अलंकारसर्वस्व (टीका सहित) · भाग 6180
क्वचिच्छलादिशब्दप्रयोगे सापह्नवात्प्रेक्षा भवति ।
अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः ।
रुअस्स्च्_22।1:
एतदेव व्याचष्टे - विषयेत्यादिना ।
अभेदप्रतिपत्तिरिति विषयान्तःकरणात् ।
संभावनाप्रत्ययात्मकत्वे ऽपि साध्याध्यवसायस्य वस्त्वभिप्रायेण तद्वैलक्षण्यं प्रदर्शयितुमाह-साध्य इत्यादि ।
विषयपरिशोधनद्वारेण प्रमाणानुग्राहकत्वात्संभावनाप्रत्ययस्य पुरुषेणनेन भवितव्यमित्यत्र वस्तुवृत्तेन पुरुषस्य सत्यत्वम् ।
इह पुनस्तत्र तस्य प्रयोजनपरतयाध्यवसीयमानत्वात्संवनाविषये संभाव्यमानस्य वस्तुतो न सत्यत्वमित्याह-असत्यतया प्रतीतिरिति ।
अत्रैव निमित्तमाह-असत्यत्वं चेत्यादिष ।
विषय उपनिबन्ध इति ।
तद्गतधर्माभेदेनाध्यवसित इत्यर्थः ।
अनेनसप्रयोजनत्वमेवोपोद्वलितम् ।
धर्म इति विषयिगतः ।
स एव चोत्प्रेक्षणे निमित्तम् ।
तस्येति धर्मस्य ।
संभावनाश्रयस्येति विषयिणः ।
तत्रेति संभावनाश्रये विषये ।
इतरस्येति असंभवाश्रयस्य विषयस्य ।
यस्येति विषयिणः ।
अतंश्चेति ।
अध्यवसायस्य साध्यमानत्वात् ।
असत्यस्यापीति ।
वस्तुतो विषयिणस्तत्रासंभवात् ।
सत्यताप्रतीतिरिति ।
निश्चयस्वभावत्वादतिशयोक्तेः ।
असत्यत्वनिमित्तस्यन्ति धर्मसंचारादेः ।
अतश्चेति धर्मसंचारात्रिगीयमाणतायाः प्राधान्याभावात् ।
अध्यवसितप्राधान्यमिति विषयस्य निगीर्णत्वाद्विषयिण एव प्राधान्यमित्यर्थः ।
साध्यत्वसिद्धत्वयोश्च समनन्तरमेवस्वरूपमुपपादितमितीह न पुनरायस्तम् ।
तत्रेति द्वयनिर्धारणे ।
अध्यवसाय इत्यादिशब्दैरुच्चत इति संबन्धः ।
एतदेवोपसंहरति-तदेवमित्यादि ।
यदाहुः-ऽविवयित्वेन संभावनमुप्रेक्षाऽ इति ।
प्रतीयमानायामिति ।
इवाद्यप्रयोगाच्छब्दानुक्तत्वादूह्यायां न व्यङ्गयायाम्,अलङ्कारप्रभेदानां प्रतिपिपादयिषितत्वाद् व्यङ्ग्यभेदाभिधानस्याप्रस्तुतत्वात् ।
एवं वाच्या प्रतीयमाना चोत्प्रेक्षा भवतीत्यनुवादद्वारेण विधिः ।
सा चेति ।
वैचित्र्यमिति ।
तस्य निगीर्थमाणत्वेनाप्राधान्यात् ।
प्रत्येकमिति जात्यादीनाम् ।
निमित्तस्येति धर्मस्य ।
तद्वशादेव हि प्रकृतगतत्वेनाप्रकृतोपनिबन्धः ।
हेतुस्वरूपफललक्षणमेवास्या भेदत्रयं जीवितभूतमिति तदेव विश्रान्तिधामतया पश्चादुद्दिष्टम् ।
जात्यादिभेदगणनं पुनरवैचित्र्यावहमपि चिरन्तनानुरोधात्कृतम् ।
अत एव ग्रन्थकृता प्रातिपद्येन नोदाहृतम् ।
अस्माभिश्च नोदाहरिष्यते ।
एषेति ।
समनन्तरोक्ता ।
तत्रापीति ।
सत्यामपि समनन्तरोद्दष्टायां भेदगणमायाम् ।
प्रायःशब्देन च हेतुफलयोः कुत्रापि संभवो ऽस्तीति दर्शितम् ।
अत एवालङ्कारानुसारिण्यां ग्रन्थकृतानयोरपि संभवो दर्शितः ।
तदेवं द्रव्यस्य हेतुफलयोः संभवे प्रागुक्तैव संख्या ज्यायसी ।
अन्यथा त्वेतद्भेदषोडशकत्याभावादशीतिर्भेदाः ।
अस्याश्च वक्ष्यमाणनीत्या हेतुफलयोर्निमित्तानुपादानासंभवाच्चतुःषष्टिरेव भेदाः संभवन्ति ।
एतावन्त इति षण्णवतिः ।
अयं प्रकार इति ।
प्रतीयमानोत्प्रेक्षालक्षणः ।
प्राय इति ।
वाच्या यथा स्वरूपोत्प्रेक्षा लक्षयेषु प्रचुरा तथेयं न भवतीत्यर्थः ।
न पुनरत्यन्तमेवास्या अभावो श्चाष्टचत्वार्रिशद्भेदाः संभवन्ति ।
तदुक्तमलङ्कारानुसारिण्याम्-ऽप्रतीयमानोत्प्रेक्षाभेदा अष् चत्वारिंशत्ऽ इति ।
अर्थाश्रयापीति ।
अर्थाश्रयस्य यद्यपि शब्दहेतुकत्वं न क्वाप्युपयुक्तं तथापि श्लिष्टशब्दहेतुकत्वमस्याः क्वचिद्वैचित्र्यमावहतीत्यर्थः ।
उपमा उत्प्रेक्षायां पर्यवस्यतीति संबन्धः ।
आनन्त्यमिति बहु प्रकारत्वम् ।
रुअस्स्_22।2:
साप्रतं त्वियं दिड्व्रात्रेणोदाह्नियते ।
तत्र जात्युत्प्रेक्षा यथा-
ऽस वः पायादिन्दुर्नवबिसलताकोटिकुटिलः- स्मारारेर्यो मूर्ध्नि ज्वलनकपिशो भाति निहितः ।
स्त्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इवऽ ॥
अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते ।
क्रियोत्प्रेक्षा यथा--
ऽलिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभःऽ ।
अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते ।
उत्तरार्धे तु ऽअसत्पुरुषसेवेव दृष्टिर्निष्फलतां गताऽ ॥
इत्यत्रोपमैव नोत्प्रेक्षा ।
गुणोत्प्रेक्षा यथा-
ऽसैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽ ॥
अत्र दुखं गुणः ।
द्रव्योत्प्रेक्षा यथा-
ऽपातालमेतन्नयनोत्सवेन विलोक्य शून्यं मृगलाञ्छनेन ।
इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिःऽ ॥
अत्र चन्द्रस्यैकत्वाद् द्रव्यत्वम् ।
एतानि भावाभिमाने उदाहरणानि ।
रुअस्स्च्_22।2:
सांप्रतमिति प्रात्पावसरम् ।
दिङ्मात्रेणेति ।
अनेन जात्यादिभेदानामनवक्लत्पिर्ध्वनिता ।
तमोगतत्वेनेति ।
तमोगतव्यापनादिधर्मनिगरणेनेत्यर्थः ।
अत्र हि तमसो धर्मिणो ऽन्यधर्मधर्मित्वं निगीर्यान्यधर्मधर्मित्वमवस्थापितमित्यग्र एव वक्ष्यामः ।
द्रव्योत्प्रेक्षेति ।
द्रव्यस्य स्वरूपेणोत्प्रेक्षणम् ।
तस्यैव हि हेतूत्प्रेक्षा यथा -
ऽजयति शिशिरतायाः कारणं सा हिमाद्रे- स्त्रिपुरहरकिरीटादापतन्ती द्युसिन्धुः ।
सततसहनिवासी क्षीरसिन्धोः प्रसूतो- हिमकर इव हेतुः श्वैत्यशैत्यस्य यस्याःऽ ॥
अत्रेन्दोर्द्रष्यस्य हेतुत्वेनोत्प्रेक्षणम् ।
फलोत्प्रेक्षा यथा -
ऽमध्येसलिलमादित्यसंमुखं धूलिधूसराः ।
कुमुदिन्यस्तपस्यन्ति चन्द्रायेव दिने-दिनेऽ ॥
अत्र चान्द्रस्य द्रव्यत्वम् ।
एषामेव भावाभिमानोदाहरणत्वमतिदिशति-एतानीत्यादिना ।
रुअस्स्_22।3:
अभावाभिमाने यथा-
ऽकपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौऽ ॥
अत्रापश्यन्ताविति क्रियाया अभावाभिमानः ।
एवं जात्यादावप्यूद्यम् ।
गुणस्य निमित्तत्वं यथा-
ऽनवबिसलताकोटिकुटिलःऽ इत्यत्रोदाहृते कुटिलत्वस्य ।
क्रियाया यथा- र्ऽइदृक्षां क्षामतां गतौऽ इत्यत्र क्षामतागमनस्य ।
निमित्तोपादानस्यैते उदाहरणे ।
अनुपादाने ऽलिम्पतीव तमो ऽङ्गानिऽ इत्याद्युदाहरणम् ।
हेतूत्प्रेक्षा यथा - ऽविश्लेषदुःखादिव बद्धमौनम्ऽ इत्यादौ ।
स्वारूपोत्प्रेक्षा यथा - ऽकुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिः श्वासमिवोत्ससर्जऽ ॥
फलोत्प्रेक्षा यथा - ऽचोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणिऽ ॥
एवं वाच्योत्प्रेक्षाया उदाहरणदिग् दत्ता ।
प्रतीयमानोत्प्रेक्षा यथा -
ऽमहिलासहःसभरिए तुह हिअए सुहअ सा असाअन्ती ।
अणुदिणमणण्णअम्भा अङ्गं तणुअंपि तणुएइऽ ॥
(ऽमहिलासहस्रभरिते तव हृदये सुभग सा अमान्ती ।
अनुदिनमनन्यकर्मा अङ्गं तनकमपि तनयतिऽ ॥) ॥
अत्र-
अमाअन्तीत्यवर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम् ।
एवं भेदान्तरेष्वपि ज्ञेयम् ।
रुअस्स्च्_22।3:
अभ्यूह्यमिति अभावाभिमानोदाहरणम् ।
निमित्तोपादानस्येति ।
कुटिलत्वस्य क्षामतागमनस्य च साक्षान्निर्देशात् ।
अनुपादान इति ।
तिरोधायकत्वादेर्निमित्तस्य गम्यमानत्वात् ।
भेदान्तरेष्विति स्वरूपफलादिकेषु ।
ज्ञेयमिति प्रतीयमानत्वात् ।
तत्र स्वरूपोत्प्रेक्षा यथा -
ऽमलअसमीरसमागमसंतोसपणिच्चाराभिसव्वत्तो ।
विध्याइह चलकिसलजकराहि साहाहि महुलच्छ्रीऽ ॥
(ऽमलयसमीर - समागम -संतोष -पाटच्चराभिः सर्वत्र ।
विव्याहरति चलकिसलकराभिः शाखामिर्मधुलक्ष्मीःऽ) ॥
अत्र मधुलक्ष्मीगतत्वेन चलकिसलयकरत्वादि निगीर्य व्याहरणक्रिया स्वरूपेनोत्प्रेक्षिता ।
तदौन्मुख्योत्पादकत्वादि च निमित्तमनुपात्तम् ।
यत्पुनरुद्देशे प्रतीयमानोत्प्रेक्षायां निमित्तानुपादानं न संभवतीत्युक्तं तत्र प्रायस्तस्याः स्वरूपोत्प्रेक्षणस्यासंभवो निमित्तम् ।
ग्रन्थकृतो हि प्रतीयमानोप्रेक्षा हेतुफलरूपैव भवतीत्यभिप्रायः ।
हेतुफलोत्प्रेक्षणयोश्चवक्ष्यमाणनीत्या निमित्तानुपादानं न संभवतीत्याशयेनैतदुक्तम् ।
तेन प्रतीयमानापि स्वरूपोत्प्रेक्षा निमित्तोपादानानुपादानाभ्यामेव भवति ।
तत्र निमित्तानुपादाने उदाहृता ।
उपादाने तु यथा -
ऽप्रसारि सर्वतो विश्वं तिरोदधदिदं तमः ।
सर्वाङ्गं लिम्पति जनं सान्द्रैरमृतकूर्चकैःऽ ॥
अत्र प्रसारित्वादि निगीर्य तमागतत्वेन लेपनक्रिया स्वरूपेणेत्प्रेक्षिता तिरोधायकत्वादि च निमित्तम् ।
ऽतुरीयो ह्येष मेध्यो ऽग्निराम्नायः पञ्चमो ऽपि वा ।
अपि वा जङ्गमं तीर्धं धर्मो वा मूर्तिसंचरःऽ ॥
इत्यादौ तु वामनतमते विशेषोक्तिः-ऽभूतलकार्तिकेयःऽइतिवत् ।
ग्रन्थकृन्मते तु दृढारोपं रूपकम् ।
यद्वक्षति-या त्वेकहानिकल्पनायां साम्यदाढर्थं विशेषोक्तिरिति विशेषोक्तिर्लक्षिता सास्मद्दर्शने रूपकभेद एवेति ।
अत एवात्र तत्सामग्रबभावादुत्प्रेक्षोदाहरणत्वं न वाच्यम् ।
एवम् ऽअपरः पाकशासनो राजाऽ इत्यत्रापि दृढारोपमेव रूपकम् ।
एतच्चालङ्कारानुसारिण्यामुत्प्रेक्षाविचारे ग्रन्थकृतैव दर्शितम् ।
फलोत्प्रेक्षा यथा-
ऽगिज्जन्ते मङ्गलगाहिआहि वरगोत्तकरण्णए ।
सोत्तं विणिग्गओ उऐ हाएन्तबहुआहि रोमङ्क्षोऽ ॥
(ऽगृह्यन्ते मङ्गलग्राहिकाभिर्वरगोत्रदत्तकर्णायाः ।
श्रोतुं विनिर्गतः पश्यत भविष्यद्वध्वा हि रोमाञ्चःऽ) ॥
अत्र श्रोतुमिवेति फलमुत्प्रेक्षितम् ।
रुअस्स्_22।4:
श्लिष्टशब्दहेतुर्यथा - ऽअनन्यसामान्यतया प्रसिद्धस्त्तयागीति गीतो जगतीतले यः ।
अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम्ऽ ॥
अत्र धर्मविषये मार्गणशब्दः श्लिष्टः ।
रुअस्स्च्_22।4:
श्लिष्ट इत्यथिशरवाचकत्वात् ।
रुअस्स्_22।5:
उपमोपक्रमोत्प्रेक्षा यथा - ऽकस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि ।
याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विशषःऽ ॥
अत्र यद्यपि ऽसर्वप्रातिपदिकेभ्यः क्किप्ऽ इत्युपमानात्क्किब्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभावनोत्थने उत्प्रेक्षायां पर्यवसानम् ।
यथा वा विरहवणंने ऽकेयूरायितमङ्गदैःऽ इत्यादौ ।
एषापि समस्तोपमाप्रतीपादकविषये ऽपि हर्षचरितवार्तिते साहित्यमीमांसायां च तेषु तेषु प्रदेशेषुदाहृता, इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता ।
रुअस्स्च्_22।5:
आमुख इति न पुनः पर्यवसाने ।
उपमाप्रतीतिरिति ।
तदर्थमेव क्विपः प्रवृत्तेः ।
अत एवात्र वाचकाभावान्नोत्प्रेक्षात्वमिति न वाच्यम् ।
नहि वाचकसंभवासंभवासंभवमात्रमेवालङ्काराणां भावाभावप्रयोजकम् ।
एवं हि व्याजस्तुतौ निन्दादेर्वाच्यत्वे ऽप्यवाच्यस्य स्तुत्यादेः प्रतीतिरलङ्कारत्वपर्यवसायिनी न स्यात् ।
तस्माद्वाक्यार्थ एव प्ररुढो ऽलङ्काराणां स्वरूपप्रतिष्टापकं प्रमाणम् ।
वाक्यार्थस्य च पदार्थान्वयवेलातो ऽन्यैव प्रतिपत्तिः ।
संभवौचित्यादिति ।
कस्तूरीतिलकादेर्विषयिणो भालफलकादौ संभवे यथौचित्यं न तथाकण्ठत्विडादेर्विषयस्येत्यर्थः ।
अत एवात्रोपमायाः प्रकृतस्याप्रकृतकस्तूरीलिलकादिरूपतया परिणामात्परिणामगर्भत्वं यदन्यैरुक्तं तत्तेषां परिणामस्वरूपानभिज्ञात्वम् ।
न औचित्यमेव तस्य स्वरूपं किं तु यथोक्तं प्रकृतोपयोगित्वम् ।
औचित्यं च नोत्प्रेक्षायां विरुद्धम् ।
तस्य सर्वत्रैव भावात् ।
उत्प्रेक्षायां पर्यवसानमिति ।
कण्ठत्विषामेव कस्तूरीतिलकत्वादिप्रतीतेर्विषयिणो विषयनिगरणेनाभेदप्रतिपत्तेः सादृश्यावगमाभावात् ।
सादृश्यं झुभयनिष्टम् ।
न चात्र प्रकृताप्रकृतयोः संल्पधितया प्रतीतिः ।
यथा वेत्यनेनास्या लक्ष्ये प्राचुर्यं दर्शितम् ।
समस्तोपमाप्रतिपादकविषये दृश्यमाना ।
सा तु यथा-
ऽस दण्डपादो भवदण्डपादमुत्खण्डयन्रक्षतु चण्डीकायाः ।
यस्येन्दुलेखा पुरतः स्फुरन्ती त्रुट्यत्तुलकोटितुलामुपैतिऽ ॥
अत्र सत्यपि तुलाशब्दे चन्द्रलेखाया एव तुलाकोटित्वप्रतीतेरुत्प्रेक्षात्वम् ।
रुअस्स्_22।6:
सापह्नवोत्प्रेक्षा यथा-
ऽगतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्राऽ ॥
अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगाच्चापह्नवो गम्यते ।
एवं छद्मादिशब्दप्रयोगे ऽपि ज्ञेयम् ।
ऽअपर इव पाकशासनःऽ इत्यादावपरशब्दाप्रयोगे उपमैवेयम् ।
तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावध्यवसायसंभावादिवशब्देन च तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेयम् ।
इवशबादाप्रयोगे सिद्धत्वादध्यवसायस्यातिशयोक्तिः ।
इवापरशब्दयोरप्रयोगे तु रूपकम् ।
तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्षते स धर्मो ऽध्यवसायवशादभिन्न उत्प्रेक्षायां निमित्तत्वेनाश्रीयते ।
स च वाच्य एव नियमेन भवति ।
अन्यथा कं प्रति हेतुः स्यात् ।
यथा-ऽअपश्यन्ताविवान्योन्यम्ऽ इत्यादौ ।
अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् ।
हेतुफलं च क्षामतागमनं तत्र निमित्तम् ।
एवम् ऽअदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽइत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम् ।
तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् ।
एवं सर्वत्र ।
रुअस्स्च्_22।6:
छद्मशब्दप्रयोगेण यथा -
ऽस्वेदोदबिन्दुसंदोहच्छ्रदमना तव राजते ।
स्मरेणावैम्यनर्घापि दत्तार्घेव कुचस्थलीऽ ॥
अस्याश्च तत्तच्छ्रब्दप्रयोगाप्रयोगाभ्यां प्रतीतिभेदादलङ्कारैः सह विभागं दर्शियितुमाह-अपर इत्यादि ।
तत्प्रयोग इत्यपरशब्दप्रयोगे ।
इवशब्दस्य संभावनाद्योतकस्याप्रयोगात् सिद्धत्वम् ।
अत एव चात्र विषयस्यानुपादानमेव ।
तदुपादाने हि दृढारोपं रूपकमिति समनन्तरमेवोक्तम् ।
अन्यत्र पुनः सर्वत्र विषयोपादानमेव न्याय्यम् ।
तदित्थं भेदवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतुस्वरूपफलानां यथासंभवंस्वरूपं दर्शयति-तदेवमित्यादिना ।
स धर्म इति यं प्रत्येव हेतुरुत्प्रेक्ष्यते ।
अध्यवसायवशादिति भेदे ऽप्यभेदाश्रयणात् ।
अभिन्न इत्यप्रकृतसंबन्धिना धर्मेण ।
स इति निमित्तत्वेनाश्रितो धर्मः ।
नियमेनेति ।
अवाच्यः पुनर्न कदाचिद्भवतीत्यर्थः ।
अन्यथेति अवाच्यत्वे ।
कं प्रतिहेतुरिति ।
तस्यैव फलरूपत्वात् ।
नहि य प्रत्येव हेतुरुत्प्रेक्ष्यते तस्यैवावाच्यत्वं युक्तम् ।
साध्यमन्तरेण साधनस्य निर्विषयत्वापत्तेः ।
यदि चास्य निमित्तमात्रत्वमेव स्यातद्वाच्यत्वमवाच्यत्व स्यात् ।
एवमेक एव धर्मो हेतोरुत्प्रेक्ष्यमाणस्य निमित्तं फलञ्चेति सिद्धम् ।
एतदेव दर्शयति-अपश्यन्तावित्यादिना ।
तत्रेतिहेतूत्प्रेक्षणे ।
निमित्तमिति तद्विनोत्प्रेक्षणस्यानिष्पत्तेः ।
द्विविधमत्र क्षामतागमन तपोजनितमदर्शनजनितं च ।
तयोरध्यवसायवशादभिन्नत्वेनाश्रयणम् ।
अतश्च हेतोरेक एव धर्मो निमित्तं फलं च ।
वस्तुतस्तु तपोजनितस्य निमित्तत्वमन्यस्य तु हेतुफलरूपत्वम् ।
अत एव नेतरेतराश्रयदोषः ।
द्वयोरपि भिन्नत्वात् ।
मौनित्वमेवेति ।
न पुनरन्यत्किञ्चिदित्यर्थः ।
अतश्च निश्चलत्वादिजनितस्य दुःखजनितस्य च मौनित्वस्याभेदेनाश्रयणम् ।
सर्वत्रेत्यनेन समस्तलक्ष्याविरुद्धत्व हेतूत्प्रेक्षास्वरूपकथनस्योक्तम् ।
एवं हेतूत्प्रेक्षाया यथासंभवं स्वरूपं प्रदर्श्य स्वरूपोत्प्रेक्षाया अपि दर्शियति-स्वरूपोत्प्रेक्षायाभिमित्यादिना ।
रुअस्स्_22।7:
स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्पेक्ष्यते तत्रापि निमित्तभूतो धर्मः क्कचिन्निर्दिश्यते ।
यथा-ऽस वः पायादुन्दुःऽ इत्यादौ ।
अत्र कुटुलत्वादि निर्दिष्टमेव ।
ऽवेलेव रागसागरस्यऽ इत्यादौ संक्षोभकारित्वादि गम्यमानम् ।
यत्र च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यम् ।
उपादाने यथा-
ऽप्राप्याभिषेकमेतस्मिन्प्रतिष्ठासति द्विषाम् ।
चकम्पे लोप्यमानज्ञा भयविह्ववलितेव भूःऽ ॥
अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपात्तम ।
अनुपादाने यथा-ऽलिप्मतीव तमो ऽङ्गानिऽ इत्यादौ ।
अत्र तमोततत्वेन लेपनक्रियाकर्तृत्वोपेक्षायां व्यापनादि निमित्तं गम्यमानम् ।
व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात् ।
न च विषयस्य गम्यमानत्वं युक्तम् ।
तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् ।
तस्माद् यथोक्तमेव साधु ।
रुअस्स्च्_22।7:
यद्यप्युद्देशत एवैतत्स्वरूपोत्प्रेक्षायां निमित्तोपादानत्वानुपादानत्वमवगम्यते तथापि हेतूत्प्रेक्षायां यथा निमित्तोपादानमेव संभवति तथात्रापि न संभाष्यमित्याशयेन पुनरिहैतदुक्तम् ।
यदा चात्र धर्मो धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तदा तत्र निमित्तस्य कीदृग्रपत्वं भवतीत्याशङ्क्याह-यत्रेत्यादि ।
धर्म एवेति ।
न पुनर्धर्मी धर्मिगतत्वेनेति ।
धर्मिभित्तितयेत्यर्थः ।
अत्र हि धर्मिणो ऽन्यधर्मधर्मित्वं निगीर्यान्तधर्मधर्मित्वमवस्थाप्यते ।
अत एवात्र धर्मीभित्तिभूततया विषयः ।
धर्मिणं विना केवलस्यैव धर्मस्यव्यवस्थापयितुमशक्यत्वाद्वथवस्याप्यमानत्वे वा धर्मित्वमेव स्यात् ।
वस्तुतस्तु धर्मं एवोत्प्रेक्षाविषयः ।
यन्निगरणेनाभेदप्रतिपत्तिर्विषयिणो ऽवसीयते ।
स च निगीर्यमाणोधर्मः क्वचिदुपात्तो भवति क्वचिच्चानुपात्तः ।
ऽप्राप्याभिषेकम्ऽ इत्यादावन्ये हेतूत्प्रेक्षात्वं-मन्यन्ते इत्युदाहरणान्तरेणोदाह्रियते -
ऽनवरोसदलिअ-घणनिरवलंब-संघडिअ-तडिकडप्यव्व ।
नरहरिणो जऐ कडारकेसरे कन्धराबन्धोऽ ॥
(ऽनररोषदलित-घननिरवलब्म-संघटित-तडित्कटप्रः ।
नरहरेर्जयति कडारकेसरः कन्धराबन्धःऽ) ॥
अत्र कन्धराबन्धधर्मिणि सकेसरत्वं निगीर्य सतडित्कटप्रत्वमुत्प्रेक्षितम् ।
कडारत्वं च निमित्तमुपात्तम् ।
निगीर्यमाणश्च धर्मो धर्मिगतत्वेनोपात्तः ।
लेपनक्रियाकर्तृत्वोत्प्रेक्षायामिति,अर्थादाशङ्कितायाम् ।
एवं हि तमोलेपनमिवेति प्रतीतिः स्यात् ।
न चात्र तथेत्याशङ्क्याह-व्यापनादावित्यादि ।
निमित्तमन्यदिति तिरोधायकत्वादि ।
तेन तमसि धर्मिणिव्यापनाद्विधर्मं निगीर्य लेपनक्रियाकर्तृत्वरूपो धर्मं उत्प्रेक्षित इत्यर्थः ।
यदाह श्रीमम्मटः-
ऽव्यापनादि लेपनादिरूपतया संभावितम्ऽ इति ।
यत्र च धर्मान्तरनिगरणेन धर्म एव धर्मिभित्तितयोत्प्रेक्ष्यते तत्र भित्तिभूतत्वाद्विषयरूपस्य धर्मिणः समनन्तरोक्तनीत्त्या गम्यमानत्त्वं न युज्यम् इत्याह-न चेत्यादि ।
विषयस्येति ।
निगीर्यमाणोत्प्रेक्ष्यमाणयोर्धर्मयोभित्तिभूतस्य धर्मिण इत्यर्थः ।
न तु निगीर्यमाणस्येति व्याख्येयम् ।
तस्य ह्युपादानानुपादानाभ्यां द्वैविध्यं भवतीति समनन्तरमेवोक्तम् ।
तच्चोदाहृतम् ।
यथा वा -
ऽयत्पुण्डरीक इव पावण एव वेन्दाविन्दीवरद्वयमिवोदितमेकनालम् ।
तत्पह्मरागनिधिमूलमिवाधिगम्य सम्यग्जितं नयनयोर्मम भाग्यशक्त्याऽ ॥
अत्र मुखादीनामुत्प्रेक्षाविषयाणामनुपादानाद्गम्यमानत्वम् ।
तस्येति धर्मिरूपस्य विषयस्य ।
उत्प्रेक्षिताधारत्वेनेति ।
उत्प्रेक्षिताधारत्वेनेति ।
उत्प्रेक्षितस्य लेपनार्धर्मस्य व्यापनादिधर्मनिगरणेनोत्प्रेक्षाविषयीकृतस्याधारत्वेन भित्तिभूतयेत्यर्थः ।
धर्मिणमन्तरेण धर्मस्याविश्रान्तेः ।
प्रस्तुतस्येति ।
अवश्याभिधेयस्येत्यर्थः ।
एवं हेतुफलोत्प्रेक्षयोरपि धर्मिगतत्वेनैवान्यधर्महेतुकत्वं निगीर्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते ।
अतश्च स धर्मी वाच्य एव भवति ।
यथोक्तोपपत्तेः ।
निगीर्यमाणः पुनर्धर्म एवोपादानानुपादानाभ्यां द्विधा ।
तत्तु यथा- एषा स्थलीत्यादि ।
अत्र नूपुरस्य धर्मिणो बद्धमौनत्वे निश्चलत्वादि धर्महेतुकत्वं निगीर्यमाणश्चानुपात्तो धर्मः ।
उपात्तस्तु यथा -
ऽमृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः ।
अन्योन्यविश्लेषणयन्त्रसूत्रभ्रान्त्येव चञअचुस्थितमाचकर्षऽ ॥
अत्र चक्रवाकस्यावर्षणे चाटुसमुत्सुकहेतुत्वं निगीर्यं भ्रान्तिहेतुत्वमध्यवसितम् ।
निगीर्यमाणश्च धर्म उपात्तः ।
अनुपात्तस्तु यथा -
ऽकुमुदिन्यः प्रमोदिन्यस्तदानीमुदमीमिलन् ।
नलिन्या भर्तृविरहान्म्लानिमानमिवेक्षितुम्ऽ ॥
अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्य दर्शनं फलत्वेनोत्प्रेक्षितम् ।
निगीर्यमाणश्च धर्मो ऽनुपात्तः ।
तदेवं हेतुस्वरूपयोर्यथासंभवं स्वरूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयतिफलोत्प्रेक्षायामित्यादिना ।
रुअस्स्_22।8:
फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् ।
तस्यानुपादाने कस्य तत्फलत्वेनोक्तं स्यात् ।
तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम् ।
यथा--
ऽरथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्ऽ ।
उत्पत्तिभूमौ तुरगात्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्ऽ ॥
अत्राश्वपरिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् ।
रुअस्स्च्_22।8:
तस्येति फलस्य ।
एवच्च हेतूत्प्रेक्षघाविचारग्रन्थविवृतेरवगतार्थमिति ग्रन्थविस्तरभयान्न पुनरायस्यते ।
तदेवं ग्रन्थकृदात्मनः श्लाघां कटाक्षयन्नेतदुपसंहरति ।
रुअस्स्_22।9:
तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितो ऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः ।
तस्याश्चेवादिशब्दवन्मन्येशब्दो ऽपि प्रतिपादकः ।
किं तूत्प्रेक्षासामग्रथभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति ।
यथोदाहृतं प्राक् ऽअहं त्विन्दुं मन्ये त्वदरिविरहऽ इत्यादि ।
रुअस्स्च्_22।9:
तदसावित्यादि ।
अस्याश्च वाचकव्यवस्थां दर्शयति-तस्याश्चेत्यादि ।
उत्प्रेक्षायामग्रथभाव इति संभावनाप्रत्ययात्मकत्वाभावात् ।
प्रागिति,अपह्णुतौ ।
एवनिवशब्दो ऽपि क्वचिद्वितर्कमेव प्रतिपादयति ।
यथा -
ऽवृत्तानुपूर्वे च न चातिदीर्घे जड्घे शुमे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नःऽ ॥
इयं च भेदे ऽभेद इत्याद्यतिशयोक्तिभेदमय्यपि दृश्यते ।
तत्र भेदे ऽभेदो यथा- पृथ्वीराजविजये --
ऽगृह्णद्भिः परया भक्त्या बाणलिङ्गपरम्पराः ।
अनर्मदेव यत्सैन्यैर्निरमीयत नर्मदाऽ ॥
अत्र नर्मदाया अभेदे ऽपि भेदः ।
संबन्धे ऽसंबन्धो यथा --
ऽअद्वैतं तद्भवतु भवतां संविदद्वैतपुष्ट्यै माभृत्पुत्रीपरिवृढरमाकान्तदेहद्वयस्य ।
यत्राकार्ष्ण्यं निज इव विदन्दक्षिणार्धप्रभाभिर्देहे ऽन्येषामपि पुररिपुः कार्ष्ण्यमन्तः प्रमार्ष्टिऽ ॥
अत्र कार्ष्ण्यसंबन्धे ऽप्यसंबन्धः ।
असंबन्धे संबन्धो यथा -
ऽक्षीरक्षालितचन्द्रेव नीलिधौताम्बरेव च ।
टङ्कोल्लिखितसूर्येव वसन्तक्षीरजृम्भतऽ ॥
अत्र क्षीरघक्षालितत्वाद्यसंबन्धे ऽपि संबन्धः ।
कार्यकारणयोस्तुल्यकालत्वे यथा-
ऽयशसेव सहोद्भूतः श्रियेन सह वर्धितः ।
तेजसेव सहोद्भूतस्त्यागेनेव सहोत्थितःऽ ॥
पौर्वापर्यविपर्यये यथा -
ऽशराः पुरस्तादिव निष्पतन्ति कोदण्डमारोपयतीव पश्चात् ।
अन्वक्प्रहारा इव संघटन्ते प्राणान्द्विषः पूर्वमिव त्यजन्तिऽ ॥
कार्यकारणयोर्विपर्यये ऽपीयं दृश्यते यथा -
ऽसेयं संततवर्वमानभगवद्वाणार्यनैकाग्रताव्यग्रोपान्तलताविमुक्तकुसुमा चन्द्रप्रसूतिर्नदी ।
यस्याः पाण्डुरपुण्डरोकपटलव्याजेन तीरद्वये शश्चत्पार्वणचन्द्रमण्डलशतानीव प्रसूते जलम्ऽ ॥
अत्र नर्मदातश्चन्द्रस्योत्पत्तितेः कार्यकारणविपर्ययः ।
क्रमिकविपर्ययेणापीयं दृश्यते यथा -
ऽअखर्वगर्वस्मितदन्तुरेण विराजमानो ऽधरपल्लवेन ।
समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यो द्विषतां यशांसिऽ ॥
अत्र समुत्थानानन्तरभाविनो यशः पानस्य पूर्वनिर्द्देशात्क्रमिकविपर्ययः ।
अत्रैव ऽपिबन्निवोच्चैःऽ इति पाठे तु क्रमिकयोः समकालभावित्वम् ।
स्तर्त् सूत्र 23:
एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वे ऽतिशयोक्तिं लक्षयति-
अध्यवसितप्राधान्ये त्वतिशयोक्तिः
अध्यवसाने त्रयं संभवति- स्वरूपं विषयो विषयी च ।
विषयस्य हि विषयिणान्तर्निगीर्णत्वे ऽध्यवसायस्य स्वरूपोत्थानम् ।
तत्र साध्यत्वे स्वरूपप्राधान्यम् ।
सिद्धत्वे त्वध्यवमितप्राधान्यम् ।
विषयप्राधान्यमध्यवसाये नैव संभवति ।
अध्यवसितप्राधान्ये चातिशयोक्तिः ।
अन्याश्च पञ्चप्रकाराः ।
भेदे ऽभेदः ।
अभेदे भेदः ।
संबन्धे ऽसंबन्धः ।
असंबन्धे संबन्धः ।
कार्यकारणपौर्वापर्यविध्वंसश्च ।
रुअस्स्च्_23:
एतदुपसंहरन्नन्यदवतारयति - एवमित्यादि ।
तामेव लक्षयुतुमाह-अध्यवसितेत्यादि ।
एतदेव व्याख्यातुमध्यवसायस्य तावद्यथासंभवं स्वरूपं दर्शयति-अध्यवसान इति ।
परस्परनिष्ठत्वानुपपत्तेरध्यवसायस्य किं विषयविषयिभ्यामित्याशङ्क्याह-विषयस्य हीत्यादि ।
विषयविषयिभ्यामन्तरेणाध्यवसाय एव न भवतीत्यर्थः ।
एषामेव विषयविभागं दर्शयति-तत्रेत्यादिना ।
तत्रेति त्रयनिर्धारणे ।
स्वरूपप्राधान्यमिति अध्यवसायप्राधान्यम् ।
अध्यवसितप्राधान्यमिति विषयिप्राधान्यम् ।
साध्यत्वं चोप्रेक्षायामेव निर्णीतम् ।
नैव संभवतीति-अध्यवसायस्वरूपानुदयात् ।
तदेवं विषयिणः प्राधान्यविवक्षायामलङ्कारे भवतीत्याह-अध्यवसितेत्यादि ।
उक्तं चान्यत्र-
ऽअध्यवसायसाध्यत्वप्रतीतावियमिष्यते ।
तत्सिद्धताप्रतीतौ तु भवेदतिशयोक्तिधीःऽ ॥
इति ॥
पञ्चेति न्यूनाधिकसंख्यानिरासार्थम् ।
अत एव कार्यकारणपौर्वापर्यविध्वंसत्य चतुर्थभेदान्तर्भावो न वाच्यः ।
एवं हि भेदान्तराणामपि तदन्तर्भाव एव स्यात् ।
अभेदाद्यसंबन्धे ऽपि संबन्धोपनिबन्धनात् ।
अथ भवत्वेतदिति चेत् ।
न ।
ऽअत्र च यद्यपि सर्वत्रभेदे ऽभेदादौ वस्तुतो ।
आसबन्धे संबन्ध एव वर्णयितुं शक्यते तथाप्यवान्तरभेदविवक्षयान्यैर्लक्षितत्वाद्विविक्तस्यासंबन्धे संबन्धस्य दर्शितत्वाच्च विभागेननिर्देशः कृतःऽ इति भवद्भिरेवोक्तत्वात् ।
तत्समानन्यायत्वात्कथमस्यापि चतुर्थभेदान्तर्भावो न्याय्यः ।
अथ ऽयदि कार्यकारणयोः पौर्वापर्यविध्वंसात्समानकालताद्यभावे ऽपि तथोपनिबन्धे पञ्चमो ऽत्र प्रकार इष्यते तद्देशकालयोः पदार्थसंबन्धे विशेषाभावाद्भिन्नदेशत्वाभावे ऽपि तथोपनिबन्धे षष्टो ऽपि भेदः परिगणनीय इति निर्विषयत्वादसंगतेरभावः प्रसज्यतऽ इति चेत् ।
नौतत् ।
यस्मादतिशयोक्तावतिशयाख्यप्रयोजनप्रतिपिपादयिषया विषयनिगरणेन विषयिप्राधान्यं विवक्षितम्, असगतौ तु विरुद्धत्वप्रत्यायनाय कार्यकारणयोभिन्नदेशत्वमित्युभव्राप्यस्ति तावन्निर्विवादो लक्षणभेदः ।
कार्यकारणपौर्वापर्यविध्वंसे च वल्लभकर्तृकस्य हृदयाधिष्टानस्य कारणस्य स्मरकर्तृकस्य च कार्यस्य पूर्वापरीभावं निगीर्य ऽत्वद्दर्शनेनैव विषयान्तरवैमुख्येन त्वनभिलाषपरैव जातेत्यतिशयप्रयोजनप्रतिपादनार्थमन्यथात्वमध्यवसितमित्यति शयोक्तिभेदत्वमेवास्य न्याय्यं न त्वसंगतिभेदत्वम् ।
ऽ तत्र हि -
ऽबबन्ध धम्मिल्लमधीरदृश्टेः चमानायकश्चम्पकमालिकाभिः ।
चित्तेषु मन्युः स्थिरतां जगाम विपक्षसारङ्गविलोचनानाम्ऽ ॥
इत्यादौ धम्मिल्ले बन्धश्चित्तेषु च मन्युस्थैर्यमिति कार्यकारणयोर्भिन्नदेशत्वम् ।
यत्रैव बन्धस्तत्रैव तत्कार्यस्य स्थैर्यस्योपपत्तेर्विरुद्धत्वप्रत्यायकम् ।
विरोधस्य चात्राभासमानत्वम् ।
धम्मिल्लबन्धमन्युस्थैर्ययोर्वस्तुतो ऽपि कायकारणभावसद्भावाख्यस्य बाधकप्रत्ययस्योल्लासात् ।
न च बाधोदये ऽपि विरोधाप्रतीतिः ।
द्विचन्द्रप्रतीतिवदनुपपद्यमानतया स्खलद्गतित्वेन तत्प्रतीतेरवस्थानात् ।
न चातिशयोक्तौ स्खलद्गतित्वम् ।
निश्चयस्वभावत्वादस्या अनुपपद्यमानत्वशङ्काया अप्यभावात् ।
नहि कार्यकारणयोः पौर्वापर्यविध्वंस उपपद्यत इत्यत्र विवक्षितं किन्त्वेवं फलमेतदिति ।
अत एवासंगतेरतिशयाक्तेश्च स्वरूपभेदो ऽपीति कार्यकारणयोः पौर्वापर्यविध्वंसेनासंगतिर्भिन्नदेशत्वम् चातिशयोक्तिरिति यथोक्तमेव युक्तम् ।
अत एव च ऽपौर्वापर्यविपर्याससमकालसमुद्भवौ ।
कार्यकारणयोर्यौ तौ विरोधाभासपल्लवौऽ ॥
इत्याद्यपि यदन्यैरुक्तं तदयुक्तमेवेति न न्यूनप्रकारत्वम् ।
केचिच्च सर्वालङ्कारणामप्यतिशयोक्तेरेव प्रभेदत्वादस्या बहुप्रकारतामाचक्षते ।
तथा ह्युपमायामप्यस्त्येतद्भेदत्वम् ।
न्यूनगुणस्य मुखादेरधिकगुणेन चन्द्रादिना साभ्ये ऽतिशयानतिपातात्,अतिशयं विना च गौरिव गवय इत्यादावनलङ्कारत्वात् ।
अतश्चातिशयस्यैव सर्वालङ्कारबीजभूतत्वात् ऽएकैवातिशयोक्तिश्च काव्यस्यालङ्कृतिर्मताऽ इत्युक्तम् ।
नैतत् ।
इह ह्यतिशयस्य द्वयी गतिः यदयं कविप्रतिभानिवर्तितः सामान्यात्मा भवति,भेदे ऽप्यभेद इत्येवमादिरूपो विशेषात्मा वा ।
तत्राद्यः सर्वैरेवालङ्कारबीजतयाभ्युपगतः ।
अन्यथा हि गौरिव गवय इत्यादावलङ्कारत्वं स्यात् ।
तावता पुनरेतत्प्रभेदत्वं सर्वालङ्काराणां न युक्तम् ।
तत्त्वे हि विशेषोक्युल्लेखादीनामपि तत्प्रसङ्गः ।
सर्वालङ्काराणमपि विशेषोक्त्युल्लेखरूपत्वात् ।
अथ द्वितीयपक्षाश्रयेणैतदुच्यते तदप्युक्तम् ।
अस्या ह्यध्यवसितप्राधान्यं लक्षणम् ।
तच्चालङ्काराणां न संभवति ।
तथात्वानवगमात् ।
अतश्चैषामसंभवत्तत्सामान्यत्वात्कथं तद्विशेषत्वमिति बहुप्रकारत्वमस्या निरस्तम् ।
रुअस्स्_23।1:
तत्र भेदे ऽभेदो यथा--
ऽकमलमनभ्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्ऽ ॥
अत्र मुखादीनां कमलाद्यैर्भेदे ऽभेदः ॥
रुअस्स्च्_23।1:
मुखादीनामिति ।
न तु वास्तवस्य सौन्दर्यस्य कमलाद्यैरिति ।
न तु कविसमर्पितेनसौन्दर्येण ।
अत एव च, ऽअत्रातिशयाख्यमित्यादिःऽ तदभिप्रायेणैवाध्यवसितप्राधान्यम्- इत्यन्तश्चोत्तरकालिको ग्रन्थः स्वमतिजाह्याल्लेखकैरन्यथा लिखित इति निश्चिनुमः ।
अयं हि ग्रन्थकृतः पश्चात्कैश्चिद्विपश्चिद्भिः पत्रिकाभिर्लिखित इत्यवगीता प्रसिद्धिः ।
ततश्च तैरनवधानेन ग्रन्थान्तरप्रसङ्गत्वादनुपयुक्तत्वाद्वा पत्रिकान्तरादयमसमञ्जसप्रायो ग्रन्थखण्डो लिखित इति ।
न पुनरेकत्रैव तदैव मुखादीनां कमलाद्यैर्भेदे ऽप्यभेद इत्युक्त्वापि ऽन तु वदनादीनाङ्कमलादिभिरभेदाध्यवसायो योजनीयऽ इत्यादि वचनं पूर्वापरपराहतमस्य वैदुष्यशालिनोग्रन्थकारस्य संभाव्यम् ।
रुअस्स्_23।2:
अभेदे भेदो यथा-
ऽअण्णं लडहत्तणअं अण्णाविअ कावि वत्तणच्छाआ ।
सामा सामण्णापआवैणो रेहञ्चिअ ण ह्वोइऽ ॥
(ऽअन्यत् सौन्दर्येमन्यापि च कापि वर्त्तनच्छाया ।
श्यामा सामान्यप्रजापते रेखैव न संभवतिऽ ॥)॥
अत्र लडहत्वादीनामभेदे ऽप्यन्यत्वेन भेदः ।
यथा वा-- ऽमग्गिअलद्धंमि वलामोडिअचुंबिएं अप्यणा अ उवणमिए ।
एक्कंमि पिआहरए अण्णोण्णा हाएन्ति रसभेआऽ ॥
(ऽमार्गिकतलब्धे बलात्कारचुम्बुते आत्मना चोपनीते ।
एकस्मिन्नपि प्रियाधरे ऽन्ये ऽन्ये भवन्ति रसभेदाःऽ ॥)॥
अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदेनोपनिबगन्धः ।
संबन्धे ऽसंबन्धो यथा-
ऽलावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः ।
एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता को ऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वताऽ ॥
अत्र लावण्यद्रविणस्य व्ययसंबन्धे ऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थे निबद्धः ।
यथा वा-- ऽअस्याः सर्गविधौ प्रजापतिपभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्काकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिःऽ ॥
अत्र पुराणप्रजापतिनिर्माणसंबन्धे ऽप्वसंबन्ध उक्तः ।
असंबन्धे संबन्धो यथा-
ऽपुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततो ऽनुकुर्याद् विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्यऽ ॥
अत्र संभावनया संबन्धः यथा वा- ऽदाहो ऽम्भःप्रसृतिंपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः प्रेङ्खिकतदीप्रदीपकलिकाः पाण्टिम्नि मग्नं वपुः ।
किं ताम्यत्कथग्रामि रात्रिमखिलां त्वन्मार्गवाताग्रने हस्तच्छत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्ततेऽ ॥
अत्र दाहादीपामभ्भः प्रसृत्याद्यैरसंबन्धे ऽपि संबन्धः सिद्धत्वेनोक्तः ।
रुअस्स्च्_23।2:
लडहत्वादीनामिति,आदिशब्दाद् वर्तनच्छायाया एव ग्रहणम् ।
तत्रैवाभेदे ऽपि भेदविवक्षणात् ।
उत्तरार्धे हि संबन्धे ऽप्यसंबन्धः ।
ऽलावण्यद्रविणव्ययो न गणितःऽ इत्यस्य पादत्रयी तन्वीलावण्यप्रकर्षप्रतिपादनार्थमित्येतत्प्रयोजनदर्शनं सर्वोदाहरणोपलतणपरम् ।
संभावनयेति ।
नतु वस्तुतः ।
अत एव संबन्धस्यावास्तवत्वादुदाहरणान्तरमाह-दाहो ऽम्भ इत्यादि ।
वाशब्दः समुच्चयार्थः ।
रुअस्स्_23।3:
कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा ।
विपर्ययो यथा-
ऽहृदयमधिष्टितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ! लोचनविषयं त्वया भजताऽ ॥
तुल्यकालत्वं यथा--
ऽअविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।
अयमायातः कालो हन्त हृताः पथिकगेहिन्यःऽ ॥
रुअस्स्च्_23।3:
अत्र च कार्यकारणपौर्वापर्यविध्वंस इत्यनेन प्रसिद्धयोः कार्यकारणयोर्विध्वंसो विपर्ययस्तथा पौर्वापर्यस्यादिपश्चात्कालभावित्वेन प्रसिद्धस्य क्रमत्य विध्वंसो व्यत्ययः सहभावो वेत्यपि भेदत्रयं तन्त्रेणोक्तम् ।
एवं च कार्यकारणविध्वंसस्यापि पञ्च प्रकाराः ।
अवान्तरप्रकारत्वात्पुनरेषां पञ्चप्रकारत्वं नियमगर्भीकारेण पूर्वं व्याख्यातम् ।
तत्र कार्यकारणयोर्विपर्ययो यथा -
ऽएअत्तं अवअत्तं सकोअअरं मिअङ्ककान्तीइं ।
सहस्सपं अरैन्दस्स कारणं भणै सरस्सऽ ॥
(ऽएतावदवदातं संकोचकरं मृगाङ्ककान्तीनाम् ।
सहस्त्रपत्रकमरविन्दस्य कारणं भवति सरसःऽ) ॥
अत्रेन्दुकान्तेः संकोचे विपर्ययेण शतपत्रस्य कारणत्वमध्यवसितम् ।
अत्र भेदे ऽभेद इत्येवंरूपातिशयोक्तिर्हेतुत्वेन स्थिता ।
उत्तरे त्वर्धे सैव श्लिष्टशब्दनिबन्धना हेतुः ।
तथाभावोपनिबन्धश्चात्र वक्त्रस्य लावण्यप्रकर्षप्रतिपादनार्थम् ।
क्रमविपर्ययो यथा-
ऽकुपितस्यप्रथममन्धकारी भवति विद्या ततो भ्रुकुटिः, आदाविन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः,आकम्भे तपो गलति पश्चात्स्वेदसलिलम्,पूर्वमयशः स्फुरत्यनन्तरमधरऽ इति ।
अत्र कोपकार्ये विद्याभ्रुकुट्यादीनामन्धकारीभवनादौ क्रमं निगीर्य तद्विपर्ययो ऽध्यवसितः ।
तस्यैव सहभावे यथा -
ऽरैभवणाहि परिअणो मसणं मणिमेहला णिअंबाहिं ।
लज्जा हिअआहि समोसरन्ति समं ससिमुहीणम्ऽ ॥
(ऽरतिभवनेभ्यः परिजनो मसृणं मणिमेखला नितम्बेभ्यः ।
लज्जा हृदयेभ्यः सममपसरन्ति समं शिशिमुखीनाम्ऽ) ॥
अत्र परिजनादीनामपसरणे क्रमिकत्वे ऽपि समकालत्वमध्यवसितम् ।
एवमेषां सर्वेषामेव भेदानां लोकासभवद्विषयत्वं दर्शयितुमाह ।
रुअस्स्_23।4:
एषु पञ्चसु भेदेषु भेदे ऽभेदादिवचनं लोकातिक्रान्तगोचरम् ।
अतश्चात्रातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः ।
तथा हि ऽकमलमनम्भसिऽ इत्यादौ वदनादीनां कमलाद्यैर्भेदे ऽपि वास्तवं सौन्दर्यं कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदे ऽभेदवचनस्य निमित्तम् ।
तत्र च सिद्धो ऽध्यवसाय इत्यध्यवसितप्राधान्यम् ।
न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः, अभेदे भेद इत्यादिषु प्रकारेष्वष्याप्तेः ।
तत्र हि ऽअण्णं लडहृत्तणअंऽ इत्यादौ सातिशयं लडहत्वं निमित्तभूतभेदेनाध्यवसितम् ।
एवमन्यत्रापि ज्ञेयम् ।
तदभिप्रायेणैवाध्यवसितप्राधान्यम् ।
प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालङ्कारप्रस्तावे प्रपञ्चार्थं लक्षियिष्यते ।
रुअस्स्च्_23।4:
एष्वित्यादि ।
एष्विति विषयसत्पमी ।
एष चावयवनिर्देशः ।
लोकातिक्रान्तेति ।
कविप्रतिभानिर्मितमेव सातिशयं वस्त्वेषां विषय इत्यर्थः ।
अत्रेति भेदपञ्चके ।
चशब्दः प्रमेयान्तरसमुच्चयार्थः ।
फलमिति ।
तस्यैव प्रतिपिपादयिषितत्वात् ।
तत्रेति ।
वान्तवस्य स्गैन्दर्यस्य कविसमर्पितेन सौन्दर्येणाभेदवचने ।
ननु चात्र वदनादीनां कमलाद्यध्यवसायः प्रतीयत इति कथमेतदुक्तमित्याशङ्क्याह-न त्वित्यादि ।
कुतश्च तेष्वव्यात्पिरित्याशङ्कयाह-तत्र हीत्यादि ।
कमलमनम्भसीत्यत्र हि यदि वदनादीनां धर्मिणामभेदाध्यवसाययोजनं क्रियते तत्तस्य धमिगतत्वेनैवेष्टेरिह धर्माणां न स्यादव्यात्पिः ।
अतश्च पूर्वत्र धर्माणाभेवाध्यवसायो योजनीयो येन सर्वत्रैक एव पक्षः स्यादिति तात्पर्यार्थः ।
उपलक्ष्यं चैतत् ।
यावता ह्यध्यवसितप्राधान्यमस्या लक्षणम् ।
तच्च धर्मिणामस्तु धर्माणां वेति को विशेषो येनाव्यात्पिः स्यात् ।
प्रत्युतधर्मयोरभेदाध्यवसायाभ्युपगमे उपमादीनामप्यतिशयोक्तिप्रसङ्गः स्यात् ।
तत्रापि धर्माणामेव भेदे ऽभेदविवक्षणात् ।
एवं चविजातीयत्वेन भेदे धर्मयोरप्यभ्यात्पिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थोदीरणेन ।
प्रपञ्चार्थमिति ।
न तु निर्णयार्थम् ।
इहैव तस्य विश्चितत्वात् ।
प्रपञ्चश्च तत्रैव दर्शियिष्यते ।
रुअस्स्च्_23।4अ:
एतदुपसंहरन्नन्यदवतारयति ।
स्तर्त् सूत्र 24:
एवमध्यवसायाश्रयमलङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते ।
तत्रापि पदार्थवाक्यार्तगतत्वेन तेषां द्वैविध्ये पदार्थगतमलङ्कारद्वयं क्रमेणोच्यते-
औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता
इवाद्यप्रयोगे ह्यौपन्यस्य गम्यत्वम् ।
तत्र प्राकरणिकानामप्ररणिकानां वार्थानां समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता ।
यथा-
ऽसज्जातपत्रप्रकाराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् ।
विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुःऽ ॥
अत्र ऋतुवर्णनस्य प्रकान्तत्वाद्दिनानां पद्मानां च प्रकृतत्वाद् वृद्धिगमनं क्रिया ।
एवं गुणे ऽपि ।
यथा-
ऽयोगपट्टो जटाजालं तारवी त्वङ्मृगाजिनम् ।
उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम्ऽ ॥
उचितत्वं गुणः ।
अप्राकरणिकानां यथा-
ऽधावत्त्वदश्वपृतनापतितं मुखे ऽस्य निनिन्द्रनीलनलिनच्छदकोमलाङ्ग्या ।
भग्नस्य गूर्जरनृपस्य रजः कयापि तन्व्या तवासिलतया च यशः प्रभृष्टम्ऽ ॥
अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया ।
गुणो यथा-
ऽत्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरताऽ ॥
कठोरत्वं गुणः ।
एवमेषा चतुर्विधा व्याख्याता ।
रुअस्स्च्_24:
[सू] ऽसादृश्य यदि गम्य [शब्दतः अकथित] हो ओर [केवल] प्रस्तुर्तो अथवा [केवल] अप्रस्तुतों का पदार्थस्तर पर समानधर्म-सम्बन्ध हो तो तुल्ययोगिता [होती है]ऽ ॥24॥
रुअस्स्च्_24अ:
एवमित्यादिना ।
गम्यमानौपभ्याश्रया इति इवाद्यप्रयोगात् ।
पदार्थमिति ।
वाक्यार्थापिक्षया पदार्थप्रतीतेरन्तरङ्गत्वात् ।
तत्र प्रथमं तुल्ययोगितामाह - औपम्येत्यादि ।
एतदेव व्याचष्टे - इवेत्यादिना ।
तत्रेत्यौपम्यस्य गम्यत्वे सति ।
प्राकरणिकानामिति द्वयोः समानधर्मसंबन्धस्य संभवादेव ग्रहणसिद्धेर्बहुवचननिर्देशो बहूनां ग्रहणार्थम् ।
अत एव च बहूनामौपम्यग्रहणायेति न वाच्यम् ।
वक्ष्यमाणोदाहरणेषु द्वयोरौपम्यस्योद्भासमानत्वात् ।
एवं दीपके ऽपि ज्ञेयम् ।
अन्वितार्थेति ।
समानधर्मसंबन्धिनामत्र भावात् ।
अनेनैव चास्याः प्रकृतानामप्रकृतानां च गुणक्रियात्ममकधर्मयोगाद् द्वैविध्येन चतुष्प्रकारत्वमत्युक्तम् ।
न चास्यातिशयोक्तिरनुप्राणकतया वाच्या ।
तां विनापि वक्ष्यमाणोदाहरणेष्वस्याः संभवात् ।
औपम्याभावे ऽपि गुणसाम्योदाहरणद्वयं प्राच्योदाहृतत्वाद्ग्रन्थकृतोदाहृतम् ।
यत्र पुनरौपम्यं प्रतीयते तदुदाह्रियते यथार् -
ऽइर्ष्याविकारावसरे तवोचितमिदं प्रिये ।
स्खलद्गतित्वं वचसां लीलाचङ्क्रमणस्य चऽ ॥
अत्रोचितत्वं गुणः ।
अप्रकृतवोस्तु यथा -
ऽभूभारोद्दहमव्यग्रे सुचिरं त्वयि तिष्टति ।
देवाद्य फणिनामग्रथः कूर्मश्च सुखिनौ परम्ऽ ॥
अत्र सुखित्वं गुणः ।
केचिच्च नायिकामिलितग्रोः प्राकरणिकत्वं मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते यथा -
ऽशंभोर्यन्नखरश्मिभिः प्रणमतश्चूडामणित्वे स्थिता गङ्गा चन्द्रकला च सर्वजगतां वन्द्यत्वमापादिता ।
युक्तायाः परतापदावविपदः कन्यापितॄणामसौ दूरीकार्यहिमालया कथमुमापादद्वयी प्राप्यतेऽ ॥
अत्र भगवतीपादद्वयस्यैव वर्णनीयत्वाद् गङ्गाचन्द्रकलयोरप्रकृतत्वम् ।
आपादनं च क्रिया ।
ऽबिम्बप्रतिबिम्बभावेनापीयं भवति ।
यथा -
ऽक्षिपन्त्यचिन्त्यानि पदानि हेलया स्वराजहंसानधिरुह्य च स्थिता ।
कवीन्द्रवक्त्रेषु च यत्र शारदा सहस्त्रपत्रेषु रमा च रज्यतिऽ ॥
अत्र वक्त्रपद्मयोर्बिम्बप्रतिबिम्बभावः ।
अनेनैव चाशयेनात्रालङ्कारवार्तिके ग्रन्थकृता वैशिष्ट्यमस्याः दर्शितम् ।
शुद्धसामान्यरूपत्वेन यथा -
ऽआस्तां तालस्य संनिद्धे द्वे धात्र्यी तस्य वृद्धये ।
एका पयःप्रस्त्रविणी सर्वसंपत्प्रसूः पराऽ ॥
अत्र प्रस्त्रवणस्य शुद्धसामान्यरूपत्वम् ।
एवम् इत्यादिना ।
रुअस्स्च्_24ब्:
एतदुपसंहरन्नन्यदवतारयति ।
स्तर्त् सूत्र 25:
प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते -
प्रस्तुताप्रस्तुतानां तु दीपकम्
औपम्यस्य गम्यत्व इत्याद्यनुवर्तते ।
प्राकरणिकाप्राकरणिकयोर्मध्यादेकत्र निर्दिष्टः समानो धर्मः प्रसङ्गनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालङ्कारोत्थापकः ।
तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः ।
स च वास्तव एव ।
पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकणिकत्वै वा वैवक्षिकः, प्राकरणिकत्वनिर्वर्तितत्वादुपमानोपमेयभावस्य ।
अनेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः ।
वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिभमध्यान्तदीपकाख्यास्त्रयो ऽस्य भेदाः ।
रुअस्स्च्_25:
प्रस्तुताप्रस्तुतानामिति ।
एकत्रेति प्राकरणिके ऽप्राकरणिके वा ।
अन्यत्रेति प्राकरणिकादौ दीपकेति ऽसंज्ञायाम्ऽ इत्यनेन कन् ।
सादृश्येन समुदायगम्यायाः संज्ञाया अभावात् ।
तत्रेति दीपके ।
वास्तव इति ।
प्रकृताप्रकृतयोरुपमानोपमेयरूपत्वात् ।
पूर्वत्रेति तुल्ययोगितायाम् ।
इयानेव च दीपकतुल्ययोगितयोर्विशेषो ऽस्तीत्यप्यनेन दर्शितम् ।
न चैतावतैवानयोः पृथग्लक्षणं युक्तम् ।
औपम्यगर्भत्वाख्यस्य सामान्यस्य द्वयोरप्यनुगमात् ।
एवं च समुचितोपमादेरपि पृथग्लक्षणं स्यात् ।
ग्रन्थकृता पुनश्चिरन्तनानुरोधात्कृतम् ।
वैवक्षिक इति ।
यत्रैव वक्तुरुपमानत्वमुपमेयत्वं वा वक्तुमिष्टं तत्रैव प्रकरणादिबलादाश्रयणीयमित्यर्थः ।
अतश्च ऽप्रस्तुतस्य तु नान्येन व्यभिचारस्य दर्शनात्ऽ इति नीत्याप्रस्तुताप्रस्तुतत्वमात्रनिबन्धन एवोपमानोपमेयभावो न भवतीति भावः ।
एवं ऽप्रसिद्धेनाप्रसिद्धस्य सादृश्यमुपमा मताऽइत्यादिदृशा प्रसिद्धाप्रसिद्धत्वमात्रनिबन्धनो ऽप्युपमानोपमेयभावो न वाच्यः ।
ऽखमिव जलं जलमिव खम्ऽ इत्यादौ द्वयोरपि तुल्यत्वात् प्रसिद्धगुणत्वाद्यभावे ऽप्युपमानोपमेयभावस्येष्टेर्व्यभिचारस्य दर्शसनात् ।
ननु चात्र साधर्म्य वाक्यार्थगतत्वेनैव प्रतीयत इति कथं तस्य पदार्थगतत्वमुक्तमित्याशङ्क्याह-अनेकस्येत्यादि ।
एवं पूर्वत्रापि ज्ञेयम् ।
रुअस्स्_25।1:
क्रमेणोदाहरणम् - ऽरेहै मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअं ।
अमएण धुणीधवओ तुमए णरणाह भुवणमिणंऽ ॥
(ऽरेयते मिहिरेण नभो रसेन काव्यं सरेण [स्मरेण] यौवनम् अमृतेन धुनीधवःस्वया नरमाथ! भुवनमिदम्ऽ ॥)॥
ऽसंचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनश्च धेनुःऽ ॥
ऽकिवणाण धणं णाआणं फणमणी केसराइं सीहाणं ।
कुलवालिआण थणआ कुत्तो छेप्पन्ति अमुआणंऽ ॥
(ऽकृपणानां धनं नागानां फणमणिः केसराः सिंहानाम् ।
कुलबालिकानां स्तनाः कुतः स्पृश्यन्ते ऽमृतानाम्ऽ) ॥
एवमेकक्रियं दीपकत्रयं निर्णीतम् ।
अत्र च यथानेककारकगतत्वेन्नैकक्रिया दीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् ।
यथा-
ऽसाधूनामुपकर्तुं लक्ष्मीं धर्त्तुं विहायसा गन्तुम् ।
न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम्ऽ ॥
अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम् ।
छायान्ररेण तु मालादीपकं प्रस्तावान्तरे लक्ष्ययिष्यते ।
रुअस्स्च्_25।1:
धेनुसंध्ययोः प्रकृतत्वादत्रान्ये तुल्ययोगितां मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते-
ऽधम्मज्जणेणम काण वि काणवि अत्थज्जणेण बोलेरि ।
कामज्जणेण काण वि काण वि एमेअ संसारोऽ ॥
(ऽधर्म्मार्जनेन केषामपि केषामप्यर्थार्जनेन व्यत्येति ।
कामार्जनेन केषामपि केषामप्येवमेव संसारःऽ) ॥
एकक्रियमित्यनेनैवकगुणमपि दीपकं स्वयमेवोदाहार्यमिति सूचितम् ।
तत्तु यथा-
ऽफणासहस्त्रभृदधो दिवि नेत्रसहस्त्रभृत् ।
अद्वितीयः पृथिव्यां च भवान्नामसहस्त्रभृत्ऽ ॥
अद्वितीयत्वङ्गुणः ।
एवमेकां क्रियां गुणं वानेककारकगतत्वेनाभिधाय तदेव च दृष्टान्तीकृत्यैककारकमप्यनेकक्रियागतत्वेन दीपकं भवतीत्याह-अत्रेत्यादि ।
अत्र चोच्छ्रवासवर्णनीयं भैरवाचार्यादिसक्तमुपकारकारणादिविशेषरूपं प्रस्तुतं श्रोतॄनवबोधयितुं कविकर्तृकमिदं साधूपकारकरणादीनां सामान्यानामप्रस्तुतानां प्रशंसनम् ।
तेषां च सामान्यानां परस्परमौपम्यप्रतीतेरेककारकगतत्वेनेयं कारकतुल्ययोगिता ।
अतश्च नेदं कारकदीपकस्योदाहरणम् ।
तत्त यथा -
ऽआलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्ति च साधयितुमर्जयितुं च लक्ष्मीम् ।
त्वद्भक्तिमद्भतरसां हृदये च कर्तुं मन्दादरं जनमहं पशुमेव जानेऽ ॥
अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्टः ।
प्रस्तुताप्रस्तुतं स्फुटमेव ।
रुअस्स्च्_25।1अ:
स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणीता वधूः शयने ॥
इत्यत्र तु स्वैदनादिक्रियाणां प्रस्तुतानामेकाधारगतत्वेन समुच्चीयमानत्वाच्च समुच्चयालङ्कारो न तु कारकदीपकम् ।
तद्धि प्रस्तुताप्रस्तुतानां क्रियाणामौपम्यसद्भावे भवति ।
एवं सर्धक्रियाणां प्रस्तुतत्वे ऽपि समुच्ययस्योपम्याभावादेव तुल्ययोगितातो ऽपि भेदः ।
औपम्यसद्भावे ऽपि तुल्ययोगितैव ।
यथा -
ऽचकार दुर्बलानां यः क्षमामागरिबनामपि ।
जह्रे निरपराधानामपि यश्च बलीयसाम्ऽ ॥
अत्र करणहरणयोः प्रकृतत्वम् ।
द्वयोरपि राजगतत्वेन वर्णनीयत्वात् ।
रुअस्स्च्_25।1ब्:
इदं बिम्बप्रतिबिम्बभावेनापि भवति ।
यथा -
ऽमणिः शाणेल्लीढः समरविजयी हेतिनिहतः कलशेषश्चन्द्रः सुरतमृदिता बालल्लना ।
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाःऽ ॥
अत्र शाणोल्लीढत्वादीनां बिम्बप्रतिबिम्बभावः ।
शुद्धसामान्यरूपत्वं यथा -
ऽफणरअणराइअङ्गो भुअङ्गणाहो धरं समुव्वहै ।
णहदप्यणोवसोहिअसिहो अ तुह णाह भुअदण्डोऽ ॥
अत्र राजितत्वशोभितत्वयोः शुद्धसामान्यरूपत्वम् ।
नन्वेतदनन्तरमेव मालादीपकमन्यैर्लक्षघितं तदिहापि किं न लक्ष्यत इत्याशङ्क्याह-छायेत्यादि ।
छायान्तरेणेति शृङ्कलारूपेण ।
प्रस्तावान्तर इति ।
शृङ्कलाबन्धोपचितरूपत्वात् ।
स्तर्त् सूत्र 26:
वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा
पदार्थारब्धो वाक्यार्थ इति पदार्थगतालङ्कारानन्तरं वाक्यार्थगतालङ्कारप्रस्तावः ।
तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा ।
वस्तुप्रतिवस्तुभावेनासकृन्निर्देशे ऽपि सैव ।
इवाद्यनुपादाने सकृन्निर्देशे उपमा ।
वस्तुप्रतिवस्तुभावेनासकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा ।
आद्यः प्रकारः प्रतिवस्तूपमा ।
वस्तु-शब्दस्य वाक्यार्थवाचित्वे प्रतिवावाक्यार्थमुपमा साम्यमित्यन्वर्थाश्रयणात् ।
केवलं काव्यसमयात्पर्यायान्तरेण पृथङ्निर्देशः ।
द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते ।
तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा ।
यथा -
ऽचकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि ।
आवन्त्य एव निपुणाः सुदृशो रतनर्मणिऽ ॥
अत्र चतुरत्वं साधारणे धर्मं उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः ।
न केवसमियं साधर्म्येण यावद् वैधर्म्येणापि ।
यथात्रैवोत्तरस्थाने ऽविनावन्तीर्न निपुणाः सुदृशो रतनर्मणिऽ इति पाठे ।
रुअस्स्च्_26:
वाक्यार्थेत्यादि ।
एतदेव व्याख्यातुमलङ्कारान्तरैः सहास्या विभागं दर्शयति-तत्रेत्यादिना ।
ऽतया स पूतश्च विभूषितश्चऽ इत्यत्रोपमायां सकृन्निर्देशः ।
ऽपाण्ड्यो ऽयमंसार्पितलम्बहारःऽ इत्यादावपि चासकृन्निर्देशः ।
तदेवभिवाद्युपादाने साधारणधर्मस्य यथासंभवं स्वरूपं निरूप्येवाद्यनुपादाने ऽपि निरूपयति-इवादीत्यादिना ।
यद्यपि दीपकतुल्ययोगितयोः सामान्यस्यासकृन्निर्देशो ऽपि संभवति, तथापि सकृन्निर्देशं विना तयोरनुत्थानात्तदेवेह प्राधान्येनोक्तम् ।
असकृन्निर्देशश्च द्विधा भवतीत्याह-असकृदित्यादि ।
आद्यः प्रकार इति शुद्धसामान्यरूपत्वम् ।
यदि चात्र सामान्यस्यैकरूपत्वमेवास्ति तर्त्कि पर्यायान्तरेण पृथङ्निर्देशः क्रियत इत्याशङ्क्याह-केवलमित्यादि ।
यदुक्तम्-ऽनैकं पदं द्विः प्रयोज्यं प्रायेणऽ इति ।
बिम्बप्रतिबिम्बभावो द्वितीयः प्रकारः ।
एवमेतदुपसंहरन् प्रकृतमेव सिद्धान्तयति-तदेवमित्यादिना ।
औपम्याश्रयेणेति ।
एतदभिदधता ग्रन्थकृता प्रतिवस्तूपमाया दृष्टान्ताभेदो दर्शितः ।
यतो ऽस्याः प्रकृतार्थस्य विशेषाभिधित्सया सादृश्यार्थमप्रकृतमर्थान्तरमुपादीयते,अत एव चात्र प्रकृताप्रकृतयोरुपमानोपमेयभावः ।
दृष्टन्ते पुररेतादृशो वृत्तान्तो ऽन्यत्रापि स्थित इति प्रकृतस्यार्थस्याविस्पष्टा प्रतीतिर्भा भूदिति प्रतीतिविशदीकरणार्थमर्थान्तरमुपादीयते ।
अत एवात्रार्थान्तरोपादानं प्रकृतस्य न क्वाप्युपयुक्तमपि तु प्रतिपत्तः प्रकृतार्थप्रतीतेरविस्पष्टतानिरासात् ।
केचिच्च दृष्टान्ते द्वयोः समर्थ्यसमर्थकभावेनानयोर्भावेनानर्भेदमाहुः ।
तदसत् ।
यतः स्वरूपयोर्वशेषयोः समर्थ्यसमर्थकभावो न भवति ।
वस्त्वन्तरेण वस्त्वन्तरसिद्ध्यनुपपत्तेः ।
स हि सामान्यविशेषयोरेव भवति ।
सामान्यस्य नियमेन विशेषनिष्टत्वाद्विशेषस्य च नियमेन सामान्याश्रयत्वात् ।
यदि चात्र समर्थ्यसमर्थकभावः स्यादर्थान्तरन्यासादस्य पृथगलङ्कारता न स्यात् ।
समर्थ्यसमर्थकभावात्मनः सामान्यस्योभयत्राप्यनुगमात् ।
अन्ये पुनरुभयत्राप्यार्थमौपम्यमाश्रित्य सामान्यस्य शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां व्यवस्थितेरनयोर्भेदमाहुः ।
तदप्यसत् ।
एतावतैवौपम्याख्यस्य सामान्यलक्षणस्यानुगतत्वादुपमाभेदवदनयोः पृथगलङ्कारत्वानुपपत्तेः ।
तदेवं वाक्यनैरपूक्ष्ये ऽपि वक्तृप्रतिपत्त्रोरेव विशेषादयोर्भेदः सिद्धः ।
वैधर्म्येणापीति ।
भवतीति शेषः ।
स्तर्त् सूत्र 27:
मूल पाठ: Alaṃkārasarvasva 1-34 with Jayaratha's commentary Vimarśinī · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0