीन्दो र्निन्दायै कलङ्करेखेत्यर्थान्तन्यासः ।
इत्थं स्वप्रकारवैचित्र्येण सादृश्यविच्छ्रित्तिविशेषात्मना यतो नानालङ्कारनिदानभूता, अतोर्ऽथालङ्कारेषु प्रथमं निर्दिष्टेति यावत् ।
स्थूलप्रभेदप्रथनभीरुता माविश्चिकीर्षुराह-अस्याश्च पूर्णेत्यादि ।
पूर्णालुत्पात्वेत्यत्र भाषितपुंस्कत्वाभावात् न पुंवद्भावः ।
संज्ञे हि खलूपमाया एते पूर्णालुत्पाचेति ।
तत्रोपमानोपमेयसाधारणधर्म उपमाप्रतिपादकानां चतुर्णामपि शब्दो पादानेपूर्णा ।
एकस्य द्वयोस्त्रयाणां वा लोपे लुत्पा ।
अनयोर्भेदप्रभेदवैचित्र्यसहस्रमस्माभिः संप्रदायप्रकाशिन्यां काव्यप्रकाशबृहट्टीकायां वितत्य दर्शितम् ।
लघुटौकायां च यथोपयोगमिति ततो ऽवधार्यम् ।
अयं पुनराचार्यः सर्वस्यैवोपमाप्रपञ्चस्य अन्यैः अनुपपादितचर वैचित्र्यत्रयमुपपादयिषुराह-तत्रापि साधारणाधर्मस्येत्यादि ।
अनुगामितया उभयाभिसंबन्धार्हतया ।
मुखं चन्द्र इव हृद्यमित्येकेनैव रूपेण हृद्य त्वादेःसाधारणधर्मस्य निर्देशः क्रियते इत्येकं वैचित्र्यम् ।
अथ वस्तुप्रतिवस्तुभावेन पृथङ्निर्देश इति द्वितीयम् ।
एकोर्ऽथो वस्तुत्वेनोपमेयगतः प्रतिवस्तुत्वेन निर्दिश्यत इति यावत् ।
यदैवं पृथङ्निर्देशः, तदावान्तरभेदो ऽस्तीत्याह-पृथङ्निर्देशेचेत्यादिना ।

सम्बन्धिभेदमात्रमिति ।
"वलितकन्धरमाननमावृत्तवृन्तशतपत्रनिभम्" इत्यादौ हि येन सह संबध्नाति साधारणो धर्मः स सम्बन्धी, केवलं भिन्नः एकत्र कन्धरा अपरत्र वृन्तं तद्भेदोपाधिना स्वयमभिन्नो ऽपि अभेदोधर्मोभेदेन निर्दिष्टः ।
इदमेकं वैचित्र्यम् ।
प्रतिवस्तूपावदिति ।
यथा प्रतिवस्तूपमायाम् ।
अभिन्न धर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् ।
यदा प्रतिवस्तूपमायाम् ।
अभिन्नधर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् ।
यदा पुनरंसार्पित हारो ऽयं सनिर्झरोद्गार इवेत्यादौ साधर्म्यं धर्मिद्वारकं, तदा द्वयोरैकात्म्यभावात् न वस्तुप्रतिवस्तुभावः ।
अपि तु बिम्बप्रतिबिम्बभावनय इत्याह-बिम्बप्रतिबिम्बभावो वेति ।
प्रतिबिम्बं प्रतिमा ।
हारनिर्झरादौ हि बिम्बप्रतिबिम्बनयेनसाधर्म्यावगतिः ।
अत्र नये दृष्टान्तालङ्कारं दृष्टान्तयति-दृष्टान्तवदिति ।
अत्रैतदाकूतम् ।
या यावती संभवत्युपमापूर्णा लुत्पा च सप्रभेदप्रपञ्चा सा सर्वैवास्मदुपदर्शितेन वैचित्र्यत्रयेण त्रिधा प्रथत इति ।
प्रभामहत्येति ।
प्रभापेक्षया महतीति कथनात् स्वापेक्षया तन्वीति विवक्ष्यते ।
तदेतत्प्रभामहत्त्वं दीपशिखापेक्षया देव्याः साधारणो धर्मः ।
उभे हि खलु एते स्वापेक्षया तनीयस्यौ प्रभापेक्षया तु महत्यौ ।
एवं संस्कारवत्त्वं वागपेक्षया ।
तत्र वाचिसंस्कारो व्याकृतिः, देव्यां तु निसर्गसिद्धदिव्यानुभाववासनानुवृत्तिः ।
त्रिमार्गयेत्यत्र तु साधारणधर्मः प्रतीयमानः ।
न चात्र प्रक्रमभेदः शङ्क्यः ।
जगत्पावनत्वादेःसाधारणधर्मस्य उभयत्रापि सुप्रसिद्धतमस्य शब्दोपादाननिरपेक्षत्वात् ।
इत्थं च सत्यनुपात्तस्यापि साधारणधर्मस्यानु गामितयैकरूप्येण निर्देश उदाहृतो मन्तव्यः ।
यद्वा त्रिमार्गयेत्येतदेव तन्त्रेण न्यायेन देवीविशेषणतयापि सङ्गच्छ्रते ।
तथाहि-त्रिवृत्करणादिवैदिकप्रक्रियानुसारेण वा, त्रैपुरादितान्त्रिकप्रक्रियानुसारेण वा देव्यास्त्रिमार्गत्वं प्रसिद्धमेव ।
हिमगिरेस्तु दीपत्रिदिवमार्गमनीषिभिःसह साधारणो धर्मः पूतत्वम् ।
विभूषितत्वं या आद्यन्तवाक्यापेक्षया पूर्णोपमा ।
मध्यमवाक्यापेक्षया लुत्पसाधारणधर्मा ।
तत्रापि सा पूर्णैव वा ।
सा च मालारूपेणावस्थानान्मालोपमेत्यादि वैचित्र्यमनुसन्धेयम् ।
अथ वस्तुप्रतिवस्तुभावेनोदाहरति-यान्त्येति ।
मालतीविलाससाक्षात्कारोत्क्षुभितमन्मथस्य माधवस्येयमुक्तिः ।
यान्त्या उपवनात्पुरं प्रति करेणुकया गच्छन्त्यासहचरीसंल्लापादिव्यपदेशेन वारंवारमपवृत्तशिरोधरा, अत एव आवृत्तवृन्तस्य कलहंसकर्णकण्डूयनादिना विवलितबन्धनस्य कुशेशयस्य सदृश्यम् आननम् वहन्त्याः कटाक्षो मे हृदये निखातः ।
अपाङ्गे निक्षित्पा चक्षुःप्रभा स कटाक्षः, सः कीलित इव ।
केन प्रकारेण? गाढं परिचाल्यापि उत्कीलयितुं न शक्यते, यथा तथेति यावत् ।
कीट्टक्कटाक्षः? अमृतेन दिग्धः लित्पः, यतस्तदा जीवातुरभूत् ।
विषेण च दिग्धः यतःसंप्रति दहति ।
अत्रैक एव धर्मःसम्बन्धिभेदेन वलितावृत्तशब्दाभ्यां वस्तुप्रतिवस्तुभावेन निर्दिष्टः ।

वस्तुप्रतिवस्तुभावो ऽयं धर्मापेक्ष एव ।
बिम्बप्रतिबिम्बभावस्तु धर्म्यपेक्ष इति व्यवस्थार्थमाह-धर्म्यंभिप्रायेणेत्यादि ।
पाण्ड्यो ऽयमिति ।
हारनिर्झरादीनां धर्मित्वाद्विम्बप्रतिबिम्बभावः ।
भेदाभेदतुलावृत्तौ साधर्म्यमुपमोच्यते ।
धर्मविच्छित्तिवशतः त्रैविध्यमुपयाति सा ॥
अनन्वयं सूत्रयति-
एकस्यैवोपमानोपमेयत्वे अनन्वयः
ननु उपमेयत्वमुपमानत्वं च कथमेकत्रैव सङ्गच्छ्त इत्याह-वाच्याभिप्रायेणोत्यादि ।
पूर्वं रूपमुपमेयत्वं तदनुगमो वाच्याभिप्रायेण यत्पुनरपूर्वं रूपमुपमानत्वं तदनुगमो व्यङ्ग्याभिप्रायेणेति यावत् ।
नन्वेकत्र विरुद्धधर्मोपनिबन्धलभ्यः कोर्ऽथ इत्यत आह-एकस्य तु विरुद्धेत्यादि ।
सब्रह्मचारी सदृशः ।
एकस्यैवोपमानोपमेतत्वकॢत्पिः सदृशान्तरसम्बन्धनिवृत्त्यर्थमित्यर्थः ।
यत इत्थं सदृशान्तरस्यानन्वयः अतःसंज्ञेयमन्वर्थेत्याह-अत एवानन्वय इत्यादि ।
योगः प्रवृत्तिनिमित्तम् ।
अपि शब्देन सदृशान्तरनिवृत्तिःसमुञ्चीयते ।
यद्धेर्ऽजुन इति ।
उत्प्रासनमभिप्रायपरिज्ञानम् ।
अत्र प्रथमार्जुनभीमशब्दौ वाच्यपरौ, चरमौ तु व्यङ्ग्यपरौ ।
विरुद्धधर्मसंसर्गस्तुल्यान्तरनिवृत्तये ।
अतस्तदन्वयाभावात् भवेदयमनन्वयः ॥
अथ तृतीयसब्रह्मचारिनिवृत्तिफलीमुपमेयोपमां सूत्रयति-
द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा
द्वयोरुपमानोपमेयभावविनिमये सत्युपमेयोपमालङ्कार इत्यर्थः ।
तदेतद्व्याचष्टे-तच्छब्देनेत्यादि ।
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्श इति वदता सन्निहितानन्वयप्रत्यवमर्शशङ्का निवार्यते ।
अनन्वयाद्वैधर्म्यान्तरं दर्शयितुमाह-पर्याय इत्यादि ।
यौगपद्यमिहैकवाक्यानुप्रवेशः ।
तदभावाद्भिन्नवाक्यत्वमेवेत्याह-अतैवत्विति ।
अत्रायमाशयः ।
उपमेयमुद्देश्यम्, उपमानं तु विधेयम् ।
इत्थं च सत्युपमानोपमेयभावव्यत्ययो वाक्यैकवाक्यतामन्तरेण न संभवति ।
अनन्वये तु पदैकवाक्यतैवेति ।
अत्र बिम्बप्रतिबिम्बभावो न संभवति ।
भिन्नवाक्यत्वेन तन्निबन्धनवैचित्र्यप्रतीतेः ।
साधर्म्यनिबन्धनमन्यत् ।
वैचित्र्यद्वयं संभवतीत्याह-इयं तु धर्मस्येत्यादि ।
साधारण्यमैक्यरूप्येण निर्देशः ।
वस्तुप्रतिवस्तुभावस्तु प्रतीतचरः ।
खमिवेति ।

अत्र प्रतीयमानस्य नैर्मल्यधर्मस्यानुगामित्वेन साधारण्यम् ।
सच्छ्रायेति ।
छ्राया, शोभा अत्र सच्छायत्वं सम्बन्धिभेदाद्भिन्नम् ।
उपमानोपमेयत्वव्यत्ययो न क्रमं विना ।
उपमेयोपमा तेन वाक्यभेदैकगोचरा ॥
अथ स्मरणं सूत्रयति-
सदृशानुभावाद्वस्त्वन्तरस्मृतिः स्मरणम्
सदृशानुभवात् सदृशान्तरस्मरणं स्म्रणालङ्कारः ।
व्याचष्टे-वस्त्वन्तरमिति ।
सदृशं समभिव्याहाराद्वस्त्वन्तरसदृशमेवेति भावः ।
द्विष्ठस्य धर्मस्य एकत्र स्थास्नोः प्रतियोग्यपेक्षामन्तरेण अनुपरमादनुमानवैर्म्यायाह-अवनाभावेत्यादि ।
अविनाभावो व्यात्पिः ।
नहि गवादिदर्शने नियमेन गवयादिसदृशान्तरस्मरणमस्ति ।
तादात्म्यवदुत्पत्त्योरन्यतराभावेनालिङ्गत्वात् ।
अतिशयितेति ।
इयं योद्धुकामं लवमालोक्य सकौतुकस्य सूतस्य चन्द्रकेतुं प्रत्युक्तिः ।
तदैव तुल्यरूपमिति सदृशानुभावोद्गघाटनम् ।
असादृश्यहेतुका स्मृतिर्नस्मरणालङ्कार इत्याह-सादृश्यं विना त्विति ।
प्रत्युदाहरति-अत्रानुगोदमिति ।
अत्र हि पूर्वानुभूतार्थदर्शनादेव स्मृतिः न तु सदृशानुभवात् ।
प्रसङ्गात् गूढमभवन्मतयोगदोषमुद्घाटयति-अत्र च कर्तृविशेषणानामित्यादि ।
मृगयादशाभाविकर्तृविशेषणानां स्मरामीति स्मरणक्रियाकर्तृर्दाशरथेर्विशेषणानां मृगयनिवृत्त्यादीनां स्मर्तव्यदशाभावित्वे ऽनुभूतचरत्वात् ।
स्मर्तव्यमृगयादशभावित्वे युक्ते स्मर्तृदशाभावित्वं मृगयानिवृत्तिंस्मरामीति स्मरणकालभावित्वमसमीचीनम् ।
नहि मृगयानिवृत्त्यपनीतखेदत्वादिविशिष्टस्मृतिः ।
किन्तु मृगयानिवृत्त्यादिकं स्मर्तव्यसुत्पिविशेषणमत इष्टार्थो ऽपि न भवतीत्यभवन्मतयोगाख्यो ऽयं दोषः ।
ननु यदि प्रेयो ऽलङ्कारो रतिभावात्मकः, न तदा स्मृतिः ।
यदा तु व्यभिचारिभावात्मकस्तदा स्मृतिरूपो ऽपि कदाचित्संभवति ।
ततो ऽस्य स्मरणालङ्कारस्य किं वैधर्म्यमित्यत आह-प्रेयो ऽसङ्कारास्य त्वित्यादि ।
उदाहृत्य दर्शयति-अहो कोपे ऽपि कान्तं मुखमित्यादि ।
अत्राभिनिविष्टस्य नायकस्य प्रियानुरागसंस्काराणां सस्कारान्तराभिभाव कतयाभूयोभूयःसमुद्धुध्यमानानां महिम्नैव स्मृतिः, नहि सदृशानुभावात् ।
वैधर्म्यान्तरमुद्धावयति-तत्रापि विभावेत्यादि ।
विभावानुभावादिभिः यदा स्मृतिर्व्यज्यते, तदैव हि भावालङ्कारः ।
यैर्दृष्टो ऽसीति ।
प्रासप्रहारनेत्रयोरसृक्स्त्रुत्यनलज्वालयोः परपातनकालदहनयोः नायकस्मररिप्वोश्च सादृश्यं विवक्ष्यते ।
अत्र यो ऽयं सदृशवस्त्वन्तरानुभावोयैर्दृष्टो ऽसीति निर्दिष्टः ।
नासौ स्मररिपुस्मरणजननात्स्मरणालङ्कारः किन्त्वशक्यस्मररिपुदर्शनकौतुकास्तमयरूपार्थान्तरकरणात्मा विशेषालङ्कारः ।
एतद्दर्शनेन तदपि सिद्धमिति प्रतीतेः ।
नन्वशक्यवस्त्वन्तरकरणं विशेषालङ्कारस्य लक्षणं, इह तु करणं नोपलभामह इत्यत आह-करणास्येत्यादि ।
कृञ्भ्वस्त्यर्थानां सर्वधात्वनुयायित्वात् क्रियायाःसामान्यात्मा करोत्यर्थः दर्शने ऽपि संभवत ।
यिदुक्तमस्माभिः प्रयोगदीपिकायाम् ।

मूल पाठ: Alaṃkārasarvasva with Vidyācakravarti's commentary Saṃjīvanī · Edition: S.S. Janaki: Alamkara-sarvasva of Ruyyaka, with Sanjivani Commentary of Vidyacakravartin - Text and Study, Delhi : Meharchand Lachhmandas 1965 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc