अलंकारसर्वस्व (टीका सहित) · भाग 4160
सुधारहचरत्वस्यानुगतत्वादनुगामितेति भेदत्रयानुप्राणितत्वम् ।
अनेन च सादृश्यनिमित्त एवारोपो रूपकमित्युक्तं भवति ।
केषाञ्चिदपि संबन्धान्तरहेतुरप्यारोपो रूपकाङ्गमेवेति मतम् ।
यदाहालङ्कारभाष्यकारः-ऽलक्षणापरमार्थं यावता रूपकस्वरूपम्ऽ इत्युपक्रम्य ऽसारोपान्या च सादृश्याद्वा संबन्धान्तराद्वाऽ इत्यादि ।
स तु यथा-
ऽअमृतकवलः शोभाराशिः प्रमोदरसप्रपा सितिमशकटं ज्योत्स्नावापी तुषारधरट्टिका ।
मनसिजवृसी शृङ्गारश्रीविमानमहो नु भो निरवधिसुखश्रद्धा दृष्टेः कृती मृगकेतनःऽ ॥
अत्रेन्दुरूपे कारणे कार्यपुपायाः श्रद्धाया आरोपः ।
ग्रन्थकृताप्यलङ्कारानुसारिण्या-अत्र ऽश्रद्धाहेतुत्वाच्छ्रद्धेऽ त्यभिधाय ऽविशेषणैकस्मिन्ननेकवस्त्वारोपान्मालारूपकमित्यभिदधतायमेव पक्षः कटाक्षितः ।
ननु चाध्यवसायगर्भाणामप्यलङ्काराणामभेदप्राधान्ये सति प्रथमारोपगर्भा अलङ्काराः किमिति लक्षिता इत्याशङ्क्याह-आरोपादित्यादि ।
रुअस्स्_16।1:
इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् ।
आद्यं केवलं मावारूपकञ्चते द्विधा ।
द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव ।
तृतीयं श्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधम् ।
तदेवमष्टौ रूपकभेदाः ।
अन्ये तू प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति ते ऽन्यतो द्रष्टव्याः ।
रुअस्स्च्_16।1:
चशब्दो ऽन्यालङ्कारापेक्षया भेदसमुच्चार्थः ।
विषयद्योतकस्तुशब्दः ।
अवयवेभ्यो निष्क्रान्त आरोप्यमाणो यत्र तत्तथोक्तम् ।
सहावयवैरारोप्यमाणो वर्तते यत्र तत्तथोक्तम् ।
परम्परयैकस्य माहात्म्यादपरस्यारूपणात्वमायातं यत्र तत्तथोक्तम् ।
आद्यमिति निरवयवम् ।
माला चैकस्यानेकस्य वानेकारोपाद्भवति ।
एवं परम्परितत्वेन मालारूपकं ज्ञेयम् ।
द्वितीयमिति सावयवम् ।
समस्तमारोप्यमाणात्मकं वस्त्वभिधाया विषयो यत्र तत्तथोक्तम् ।
एकदेश आरोपविषयाणाम्; अर्थस्तदात्मक एवारोप्यमाणप्रयोजनप्रतिपादनाय तद्रूपतया विवर् तते परिणमति यत्र तत्तथोक्तम् ।
तृतीयमिति परम्परितम् ।
यद्यपि श्लेषनिबन्धने ऽस्मिन्गुणक्रियात्मकधर्मनिबन्धनस्य सादृश्यस्यासंभव एव तथापि शब्दमात्रकृतमेवाभेदाध्यवसायतः सादृश्यं ग्राह्यम् ।
अन्य इति एतद्भेदाष्टकव्यतिरिक्ताः ।
संभवन्तीति चिरन्तनालङ्कारग्रन्थेष्वेव ।
न पुनर्लक्ष्यन्त इति भावः ।
तत्र हि तेषां तत्त्वे ऽप्येतद्भेदाष्टककृतमेव वैचित्र्यं प्रतीयते ।
यथा च-
ऽपादः कूर्मो ऽत्र यष्टिर्भुजगपतिरयं भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः ।
अर्चिश्चण्डांशुरुच्चैर्गगनमलिनिमा कज्जलं दह्यमाना वैरिश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपःऽ ॥
इत्यत्र सत्वपि वाक्यार्थोक्तत्वे समस्तवस्तुविषयकृतमेव वैचित्र्यम् ।
रुअस्स्_16।2:
क्रमेण यथा-
ऽदासे कृतागासि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्- यत्खिद्यते तव पदं ननु सा व्यथा मेऽ ॥
ऽपीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये स्वर्गङ्गाविमनस्ककोकवदनस्त्रस्ता मृणालीलते ।
द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुःऽ ॥
ऽविस्तारशालिनि नभस्तलपत्त्रपात्रे कुन्दोज्ज्वलप्रभ-भ संचयभूरिभक्तम् ।
गङ्गातरङ्गघनमाहिषदुग्धदिग्धं जग्धं मया नरपते कलिकालकर्णऽ ॥
ऽआभाति ते क्षितिभृतः क्षणदाप्रभेयं निस्त्रिंशमांसलतमालवनान्तलेखा ।
इन्दुत्विषो युधि हठेन तवारिकीर्ती- रानीय यत्र रमते तरुणः प्रतापःऽ ॥
क्षितिभृत इत्यत्र श्लिष्टं पदम् ।
परम्परितम्-
ऽकिं पद्मम्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चिदिह तदप्यस्त्येव बिम्बाधरेऽ ॥
अत्र वक्त्रेन्दुरूपणहेतुकमधरामृतस्य पीयूषेण श्लिष्टशब्दं रूपणम् ।
ऽविद्वन्मानसहंस वैरिकमसासंकोचदीत्पद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाःऽ ॥
अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम् ।
ऽयामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाखथम् ।
जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम्ऽ ॥
ऽपर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो भ्रग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यामदानाम्बुपट्टः ।
सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्यऽ ॥
अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति ।
एवमादयो ऽन्ये ऽपि भेदा लेशतः सूचिता एव ।
रुअस्स्च्_16।2:
क्रमेणेति यथोद्देशम् ।
द्विर्भावः स्मरकार्मुकस्येत्यत्र च वाक्यार्थपर्यालाचनयेन्दोः स्मरकार्मुत्वारोपप्रतीतेः कुटिलत्वाद्यनेकधर्मनिमित्तं सादृश्यमेव संबन्धः ।
इन्दोश्चैकस्य बहव आरोपा इति मालारूपकम् ।
अनेकस्य तु यथा-
ऽबाहू बालमृणालिके कुचितटी माणिक्यहर्म्यं रतेर्- मुक्ताशैलशिला नितम्बफलकं हासः सुधानिर्झरः ।
वाचः कोकिलकूचितानि चिकुराश्चेतोभवश्चामरं तस्यास्त्रस्तकुरङ्गशावकदृशः किं किं न लोकोत्तरम्ऽ ॥
अत्रानेकेषामनेकारोपाद्रूपकमाला ।
इयं च श्लेषनिबन्धनापि दृश्यते ।
यथा -
ऽनेत्रे पुष्करसोदरे मधुमती वाणी विपाशा मति- श्चेतो याति नदीनतां कलयते शोणत्वमस्याधरः ।
चारित्रं ननु पापसूदनमहो मामेष तीर्थाश्रयः स्नातुं वाच्छति भूपतिः परमितीवोष्णोदकं वस्त्रगतिऽ ॥
अत्रानेकेषां श्लिष्टा अनेक आरोपिती इति श्लिष्टार्थरूपकमाला ।
आभातीत्यत्र समासोक्तिमन्ये मन्यन्त इत्युदाहरणान्तरेणोहाहियते ॥
यथा -
ऽभवत्संवित्पुष्पश्रियमनुपमामोदमधुरां समुच्चिन्वन्नाविषयवनराजीविकसिताम् ।
भवोद्याने भक्त्या तव सह विशेषोल्लसितया विहर्त्तु व्यग्रः स्यामनुसृकतविवे कप्रियसखःऽ ॥
भक्तेर्नायिकारोपस्याशाब्दत्वादेशविवर्तित्वम् ।
ऽपूयूषस्याधरामृतेन श्लिष्टशब्दनिरूपणम्ऽ इति लेखककल्पितो ऽयमपपाठो ज्ञेयः ॥
अधरामृतस्य हि पूयूषेण निरूपणमत्र स्थितम् ।
अतश्च
ऽअधरामृतस्य पीयूषेण श्लिष्टशब्दनिरूपम्ऽ इति पाठो ग्राह्यः ।
अत्र च पीयूषवदमृतशब्दस्याधररसावाचकत्वमन्ये मन्यन्त इत्युदारहणान्तरमुदाह्रियते ।
यथा-
ऽअलौकिकमहालोकप्रकाशितजगत्त्रय ।
स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान्ऽ ॥
अत्र मुक्तारत्नमित्तयरोपपूर्वको वंश एव वंश इत्यारोप इति श्लिष्टशब्दं केवलपरम्परितम् ।
विद्वदित्यादो हंसरूपणामहात्म्यान्मानसरूपेणेति परम्परितम् ।
एवमर्णवरूपणा तरण्डारोपस्य हेतुरिति परम्परितम् ।
पर्यङ्क इत्यत्रैकस्य बहव आरोपा इति मालापरम्परितम् ।
अनेकस्य तु यथा-
ऽश्रीः श्रीः धरोरःस्थलखेन्दुलेखा श्रीकण्ठकण्ठाभ्रतिडिच्च गौरी ।
शक्राक्षिपश्वाकरराजहंसी शची च वो यच्छ्रतु मङ्गलानिऽ ॥
अत्र बहूनामनेकारोपात्परम्परितमाला ।
एवमादय इति ।
परम्परितमप्येकदेशविवर्तीत्त्येवंप्रकारः ।
सूचिता इति ।
एतत्प्रदर्शनादेव ।
ततश्च सावयवं द्विविधमपि श्लिष्टं दृश्यते ।
तत्र समस्तवस्तुविषयं यथा-
ऽविहढन्तोठ्ठदलौडं फुरन्ताकारबहलकेसरपअरम् ।
पहरिसचन्दालोए हसिअं कुमुएण सुरहिगन्धोग्गारम्ऽ ॥
[सेतुबन्धे 416] (ऽविघटमानौष्ठदलपुटं स्फुरद्दन्ताकारबहलकेसरप्रकरम् ।
प्रहर्षचन्द्रालोके हसितं कुमुदेन सुरभिगन्धोद्गारम्ऽ) ॥
अत्र कुमुदस्य श्लिष्टत्वम् ।
एकदेशविवर्ति यथा-
ऽयत्तारामौक्तिकार्धप्रकरपुलकितं चन्द्रिकाचन्दनाम्भो- दिग्धं सत्पर्षिहस्तस्थितकरकपयोधौतमाकाशलिङ्गम् ।
तोयाधारे प्रतीचि च्युतवति दिनकृद्विम्बनिर्माल्यपद्मे तस्यार्चाण्डरीकं व्यधित हिमकरं सत्वरं मूर्ध्नि कालःऽ ॥
अत्र कालविषये पूजकादिरारोप्यमाणो न शाब्द इत्येकदेशविवर्तित्वम् ।
तोयाधारस्य समुद्रनिर्माल्योदकभाण्डवाचकत्वाकत्वाच्छ्रिलष्टत्वम् ।
रुअस्स्च्_16।2अ:
क्वचिच्चाभेदमेव द्रढयितुं विर्षायणो निषेधपूर्वमारोप्यमाणत्वेन तदीयस्य वा भेदहेतोर्धर्मस्य हानिकल्पनेनाधिक्येन वा दृढारोपत्वेनापीदं दृश्यते ।
क्रमेण यथा -
ऽकलिप्रिया शश्चदपालितावज्ञां गुरुज्ञातिषु दर्शयन्ती ।
जाया निजा या ननु सैव कृत्या कृत्या न कृत्या सरलस्य धार्मेःऽ ॥
अत्र कृत्या निषेधपूर्वं जायायामारोपिता ।
तन्निषेधेन हि जायाया कृत्यया दाढर्येन साम्यं प्रतीयते ।
कृत्या तथा न स्वकर्मणि व्याप्रियते यथेयं तत्कर्मणीति ह्यत्र वाक्यार्थः ।
अत्र च यदन्ये विशेषालङ्कारमाहुस्तदभेदालङ्कारनिराकणादेव निराकृतमिति न पुनरायस्यते ।
हान्यायथा -
ऽवनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रैषधयो रजन्यामतैलपूराः सुरतप्रदीपःऽ ॥
अत्रातैलपूरेण हानकल्पनम् ।
आधिक्येन यथा-
ऽतुरीयो ह्येष मेध्यो ऽग्निराम्नायः पञ्चमो ऽपि वा ।
अपि वा जङ्गमं तीर्थं धर्मो वा मूर्तिसंचरःऽ ॥
अत्र तुरीयत्वादेर्धर्मस्याधिक्यम् ।
ऽदृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदःऽ ॥
इत्यत्रापि दृढरोपमेव रूपकं ज्ञेयम् ।
अत्र हि कृपाणस्येति समुच्चीयमानत्वेननिर्देशाच्छ्राब्दस्यारोपस्याप्रतीतेरप्याकारमात्रेण भेदस्योक्तेर्वाक्यार्थपर्यालोचनमाहात्म्यात्वरिशिष्टसमस्तधर्मान्तरसद्भावाभ्यनुज्ञानाप्यर्यवसाने दाढर्येन विषयविषयिणोरभेदप्रतिपत्तिः ।
सैव च रूपकसतत्त्वमिति पूर्वमेवोक्तम् ।
अन्ये ऽपि भेदाः स्वयमेवाभ्यह्योदाहार्याः ।
रुअस्स्_16।3:
इदं वैधर्म्येणापि दृश्यते ।
यथा-
ऽसौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतयोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्ऽ ॥
अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसंख्यात्वे ऽपि क्वचित्स्वतो ऽसंभवत्संख्यायोगस्यापि विषयसंख्यात्वम् प्रत्येकमारोपात् ।
यथा - ऽक्वचिज्जटावल्कलावलम्बिनः कपोला दावाग्रयःऽ इत्यादौ ।
न हि कपिलमुनेर्बहुत्वम् ।
ऽभ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छे तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्ऽ ॥
इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव ।
जलदभुजगजमिति रूपकसाधकमिति पूर्वे सिद्धत्वाभावान्न तन्निचन्वनं विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः ।
रुअस्स्च्_16।3:
वैधर्म्येणापीति ।
न केवलं साधर्म्येणेत्यर्थः ।
अस्य च विच्छित्तिविशेषान्तरं दर्शयितुमाह-अत्रेत्यादि ।
आविष्टलिङ्गत्वे ऽपीत्यनेन धर्मिणः स्वरूपमात्रपर्यवसितत्वे ऽपि धर्म्यन्तरसंबन्धिनः संख्यात्मनो धर्मान्तरस्यापि स्वीकार इत्यावेदितम् ।
असंभवत्संख्यायोगत्येति ।
यद्यप्येकादिव्यवहारहेतुः संख्येति नीत्या एकस्मिन्नपि द्रव्ये तद्योगः संभवति तथाप्यनेकद्रव्यवर्तित्वाद्यभिप्रायेणैतदुक्तम् ।
प्रत्येकमारोपादिति अयमग्निः कपिलो ऽयमग्निः कपिल इत्येवंरूपात् ।
अतश्चारोप्यमाणस्य कृपिलमुनेर्बहुत्वायोगाद्विषयसंख्यत्वम् ।
श्लिष्टतानिबन्धनस्य परम्परितस्य श्लेषाद्वैलक्षण्यं द्योतयितुमाह-भ्रमिमिति ।
प्रभावित इति ।
प्रथममेव प्रतीतिगाचरीकृत इत्यर्थः ।
रुअस्स्च्_16।3अ:
पूर्वं सिद्धत्वाभावादिति ।
रूपकस्य श्लेषहेतुत्वात् ।
तन्निबन्धनिमिति रूपकनिबन्धनम् ।
इति शब्दो हेतौ ।
अतश्च श्लेष एवात्रालङ्कारो न परम्परितं रूपकमित्यत्र तात्पर्यम् ।
चिन्त्यं चैतत् ।
यतः श्लेषस्तावद्वाच्चयोर्द्वयोः प्रकृतयोरप्रकृतयोः प्रकृताप्रकृतयोश्च भवति ।
अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वम् ।
वर्षासमये जलदस्येव जलस्य वर्णनीयत्वात् ।
प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्लेषो भवति इह तु विशेष्यस्यापि साम्यमिति शब्दशक्त्युत्थितस्य ध्वनेरयं विषयो न श्लेषस्य ।
अतश्च नात्र श्लेषालङ्कारः ।
नापि ध्वनिः ।
जलदभुजगजमिति रूपकमाहात्म्याच्छब्दशक्या गरलार्थस्याभिधानात् ।
एवमत्र श्लिष्टशब्दनिबन्धनं [रूपकमेवालङ्कारः] जलदभुजगजमिति रूपकान्तरेणापि गरलार्थो यदि प्रतीयते तत्स ध्वनेर्वषयः स्यादित्युक्तंम् ।
स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्लिष्टशब्दनिबन्धनं रूपकम् ।
अन्यथा हि जलदभुजगजमिति रूपकं व्यर्थं स्यात् ।
तेन विना हि गरलार्थः प्रतीयतत इत्यलं बहुना ।
स्तर्त् सूत्र 17:
आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः
आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमिति ।
आगमानुगमविगमख्यात्यभावात्सांख्यीयपरिणामवैसक्षण्यम् ।
तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद् द्वैविध्यम् ।
आद्यो यथा-
ऽतीर्वा भूतेशमौलिस्त्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय ।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानस्त्वरितमय गिरिं चित्रकूटं प्रतस्थेऽ ॥
अत्र सौमित्त्रिमैत्त्री प्रकृता आरोप्यमाणसमानाधिकरणातररूपत्वेन परिणता ।
आतरस्य मैत्त्रीरूपतया प्रकृते उपयोगात् ।
तदत्र यथा समासोक्तावारोन्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्, अत एव तत्र तद्व्यवहारसमारोपः एवमिहापि ज्ञेयम्, केवलं तत्र विषयस्यैव प्रयोगः, विषयिणो गम्यमानत्वात् ।
इह तु द्वयोरप्यभिधानम्, तादात्म्यात् तु तयोः परिणामित्वम् ।
द्वितीयो यथा-
ऽअथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः ।
क्षितिभर्तुरुपायानं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैःऽ ॥
राजसंघटने तूपायनमुचितम् ।
तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः ।
रुअस्स्च्_17:
आरोप्यमाणस्येत्यादि ।
आरोप्यारोपविषयभावसाम्ये ऽपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्याचष्टे-आरोप्यमाणमित्यादिना ।
प्रकृतोपरञ्जकत्वेनेति ।
यदुक्तम्-विषयिणा विषयस्य रूपवतः कारणाद्रूपकमिति ।
प्रकृतात्मतयेति ।
प्रकृताङ्गतयेत्यर्थः ।
उपयोग इति ।
तेन विना प्रकृतार्थस्यानिष्पत्तेः ।
परिणमतीति ।
प्रकृतमप्रकृतव्यवहारविशिष्टतयावतिष्टते ।
प्रकृतस्वरूपमात्रावस्थाने प्रकरणार्थानिष्पत्तेः ।
एवमत्र प्रकरणोपयोगित्वाभावादित्यारोप्यमाणस्योपयोग इति चान्वयव्यतिरेकाभ्यां प्रकृतोपयोगित्वस्यासाधारणत्वं दर्शितम् ।
असाधारणत्वस्य हि धर्मस्य तत्तव्यवस्थापकत्वाल्लक्षणत्वम् ।
अतश्च नास्त्येवालङ्कारान्तरेषु प्रकृतयोगित्वम् ।
एवम्-
ऽआशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेवऽ ॥
इत्यत्रोपमायाम् ।
ऽअत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुमवततार मध्यमं लोकमंशुमालीऽ इत्यादावुत्प्रेक्षायाम् ।
ऽमन्दरमेहक्खोहिअससिकलहंसपरिअ(मु) क्वसलिलोच्छ्रङ्गम् ।
मरगअसेवालोवरिणिगण्णतु हिक्कमीणचक्काअजुअमऽ ॥
इत्यत्र च रूपके तथान्यालङ्कारेष्वौचित्यमेव नोपयोगः ।
ओचित्यं हि सिद्धस्य सतः प्रकृतार्थोपलम्भकं भवति ।
उपयोगः पुनः सिद्धावेव प्रकृतार्थहेतुतां भजते इत्यनयोर्महान्भेदः ।
तथा हि-
ऽअनन्वये च शब्दैक्मौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ ॥
इत्यत्रैकस्यैव शब्दैक्यस्यौचित्योपयोगाभ्यां भेद उक्तः ।
अतश्चौचित्योपयोगयोर्भेदभजानुद्भिः सर्वत्रैव प्रकृतोपयोगित्वमन्यैर्यदुक्तं तदयुक्तम् ।
तस्माद्रूपकादन्य एव परिणामः ।
इह पुनः अप्रकृतार्थस्य प्रकृतार्थारोपमन्तरेण सिद्धिरेव न भवतीति प्रकृतोपयोगितैव जीवितम् ।
ऽदाहो ऽम्भः प्रसृतिपचः प्रचयवान् बाष्पः प्रणालेचितः श्वासाः प्रेङ्खितदीप्रदीपलतिकाः पाण्डिम्नि मग्नं वपुः ।
किं वान्यत्कथयामि रात्रिमखिलां त्वन्भार्गवातायने हस्तच्छ्रत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्ततेऽ ॥
अत्र हि च्छ्रत्र्तारोपमन्तरेण चन्द्रातपरोध एव न भवतीति तस्य प्रकृतोपयोगित्वम् ।
अतश्च प्रकृतमप्रकृततया परिणमतीति परिणामः ।
यद्येवं तर्हि सांख्यीयपरिणामादस्य को विशेष इत्याशङ्क्यह-आगमेत्यादि ।
ऽजहद्धरम्रान्तरं पूर्वमुपादत्ते यदा ह्ययम् ।
तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यतेऽ ॥
इति सांख्यीयपरिणामलक्षणम् ।
मैत्र्तीरूपतयेति ।
मैत्र्यात्मतयेत्यर्थः ।
उपयोगादिति ।
आतरमन्तरेण तरणायोगात् ।
अतश्च प्रकृते यत आतरस्योपयोगस्ततश्च प्रकृताया एव मैत्र्यास्तत्कार्यकारित्वात्तद्व्यवहारारोपः ।
एतदेव दृष्टान्तमुखेनापि प्रतिपादयति-तदत्रेत्यादिना ।
अत्रेति परिणामे ।
समासोक्तौ चारोप्यमाणस्य प्रकृतोपयुक्तत्वम् ।
प्रकृतसिद्ध्यर्थमेवाप्रकृतस्याक्षेपात् ।
आरोप्यमाणमपि तत्र प्रकृतावच्छेदकत्वेन स्थितं न पुनराच्छादकत्वेनेत्याह-तच्चेत्यादि ।
अत एवेति ।
आरोपविषयात्मकत्वादेव ।
तत्रेति समासोक्तौ ।
एतदेव प्रकृते योजयति-एवमित्यादि ।
यद्येवं तर्हि समासोक्तिपरिणामयोः को विशेष इत्याशङ्क्याह-केवलमित्यादि ।
तयोरित्यांभधीयमानयोर्द्वयोः ।
उचितमिति ।
उपयुक्ततयेति शेषः ।
स्तर्त् सूत्र 18:
विषयस्य संदिह्यमानत्वे संदेहः
ऽअभेदप्राधान्ये आरोप इत्येव ।
विषयः प्रकृतो ऽर्तः, यद्भित्तित्वेनाप्रकृतः संदिह्यते ।
अप्रकृते संदेहे विषयो ऽपि संदिह्यत एव ।
तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालङ्कारःऽ ।
रुअस्स्च्_18:
विषयस्येत्यादि ।
विषयविषयिणोः संबन्धिशब्दत्वाद्विषयस्योक्तेर्विषयिणो ऽप्याक्षेपादत्र ग्रहणम् ।
तेन विषयस्य विषयिणश्च संदेहप्रतीतिविषयत्व सूत्रार्थः ।
ननु विषयशब्देन विषयिशब्दस्य संबन्धिशब्दत्वादाक्षेपे ऽपि विना वचनमाक्षेपमात्राद्विषयिणः कथं संदिह्यमानता लभ्यत इति चेत्, न ।
अनियतोभयांशावलम्बिविमर्शरूपत्वाद्विपयमात्रगतत्वेनासंभवात्संदेहस्यान्यथानुपपत्त्या विषयिणस्तत्संबन्धित्वं लभ्यत एवेति यथासूत्रितमेव ज्यायः ।
एतदेव विभज्य व्याचष्टे-विषय इत्यादिना ।
यद्भित्तित्वेनेति ।
अन्यथा ह्यप्रकृतस्य निर्विषयत्वमप्रन्तुताभिधानलक्षणो वा दोषः स्यादिति भावः ।
तेन विषयभित्तितया विपयिणामेव तथामावो भवतीत्याशङ्क्याह-अप्रकृतेत्यादि ।
विषयो ऽपीति ।
न केवलं विषयिण एव संदिह्यमानत्वं यावद्विषयस्यापात्यपिशब्दाथः ।
तेन क्वचिद्विषयिणामेव संदिह्यमानत्वे क्वचिच्च विषयविषयिणोरप्यलङ्कारो भवेत् ।
उभयत्रापि सामान्यलक्षणानुगमात् ।
अनियतोभयांशावलम्बी हि विमर्शः संशयः ।
स च विषयिणामेव भवति ।
विषयविपयिणोरेव संदिह्यमानत्वात् ।
अत एव च प्रकृताप्रकृतगतत्वेनेति यथासंभवं योज्यम् ।
प्रतिभोत्यापित इति ।
न पुनः स्वरसोत्यापितः, स्थाणुर्वा पुरुषो वेत्येवमादिरूप इत्यर्थः ।
रुअस्स्_18।1:
स च त्रिविधः ।
शुद्धो निश्चयगर्भो निश्चयान्तश्च ।
शुद्धो यत्र संशय एव पर्यवसानम् ।
यथा-
ऽकिं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः ।
उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्त्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणःऽ ॥
निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च ।
स यथा--
ऽअयं मार्तण्डः किं स खलु तुरगैः सत्पभिरितः कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनो ऽसाविति चिरात् समलोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाःऽ ॥
निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् ।
यथा--
ऽइन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतःऽ ॥
कचितारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते ।
यथा--
ऽरञ्जिता नु विविधास्तरुशैला नामितं तु गगनं म्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेणऽ ॥
अत्रारोपविषये तिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् ।
केचित्त्वध्यवसायाश्रयत्वेन संदेहप्रकारमाहुः ।
अन्ये तु नुशब्दस्य संभावनाद्योतत्वादुत्प्रेक्षाप्रकारमिममाचक्षते ।
रुअस्स्च्_18।1:
एतदेव भेदत्रयं विवृण्वन्नुदाहरति-शुद्ध इत्यादि ।
अत्र प्रकृतायास्तन्व्याः संदेहप्रतीतिविषयत्वाभावाद्विषयिणां मञ्जर्यादीनामेव संदेहः ।
विषयविषयिणोर्यथा -
ऽकिं पङ्कजं किमु सुधाकरबिम्बमेतक्तं वा मुखं क्लमहरं मदिरेक्षणायाः ।
यद्द्दश्यते मधुकराभकुरङ्गकान्तिनेत्रद्वयानुकृति कार्ष्ण्यममुष्य मध्येऽ ॥
अत्र क्लमहरत्वादिः समानो धर्मो ऽनुगामित्वेनोपात्तः ।
क्वचिद्वस्तुप्रतिवस्तुभावेनापि भवति यथा-
ऽकिमिदमसितालिकलितं कमलं किं वा मुखं सुनीलकचम् ।
इति संशेते लोकस्त्वयि सुतनु सरोचतीर्णायाम्ऽ ॥
अत्रासितत्वसुनीलत्वयोः शुद्धसामान्यरूपत्वम् ।
अलिकचानां च बिम्बप्रतिबिम्बभावः ।
एवं चास्य सादृश्यनिमित्तत्वात्समानधर्मानेकधर्मनिमित्तत्वेन द्विभेदत्त्वं न व्याकार्यम् ।
सादृश्यनिमित्तत्वेनैवास्य संग्रहसिद्धेः ।
विप्रतपत्त्यादिनिमित्तान्तरवच्चारुत्वाभावाच्च ।
भिन्नाश्रयत्वेनेति वैयधिकरण्येन ।
रुअस्स्च्_18।1अ:
अवौत्रपक्षन्तरमाह-केचित्यादि ।
अनेन च संदेहस्याध्यवसायमूलत्वमपि ग्रन्थकृतैवोक्तम् ।
तेनाध्यवसायाश्रयो ऽप्ययं स्वरूपहेतुफलानां संदिह्यमानत्वेन त्रिधा भवति ।
तत्र स्वरूपसंदेहो यथा-ऽरञ्जिताऽ इत्याद्येव ।
यथा व -
ऽएतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषापरत्विषि ।
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदै- रक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुःऽ ॥
अत्र कौमुदीधवलिम्नः कर्पूरपूरणादिनाध्यवसितत्वादध्यवसायमूलत्वम् ।
हेतुसंदेहो यथा -
ऽदिवि त्वक्षरणाम्बुजस्मृतिविधौ गाढावधानस्पृशां धन्यानां प्रसरन्ति संतततया ये बाष्पधाराभराः ।
किं ते स्युश्चिरकालभावितभवाप्रश्नक्रियावेगतः किं वासादितमुक्तिचन्द्रवदनासंदर्शनानन्दतःऽ ॥
अत्राश्रुहेतोरानन्दस्य संसारवियोगो मुक्तिसांमुख्यं चेति हेतुद्वयमध्यवसितम् ।
फलसंदेहो यथा -
ऽनृत्तान्ते पारिजातं किमु विघटयितुं स्प्रष्टुमाकाशगङ्गां किंस्विद्वा चन्द्रसूर्यौ किमु विदलयितुं श्चेतरक्ताब्जबुद्धथा ।
लब्धुं नक्षत्रमालाभरणभरमुत स्वर्गजं वाभियोद्धुं दूरोदस्तः समस्तस्तव गणपतिना स्वस्तये सो ऽस्तु हस्तःऽ ॥
अत्र करिणो निष्पादनस्य विघटनादिफलमध्यवसितम् ।
अत्रैवादिशब्दवन्नुशब्दस्य संभावनाद्योतकत्वात्पक्षान्तरमपि दर्शयितुमाह-अन्य इत्यादि ।
अतश्च रञ्जिता इवेत्यर्थः ।
पूर्वत्रार्थे तु नुशब्दो वितकंमात्र एवम्याख्येयः ।
स्तर्त् सूत्र 19:
सादृश्याद् वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्
असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणम् ।
भ्रान्तिश्चित्तधर्मः ।
स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् ।
सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः ।
यथा-
ऽओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णोलङ्कृतिभाजि दाडिमफलभ्रान्त्या च शोणे भणौ ।
निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ राजन्गृर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम्ऽ ॥
गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालङ्कारस्य विषयः ।
यथा--
ऽदामोदराघातचूर्णिताशेषवक्षसा ।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम्ऽ ॥
सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थे कविप्रतिभोत्थापितैव गृह्यते,यथोदाहृतम्, न स्वरसोत्थापिता शुक्तिकारजतवत् ।
एवं स्थाणुर्वा स्यात्पुरुषो वा स्यादिति संशये ऽपि बोद्धव्यम् ।
रुअस्स्च्_19:
असम्यग्ज्ञानत्वसाधर्म्यादिति न पुनरारोपगर्भत्वसाजात्याल्लक्षितमिति भावः ।
आरोपो हि विषयविषियिणोर्युगपदेकप्रमातृविषयीकृतत्वे भवतीति नारोपगर्भो भ्रमः क्वचिदपि संभवति, शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानाभावात् ।
ननु भ्रान्तिश्चित्तधर्मः स यस्यास्ति स भ्रान्तिमानिति वक्तुं न्याय्यं तत्कथमलङ्कारस्यैतदभिधानमित्याशङ्क्याह - भ्रान्तिरित्यादि ।
स इति भणितिप्रकारः अतशअचालङ्कारे भ्रान्तिमच्छ्रब्द उपचरित इति भावः ।
सादृश्यप्रयुक्तेति ।
न तु-
ऽप्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य ।
हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले को ऽयमद्वैतवादःऽ ॥
इत्यत्रैकस्या एव परिमिताया अपि योषितो गाढानुरागहेतुकं तन्मयतानुसंधानं प्रासादादावनेकत्र युगपत्प्रतीतौ निमित्तमिति भ्रान्तिमदलङ्कारः ।
स हि प्रासादादेर्वल्लभारूपत्वेन प्रतीतौ स्यात् ।
अन्यस्यान्यर्वल्लभात्वेन प्रतीयत इति स्फुट एवायं विशेषालङ्कारस्य विषयः ।
अथप्रासादादावभूताया अपि वल्लभाया दर्शनाद् भ्रान्तिरिति चेत्,नैतत् ।
एवं ह्यत्र भ्रान्तिमात्रं स्यान्नालङ्कारः ।
गाढानुरागात्मकनिमित्तसामर्थ्यात्स्वरसत एव प्रासादादावसत्या अपि युवत्याः प्रतीतिसमुल्लासाः ।
कविप्रतिभानिर्वर्तित्वाभावात् ।
ऽदेवमपि हर्षं पितृशोकविह्नलीकृतं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति भोगान्भुजगा इति निलयं निरय इत्यादि मन्यमानम्ऽ इत्यादावपि न भ्रान्तिमदलङ्कारः ।
तत्र शुक्तिकादिरूपतयावगमे रजताद्यभिमानानुदयादिति समनन्तरमेवोक्तत्वात् ।
इह पुनर्विषयरूपां श्रियमवगम्यापि श्रीहर्षेण पितृशोकविह्वलीकृतत्वाच्छापत्वेन भाम्यत इति विषमालङ्कारो ञ्यायान् ।
ऽदुतुं वाच्छति दक्षिणे ऽपि नयने वामः करः कज्जलं भौजङ्गं च भुजो ऽङ्गदं घटयितुं वामे ऽपि वामेतरः ।
इत्थं स्वं स्वमशिक्षितं भगवतोरर्धं वपुः पश्यतोः साधारस्मितलाच्छितं दिशतु नो वक्त्रं मनोवाच्छितम्ऽ ॥
इत्यत्रापि संस्कार एवालङ्कारो न भ्रान्तिमान् ।
अत्र हि भगवत्या नेत्रद्वयाञ्जनदानसतताभ्यासाद्वामनेत्राञ्जनदानानन्तरं दक्षिणनेत्राञ्जनदानवासनानुरोधो जायत इति संस्कारस्यैव वाक्यार्थत्वम् ।
अथात्र संस्कारप्रबोधं विना तदभावादञ्जनदाननैतत् ।
प्रत्युतात्र हि भगवदर्धस्य तथात्वेनैवावगमादञ्जनसंस्कारो न प्ररोहमुपागत इति कारस्यैव स्खलद्गतित्वात्तत्कार्थस्य भ्रमस्योत्पाद एव न संभवतीति न भ्रान्तिमतो ऽवकाशः ।
प्ररुढ एव हि संस्कारो भ्रमः ।
स्वात्ममात्रावस्थितस्तु संस्कारालङ्कारः ।
अत एव दातुं वाच्छ्रतीत्युक्तम् ।
एवं चात्र नेत्रद्वयाब्जनदानसतताभ्यासहेतुकः संस्कार एव प्रतीयते न तु तन्निमित्तको ऽपि भ्रमः परमः ।
परमेश्वरार्धस्य तथात्वेनैवावगमात्तद्गन्धस्याप्यभावात् ।
अत एवाशिक्षितं स्मितलाच्छितं चेत्युक्तम् ।
अवान्तर एवानयोर्विशेषो ऽलङ्कारभाष्य एवोक्त इति तत एवानुसर्तव्य इति ।
एवं चसादृश्यनिमित्तैवभ्रान्तिरलङ्कारविषयो न निमित्तान्तरोत्थापितेति न लक्षणस्याव्यापकत्वं वाच्यम् ।
एवं सादृश्यनिमित्तकत्वादस्य साधारणधर्मस्यापि त्रयी गतिः ।
तत्रानुगामिता यथा-
ऽनीलोत्पलमिति भ्रान्त्या विकासितविलोचनम् ।
अनुधावति मुग्धाक्षि पश्य मुग्धो मधुव्रतःऽ ॥
अत्र विकासित्यनुगामित्वेन निर्दिष्टो धर्मः ।
शुद्धसामान्यरूपत्वं तु यथा -
ऽअयमहिमरुचिर्भजन्प्रतीचीं कुपितवल्लीमुखतुण्डाम्रबिम्बः ।
जलनिधिमकरै रुदीक्ष्यते द्राङ्नवरुधिरारुणमांसपिण्डलोभात्ऽ ॥
अत्र ताम्रत्वारुणत्वयोः शुद्धसामान्यरूपत्वम् ।
बिम्बप्रतिबिम्बभावो यथा -
ऽपुसिआ कण्णाहरणेन्दणीलकिरणाहआ ससिमऊहा ।
माणिणिवअणम्मि सकज्जलं सुसङ्काए दैएणऽ ॥
(ऽप्रोच्छिताः कर्णाभरणेन्द्रनीलकिरणाहृताः शशिमयूखा- ।
मानिनीवदने सकज्जलाश्रुशङ्कया दयितेनऽ) ॥
अत्र सकज्जलत्वेन्द्रलकिरणाहतत्वयोर्बिम्बभावः ।
सादृश्यनिमित्तकत्वमेव चास्य द्रढयितुं प्रत्युदाहरति-गाढेत्यादिना ।
सादृश्यनिमित्तकत्वे ऽपि कविप्रतिभोत्थापितैव भ्रान्तिरस्यैव विषयो न पुनर्वास्तवीत्याह-सादृश्येत्यादि ।
उदाहृतमिति ।
ओष्ठेबिम्बफलाशयेत्यादि ।
एतदेव संदेहे ऽपि योजयति-एवमित्यादि ।
संशय इति ।
अर्थादारोपगर्भ एव ।
तत्रैव ह्यस्य सादृश्यं निमित्तम् ।
अध्यवसायमूले हि संदेहे सादृश्यात्सम्बन्धान्तराद्वा विषयविषयिणोः संदिह्यमानत्वं स्यात् यथोदाहृतं प्राक् ।
एवमारोपगर्भत्व एव सादृश्यं विना नायमलङ्कार इत्यवगन्तव्यम् ।
तस्मादविशेषेणैव साधर्म्यं विहायापि निमित्तान्तरमवसम्ब्य नास्यालङ्कारत्वं वाच्यम् ।
सादृश्ये ऽपि कविप्रतिभोत्थापितस्यैवालङ्कारत्वं न पुनः स्वारसिकस्येति ।
स्तर्त् सूत्र 20:
एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः
यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः ।
न चेदं निर्निमित्तमुल्लेखमात्रम्, अपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत्क्रियते ।
तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः ।
तदुक्तम्-
ऽयथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासो ऽप्यर्थ एकस्मिन्ननुसंधानसाधितेऽ ॥
इति ॥
यथा-
ऽयस्तपोवनमित्.इ मुनिभिः कामायतनमिति वेश्याभिः संगीतशालेति लासकैःऽ इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने ।
अत्र ह्येक एव श्रीकण्ठाख्योजनपदस्तत्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः ।
रुच्चर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते ।
नन्वेतन्मध्ये ऽवज्रवञ्जरमिति शरणागतैरसुरविवरमिति वातिकैःऽ इत्यादौ रूपकालङ्कारयोग इति कथमयमुल्लेखालङ्कारविषयः ।
सत्यम् ।
अस्ति तावत् ऽतपोवनम्ऽ इत्यादौ रूपकविविक्तो ऽस्य विषयः ।
यत्र वस्तुतस्तद्रूपतायाः संभवः ।
यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्संकरो ऽस्तु ।
न त्वेतावतास्याभावः शक्यते वक्तुम् ।
ततश्च न दोषः कश्चित् ।
एवं हि तत्र विषये भ्रान्तिमदलङ्कारो ऽस्तु अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् ।
नैतत् ।
अनैकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात्, तद्धेतुकत्वाच्चास्यालङ्कारस्य ।
संकरप्रतीतिस्त्वङ्गीकृतैव यद्येवम्, अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु ।
नैषा दोषः ।
ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोट्टङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात् सर्वथा नास्यान्तर्भावः शक्यक्रिय इति निश्चयः ।
यथा वा- ऽणाराअणोत् ति परिणअवआहिं सिरिवल्लहोत् ति तरुणीहिं ।
बालाहिं उण कोदूहलेण एमे अ सच्चविओऽ ॥
(ऽनारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः ।
बालाभिः पनः कौतूहलेन एवमेव सत्यापितःऽ ॥)॥
एवम्
ऽगरुर्वचसि पृथुरुरसि अर्जुनो यशसिऽ इत्यादाववसेयम् ।
इयांस्तु विशेषः-पूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन ।
नन्वनेकधात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलङ्कारान्तरमत्र स्थाप्यते ।
सत्यम् ।
अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः श्लेषो ऽत्र स्यात् ।
न तु सर्वथा तदभावः ।
अतश्चालङ्कारान्तरं यदेवंविधे विषये श्लेषाभावे ऽपि विच्छित्तिसद्भावः ।
तस्मादेवमादावुल्लेख एव श्रेयान् ।
एवमलङ्कारान्तरविच्छित्त्याश्रयेणाप्ययमलङ्कारो निदर्शनीयः ।
रुअस्स्च्_20:
एकस्यापीति ।
अनेकधा ग्रहणमिति ।
न पुनरनेकधा कल्पनम् ।
ग्रहणं हि स्वारसिक्यामुत्पादितायां च प्रतीपत्तौ संभवति न तु स्वारसिक्यामेव ।
यदाहुः -
ऽअतः शब्दानुसंधानवन्ध्यं तदनुबन्धि वा ।
जात्यादिविषयग्राहि सर्वं प्रत्यत्तमिष्यतेऽ ॥
इति ॥
कल्पनं पुनरुक्ताद्यं प्रतिपत्त्येकगामिति स्वारसिक्यां प्रतिपत्तौ न संभवतीत्युभयत्रापि व्यापकत्वाद्यथासूत्रितमेव युक्तम् ।
रूपबाहुल्येति ।
अत एवामुखे वस्त्वन्तरप्रतीतिरस्त्येव ।
अन्यथा ह्येकस्यानेकधाग्रहणमेव न स्यात् ।
अत एव चास्य भ्रान्तिमदनन्तरमेव लक्षणम् ।
एकस्य च न स्वातन्त्र्येणानेकधाग्रहणम्, अपि तु ततत्त्त्प्रयोजनवशादित्याह-न चेदमित्यादि ।
एतदिति ।
अनेकधा ग्रहणम् एकस्यैव नानाविधधर्मयोगिन आखण्ड्येन प्रतीतिगोचरीभावात्कथमेकैकधर्मविषयमनेकधाग्रहणं युक्तमित्याशङ्क्याहतत्रेत्यादि ।
तत्रेत्यनेकधाग्रहणे ।
स्वातन्त्र्येण विकल्पनं रुचिः ।
अर्थक्रियाभिलाषपरत्वमर्थित्वम् ।
वृद्धव्यवहारशरणता व्युत्पत्तिः ।
उक्तमिति श्रीप्रत्यभिज्ञायाम् ।
तत्तद्गुणयोगादिति विविक्तत्वादिनानाविधधर्मसंबन्धात् ।
मनीनां तपोवनविषयमर्थित्वम् ।
वेश्यानां च कामायतनविषयमर्थित्वम् ।
एवं लासकानां तु संगीतशालविषया व्युत्पत्तिरर्थित्वञ्च ।
प्रायश इति अनेन रुचिरत्र नास्तीति सूचितम् ।
ननु यो ऽयं श्रीकण्ठाख्यजनपदवर्णनग्रन्थखण्ड उदाहरणात्वेनानीतस्तत्रालङ्कारान्तरसंबन्धो ऽप्यस्तीति कथमेतद्विषय एवोत्याह-नन्वित्यादिना ।
एतदेवाभ्युपगम्य प्रतिविधत्ते-सत्यभित्यादिना ।
तावच्छ्रब्दो रूपकाभावविप्रतिपत्तिद्योतनार्थम् ।
तद्रूपताया इति तपोवनादिरूपतायाः ।
अत्रापि यदन्यैरवयविभावसंबन्धात्सारोपाया लक्षणायाः सत्त्वाद्रपकालङ्कारमाशङ्क्य विविक्तत्वस्य चिन्त्यत्वमुक्तं तदयुक्तम् ।
अवयवावयत्रिभावसंबन्धाभावाल्लक्षणाया एवासत्त्वात् ।
नहि श्रीकण्ठाख्ये जनपदे तपोवनमवयवन्यायेन कुत्राप्येकदेशे ऽस्ति यत्तत्रावयविनि मुनिभिरारोपितम् ।
किं तु तत्तद्गुणयोगिनः श्रीकण्ठस्य विविक्तत्वादितपोवनादिगुणमुखेन निजनिजवासनानुसारेणार्थित्वादिना मुनिप्रभृतीनामीदृगाभासः ।
अथापि यद्यस्त्वत्रयवावयविभावविवक्षा तल्लक्षणमात्रं न रूपकम् ।
तस्य लक्षणापरमार्थत्वे ऽपि विषयस्य रूपवतः करणादलङ्कारत्वम् ।
अन्यथा तु लक्षणामात्रमेव ।
नहि लक्षणापि रूपकपरमार्था ।
इह च तपोवनाद्यारोपेणारोपविषयस्य नातिशयः कश्चित् ।
वस्तुत एव तद्रूपतायाः संभवात् ।
अतश्च स्थित एवात्र रूपकविविक्तो ऽस्य विषयः, न केवलमन्यालङ्कारविविक्तो ऽयमेवास्यविषयो यावदे यत्रापि रूपकालङ्कारयोगो ऽस्ति तत्राप्ययं संभवत्येवेति दर्शयितुमाह-यत्रेत्यादि ।
इयमपिभङ्गिरिति एकस्यानेकधाग्रहणरूपा ।
एतावतेति रूपकप्रयोगमात्रेण ।
ततश्चेति रूपकोल्लेखयोः संकरात् ।
ननु यत्र रूपकयोगो नास्तितदलङ्कारान्तरयोगः संभवतीत्याह-एवं हीत्यादि ।
अतद्रूपस्येति ।
अतपोवनरूपस्यापि तपोवनरूपत्वोपनिबन्धनात् ।
अतस्मिंस्तद्ग्रहे भ्रमैत्येतदेव हि भ्रमसतत्त्वम् ।
अपूर्वस्येति भ्रान्तिमदसंभविनः ।
तद्धेतुकत्वादिति अनेकधाग्रहणाख्यातिशयनिमित्तकत्वात् ।
यदि चात्र भ्रान्तिमानप्यस्ति तत्तेन सहाश्य संकर एवास्त्वित्याह-संकरेत्यादि ।
यद्येवमिति ।
भ्रान्तिमानप्यस्ति तत्तेन सहास्य संकर एवास्त्वित्याह-संकरेत्यादि ।
यद्येवमिति ।
भ्रान्तिमतो ऽस्य विशेषस्तेन सहास्य संकरो वेत्यर्थः ।
एष इति अतिशयोक्तिसद्भावः ।
तस्तैति ग्रहीतृभेदाल्यत्य विभागस्य ।
विच्छित्त्यन्तरत्वमेव हि सर्वेषामलङ्काराणां भेदहेतुः ।
तदेवं तत्तच्छ्रक्कानिरासपूर्वममुमेव सिद्धान्तीकृत्य पुनरप्युदाहरति-णापाअणो त्तीति ।
अत्र च नारायणत्वाद्युल्लेखनेवृद्धाप्रभृतीनां यथाक्रम व्युप्तत्त्यर्थवाचित्वात् ।
तत्प्रतिभोत्त्पत्तिहेतुरिति ।
श्लेषमन्तरेणात्राल्लेखानिष्पत्तेः ।
तदभाव इति, उल्लेखाभावः ।
अतश्तेति, श्लेषाबावे ऽप्येतद्दिच्छित्तिसंभवात् ।
एवंविध इति विषयभेदरूपे ।
तत्तु यथा-
ऽसव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रे ऽमृतस्यन्दिनि ।
सेर्ष्या जह्वसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वःऽ ॥
अत्रैकस्या एव दृष्टेस्तत्तद्विषयभेदेन नानात्वोल्लेखनम् ।
रुअस्स्च्_20अ:
तदयं ।
द्विप्रकारो ऽपि रूपकाद्याश्रयवदन्यालङ्काराश्रयो ऽपि संभवतीत्याह-एवमलङ्कारान्तरेत्यादि ।
तत्राद्यः प्रकारः संदेहाश्रयो यथा-
ऽकिं भानुः किमु चित्रभानुरिति यं निश्चिन्वते वैरिणः किं चिन्तामणिरेष कल्पविटपी किं वेति चाशागताः ।
किं पुष्पाकर एष पुष्पविशिखः किं वेति रामाजनः किं रामः किमु जामदग्न्य इति वा यं धन्विनो मन्वतेऽ ॥
अत्राकस्यैव संदिह्यमानानेकधात्वोल्लेखनम् ।
अतिशयोक्त्याश्रयश्चायमेव यथा-
ऽवज्रं सौराज्यसाक्षी परिकलितमहाः शक्तिमार्द्रापराधो दण्डं खड्गं रिपुस्त्रीप्रसभहरणवित्कूपवाप्यादिदृश्वा ।
पाशां पाणावपश्यन्ध्वजमपि बलवित्कोषवेदी गदां च स्वाच्छ्रन्द्यज्ञस्त्रिशूलं लिखति करतले देव चित्राकृतेस्तेऽ ॥
अत्र त्वमेदेन्द्र इत्याद्यतिशयोक्त्या लोकपालाभेदो राज्ञ उपलभ्यते इत्येकस्यानेकधात्वोल्लेखनम् ।
विषयभेदेन च रूपकाश्रयो यथा-
ऽमूर्घ्न्यद्रेधर्तुरागस्तरुषु किसलयं विद्रुमौधः समुद्रे दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः ।
सीम्नि व्योग्नश्च हेन्मः सुरशिखरिभुवो जायते यः प्रकाशः शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म रश्मिप्रतानःऽ ॥
अत्रैकस्यैव विषयभेदेन रूपकाश्रयं नानात्वम् ।
ऽकारकान्तरऽ इत्यपपाठः ।
प्रकृतेकारकविच्छ्रित्त्याश्रयस्यैवानुक्तत्वात् ।
अयं स्वरूपहेतुफलोल्लेखनरूपत्वात्त्रिधा ।
तत्र स्वरूपोल्लेखः समनन्तरमेवोदाहृतः ।
हेतूल्लेकस्तु यथा -
ऽसर्गहेतोः सदा धर्मः स्थितिहन्तोरपि प्रजाः ।
द्विषः संहारहेतोश्च विदुस्त्वां जातमात्मनःऽ ॥
अत्रैकस्यैव जन्मनो हेतूनामनेकधात्वोल्लेखनम् ।
फलोल्लोखस्तु यथा -
ऽधर्मायैव विदन्ति पार्थिव यथाशास्त्रं प्रजाः पालिता अर्थायैव च जानते ऽन्तरविदः कोषैकदेशत्य ये ।
कामायैव कृतार्थतामुपगता नार्थश्च निश्चिन्वते मोक्षायैव च वेद जन्म भवतः कश्चिद्विपश्चिज्जनःऽ ॥
अत्रैकस्यैव जन्मनः फलानामनेकधात्वोल्लेखनम्ऽ ।
स्तर्त् सूत्र 21:
विषयस्यापह्नवे ऽपह्नुतिः
वस्त्वन्तरप्रतीतिरित्येव प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते ।
आरोपप्रस्तावादारोपविषयापह्नुतावारोप्यमाणप्रतीतावपह्नुत्याख्यो ऽलंङ्कारः ।
तस्य च त्रयी बन्धच्छाया, अपह्नवपूर्वक आरोपः, आरोपपूर्वको ऽपह्नवः ।
छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः ।
पूर्वोक्तभेदद्वये वाक्यभेदः ।
तृतीयभेदे त्वेकवाक्यत्वम् ।
आद्यो यथा--
ऽयदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्ऽ ॥
अत्रैन्दवस्य शशस्यापह्नवे उपक्षित्पे शशकप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यम् ।
तत्तु यथा ऽपूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं नेदं मण्डलमभ्ययुदेनि गगनाभोगे जिगीषोर्जगत् ।
भारस्योच्छ्रितमातपत्रमधुना पाण्डुप्रदेषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनःऽ ॥
द्वितीयो यथा-
ऽविलसदमरनारीनेत्रनीलाब्जषण्डा- न्यधिवसति सदा यः संयमाधःकृतानि ।
न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वःऽ ॥
तृतीयो यथा--
ऽउद् भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैः कुच- प्रेङ्खोलामलहारवल्लिविलन्मुक्ताफलच्छझना ।
सार्धं त्वद्रिपुभिस्त्वदीयशसां शून्ये मरौ धावतां भ्रष्टं राजमृगाङ्कं! कुन्दमुकुलस्थूलैः श्रमाम्भःकणैःऽ ॥
अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवोत्प्रेक्षा इत्तयपि स्थापयिष्यते, ऽ अहं त्विन्दुं मन्ये ऽ इति तु वाक्यभेदे मन्येशब्दप्रयोगेनोत्प्रेक्षेति च वक्ष्यते ।
एतस्मिन्नपि भेदो ऽपह्नवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितम् ।
तत्रापह्नुवपूर्वके आरोपे निरन्तरमुदाहृतम् ।
आरोपपूर्वके त्वपह्नवे यथा--
ऽज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी न्यन्तर्धानव्यसनरसिका कात्रिकापालिकीयम् ।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुदाकापाने न्यस्तं सिद्धाञ्जनपरिमलं लाञ्चनस्य च्छलेनऽ ॥
कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि-वपुः-शब्दादिनिबन्धनं यथा-
ऽअमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे खिखा धूमस्येयं परिणमति रोमावलिवपुःऽ ॥
इति ।
रुअस्स्च्_21:
विषयस्येत्यादि ।
वस्त्वन्तरेति ।
भ्रान्तिमतांऽनुवर्तत इति शेषः ।
अत एव केचन मण्डूकप्लुतिन्यायेनानुवर्तनस्यानुचितत्वाद् भ्रान्तिमदनन्तरमपह्नुतिर्ग्रन्थकृता लक्षिता उल्लेखश्चतिशयोक्त्यनन्तरमिति ग्रन्थं विपर्यासितवन्तः ।
न चैतत् ।
यत उल्लेखस्तावदतिशयोक्त्यनन्तरं ग्रन्थकृता न लक्षितः ।
यद्वक्ष्यति-ऽएवमध्यवसायाश्रयेणालङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते ।
तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्यैऽपि पदार्थगतमलङ्कारद्वयं क्रमेणोच्यतेऽ इति ।
तस्माद्वस्त्वन्तरप्रतीतेर्भावाद्भ्रान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतम् ।
अत एव चोल्लेखे ऽपि तत्संभवाद्वस्त्वन्तरप्रतीतेर्निरन्तरमेवानुवर्तनादिहैवास्या लक्षणमुचितमिति यथास्थित एव ग्रन्थः साधुः ।
यद्येवं तर्धुल्लेखापह्लत्योरिहैव विपर्ययेण किं न लक्षणं कृतमित्याशङ्क्याह-प्रक्रान्तेत्यादि ।
इदमित्यपह्नुतिलक्षणम् ।
तदेवव्याचष्टे - आरिपेत्यादिना ।
विषयस्यापह्नवेविषयिणो ऽन्यस्य विधिरित्यर्थः ।
तेन-
ऽन विषं विषमित्याहुर्ब्रह्यस्त्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं तु ससंततिम्ऽ ॥
इत्यत्र विषयस्य निषेधपूर्वं ब्रह्मस्वविषय आरोप्यमाणत्वाद् दृढारोपं रूपकमेव नापह्नुतिः ।
अपह्नुतेर्हि निषेध्यविषयभित्तितयैवान्यस्य विषयिणो विधानं लक्षणम् ।
अत्र तु निषेध्यस्यैव विषस्य ब्रह्मस्वविषये आरोप्यमाणत्वाद्विधानम् ।
अथ
ऽअत्र मुख्यस्य विषस्य निषेधेआरोप्यमाणत्वात् ब्रह्मस्वविषस्य गौणस्य विधानम्ऽ - [अलङ्काररत्नाकरे पृ.42] इति चेत्, तत्र ब्रह्यस्वविषस्य गौणस्य विधानमिति भणितेः कोर्ऽथः ।
किं ब्रह्मस्येति ।
तत्र नाद्यः पक्षः ।
विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहिरसंभवात् ।
तत्राप्यस्य ब्रह्मस्वं विषं चेति न भेदेनोक्तिः स्यात् ।
नापि गौणता स्वार्थ एव प्रवृत्तेः ।
अन्यदन्यत्र वर्तमानां गौणमित्युच्यते ।
न चात्र ब्रह्मस्वविषमन्यत्र कुत्रचिद्वर्तते येनास्य गौणता स्यात् ।
एवं द्वितीये ऽपि पक्षे न गौणत्वं युक्तम् ।
नाप्यत्रोभयविधिः ।
ब्रह्मस्ववृत्त्यभावान्मुख्यार्थबाधाद्गुणेषु वर्तनात् ।
तृतीये ऽपि न गौणस्य सतो विषस्य विधानम् ।
ब्रह्मस्ववृत्त्यभावान्मुखअयार्थबाधाधाद्गुणेषु वर्तनात् विहितस्य तस्तय गौणत्वात् ।
एवं ब्रह्मस्वत्य दाढर्येन विषसाभ्यप्रतीतिप्रतिपिपादयिषया तत्र निषेधपूर्वं विषमारोपितमिति दृढारोपमेव रूपकं युक्तम् ।
न ब्रह्मस्वं विषमिदमिति पुनरुच्यमाने ऽपह्नुतिः स्यात् ।
तस्मात् ऽमुख्यस्य वेऽ त्यपास्त विषयस्यापह्नुवे ऽन्यविधिरपह्नुतिरित्येव लक्षणं कार्यम् ।
रुअस्स्च्_21अ:
तस्येत्यपह्नुत्याख्यस्यालङ्कारस्य ।
वाक्यभेद इति एकवाक्यमिति चानेन यथासंभवं भेदत्रयस्य स्वरूपनिर्देशः कृतः ।
न निरवद्यमिति ।
यथोक्तक्रमनिर्वाहाभावात् ।
अत एवोदाहरणान्तरमाह-पूर्णेन्दोरित्यादि ।
मन्येशब्दस्य प्रयोग इति संभावनाद्योतकत्वात् ।
नोत्प्रेक्षेति ।
साध्यवसायाद्युत्प्रेक्षासामग्रयभावात् ।
वक्ष्यत इति ।
उत्प्रेक्षायाम् ।
तया चास्या इवादिशब्दवन्मन्येशब्दो ऽपि प्रतिपादकः ।
किन्तूत्प्रेक्षासामग्रयभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयतीति ।
अतश्चात्र ऽअवात्पः प्रागल्भ्यम्-इत्यादावपह्नत्यतुदाहरणत्वमभिदधतःसमाने ऽपि न्याये ऽनो मां प्रति तथाऽ इत्यनेन शशकपक्षस्य निराकृतत्वादन्यस्यान्यरूपतया संभावनाया अभावान् मन्य-इत्यनेन किणपक्षस्यैव निश्चितत्वादतिशयोक्तित्वमेवेति मन्यन्ते (अलङ्काररत्नकरकारादयः) ।
तेषां पूर्वापरविचारकुशलानां किमभिदध्मः ।
एवमन्यैरत्रान्यत्र चोदाहरणादौ बहुप्रकारं स्खलितं तत् पुनर्ग्रुन्थविस्तररभयाद्,अस्मद्दर्शनदत्त्दूषणोद्भरणस्यैव प्रतिघज्ञातत्वात्,अस्माभिः प्रतिपद्येन न दूषितम् ।
रुअस्स्च्_21ब्:
एतस्मिन्निति छलादिशब्दप्रतिपाद्ये ।
संभावमात्रं पुनर्दर्शयितुमेतदुदाहृतम् ।
वस्त्वन्तररूपताभिधायीति ।
वपुःशब्दस्य शरीरार्थाभिधायित्वात् ।
अत्र पुनरुपमानस्योपमेयरूपतापरिणतौ परिणाम इति परिणमालङ्कारत्वं स्यात् ।
इह पुनः शर्वप्लुष्टमदननिपतनानुमापकत्वेन रोमावल्यपह्नवे धूमशिखाया एवं प्राधान्यं विवक्षितमिति न परिणामः नापि रूपकम् ।
व्याजार्थपर्यवसायिवपुः शब्दबलादारोपविषयापह्नुतावारोप्यमाणस्य प्रतीतेः ।
आरोपविषयानपह्नवे हि रूपकमिति पूर्वमेवोक्तम् ।
अथात्रापि भिन्नयोः सामानाधिखरण्यायोगादेकतरस्य निषेधप्रात्पवारोप्यमाणस्य च निषेधानुपपत्तेरारोपविषयस्यैव पर्यवसाने निषेधः प्रतीयत इति चेत्, नैतत् ।
अत्र हि मुखादौ चन्द्रादेर्वृत्यभावाद् बाधितः संश्चन्द्रार्थः स्वात्मसहचारिणो गुणांल्लक्षयति न तु मुखादेर्विषयस्य निषेधः प्रतीयते ।
मुखशब्दादेः स्वार्थ एव प्रवृत्तेः ।
पर्यवसाने ह्यत्र मुखादि चन्द्रदिगुणविषिष्टं प्रतीयते ।
न तु मुखादेर्बाधः ।
न मुखमित्येवमादेः प्रत्यवमर्शाभावात् ।
नापि निदर्शना ।
संबन्धविघटनाद्यभावात् ।
रुअस्स्च्_21च्:
आदिशब्दाच्च तृतीययापि क्वचिदसत्यत्वं प्रतिपाद्यते ।
यथा-
ऽमद्धाह्वोर्व्यवहारमुज्झतु लता कण्ठस्थले तावके मा कार्षीरतिसाहसं प्रियतमे दासस्तव प्राणिति ।
नीता वृद्धिममी त्वयैव कुसुमैर्बाष्पायमाणा द्रुमा गृह्णन्ति क्षुरिकामिवालिपटलव्याजेन पाशच्छिदेऽ ॥
अत्र कुसुमैरिति तृतीययापह्णवनिबन्धनम् ।
आरोपगर्भत्वाच्चेयं सादृश्याद्वा भवति संबन्धान्तराद्वा ।
सादृश्ये ऽप्यस्याः साधारणधर्मस्य त्रयी गतिः ।
तत्रानुगामिता यथा-
ऽतरुणतमालकोमलकोमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते ।
ऽ तदनृतमेव निर्दयविधुन्तुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नभः ॥
अत्र तमालमलीमसत्वमनुगामित्वेनोपात्तम् ।
शुद्धसामान्य रूपत्वं यथा-
ऽअय सुरेन्द्रोपवनाद्धरित्रीं स पारिजातो हरिणोपनीतः ।
न प्रातितो ऽयं सुमनः प्रवर्हः कश्मीरदेशोद्भवताभिमानम्ऽ ॥
अत्रापनयनप्रापणयोः शुध्दसामान्यरूपत्वम् ।
बिम्बप्रतिबिम्बभावो यथा -
ऽन स्योत्स्माभरणं नभो न मिलितच्छायापथो वाम्बुदो नो ताराप्रकारो न चेदममृतज्योतिष्मतो मण्डलम् ।
क्षीरक्षोभमयो ऽप्यपांनिधिरसौ नेत्राहिना मन्दरः पृक्तो ऽयं मणिपूग एष कलशश्चायं सुधानिर्झरःऽ ॥
अत्र ज्योत्स्नाभरणत्वस्य क्षीरक्षोभमयत्वं प्रतिबिम्बत्वेन निर्दिष्टम् ।
संबन्धान्तराद्यथा-
ऽहेलोदञ्चन्मलयपवनाडम्बरेणाकुलासु प्रेङ्खाकेलिं कमपि भजतां चृतशाखालतासु ।
वाचालत्वं ननु यदभवत् कानने कोकिलानां मौनित्वं तत्पथिकहरिणीलोचनानां वबल्गऽ ॥
अत्र कोकिलवाचालत्वस्य कारणस्य निषेधे पथिकस्त्रामौनित्वस्य कार्यस्य विधिः ।
एवमारोपगर्भेयं सप्रपञ्चं दर्शिता ।
अध्यवसायगर्भा पुनर्दर्श्यते यथा-
ऽन लक्ष्मीसौदर्यान्न च सुरशरण्यीकृतसुरा- सुधादिज्येष्ठत्वान्न मुकुटमणित्वाद्भगवतः ।
यदेवं बालेन्दोर्दिशि विदिशि वन्द्यत्वमुदितं स्फुटं त्वेतत्कान्तामुखकमलदास्यादुपनतम्ऽ ॥
अत्र वन्द्यत्वस्य प्रभावादिहेतुकत्वे निगीर्य हेत्वन्तरमध्यवसितम् ।
यथा वा-
ऽकलाभिस्तृप्त्यर्थं सुरपितृनृणां पञ्चदशभिः सुधासूतिर्देवः प्रतिदिनमुदेतीत्यतसदिदम् ।
परिभ्राम्यत्येष प्रतिफलनमासाद्य भवती- कपोलान्तर्युक्त्या त्वदधरसुधासंग्रहपरःऽ ॥
अत्रोदयादौ तत्तद्राश्युपभोगलक्षणं निमित्तं निगीर्य तत्फलभूतं निमित्तान्तरमध्यवसितम् ।
रुअस्स्च्_21द्:
एतदुपसंहरन्नन्यदवतारयति ।
एवमित्यादि ।
स्तर्त् सूत्र 22:
एवमभेदप्राधान्ये आरोपगर्भानलङ्कारांल्लक्षयित्वा अध्यवसायगर्भांल्लुक्षयति- तत्र
अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा
विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणो ऽध्यवसायः ।
रुअस्स्च्_22:
आरोपगर्भानिति ।
अत्राध्यवसायगर्भत्वस्यापि विद्यमानत्वान्मल्लग्राम इत्यादिवदारोपगर्भस्य प्राधान्यादेवं व्यपदेशः ।
तत्र तावदुत्प्रेक्षां लक्षयति-अध्यवसाय इत्यादि ।
रुअस्स्च्_22अ:
अध्यवसाय इति न पुनः संदेह इति ।
इह हि निश्चयानिश्ययरूपत्वेन प्रत्ययानां द्वैविध्यम् ।
निश्चयश्चार्थाव्यभिचारी सम्यक्,अम्यक्,अन्यथा त्वसम्यगिति भेदो न ग्राह्यः ।
प्रतीतिवृत्तिमात्रस्यैवेह विचारयितुमुपक्रान्तत्वात् ।
तस्य च प्रामाण्यविचारे उपयोगात् ।
अनिश्चयश्च संशयतर्करूपत्वेन द्विविधः ।
अतश्चानिश्चितं च संदग्धमेवेति न वाच्यम् ।
तर्कात्मनः संभावनाप्रत्ययस्याप्यनिश्चयात्मकत्वे सदिग्धत्वाभावात् ।
उत्प्रेक्षा संभावनादिशब्दाभिधेयतर्कंप्रतीतिमूलेति नास्याः संदेहमूलत्वम् ।
तस्य भिन्नलक्षणत्वात् ।
अथानवधारणघज्ञानं संशयैत्यनवधारणज्ञानत्वाविशेषात्संशयान्नार्थान्तराभावस्तर्कस्येत्यस्याः संशयमूलत्वमिति चेत्, नौतत् ।
अनवधारणज्ञानत्वाविशेषे ऽरि संशतर्कयोभिंन्नरूपत्वात् ।
तथाहि-स्थाणुर्वा पुरुषो वेति सामान्येन पक्षद्वयोल्लेखः संशयः ।
पुरुषेणानेन भवितव्यमित्येकतरपक्षानुकूलकारणदर्शनेन पक्षान्तरबाधनमिव तर्कः ।
पुरुष एवायमिति पक्षान्तरासंस्पर्शेनैकतरपक्षनिर्णयो निश्चय इत्यस्ति सहृदयसाक्षिकं प्रत्ययानां त्रैविध्यम् ।
बाढमस्त्येव प्रत्ययानां त्रैविध्यम्,किं त्वनवधारणज्ञानत्वाविशेषात् सशयप्रकारस्तर्कं इति चेत्,नौतत् ।
एवं ह्यसम्यग्ज्ञानत्वाविशेषाद् भ्रमो ऽपि संशयप्रकारः स्यात् ।
अर्थनिश्चयानिश्चयस्वभावत्वादिना अस्त्यनयोर्विशेष इति चेत्,इह पुनर्नास्त्यत्र किं प्रमाणम् ।
संशयो ह्यनियतोभयांशावलम्बित्वेनोदेति,तर्कः पुनरंशान्तरबाधनेनेत्र वाहकेलिदर्शनाद्यनुकूलकारणौचित्यादंशान्तरावलम्बनेन चेत्यस्त्यनयोर्विशेषः ।
देशान्तरे हि यथा स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमौ,अपि तु शिथिलीभवति,संभवत्प्रमादत्वाच्च सर्वात्मना न निवर्तत इति अत एव निश्चयः साधकप्रमाणाभावे ऽप्यस्योपपत्तः ।
नहि सर्वात्मना न निवर्तत इति अत एव निश्चयः साधकप्रमाणाभावे ऽप्यस्योपपत्तः ।
नहि प्रतिपक्षबाधादेव निश्चयो भवति ।
साधाकबाधकप्रमाणसद्भावेन तदुत्पादात् ।
तेनानियतोभयपक्षावलम्बी किंस्विदिति विमर्शः सदेहः ।
एकतरपक्षावलम्बी तु तर्क इति ।
अथ कास्य ऽफलस्योपायविशेषः ऽ इत्येकतरपक्षावलम्बेनापि संदेहः संभवतीति चेत्,नैतत् ।
किमथनानियतपक्षान्तरस्वीकारादेकतरपक्षावलम्बनस्याप्रतिष्ठानात् ।
बाह्यालीदर्शनाच्च यथा पुरुषविशेषाः स्मरणपथं समवतरन्ति न तथा स्थाणुविशेषा इत्युभयविशेषस्मरणजन्मनः संदेहादेकतरविशेषस्मरणजन्मा विशिष्यते तर्क इत्याद्यवान्तरमतिगहनमनयोरन्तिभेदसाधनं तत्पुनः प्रकृतानुपयोगादिह नोक्तम् ।
तेन संदेहनिश्चयान्तरालवतीं तान्द्वलक्षणः संभावनाप्रत्ययस्त्रिशङ्कुरिव लम्बमानो ऽवश्याभ्युपगन्तव्यः ।
रुअस्स्च्_22ब्:
एवमप्यनिश्चयात्मकसंभावनाप्रत्ययमूलत्वादुत्प्रेक्षायाः कथमध्यवसायमूलत्वम् ।
तस्य हि विषयनिगरणं विषयिनिश्चयश्च स्वरूपम् ।
न चात्रैकमपि संभवति ।
विषयोपादानान्निश्चयाभावाच्चेति ।
अत्रोच्यते - इह द्विधास्त्यध्यवसायः-स्वारसिक उत्पादितश्च ।
तत्र स्वारसिके विषयानवगत एव निमित्तम् तत्सामर्थ्यात्स्वरसत एव विषयिप्रतीतेरुल्लासात् ।
न ह्यवगतशुक्तिकास्वरूपन्य प्रमातुः कदाचिदपि रजतमिदमिति प्रत्ययोत्पादः स्यात् ।
इतरत्र तु विषयमवगम्यपि तदन्तःकारेण प्रतिपत्तौ स्वात्मपरतन्त्रविकल्पबलाद् विषयप्रतिपत्तिमुत्पादयेत् ।
जानान एव हि विषयिविविक्तं विषयं तत्र प्रयोजनपरगता स्वारसिक्येव तथाविधा प्रतिपत्तिर्वक्त्रानूद्यते न तूत्पाद्यते ।
यदाहुः-
ऽप्रमात्रन्तरधीर्भान्तिरूपा यस्मिन्ननूद्यते ।
स भ्रान्तिमान्ऽ इति ।
स्वारसिकत्वं पुनरत्र कविप्रतिभानिर्वतितमेवेष्टम् ।
अन्यथा हि भ्रान्तिमात्रं स्यादिति पूर्वमेवोक्तम् ।
इतरस्तूत्प्रेक्षाविषयः ।
स च द्विविधः-सिद्धः साध्यश्च ।
सिद्धो यत्र विषयस्यानुपात्ततया निगीर्णत्वादध्यवसितप्राधान्यम् ।
सिध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्णत्वादध्यवसितप्राधान्यम् ।
साध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यत्वादध्यवसितप्राधान्यम् ।
साध्यो यत्रेवाद्युपादानान्त्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यमाणत्वादध्यवसायक्रियाया एव प्राधान्यम् ।
अत एवाह-ऽव्यापारप्राधान्यऽ इति ।
अत एव चात्र क्विचिद्विषयानुपादानम् ।
वाच्योपयोग्यध्यवसायस्य साध्यमान वेनोपक्रान्तत्वात् ।
क्विचिच्च विषयस्यानुपादाने ऽपि न सिद्धत्वम् ।
इवाद्यलपादानान्निगीर्यमाणत्वादारोपगर्भत्वं न वाच्यम् ।
तत्र विषयस्य विषयितया प्रतीतिः ।
इह पुनर्वषयस्य निगीर्यमाणत्वेन विषयिण एव प्रतीतिः ।
ननु विषयनिगरणमध्यवसायस्य लक्षणम् ।
इह पुनर्विषयस्य निगीर्यमाणतेति कथमत्राध्यवसायतेति चेत्,नैतत् ।
विषय्यन्तःकृते ऽन्यस्मिन् सा स्यात्साध्यवसानिकाऽ इत्याद्यक्त्याध्यवसायस्य विषयिणा विषयस्यान्तःकरणं लक्षणम् ।
तच्च विषयस्य निगरणेन निगीर्यमेणत्वेन वा भवतीति न कश्चिद्विशेषः ।
निगीर्यमाणत्वमपि पूर्वोक्तनीत्या विषयस्योपात्तस्यानुपात्तस्य वा भवतीतिन कश्चिद्विशशेषः ।
एवं सिध्दे ऽध्यवसाये ऽध्यवसितप्राधान्य साध्ये च स्वरूपप्राधान्यमितिसिद्धम् ।
एवच्च ग्रन्थकृदेव विभज्याग्रे वक्ष्यतीति तत एवावधायंम् ।
यदेव साध्यवसायस्य साध्यत्वं तदेव संभावनात्मकत्वम् ।
संभावना ह्येकतरपक्षशिथिलीकारेण पक्षान्तरदार्ढ्येन च प्रादुर्भवतीत्यस्याः साध्याध्यवसायतुल्पकक्षत्वम् ।
तस्यापि विषयशिथिलीकारेण विषयिदार्ढ्येन चोत्पत्तेः ।
अत एव विषयिणो ऽपि शब्देन वृत्तेन सत्यन्त्वम् ।
विषयिदार्ढ्येनैव साध्याध्यवसायत्वरूपप्रादुर्भावात् ।
यदुक्तं भवद्भिरेव ऽसंभावनायां च संभाव्यमानस्य दार्ढ्यादपरस्य न शौथिल्यात्ऽ इति ।
इह संभाव्यमानस्य विषयिणो दार्ढ्यादत्र संशयाद्वैलक्षण्यम् ।
तस्य ह्यनियतोभयांशावलम्बी किंस्विदिति विमर्शो लक्षणम् संभावनाविषयस्य च शौथिल्यान्निश्चयादपि भेदः ।
विषये हि बाधकसद्भावादेकस्य शैथिल्येन वा साधकसद्भावाच्च पक्षान्तरस्य सिद्धिः स्यात् ।
अतिशयोक्तिश्च निश्चयात्मिकेति ततो ऽस्या भेदः ।
यत्तु ऽसाध्यो यत्र विषयिणो ऽसत्यतया प्रतीतिःऽ इत्यादि ग्रन्थकृद्वक्ष्यति तद् वस्तुवृत्ताभिप्रायेणावगन्तव्यम् ।
तदेवं विषयस्य निगीर्यमाणत्वाद्विषयिणश्च निश्चयात्सिद्धमध्यवसायमूलत्वमस्या इति यथोक्तमेव लक्षणं पर्यालोचिताभिधानम् ।
तस्मात्-
ऽइवादौ निश्चयाभावाद्विषयस्य परिग्रहात् ।
क्वचिदध्यवसायेन नोत्प्रेक्षापि तु संशयात्ऽ ॥
इत्याद्युक्तमयुक्तमेवेत्यलं बहुना ।
रुअस्स्_22।1:
स च द्विविधः - साध्यः सिद्धश्च ।
साध्यो यत्र विषयिणो ऽसत्यतया प्रतीतिः ।
असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभावित्वेन विषयासंभावित्वेन च प्रतीतेः ।
धर्मो,गुणक्रियारूपः तस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते, इतरस्य तु परमार्थतया सत्यत्वम् ।
यस्यासत्यत्वं, तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः ।
अतश्च व्यापारप्राधान्यम् ।
सिद्धो यत्र विषयिणो वस्तुतो ऽसत्यस्यापि सत्यताप्रतीतिः ।
सत्वत्वं च पूर्वकस्यासत्यत्वनिमित्तस्यभावात् ।
अतश्चाध्यवसितप्राधान्यम् ।
तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्ये ऽध्यवसायः संभावनमभिमानस्तर्क ऊहृ उत्प्रेक्षेत्यादिशब्दैरुच्यते ।
तदेवमप्रकृतगतगुणक्रियाभिसंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा ।
सा च वाच्या इवादिभिः प्रदर्श्यते ।
प्रतीयमानायां पुनरिवाद्यप्रयोगः ।
सा च जातिक्रियागुणद्रव्यताणामप्रकृतानामध्यवसेयत्वेन चतुर्था ।
प्रकृतस्यैतद्भेदयोगे ऽपि न वैचित्र्यमिति न ते गणिताः ।
प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्ये ऽष्टविवत्वम् ।
भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणाक्रियारूपत्वे षोडश भेदाः ।
तेषां च प्रत्येकं निमित्तस्योपादानानुपादनाभ्यां द्वात्रिंशत्प्रभेदाः, तेषु च प्रत्येकं हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः ।
एषा गतिर्वाच्योत्प्रेक्षाया ।
तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः ।
प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तोभेदाः, तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैर् यूनो ऽयं प्रकारः ।
इवाद्यनुपादाने निमित्तस्यत चाकीर्तने उत्प्रेक्षणस्य निष्पमाणत्वात् ।
प्रायश्च स्वरूपोत्प्रक्षाया यथासंभवं भेदनिर्देश ।
एषा चार्थाश्रयति धर्मविषये श्लिष्टशब्दहेतुका क्वचित्पदार्थान्वयवेलायां सादृश्याभिवानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्य्थाभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति ।
मूल पाठ: Alaṃkārasarvasva 1-34 with Jayaratha's commentary Vimarśinī · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0