भाषा

ENहिગુ
ग्रंथ पाठ

अलंकारसर्वस्व (टीका सहित) · भाग 81100

तस्यापि बिम्बप्रतिबिम्बभावतया निर्देश दृष्टान्तः
तष्णापीति न केवलमुपमानोपमेययोः ।
तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः ।
अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः ।
आद्यो यथा-
ऽअब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरता- , मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ।
देवीं वाचमुपासते हि बह्यवः सारं तु सारस्त्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविःऽ ॥
अत्र यद्यपि ञ्चानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौपभ्यं विवक्षितम् ।
यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् ।
द्वितीयो यथा-
ऽकृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो ऽरयः ।
तमांसि तिष्टन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम्ऽ ॥
अत्र निहतत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनम् ।
रुअस्स्च्_27:
तस्यापीति [सामान्यधर्मस्यापीत्यर्थः] उपमानोपमेययोरिति ।
प्रकृताप्रकृतयोर्धर्मिणोरित्यर्थः ।
अतश्च धर्माणां धर्मिणां च बिम्बप्रतिबिम्बभावेन निर्देशो ऽयमलङ्कारः ।
यदुक्तमन्यत्रापि-ऽदृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्ऽ इति ।
उपमानोपमेययोरिति तु स्वार्थएव न व्याख्येयम्,अर्थान्तरस्य प्रकृतदार्ढ्यायोपादानात्सादृश्याविवक्षणात् ।
आद्य इति साधर्म्येण ।
यथा वा--
ऽस्थानेषु शिष्यनिवहैः प्रतिपाद्यमाना विद्या गुरुं हि गुणवत्तरमातनोति ।
आदाय शुक्तिषु बलाहकविप्रकीर्णै रत्नाकरो भवति वारिभिरम्बुराशिःऽ ॥
अत्र स्थानादीनां शुक्त्यादिभिः प्रतिबिम्बनम् ।
यन्निबन्धनं चेति ।
अर्थालङ्कारत्वं न पुनरौपम्यम् ।
तस्य च समनन्तरोक्तयुर्क्त्यासंभवात् ।
स्तर्त् सूत्र 28:
संभावतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना
प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् ।
तत्र क्कचित्संभवन्नेव वस्तुसंबन्धः स्वसामर्थ्याद्धिम्बप्रतिबिम्बभावं कल्पयति ।
क्वचित्पुनरन्वयबाधादसंभावता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते ।
तत्र संभवद्वस्तुसंबन्धा यथा-
ऽचूडामणिपदे धत्ते यो देवं रविमागतम् ।
सतां कार्यातिथेयीति बोधयन् गृहमेधिनःऽ ॥
अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसंबन्धः ।
असंभवद्वस्तुसंबन्धा यथा-
ऽअब्यात्स वो यम्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् ।
जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुःऽ ॥
अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवल्लीलासदृशीं लीलामवगमयतीत्पदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम् ।

रुअस्स्च्_28:
संभवतेत्यादि ।
बिम्बप्रतिबिम्बभावमिति उपमानोपमेयत्वमित्यर्थः ।
धर्मधर्मिणोरभेदोपक्षारात् ।
एवं चात्र निदर्शतायां सादृश्याविनाभावः ।
तेन -
ऽप्रभाते पृच्छ्रन्तीरनुरहसवृत्तं सहचरीर्नवोढा न व्रीडामुकुलितमुखीयं कथयति ।
लिखन्तीनां पत्त्राङ्कुरमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां प्रथयतिऽ ॥
इत्यादौ संभवत्यपि वस्तुसंबन्धे प्रथनस्यौपम्याभावान्न निदर्शनालङ्कारत्वम्ष ।
अनेनैव वस्तुसंबन्धस्य संभवासंभवाभ्यामस्या भेदद्वयमप्युक्तम् ।
तदेवोदाहरति-चूडामणीत्वादिना ।
तत्समर्थाचरणे प्रयोगादिति ऽकारीषो ऽध्यापयतिऽ इत्यादिवत् ।
अभ्यागतस्य रवेर्गिरिणा शिरसा धारणं तत्समर्थाचरणम् ।
अत एवात्र बोधयन्निति णिचस्तत्समर्था चरणे प्रयोगान्मयेव भवद्विभरप्यतिथिसपर्या कार्येति संभवत्संबन्धमूलमत्रार्थमौपम्यम् ।
एवं च पर्वतस्य बोधनक्रियाकर्तृत्वासंभवादेवादेवाभिमन्तृव्यापारोपारोहाभावान्नात्र प्रतीयमानोत्प्रेक्षा ।
नापि स्मृत्यलङ्कारः ।
गृहमेधिनां पर्वतकर्तृकस्य सद्विषयातिथ्यबोधकत्वस्यवाक्ष्यार्थत्वात् ।
तत्र हि सदृशदर्शनाद्वस्त्वन्तरस्य स्मृतिर्भवति ।
नचात्र गृहमेधिनां रविदर्शनादतिथिस्मृतौ कर्तृत्वम् ।
तेषां सदातिथ्यकर्तव्यताया बोध्यत्वात् ।
नाप्यत्र रविणातिथेरतिथिना वा रवेः साम्यंविवक्षितम् ।
अपि तु मयेव गृहमेधिभिरपि सतामातिथ्यङ्कार्यमिति ।
अत एव नात्र वस्त्वन्तरकरणात्मापि विशेषालङ्कारः ।
तपानावगमे ऽतिथ्यादेरसंभाव्यस्यावगमो जात इत्येवमात्मिकायाः प्रतिपत्तेरभावात् ।
अतश्च सत्यसति वा संबन्धे निदृशंनेति वाच्यम् ।
तेन यथोक्तमेव भेदद्वयं स्यात् ।
असंभवदिति ।
धर्म्यन्तरसंबन्धिनो धर्मस्य धम्यन्तरे ऽन्यदायोगात् ।
अद्रविप्रकर्षादिति ।
धर्ममुखेनसादृश्यस्य किञ्चित्प्रत्यासच्चत्वात् ।
यथा वा -
ऽअङ्गे पुलअं अहरं सवेपिअं जंपिअं ससिक्कारं ।
सव्वं सिसिरेण कअं जं काअव्वं पिअअमेणऽ ॥
अत्र वल्लभकार्यस्य पुलकादेर्धर्मस्य वस्त्वन्तरभूतेन शिशिरेण कारणमसंभवत्तस्य साम्यमवगमयतीति शिशिरस्य बल्लभतुल्यताप्रतीतेरौपम्यम् ।
अतश्चात्र धर्माणामसंबन्धात् निदर्शनेत्युक्त्वा प्रतिमालङ्कारत्वं न वाच्यम् ।
प्रतिभायाश्चान्योदाहरणेष्वलङ्कारान्तरावियोगः स्फुट एवेति न पृथगलङ्कारत्वं वाच्यम् ।
एवमन्येषामपि समग्राणामभिनवालङ्काराणां चान्यैरन्यालङ्कारयोगो योजयितुं शक्य एवेति ग्रन्थविस्तरभयादस्मदर्शने तद्दूक्षणोद्धारस्यैव च प्रतिज्ञातत्वादस्माभिः प्रातिपद्येन न दूषितम् ।
न पुनरेतावतैव परमतमप्रतिषिद्धमनुमतमेवेति दृशा एषामपि पृथगलङ्कारत्वं युक्तं मन्तव्यम् ।
रुअस्स्_28।1:
एषापि पदार्थवाक्यार्थवृत्तिभेदाद् द्विविधा पदार्थवृत्तिः समनन्तरमुदाहृता ।

वाक्यार्थवृत्तिर्यथा-
ऽत्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोःऽ ॥
केचित्तु दृष्टान्तालङ्कारो ऽयमित्याहुस्तदसत् ।
निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः ।
यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता, न दृष्टान्तः ।
एवं च -
ऽशुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता बनलताभिःऽ ॥
इत्यत्र दृष्टान्तबुद्धिर्न कार्या ।
उक्तन्यायेन निदर्शनाप्रात्पेः ।
रुअस्स्च्_28।1:
एषेत्यसंभवद्वस्तुसंबन्धनिबन्धना ।
न केवलं निदर्शना यावत्तद्भेदो ऽप्ययं द्विविध इत्यपिशब्दार्थः ।
उदाहृतेति ऽअव्यात्स वःऽ इत्यादिना ।
केचिदिति श्रीमम्मटादयः । 18 अ. स. तदिति दृष्टान्तालङ्कारवचनम् ।
एतदन्यत्रापि योजयति-एवमित्यादिना ।
उक्तन्यायेनेति,प्रकृतवाक्यार्थे वाक्यार्थान्तरस्य सामानाधिकरण्येनाध्यारोप्यमाणत्वात् ।
अतश्चान्यैर्वाक्यार्थयोः सामानाधिकरण्यनिदशाच्छ्रौतारोपसद्भावेन वाक्यार्थरूपकं यदुक्तं तत्तावदास्ताम्,यत्पुत्रः प्रतिवस्तूपमोदाहरणत्वमुक्तं तदयुक्तमेव ।
निरपेक्षयोर्वाक्यार्थयोर्धर्मस्य शुद्धसामान्यरूपत्वे प्रतिवस्तूपमा ।
न चात्रैकमपि संभवति ।
वाक्यार्थयोः सापेक्षत्वाच्छुद्धसामान्यरूपत्वाभावाच्च अर्थापत्त्युदाहरणत्वमप्यत्रायुक्तम् ।
ऽजाग्रतः कमलाल्लक्ष्मीं यज्जग्राह तदद्भुतम् ।
पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिःऽ ॥
इत्यत्र तु प्रतिवस्तूपमोदाहरणत्वं पापात्पापीयः ।
अत्र हि वाक्यार्थयोः परस्परं सादृश्यमात्रमपि नास्तीति का कथा प्रतिवस्तूपमायाः ।
एवंविधमेव चान्यत्र सर्वालङ्कारोदाहरणेष्वासमञ्जस्यं संभवदपि समनन्तरोक्तहेतुद्वयाश्च दर्शितम् ।
तथा च -
ऽआज्ञाधरः पञ्चशरः पुरस्तात्सुधा पुनः कर्मकरी मुखस्य ।
स चापि सौन्दर्यविशेषबन्दी यत्रेन्दुरिन्दीवरलोचनानाम्ऽ ॥
इत्यत्र विषयविषयिणोर्द्वयोरप्युपादानात्स्फुटे ऽपि रूपकत्वे ऽतिशयोक्त्युदाहरणत्वमुक्तं तत्र चातिशयोक्तित्वमेव नास्तीति किं कार्यकारणभावपूर्वकत्वनिदर्शनेननेत्यलं बहुना ।
असंभवद्वस्तुसंबन्धनिबन्धनायाश्च यद्यपि वस्तुसंबन्धस्याविशेषेण संभव उक्तस्तथापि समनन्तरोक्तोदाहरणेषु यथोपमानसंबन्धी धर्म उपमेयगतत्वेनैव संभवति तथैवोपमेयसंबन्धी धर्मः क्वचिदुपमाने ऽपीत्याह-इयमित्यादि ।
रुअस्स्_28।2:
इयं चोपेमेय उपमानवृत्तस्यासंभवात्प्रतिपादिता पूर्वैः वस्तुतस्तूपमेयवृत्तस्योपमाने ऽसंभवादपि भवति ।
उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात् ।
तद्यथा - ऽवियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषुऽ ॥
अत्र गण्डतलं प्रकृतम् ।
तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुष्वसंभवादौपम्यप्रतीतिः ।
एष च प्रकारः शृङ्खलान्यायेनापि भवति ।

यथा-
ऽमुण्डसिरे बोरफलं बोरोवरि बोरअं थिरं धरसि ।
विग्गुच्छाऐ अप्पा णालिअछेआ छलिज्जन्तिऽ ।
रुअस्स्च्_28।2:
उभयत्रेत्युपमेये उपमाने वा ।
वसन्तवर्णनस्य प्रक्रान्तत्वाद् द्वयोः प्रकृतत्वे ऽपि गण्डतलस्योपमेयत्वम् ।
तद्भतत्वेनैव पाण्डिम्नः सिसाधयिषितत्वात् ।
सिध्दसाध्यधर्मत्वमेव क्षोपमानोपमेयत्वम्ष ।
यथा वा -
ऽत्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरपि क्षपायाः ।
कथं त्वनेनाहृतमेतदद्य कलावतां वा किमसाध्यमस्तिऽ ॥
अत्र चाटुषु नायिकायाः प्रस्तुतत्वाद्वक्त्रमुपमेयम् ।
तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः ।
एष इति असंभवद्वस्तुसंबन्धनिबन्धनो वा वाच्यः ।
रुअस्स्_28।3:
इयमपि क्वचिन्मालयापि भवन्ती दृश्यते ।
यथा-
ऽअरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थले ऽब्जमवरोपितं सुचिरमूषरे वर्षितम् ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतः धृतो ऽन्धमुखदर्पणो यदबुधो जनः सेवितःऽ ॥
क्वचित्पुनर्निषेधसामर्र्थ्यादाक्षित्पायाः प्रात्पेः संबन्धानुपपत्त्यापि भवति ।
यथा-
ऽउत्कोपे त्वयि किञ्चिदेव चलति द्राग्गूर्जरक्ष्माभृता मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदृशाम् ।
पद्भ्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमःऽ ॥
अत्र मुक्तेन निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्रात्पिराक्षिप्यते ।
सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्वनिबन्धना निदर्शना ।
रुअस्स्च्_28।3:
आक्षित्पाया इति ।
प्रात्पिपूर्वकत्वान्निषेधस्य ।
सेति प्रात्पिः सादृश्यमिति पादयोर्हसगतितुल्याया गतेः प्रतीतेः ।
इयं च सामान्यस्यानुगामितया ।
यथा- अव्यात्म व इत्यादि ।
अत्र निसर्गवक्रताक्ष्यधर्मस्यानुगामित्वम् ।
शुद्धसामान्यरूपत्वेन यथा -
ऽहारेणामलकस्थूलमुक्तेनामुक्तकुन्तलः ।
फणीन्द्रबद्धजूटस्य श्रियमाप स धूर्जटेःऽ ॥
अत्रामुक्तबद्धयोः शुद्धसामान्यरूपत्वम् ।
बिम्बप्रतिबिम्बभावेन यथा -
ऽउह सरसदन्तडलकपोलपडिमागओ मअच्छ्रीइ ।
अन्ते सिंदूरिअसंखवत्तकराणं वहै चन्दोऽ ॥
(ऽपश्य सरसदन्तमण्डलकपोलप्रतिमागतो मृगाक्ष्याः ।

अन्ते सिन्दूरितशङ्खावर्त्तकरणीं [क्रियाण्]वहति चन्द्रःऽ) ॥
अत्र दन्तमण्डलसिन्दूरितत्वयोर्बिम्बप्रतिबिम्बभावः ।
स्तर्त् सूत्र 29:
भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः
अधुना भेदप्राधान्येनालङ्कारकथनम् ।
भेदो वैलक्षण्यम् ।
स च द्विधा भवति, उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् ।
विपर्ययो न्यूनगुणत्वम् ।
रुअस्स्च्_29:
भेदप्राधान्य इत्यादि ।
अधुनेति प्रात्पावसरम् ।
भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भावः ।
सादृश्य एव पर्यवसानात् ।
अत एव सादृश्यव्यतिरेकेण संभवन्नपि भेदो नास्य विषयः ।
यथा -
ऽदिव्योत्तरीयभृति कौस्तुभरन्नभाजि देवे परे दधतु लुब्धधियो ऽनुबन्धम् ।
रूपं दिगम्बरमखण्टनृमुण्डचूडं भावत्कमेव तु बतेश मम स्पृहायैऽ ॥
अत्र वैष्णवेभ्यः स्वात्मनि विष्णोर्वा परमेश्वरे भेदमात्रं विवक्षितं न तु केनापि कस्यचिदौपम्यम् ।
स इति भेदः ।
तस्याधिक्यविपर्ययाभ्यां वैविध्याद्वयतिरेको ऽपि द्विविधः ।
तदाश्रयत्वादस्य ।
रुअस्स्_29।1:
क्रमेणोदाहरणम् - ऽदिद्दक्षवः पक्ष्यलताविलासमक्ष्णां सहस्रस्य मनोहरं ते ।
वापीषु नीलोत्पलिनी-विकासरभ्यासु नन्दन्ति न षट्पदौधाःऽ ॥
ऽक्षीणः क्षोणो ऽपि शशी भूयो भूयो विवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तुऽ ॥
अत्र विकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलतया अधिकगुणत्वम् ।
चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् ।
शशिवैलक्षण्येन तस्यापुनरागमात् ।
रुअस्स्च्_29।1:
चन्द्रापेक्षयेति ।
शशियौवनयोर्हि समाने ऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति न तु यौवनस्येति ततो ऽस्य न्यूनगुणवत्त्वम् ।
नन्वत्र विपर्ययमेवेति सूत्रितं भेदान्तरमयुक्तम् ।
उपमानादुपमेयस्य न्यूनगुणत्वे वास्तवत्वात्,तत्त्वे चालङ्कारत्वानुपपत्तेः ।
यौवनस्य चात्रास्थिरत्वे प्रतिपाद्ये प्रतिपाद्ये चन्द्रापेक्षयाधिकगुणत्वमेव विवक्षितम् ।
यदेतञ्चन्द्रवद्यातं सन्न पुनपायातीति ।
असदेतत् ।
यतो ऽत्र चन्द्रवद् गतं सद् यौवनं यदि पुनरप्यागच्छ्रेत् तत् प्रियं प्रति चिरमीर्ष्यानुबन्धो युज्येत ।
कालान्तरे ऽपि ह्यस्य तदवलोकनादुना सफलीकारः स्यात् ।
इदं पुनर्हतयौवनं यातं सत्प्रुनर्नागच्छ्रतीतीर्ष्याद्यन्तरायपरिहारेण निरन्तरतयैव प्रियेण सह सफलयितव्यमिति धिगीर्ष्याम्,त्यज प्रियं प्रति मन्युम्,कुरु प्रसादमित्यास्मिन् प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेनैव विवक्षितमिति वाक्यार्थविद एव प्रमाणम् ।

न चैतद् वास्तवमुपमेयस्य न्यूनगुणत्वम् ।
तस्यैव सातिशयत्वेनप्रतिपाद्यत्वात् ।
प्रकृतार्थोपरञ्जकत्वे हि सर्वथा कवेः संरम्भः ।
तच्चाधिकगुणमुखेन भवतु,इतरथा वा को विशेषः ।
तस्माद्युक्तमेव विपर्यये वेति सूत्रितम् ।
प्रत्युत प्रतित्पत्वात् ।
वतः ऽस्वरेण तस्या अभृतस्त्रुतेवऽ इत्यादावन्यष्टालापस्य प्रतिकूलत्वोक्तेः कर्णकटुकत्वादिना न्यूनत्वावगतेरुपमेयभूताया भगवत्याः संबन्धिनः स्वरस्यामृतस्त्रतेवेत्यभिधानादानन्दातिशयदातिशयदायित्वादेश्चाधिक्यमेवावगम्यत इत्यलं बहुना ।
अस्यापि सादृश्याश्रयत्वात्सामान्यस्य त्रयी गतिः ।
तत्रानुगामिता यथा - नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं जातास्तद्वर्वोरुपमानबाह्याः ॥
अत्र परिणाहिरूपत्वस्यातुगामित्वम् ।
वस्तुप्रतिवस्तुभावे पुनर्ग्रन्थकृतैवोदाहृतम् - दिदृक्षव इत्यादि ।
अत्र मनोहरत्वरम्यत्वयोः शुद्धसामान्यरूपत्वम् ।
पक्ष्यलताविलासविकस्वरयोश्च बिम्बप्रतिबिम्बभावः ।
स्तर्त् सूत्र 30:
उपमानोपमेययोरेकस्य प्राधान्यनिर्देशे ऽपरस्य सहार्थसंबन्धे सहोक्तिः
भेदप्राधान्य इत्येव ।
गुणप्राधानभावनिमित्तकमत्र भेदप्राधान्यम् ।
सहार्थप्रयुक्तश्च गुणप्राधानभावः ।
उपमानोपमेयत्वं चात्र वैवक्षिकम्, द्वयोरपि प्राकरणिकत्वादप्राकरणिकरणिकत्वाद्वा ।
सहार्थसामर्थ्याद्धि तयोः तुल्यकक्षत्वम् ।
तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् ।
अर्थाच्च परिशिष्टस्य प्रधानत्वादुपमेयत्वम् ।
शब्दश्चात्र गुणप्राधानभावः ।
वस्तुतस्तु विपर्ययो ऽपि स्यात् ।
तत्र नियमेनातिशयोक्तिमूलत्वमस्याः ।
सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च ।
अभेदाध्यवसायश्च श्लेषभित्तिको ऽन्यथा वा ।
साहित्यं चात्र कत्रादिनानाभेदं ज्ञेयम् ।
तत्र च -
ऽकार्यकारणप्रतिनियमविपर्ययरूपा यथा -
ऽभवदपराधैः सार्धं संतापो वर्धतेतरामस्याःऽ ।
अत्रापराधानां संतापं प्रति हेतुत्वे ऽपि तुल्यकालत्वेनोपनिबन्धः ।
श्लेषभित्तिकाभेदाध्यवसायरूपा यथा -
ऽअस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्नियन्तां बलानिऽ ।
अत्रास्तं गमनं श्लिष्टम् ।
अस्तमित्यस्योभयार्थत्वात् ॥
रुअस्स्च्_30:
उपमानेत्यादि ।
किंहेतुकं चात्र भेदप्राधान्यमित्याशङ्क्याह-गुणेत्यादि ।

गुणप्राधानभावो ऽपि किंहेतुक इत्याह-सहार्थेत्यादि ।
एकस्य प्रधान्यभूतविभक्तिनिर्देशादन्यस्य च विधिविभक्तिनिर्देशात् ।
वैवक्षिकमिति न पुनर्वास्तवम् ।
उपमानोपमेयत्वं हि द्वयोस्तुल्यकक्षत्वेभवति तच्चात्र किंनिमित्तकमित्थाशङ्क्याह-सहार्थेत्यादि ।
परिशिष्टस्येति प्रथमान्तस्य ।
शाब्द इति न पुनरार्थः , वस्तुतो विपर्ययस्यापि संभवात् ।
एवं गुणप्रधानभावनिमित्तकं भेदप्राधान्यमपि शाब्दमेवात्र ज्ञेयम् ।
वस्तुतो हि सादृश्यैव पयवसानाद्भेदाभेदयोस्तुल्यत्वेनैव प्रतीतिः ।
तस्माच्छ्राब्दमेव भेदप्राधान्यमाश्रित्येहास्या वचनम् ।
विपर्यय इति ।
प्रधानविभक्त्या निर्दिष्टस्याप्राधान्यं गुणविभक्त्या च निर्दिष्टस्य प्राधान्यम् ।
नियमेनेति ।
अनेनातिशयोक्त्यानुप्राणनमन्तरेणालङ्कारत्वमेवास्या न भवतीति ध्वनितम् ।
सेत्यतिशयोक्तिः ।
कार्यकारणयोः प्रतिनियमस्य क्रमस्य विपर्ययस्तुल्यकालत्वादिनोक्तेः ।
अन्यथेति अश्लेषरूपः ।
तदेवमस्या अतिशयोक्तिभेदचतुष्टयमनुप्राणकम् ।
कत्रादीति आदिशब्दात् कर्मादयः ।
तत्रेति निर्धारणे ।
[कार्यकारणप्रतिनियमविपर्ययरूपेति] ।
अस्यामनुप्राणकत्वेन स्थितेति शेषः ।
अत्रापराधानां शाब्दो गुणभावः ।
वस्तुतस्तु प्राधान्यं तेषामेव,प्रतिपाद्यत्वात् ।
एवमन्यत्र ज्ञेयम् ।
ऽक्षयमेति सा वराकी स्नेहंन समं त्वदीयेनऽ इत्यस्यार्धम् ।
ऽकुर्वन्त्वात्पा हतानां रणशिरसि जना वह्णिसाद् देहभारानश्रून्मिश्रं कथञ्चिद्वदतु जलममी बान्धवा बान्धवा बान्धवेभ्यः ।
मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान्गृध्रकङ्कैःऽ इत्यस्याद्यं पादत्रयम् ।
रुअस्स्_30।1:
तदन्यथारूपा यथा -
ऽकुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानिऽ ।
अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् ।
एतद्विशेषपरिहारेण सहोक्तिमात्रं नालङ्कारः ।
यथा-
ऽअनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषुऽ इत्यादौ ।
एतान्येव कर्तृसाहित्ये उदाहरणानि ।
कर्मसाहित्ये यथा - ऽद्युजनो मुत्युना सार्धं यस्याजौ तारकामये ।
चक्रे चक्राभिधानेन प्रेष्येणात्पमनोरथःऽ ॥
अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम् ।
एषा च मासयापि भवन्ती दृश्यते ।
यथा-

ऽउत्क्षित्पं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम् ।
वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव- प्रौढाहङ्कृतिकन्दलेन च समं तद् भग्नमैशं धनुःऽ ॥
रुअस्स्च्_30।1:
सह कमलैर्ललनानां मानः संकोचमायाति इत्यस्यार्धम् ।
एतद्विशेषपरिहारेणेति अतिशयोक्त्यनुप्राणनमन्तरेण ।
ऽद्वीपान्तरानीतवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिःऽ इति द्वितीयमर्धम् ।
एतानीति समनन्तरोक्तानि ।
यमापेक्षया द्युजनस्यानन्तरमात्पमनोरथत्वमिति आदिपश्चाद्भावेन क्रमिकयोस्तुल्यकालत्वेनोक्तिः ।
यथा वा -
ऽभाग्यैः समं समुत्पन्नं प्रजाभिः सह लालितम् ।
वर्धितं सुकृतैः सार्धमर्णोराजमसूत साऽ ॥
अत्र समुत्पत्त्यनन्तरं तद्भाग्यानामुत्पत्तिरिति क्रमिकयोः समकालत्वम् ।
अस्याश्च शुद्धसामान्यरूपत्वं यथा -
ऽमलआणिलेण सह सोरहवासिएण दैआणं ।
वड्ढन्ति बहलसोमालपरिमला सासणिउरंबाऽ ॥
(ऽमलयानिलेन सह सौरभवासितेन दयितानाम् ।
वर्धन्ते बैलसुकुंमारपरिमला श्वासनिकुरम्बाःऽ) ॥
अत्र सौरभपरिमलयोः शुद्धसामान्यरूपत्वम् ।
बिम्बप्रतिबिम्बभावो यथा -
ऽदिनअरअरणिउरंबा कणआअलकडअरेणिविप्फुरिआ ।
विअशन्ति परिमलभरोब्भडेहिं कमलकिरहिं समंऽ ॥
(ऽदिनकर-कर-निकुरम्बा कनकाचल-कटक-रेणु-विस्फुरिताः ।
विकसन्ति परिमलभरोद्भटैः कमलाकरैः सार्धम्ऽ) ॥
अत्र कनकाचलकटकरेणुविच्छुरितत्वस्य परिमलभरोद्भटत्वं बिम्बप्रतिबिम्बत्वेन निर्दिष्टम् ।
स्तर्त् सूत्र 31:
सहोत्किप्रतिभटभूतां विनोक्तिं लक्षयति - ।
विना किञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः
सत्त्वस्य शोभनत्वस्याभावो ऽशोभनत्वम् ।
एवमसत्त्वस्याशोभनत्वस्याभावः शोभनत्वम् ।
तेद्वे सत्त्वासत्त्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः ।
अत्र च शोभनत्वाशोभनत्वसत्तासत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् ।
एवं चान्यानिवृत्तौ विधिरेव प्रकाशितो भवति ।
आद्या यथा -
ऽविनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धताऽ ॥
रुअस्स्च्_31:
प्रतिभटभूतामिति प्रतिपक्षभूताम् ।
अत एवैतदनन्तरमेतल्लक्षणम् ।
तदेवाह-विनाकिञ्चिद्त्यादि ।
एतदेव व्याचष्टे-सत्त्वस्येत्यादिना ।

कस्यचिदिति यत्र यादृशो विवक्षितस्तस्येति ।
ननु चात्र सत्त्वासत्त्वयोर्विधिमुखेनैव वाच्यत्वे किमिति प्रतीतिवैषम्यदायिना निषेधमुखेन निर्देशः कृत इत्याशद्वयाह-अत्र चेत्यादि ।
तच्छब्देन सत्त्वासत्त्वयोः प्रत्यवमर्शः ।
अन्यनिवृत्तिप्रयुक्तेन तन्निवृत्तिल्यापनेनापि किं भवतीत्याशङ्क्याह-एवं चेत्यादिना ।
अन्यस्य कस्यचिदनिवृत्तौ सत्तमसत्त्वमेव वा भवतीत्यर्थः ।
आद्येति असत्त्वनिबन्धनोक्तिः ।
का श्रीर्न काचिच्छ्रीरिति श्रियो विरहो ऽसद्भावः ।
विनयासद्भावे ऽपिश्रियो ऽसद्भावो ऽस्तीत्येतदभिधानं श्रियो ऽसत्त्वे पर्यवस्यतीति विनयनिवृत्तिप्रयुक्तं श्रियो ऽसत्त्वमुक्तम् ।
एवं विनयस्यानिवृत्तौ श्रियः सत्त्व एव विधिः प्रकाशितो भवतीति विनय एवं भरबन्धः कार्यः ।
एवमन्यत्रापि ज्ञेयम् ।
अन्ये चात्र वास्तवत्वंमन्यमानाः-
ऽतस्याः शैत्यं विना ज्योत्स्ना पुष्पर्द्धिः सौरभं विना ।
विनोष्णत्वं च हुतभुक्त्वां विना प्रतिभासतेऽ ॥
इत्यत्र विनोक्त्यलङ्कारत्वमाहुः ।
अत्र हि ज्योत्स्त्रादीनां शैत्यादिना नित्यमविभावे ऽपि विनाभाव उपनिबद्धः ।
यदाहालङ्कारभाष्यकारः-"नित्यसंबद्धानामसंबन्धवचन विनोक्तिः" इति विनोक्तिरूपसंख्यास्यतेऽ इति ।
ग्रन्थकृता पुनरियं चिरन्तनलक्षितत्त्वाल्लक्षिता ।
रुअस्स्_31।1:
अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथञ्चिन्निमित्तीभवति यथा सहोक्तौ सहार्थविवक्षा ।
एवं च -
ऽनिरर्थकं जन्म गतं नलिन्या यथा न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धाऽ ॥
इत्यादौ विनोक्तिरेव ।
तुहिनांशुदर्शनं नलिनीजन्मनो ऽशोभनत्वप्रतीतेः ।
इयं च परस्परविनोक्तिभङ्ग्या चमत्कारातिशयकृत् ।
यथोदाहृते विषये ।
रुअस्स्च्_31।1:
यथाकथञ्चिदिति ।
यद्यपि यथा सहशब्दं विनापि सहार्ये तृतीयास्ति तथा विनाशब्दंविनापि द्वितीयादीनां विनार्थे सद्भावो ऽस्ति, तथापि वाक्यार्थपर्यालोचनसामर्थ्यात्तदर्थः पर्यवस्यतीत्यस्य भावः ।
सहशब्दं विनापि सहार्थविवक्षा यथा -
ऽविवृण्वता सौरभरोरदोषं बन्दिव्रतं वर्णगुणैः स्पृशन्त्या ।
विकस्वरे कस्य न कर्णिकारे घ्राणेन दृष्टेर्ववृधे विवादःऽ ॥
अत्र घ्राणेन सहेति तत्प्रयोगं विना तत्प्रतीतावेव विश्रान्ते ।
एवं चेति ।
यस्माद् विनाशब्दं विनापि तदर्थविवक्षा भवतीत्यर्थः ।
यथोदाहृत इति निरर्थकमित्यादौ ।
यथा वा -
ऽहंसण सरेहिं विणा सराण सोहाविणा ण हंसेहिं ।
अण्णोण्णं चिअ एए अप्पाणं णवरं गरुएन्तिऽ ॥
(ऽहंसानां सरोभिर्वना सरसां शोभा विना च हंसैः ।

अन्योन्यं चैवेते आत्मानं केवलं गरयन्तिऽ) ॥
रुअस्स्_31।2:
द्वितीया यथा -
ऽमृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयो ऽयं सुहृदा तेन नरेन्द्रसूनुःऽ ॥
अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्ग्योक्तः ।
शैषा द्विधा विनोक्तिः ।
रुअस्स्च्_31।2:
द्वितायेति शोभनत्वनिबन्धनोक्तिः ।
स्तर्त् सूत्र 32:
अधुना विशेषणविच्छित्त्याश्रयेणालङ्कारद्वयमुच्यते ।
तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह- ।
विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः
इह प्रस्तुताप्रस्तुतानां क्वचिद् वाच्यत्वं क्वचिद् गम्यत्वमिति द्वैविध्यम् ।
वाच्यत्वं च श्लेषनिर्देशभङ्ग्या पृथगुपादानेन वेत्यपि द्वैविध्यम् ।
एतद् द्विभेदमपि श्लेषालङ्कारस्य विषयः ।
गुम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः अप्रस्तुतनिण्ठं तु समासोक्तिविषयः ।
तत्र च निमित्तं विशेषणसाम्यम् ।
विशेष्यस्यापि साम्ये श्लेषप्रात्पेः ।
विशेषणसाम्याद्धि प्रतीयमानप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते ।
अवच्छेदकत्वं च व्यवहारसमारोपः ।
रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपित्वाद् रूपकमेव ।
रुअस्स्च्_32:
तत्रेत्यलांरद्वयमध्यात् ।
आदाविति प्रधानतया ।
अस्या हि विशेषणमात्रावष्टभ्भात्परिकराद्विशेषणसाम्यावष्टम्भत्वेन विशिष्टत्वम् ।
विशेषणेत्यादि ।
अत्त्याश्चालङ्कारान्तरेभ्यो विभागं दर्शयितुमुपक्रमते-इहेत्यादिना ।
वाच्यत्वं चात्र द्वयोः प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्च भवति ।
गम्यत्वं पुनः क्वचित्प्रस्तुतस्य क्वचिच्चाप्रस्तुतस्य ।
प्रस्तुताप्रस्तुतयोस्तु न भवति ।
ताद्रूप्येण वस्तुसद्भावाभावात् ।
श्लेषनिर्दिशभङ्ग्येति ।
प्रस्तुतयोरप्रस्तुतयोश्च ।
पृथगुपादानेनेति ।
प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्चैतदिति वाच्यम् ।
अत्र चाप्रस्तुतस्य किंहेतुकं गम्यत्वमित्यङ्क्याह-तत्र चेत्यादि ।
तत्रेति अप्रस्तुतस्य गम्यत्वे ।
विशेषणानां चात्र बहुत्वमेव विवक्षितमिति न वाच्यम् ।
ऽश्वसनविषमा रार्त्रिर्ज्योत्स्त्ना तरङ्गितविभ्रमा शशिमणिभुवो वाष्पायन्तेनिमीलति पद्मिनी ।

उपचिततमोनोहा भूमिर्व्यनक्ति विवर्णतां तदिति गहने दर्शं दर्शं कथं सखि जीव्यतेऽ ॥
इत्यत्र विशेषणबहुत्वाभावे ऽपि समासोक्तेः सद्भावात् ।
अतश्च विशेषणानां साम्यादीति न सूत्रणीयम ।
अबहुत्वे तस्याव्याप्तेः ।
विशेषणसाम्यमपि कस्मादत्र हेतुत्वं भजत इत्याशङ्क्याह-विशेषेणेत्यादि ।
अप्रस्तुतमिति न पुनरप्रस्तुतधर्मा एव ।
नह्यन्यधर्मिसंबन्धिनो धर्माःस्वधर्मिणमन्तरेणान्यत्रावतिष्टन्ते ।
नह्यनायके नायकधर्माणामन्वयो युज्यते ।
अन्यधर्माणामन्वयत्रान्वयासंभवात् ।
अत एवान्यरोप्यमाणो ऽन्यवहारो ऽन्यत्र न संभवतीति तदविनाभावात्स्वव्यवहारिणमाक्षिपतीत्याक्षिप्यमाणेनाप्रस्तुतेन धर्मिणैव प्रस्तुतो धर्म्यवच्छ्रिद्यतेन पुनराच्छ्राद्यते ।
तथात्वे ह्यप्रस्तुतेन प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोपः ।
अत एवाह-प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोपः ।
अत एवाह-प्रस्तुतावच्छेदकत्वेनेति ।
अत एवाप्रस्तुतस्य गम्यत्वे इति सूत्रितम् ।
एवं समासोक्तौ व्यवहारसमारोपादप्रस्तुतेन प्रस्तुतस्य वैशिष्टम्लक्षणमवच्छ्रेदकत्वं विधयते ।
रूपके तु रूपसमारोपाद्रूपितत्वाख्यमाच्छ्रादकत्वमित्यनिर्भेदः ।
तेन ऽविशेषणानां साम्यादप्रस्तुतधर्मावच्छ्रेदऽ इत्यपास्यास्मल्लक्षणानुगुण्येनैव विशेषणसाम्यादप्रस्तुतावच्छेदः समासोक्तिरित्येव सूत्रणीयम् ।
अतिशयोक्त्याशङ्का पुनरत्र निष्प्रमाणिकैव ।
विषयस्योपादानाद्विषयिणश्चानुपादानात् ।
रुअस्स्_32।1:
तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भवत् त्रिधा भवति तत्र श्लिष्टतया यथा - ऽउपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ष यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद्गलितं न लक्षितम्ऽ ॥
अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः ।
अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीतेः ।
साधारण्येन यथा - ऽतन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी ।
विकासमेति सुभग भवद्दर्शनमात्रतःऽ ॥
अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः ।
तत्र च लतैकगामिविकासाख्यधर्मससारोपः कारणम् ।
अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः ।
विकासश्च प्रकृते उपचरितो ज्ञेयः ।
एवं च कार्यसमारोपे ऽपि ज्ञेया ।
इयं च समासोक्तिः पूर्वापेक्षयास्पष्टा ।
रुअस्स्च्_32।1:
तदिति अप्रस्तुतस्य गम्यत्वे निमित्तम् ।
तत्रेति निर्धारणे ।
नायकेति सरूपयोरेकशेषः ।
अपरित्यक्तस्वरूपयोरिति ।
रूपरूपितत्वे हि परित्यक्तं स्वस्वरूपं स्यात् ।
तत्रेति ।
लताव्यवहारप्रतीतौ ।
ननु यदि लतैकगम्येव विकासाख्यो धर्मस्तत्कथं प्रकृते संगच्छत इत्याशङ्क्याह-विकास इत्यादि ।

एतदेवान्यत्रापि योजयति-एवमित्यादिना ।
तदेवं साधारण्येन समासोक्तेर्विशेषणसाम्ये सत्यप्यप्रकृतसंबन्धि धर्मकार्यंसमारोपमन्तरेण तद्वयवहारप्रतीतिर्न भवतीति सिद्धम् ।
रुअस्स्_32।2:
औपम्यगर्भत्वेन यथा-
ऽदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणाऽ ॥
अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन कृते समासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः ।
अत्रैव ऽपरीता हरिणेक्षणाऽ इति पाठे उपमारूपसाधकबाघकाभावात् संकरसमाश्रयेण कृते योजने पश्चात् पूर्ववत् समासान्तरमहिम्ना लताप्रतीतिज्ञंया ।
रूपकगर्भत्वेन तु समासान्तराश्रयणात् समानविषेषणत्वं भवदपि न समासोक्तेः प्रयोजकम् ।
एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् ।
न च पूर्वदर्शितोपमासंकरविषये एष न्यायः ।
उपमासंकरयोरेकदेशविवर्तिनोरभावात् ।
तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् ।
अश्लिष्टं यथा-
ऽनिरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।
धारानिपातैः सह किं नु वान्तश्चन्द्रो ऽयमित्पार्ततरं ररासऽ ॥
अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टृपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते ।
श्लिष्टं यथा-
ऽमदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चयन् विचकिल-बृहत्पत्त्रन्यस्तद्विरेफमषीलवैः ।
कुटिललिपिभिः कं कायस्थं न नाम विसूत्रयन् व्यधित विरहिप्राणेष्वायव्ययावधिकं मधुःऽ [श्री. च. 670] ॥
अत्र हि पत्त्रलिपिकायस्थशब्देषु श्लेषगर्भे रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तम् ।
अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या ।
रुअस्स्च्_32।2:
सुवेषत्वं प्रकृतार्थं एवानुगुणमित्युपमायाः साधकम् अतश्च तत्समासाश्रयः ।
समासान्तराश्रयणेनेति ।
यद्यप्यत्रोपमासमास एव स्थितस्तथाप्युपमानोपमेययोर्व्यत्ययादेव समासान्तरत्वमुक्तम् ।
पूर्वापेक्षवास्यान्ययात्वात् ।
अत्रैवेति दन्तप्रभेत्यादौ ।
उपमारूपकसाधकबाधकाभावादिति ।
पर्रीतत्वस्य हि प्रकृताप्रकृतयोस्तथा नानुगुण्यमिति साधकत्वाभावः ।
तथा च न विगुणत्वमिति बाधकत्वाभावः ।
अतश्चैकपक्षाश्रयाभावादुपमारूपकयोः संदेहसंकरः ।
तस्य समाश्रय उभयसमासग्रहणम् ।
तच्चैकस्मिन्नेव वाक्ये न संभवतीति कामक्षारेण तयोर्ग्रहणम् ।
संकरसमाश्रयेणाप्युपमासमासयोच्चने कृते यद्वदयमेवालङ्कारस्तद्वद्रूपकसमासयोजजने ऽपि किमथमेव किमुतालङ्कारान्तरमित्याशङ्क्याह-रूपकेत्यादि ।
एवच्च साक्षादपि रूपकगर्भे समासे योज्यम्, समानन्यायत्वात् ।
यद्येवं तर्झुपमासमाश्रये ऽप्येकदेशविवर्त्युपमामुखेनैवार्थान्तरप्रतीतेः किं नैतद्भवतीत्याशङ्क्याह-न चेत्यादि ।
एष इति रूपकोक्तः ।
अभावादिति उद्भटमतेन ।
यदाहुः -

ऽन च रुद्रटस्येवोद्भटस्यैकदेशविवर्तिरूपकवदुपमासंकरावेकदेशिनौ स्तःऽ अतश्चैतत्तन्मताभिप्रायेणोक्तम् ।
ग्रन्थकृन्मते हि वक्ष्यमाणनीत्या तयोः संभवः ।
ननु यदि तयोर्ग्रन्थकृन्मते संभवस्तदौपम्यगर्भविशेषणोत्थापितः समासोक्तिप्रकारस्तर्हि न संभवति ।
तस्यैकदेशविवर्तिरूपकवदेकदेशविवर्तिभ्यामुपमासंकराभ्यामेवार्थान्तरप्रतीतिसिद्धेर्वैयर्थ्यात् ।
नैतत् ।
यतो ऽस्त्येव तावदौपम्यगर्भविशेषणहेतुकत्वं समासोक्तेः ।
किन्त्वेतदन्यभेदसहचरितमेवास्या निमित्ततां भजते न पुनः केवलम् ।
तथात्वे हि विशेषणानामौपम्यगर्भत्वे एकदेशविवर्तिन्या उपमायाः प्रात्पिः ।
तत्र श्लिष्टत्वसहचरितमेतद्यथा -
ऽपरिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति हारिभिः ।
अयि सायमिमाः पयोधरैः स्फुटरागाश्चलतारका दिशःऽ ॥
अत्र ऽस्फुटसंध्यातपकुङ्कुमैःऽ इति पाठे संध्यातपकुङ्कुमैरित्यौपम्यगर्भं विशेषणम् ।
साधारण्यसहचरितं यथा -
ऽतन्वी मनोरमा बाला लोलाक्षी स्तबकस्तनी ।
विकासमेति सुभग भवद्दर्शनमात्रतःऽ ॥
अत्र स्तबकस्तनीत्यौपम्यगर्भं विशेषणम् ।
शुद्धकार्यसमारोपसहचरितं यथा -
ऽसमारुरोहोपरिपादपानां लुलोठपुष्पोत्कररेणुपुञ्जे ।
लताप्रसूनांशुकमाचकर्षं क्रीडन्वने किं न चकार चैत्रःऽ ॥
अत्र प्रसूनांशुकमित्यौपभ्यगर्भविशेषणम् ।
केवलत्वे पुनरेतेषामेकदेशविवर्तिन्युपमैव यथा -
ऽबभौ लोलाधरदलस्फुरद्दशनकेसरम् ।
भ्रूविलासालिवलयं ललितं ललनामुखम्ऽ ॥
अत्र ललितत्वमुपमासाधकम् ।
समासान्तराश्रयात् समानविशेषणत्वं भवदपि नात्र समासोक्तेः प्रयोजकम् ।
एकदेशविवर्त्युपमामुखेनैवार्थान्तरप्रतीतेस्तस्या वैचथ्यात् ।
एवं दन्तप्रभेत्यादावपि ज्ञेयम् ।
दन्तप्रभाः पुष्पाणीवेत्येव समासे कृते उपमानभूताया लतायाः प्रतीतिसिद्धेः समासान्तराश्रयेणागतायास्तत्प्रतीतेर्व्यर्थत्वात् ।
अप्रकृतागूरणे हि कवेः संरम्भः तच्चानयैव सिद्धमिति किं समासोक्त्या ।
चिरन्तनानुरोधात् पुनरत्र ग्रन्थकृतासमासोक्तिरुक्ता ।
यत्तु ऽयत्र समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरुक्ताऽ इति वक्ष्यति तदपि चिरन्तनानुरोधपरमेव ।
अन्यथा हि समानन्यायत्वादेकदेशविवर्तिनि रूपके ऽपि यत्र समानविशेषणत्वं योजयितुं शक्यं तत्रापि समासोक्तिरिति किं नोक्तम् ।
यत्तु नोक्तं तद्युक्तम् ।
रूपकमाहात्म्यात् प्रथममेव तत्प्रतीतिसिद्धेरन्तरं समासोक्तिमुखेनाप्रकृतीतेर्वैयर्थ्यात् ।
ऽआह्लादिचन्द्रवदना स्फुरत्तारकमौक्तिका ।
घनान्धकारधम्मिल्ला राजते गगनस्थलीऽ ॥
इत्यादौ पुनरुपमायाः साधकाभावादेकदेशविवर्ति रूपकमेवेति न समासोक्तिभ्रमः कार्यः ।
न चैवमादावुपमारूपकयोः संदेहसंकरो न्याय्यः ।
तस्यालङ्कारसारकारादिभिनिराकृतत्वात् ।
समासोक्तिलक्षणावलसरे किं रूपकनिरूपणेनेत्याशङ्क्याह-अस्या इत्यादि ।

रुअस्स्च्_32।2अ:
अस्याश्च यथोपरादितान्भेदान्संकलयति-तदेवमित्यादिना ।
रुअस्स्_32।3:
तदेवं श्लिष्टविशेषणसमुत्थापितैका ।
साधारणविशेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां द्विभेदा ।
औपम्यगर्भविशेषणसमुत्थापितोपमासंकरसमासाभ्यां द्विभेदा ।
रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः ।
तदेवं पञ्चप्रकारा समासोक्तिः ।
इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः ।
विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् ।
सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् ।
स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः ।
शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः ।
लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः ।
शास्त्रीये वा लौकिकवस्तुव्यवहारमारोप इति चतुर्धा भवति ।
तदेवं बहुप्रकारा समासोक्तिः ।
रुअस्स्च्_32।3:
भेदद्वयमिति साक्षात्संदिह्यमानत्वेन वा ।
न विषय इति ।
यथोक्तोपपत्ते रूपक एव विश्रान्तेः ।
प्रथममिति ।
एतद्भेदत्रयमस्या मूलभूतमित्यर्थः ।
उक्तं पुनः प्रकारपञ्चकमस्या अवान्तरभेदरूपम् ।
विशेषणसाम्यस्यैतद्भेदत्वात् ।
यद्यपि शुद्धकार्यसमारोपे ऽपि विशेषणसाम्यभेवास्ति तथाप्यत्र शुद्ध एव कार्यसमारोप उद्भिक्ततया प्रतीयत इति तस्य पृथग्मेदत्वमुक्तम् ।
सर्वत्रेति भेदसत्पके ।
बहुप्रकारेति ।
लौकिकादीनां व्यवहाराणामानन्त्यात् ।
रुअस्स्_32।4:
तत्र शुद्धकार्यसमारोपेण यथा-
ऽविलिखति कुचावुच्चैर्गाढं करोति कचग्रहं लिखति ललिते वक्त्रे पत्त्रावलीमसमञ्जसाम् ।
क्षितिप खदिरः श्रोणीबिम्बाद् विकर्षति चांशुकं मरुभुवि हठात् त्रस्यन्तीनां तवारिमृगीदृशाम्ऽ ॥
अत्र पत्त्रावलीविलेखनादिशुद्धकार्यसमारोपात् खदिरस्य हठकामुकत्वप्रतीतिः विशेषणसाम्येनोदाहृता ।
रुअस्स्च्_32।4:
उदाहृतमिति-उपोढरागेणेत्यादिना ।
रुअस्स्_32।5:
उभयमयत्वेन यथा -
ऽनिर्लूनान्यलकानि पाटितमुरः कृत्स्नो ऽधरः खण्डितः कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् ।
यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम्ऽ ॥
अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् ।

निर्लूनान्यलकानीत्यादिषु कार्यसमारोपः ।
व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणम् ।
यथा-
ऽद्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरां शशिकलामलिखत्कराग्रैः ।
अन्तर्निमग्रचरपुष्पशरो ऽतितापात् किं किं चकार तरुणो न यदीक्षणाग्निःऽ ॥
लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम् ।
ऽयैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिख्ययमसंख्यतया प्रवृत्तम् ।
लोपः कृतः किल परत्वजुषो विभक्ते- स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्येऽ ॥
अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः ।
ऽसीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं न स्पृष्टं वचसा कदाचिदपि यद् दृष्टोपमानं न यत् ।
अर्थादापतितं न यन्न च न यत्तत्किञ्चिदेणीदृशां लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम्ऽ ॥
अत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः ।
एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः ।
यथा-
ऽस्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषम् ।
मानं निकारर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत्ऽ ॥
अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः ।
पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः ।
ऽमन्दमग्रिमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः ।
दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौऽ ॥
अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः ।
ऽगण्डान्ते मददन्तिनां प्रहृरतः क्ष्मामण्डले वैधृते रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम् ।
पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम्ऽ ॥
अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः ।
ऽप्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै- रपि ज्ञेयो नो यः परिमितगतित्वं परिजहृत् ।
अपूर्वव्यापारो गुरुवर! बुधैरित्यवसितो न वाच्यो नो लक्ष्यस्तव सहृदयस्यो गुणगणःऽ ॥
अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः ।
तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते ।
यतो रसो न तात्पर्यशक्तिज्ञेयः ।
नाप्यनुमानविषयः ।
न शब्दैरभिधाव्यापारेण वाच्यीकृतः ।
न लक्षणागोचरः ।
किं तु विगलितवेद्यानतरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयीकृतो ऽनुकार्यानुकर्तृगतत्वपरि हारेण सहृदयगत इति प्रसर्पत्तात्पर्यैरित्यादिपदै रस एव प्रतीयते ।
एव प्रतीयते ।
एवमन्यदपि ज्ञेयम् ।
रुअस्स्च्_32।5:
क्रमेणेति यथोद्देशम् ।
मीमांसेत्यत्रोत्तरमीमांसा विवक्षिता ।
तत्र कहि निखिलप्रमाणागोचरं परमात्मस्वरूपं दर्शितम् ।
तद्व्यवहारसमारोपो ऽत्र कृतः ।

रुअस्स्च्_32।5अ:
न तात्पर्येति ।
यदुक्तम्-
ऽनाभिधैवं न तात्पर्यं लक्षणानुमितिर्नं वा ।
ध्वन्यन्तर्भावने शक्ता भेदेन विषयस्थितेःऽ ॥
इति ॥
अनुकार्यो रामादिः ।
अनुकर्ता नटादिः ।
तद्गचरश्च न रसः प्रतीयते ।
यदुक्तम्-ऽनानुकार्ये ऽपि रामादौ नटादौ नानुकर्तरि ।
रसः सचेतसां किं तुऽ इति ।
अन्यदिति ।
अन्यशास्त्रप्रसिद्धवस्तुसमारोपलक्षणम् ।
रुअस्स्_32।6:
ऽपश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिहासारसात् ।
चाटूच्चारणचापलं विदधतां वाक् तत्र बाह्या कथं देव्या ते परया प्रभो सह रहःक्रीडादृढालिङ्गनेऽ ॥
अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोप ।
लौकिकवस्तुव्यवहारश्च रसादिभेदाद् बहुभेद इत्युक्तं प्राक् ।
तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथञ्चिद् योज्यम् ।
रुअस्स्च्_32।6:
तदित्थं सप्रपञ्चां समासोक्तिं प्रतिपाद्य पुनरपि सहृदयानां हृदयङ्गमीकर्तुं ग्रन्थकृदेतत्प्रतीर्ति विभागेन लक्ष्ये योजयति-इह त्वित्यादिना ।
रुअस्स्_32।7:
इह तु--
ऽऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकारऽ ॥
इत्यत्रास्ति तावद् रविशशिनोर्नायकत्वप्रतीतिः ।
न चात्र विशेषणसाम्यमिति सा कुतस्त्या ।
प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदोनायिकात्वप्रतीतौ तदुनुगुण्यात् तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्द्रिष्टम् ।
न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् ।
तत्कथमत्र ध्यवस्था ।
अत्रोच्यते-एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तत् सा केन प्रतिषिद्धा ।
सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् ।
अथात्र नोपमानत्वेन नायकः स्वस्वरूपेण प्रतीयते अपितु रविशशिनोरेवनायकत्वप्रतीतिः ।
तयोरत्र नायकत्वात् ।
तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम्, इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः, यथा ऽदध्ना जुहोतिऽ इत्यादौ दध्नि संचर्यते विधिः ।
एवमियमुपमानुप्राणिता समासोक्तिरेव ।
इह पुनः इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या, विशेषणसाम्याभावात् ।
तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या,गत्यन्तरासंभवात् ।
यैस्तुनोक्ता तेषामप्युपसंख्येयैव ।
यत्र तु ऽकेशपाशालिवृन्देनऽ इत्यादौ समासोक्तायामुपमायां समासन्तरिण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् ।

रुअस्स्च्_32।7:
अविप्रतिपत्तिद्योतनार्थस्तावच्छ्रब्दः ।
कुतस्त्येति ।
किमस्या निमित्तमितिभावः ।
तदानुगुण्यादिति ।
शरदो नायिकात्वप्रतीत्यनुगुणत्वात् ।
तयोरिति रविशशिनोः ।
कथमिति ।
अप्रकृतार्थाननुगुणत्वात् साम्यायोगात् ।
कथमत्र व्यवस्थेति ।
विशेषणसाम्यायोगात् समासोक्तेरप्रात्पेरेकदेशविवर्तिन्या उपमाया अनुक्तत्वात् ।
सामान्यलक्षणेति ।
उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमेति ।
एवमेकदेशविवर्त्युपमासामर्य्थादेवात्र नायककत्वप्रतीतिरिति भावः ।
अथेति पक्षान्तरे ।
यदि चात्र पूर्वोक्तयुक्त्यैवानुगुण्याद् रविशशिनोः समासोक्तिमुखेन नायकत्वप्रतीतिस्तदार्द्रनखक्षताभमिति विशेषणं कथं साम्येन योजयितुं शक्यमित्याशङ्क्याह-तदत्रेत्यादि ।
एतदेव शास्त्रान्तरप्रसिद्धदृष्टान्तमुखेन हृदयङ्गमीकरोति-यथेत्यादिना ।
अग्निहोत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः ।
तस्य च पुनर्विधानमदग्धदहनन्यायेन यावदप्रात्पं तावद् विधेर्विषय इत्यभ्युपगमात्र युज्यत इति तत्राप्युक्तत्वादुपपदे दध्नि संचार्यत इत्यर्थः ।
उपमानुप्राणितेति ।
औपम्यगर्भविशेषणोत्थापितेत्यर्थः ।
समासोक्तिरेवेति ।
न पुनरेकदेशविवर्तिन्युपमा ।
गत्यन्तरमलङ्कारान्तरम् ।
यैरित्युद्भटादिभिः ।
यत्रत्वित्यादेर्ग्रन्थस्य पूर्वमेवास्माभिरभिप्राय उक्तः ।
रुअस्स्_32।8:
सा च समारोक्तिरर्थान्तरन्यासे कचित्समर्थ्यगतत्वेन कचित्समर्थकगतत्वेन च भवति ।
क्रमेण यथा-
ऽअथोपगूढे शरदा शशाङ्के प्रावृड् ययौ शान्ततडित्कटाक्षा ।
कासां न सौभाग्यगुणो ऽङ्गनानां नष्टं पिरभ्रष्टपयोधराणाम्ऽ ॥
ऽअसमात्पजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत् सर्वे नो संध्यां भजते रविःऽ ॥
अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते ।
सामान्यस्य चात्र श्लेषवशादुत्थानम् ।
शान्ततडित्कटाक्षेत्यौपम्यगर्भे विशेषणं समासान्तराश्रयेणात्र समानम् ।
असमात्पेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात् सामान्यरूपो ऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्यापनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते ।
ऽआकृष्टिवेगविगलद्भुजगेन्द्रभोगनिमोकपट्टपरिवेषतयाम्बुराशेः ।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरवेष्टत पादमूलेऽ ॥
अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते ।

तत् तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति ।
सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति ।
एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः ।
एवं ऽनखक्षतानीव वनस्थलीनाम्ऽ इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव ।
एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या ।
रुअस्स्च्_32।8:
सेत्युक्तप्रपञ्चा ।
सामान्यस्येत्यङ्गनाशब्दस्य स्त्रीत्वमात्राभिधानात् ।
श्लेषदवशादिति, पयोधराणां हि श्लिष्टत्वम् ।
लिङ्गविशेषेति,रविसंध्ययोः पुंस्त्रीरूपेण कार्यं भजनाख्यम् ।
एवमन्यालङ्कारसंमिश्रत्वमप्यस्या दर्शियति-आकृष्टीत्यादिना ।
सेत्युत्प्रेक्षा ।
एकः काल इति ।
ज्ञत्पौ समासोक्तिगभीङ्कारेणैव्रोत्प्रेक्षाया उत्थानात् ।
एवमिति ।
यथोक्तगत्येत्यर्थः ।
स्तर्त् सूत्र 33:
विशेषणसाभिप्रायत्वं परिकरः
विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः ।
विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः ।
अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः ।
एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम ।
ऽराज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च ।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसःऽ ॥
अत्र राज्ञ इत्यादौ सोत्प्रासत्वपरं प्रसन्नगम्भीरपदत्वम् ।
एवम्-
ऽअङ्गाज सेनापते राजवल्लभ द्रोणोपहासिन् कर्णं, सांप्रतं रक्षैनं भीमाद् दुःशासनम्ऽ इत्यादौ ज्ञेयम् ।
रुअस्स्च्_33:
विशेषणेत्यादि ।
इहेति समासोक्त्यानन्तरम् ।
विशेषणानां चात्र बहुत्वमेव विवक्षितम् ।
अन्यथा ह्यपुष्टार्थस्य दोषत्वाभिधानात् तन्निराकरणेन स्वीकृतस्य पुष्टार्थस्यायं विषयः स्यात् ।
एवमेवंविधानेकविशेषणोपन्यासद्वारेण वैचित्र्यातिशयः संभवतीत्यालङ्कारत्वम् ।
प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्राधान्याभावाद्गभीङ्कारस्तदन्तः कृतत्वम् ।
अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात् ।
प्रसच्चत्वं वाच्यस्यैव प्राधान्येन निर्देशात् ।
गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात् ।
यत्र च प्रतीयमानं प्रति उपसर्जनीकृतस्वर्थयोः शब्दार्थयोरवस्थानां स ध्वनेः स एव विषयः ऽ इति ।
अत्र च न तथात्वमित्युक्तं नायं ध्वनेर्विषय इति ।
अत एव नामाप्यस्य यौगिकमित्याह-एवं चेत्यादि ।

सोत्प्रासत्वपरमिति ।
तथा च राज्ञो जगद् रक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राजात्वमित्युपहासपरत्वम् ।
एवमन्येषामपिस्वयमेवैतदवगन्तव्यम् ।
आदिशब्देन-
ऽयस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः कारागारे सुराणां पतरपि च शची चामरव्यग्रहस्ता ।
कन्या तस्येयमेका रजनिचरपतेरेष शुद्धान्तमेको बालो निःशङ्कमस्याः प्रविशति च नमस्ते ऽसे वैष्णवायऽ ॥
इत्यादावपि विशेषणानां प्रसच्चगम्भीरत्वं ज्ञेयम् ।
स्तर्त् सूत्र 34:
विशेष्यस्यापि साम्ये द्वपौर्वोपादाने श्लेषः
केवलविशेषसाम्यं समासोक्तावुक्तन् ।
विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते ।
तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्रकरणिकयोर् वा श्लिष्टपदोपनिबन्धे श्लेषः ।
तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति ।
विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमे ऽर्थान्तरगतध्वनेर्विषयः स्यात् ।
आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम् ।
अत एवात्र - ऽद्वयोर्वोपादानेऽ इति तृतीयप्रकारविषयत्वेनोक्तम् ।
ऽविशेष्यस्यापि साम्येऽ इति तु शिष्टप्रकारद्वयविषयम् ।
रुअस्स्च्_34:
विशेष्यस्यापीत्यादि ।
इदमिति श्लेषलक्षणम् ।
आद्यमिति ।
प्राकरणिकगतत्वेनाप्राकरणिकगतत्वेन च ।
एवकारश्चात्र भिन्नक्रमो द्रष्टव्यः ।
तेन प्रकारद्वयमेवेति व्याख्येयम् ।
अतश्च तृतीयः प्रकारो विशेषणसाम्य एव भवतीति व्यावच्छ्रेदफलम् ।
अन्यथा हि प्रकारद्वयस्यास्य विशेष्यसाम्याभावे ऽपि दर्शनादव्यात्पिः स्यात् ।
तद्यथा ऽसंचारपूतानि निगन्तराणिऽ इत्यादि ।
अत्र प्रभाधेन्वोर्द्वयोः प्रकृतयोर्विशेष्ययोः साम्याभावः ।
ऽआबहूतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।
उत्सृत्ष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा दैववधूस्तनाश्च न दधुः क्षोभं स वो ऽव्याज्जिनःऽ ॥
अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः ।
विशेषणसाम्य एवेति न पुनर्विशेष्यसाम्ये ।
एतदपि विशेष्यसाम्ये किं न भवतीत्याशङ्क्याह-विशेष्यसाम्ये त्वित्यादि ।
यथा -
ऽलङ्कालआणं पुत्तअ वसंतमासम्मि लद्धपसराणम् ।
आपीअलोहिआणं वीहेइ जणो पलासणम्ऽ ॥
(ऽलङ्कालयानां पुत्रक! वसन्तमासे लब्धप्रसराणाम् ।
आपीतलोहितानां बिभेति जनः पलाशानाम्ऽ) ॥
अत्र पलाशानामिति विशेष्यस्यापि श्लिष्टत्वम् ।
प्रकरणवशाच्च वृक्षविशेषणमेववाच्यत्वनियमात्प्रस्तुतत्वेन निशाचराणामप्रस्तुतानां व्यङ्ग्यत्वम् ।

अत्र चोपमाया एव व्यङ्ग्यत्वं युक्तं नातिशयोक्तेरिति प्रकृतानुपयोगादिह नोक्तम् ।
ननु च यथैवायं ध्वनिर्विषयस्तथैवाद्यमपि भेदद्वयं किं न भवतीत्याशङ्क्याह-आद्य इत्यादि ।
वाच्यत्वमिति,अत एव न ध्वनेर्विषयः ।
तस्य वाच्यातिरिक्तन्वरूपत्वात् ।
तृतीयप्रकारविषयत्वेनेति प्राधान्यादुक्तम् ।
आद्यस्यापि प्रकारद्वयस्य द्वयोरुपादानसंभवात् ।
रुअस्स्_34।1:
क्रमेण यथा-
ऽयेन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गा च यो ऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवःऽ ॥
ऽनीतानामाकुलीभावं लुब्धैर्भुरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां तदीक्षणेऽ ॥
ऽस्वेच्छोपजातविषयो ऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् ।
मोहात्समाक्षिपति जीवितमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धःऽ ॥
अत्र हरिहरयोर्द्धयोरपि प्राकरणिकत्वम् ।
पद्मानां मृगाणां चोपमानत्वादप्राकरणिकत्वर्म् ।
इश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम् ।
एवं च शब्दार्थोभयगतत्वेन वर्तमानत्वात्त्रिविधः ।
तत्रोदात्तादिस्वरभेदात्प्रयन्तभेदाच्च शब्दान्यत्वे शब्दश्लेषः ।
यत्र प्रायेण पदभङ्गो भवति ।
अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति ।
अत एव न तत्र सभङ्गपदत्वम् ।
संकलनया तूभयश्लेषः ।
यथा-
ऽरक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः ।
निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैवऽ ॥
अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः ।
नालमित्यादौ शब्दश्लेषः ।
उभयघटनायामुभयश्लेषः ।
ग्रन्थगौरवभयात्तु पृथङ्नोदाहृतम् ।
...
(प्. 352)

मूल पाठ: Alaṃkārasarvasva 1-34 with Jayaratha's commentary Vimarśinī · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc