अलंकारसर्वस्व (टीका सहित) · भाग 2140
अत एवाभातपौनरुक्त्यापि प्रतीतिरपौनरुक्त्यपर्यवसायिन्यस्य स्वरूपम् ।
एवमपि वस्तुतः कायाद्यर्थाभावस्तदवस्थ इति चेत्,सत्यम् ।
किं तु तथा वस्तुतो बहिरसंभवन्नपि द्वितीयश्चन्द्रः प्रतीतौ कञ्चन विशेषमाधातुं नोत्सहते तथेहापि वस्तुवृत्तेन कायादेर्थस्यासंभवे ऽपि प्रतीतौ न कश्चिद्विशेष इति दिण्डिकाराग एव वास्तवत्वान्वेषणम् ।
तस्मादत्रावभासमानत्वमेवार्थस्य सत्त्वप्रतीष्ठापकं प्रमाणम् ।
रुअस्स्च्_3ब्:
ननु अवभासमानत्वं प्रमातृधर्म इति कथं तदाश्रयो धर्मः काव्यालङ्कार इति चेत्, असदेतत् ।
अवभासमानत्वस्यावभास्यनिष्टतया प्रतीतेरर्थधर्मत्वात् ।
तथा हि केषाञ्चन प्रतीतिवादिनां-
ऽतथाहि वेद्यता नाम भावस्यैव निजं वपुः ।
चैत्रेण वेद्यं वेद्मीति किं ह्यत्र प्रतिभासतेऽ ॥
इत्याद्युक्तयुक्त्या कौमारिलवन्नीलतया इव वेद्यताया अप्यर्थधर्मत्वभेवेष्टम् ।
इह च तदुपक्रम एवेति न वस्तुवादसंस्पर्शो न्याय्यः ।
आमुखतुल्यार्थत्वस्य च शब्दधर्मत्वेन शब्दाश्रयत्वात् शब्दालङ्कारत्वं यद्यस्योच्यते तथापि पर्यवसाने वस्तुतस्तुल्यार्थत्वस्यासंभवात् शशशृङ्गवद्धर्मधर्मिभावो दुष्टः स्यात् ।
सत्त्वे ऽपि दोष एवेत्यस्मत्पक्षोक्तसमग्रचोद्यवकाशः ।
अत्रापि यद्यामुख एवैकार्थत्वेनावभासनं समाधिस्तदास्मत्पक्षेण किमपराद्धम् ।
एवं च विरोधे ऽपि वस्तुतो विरुद्धस्यासंभवाद्विरुद्धार्थत्वस्य च शब्दधर्मत्वात् शब्दालङ्कारत्वं प्रसज्यते ।
अत्र विरुद्धस्यार्थस्यासंभवेपि कर्त्रादिभिर्वाच्यतयाध्यवसायः,इह तु पौनरुक्त्याश्रयस्यानन्वितत्वेन न वाच्यतेति चेत्,नैतत्,यतः ऽदारुणः काष्टतो जातःऽ इत्यादौ तावत्पौनरुक्त्याश्रयस्य काष्टादेरर्थस्य जातत्वादिना सहानवितत्वावगमादस्त्येव मुख्यया वृत्त्या वाच्यत्वम् ।
ऽअरिवधदेहशरीरःऽ इत्यादौ तु वस्तुतः कायादेरवाच्ये ऽप्यवभातपौनरुक्त्याश्रयत्वादकृत्रिमार्थशोभापर्यावसायि त्वेन वाच्यतयास्त्येव विवक्षितत्वम् ।
अत्र झकृत्रिमोर्ऽथो ऽलङ्कृतकृत्रिमार्थोपस्कृतो यथा चमत्कारकृत् न तथा तदुपस्कृतयोच्यमानः स्यात् ।
ऽस्त्रीणां हि कण्ठाभरणानि हाराः पयोधरानप्यभिभूषयन्तिऽ इत्यादिदृशा च हारस्य कण्ठालङ्कारत्वे ऽपि सामीप्यात्तावतिशोभातिशयाधायकत्वाद्यथा पयोधरादावप्यलङ्कारत्वं तथैव कृत्रिमार्थाश्रयत्वे ऽप्यवभासमानस्य पौनरुक्तस्याकृत्रिमार्थोपस्कारकत्वमपि प्रतीयत एवेति नानुभघवापह्नवः कार्यः ।
एवं च पौनरुक्त्याश्रयस्यार्थस्य यत्रैव वात्त्यत्वेन विवक्षितत्वं तत्रैवास्यालङ्कारत्वं नान्यत्र ।
ऽअकृष्णपक्षेन्दुमुखी बन्धुजीवाधरद्युतिः ।
इयं विलासिनी कस्य न नेत्रोत्सवकारिणीऽ ॥
ऽअत्राकृष्णत्यर्थपौनरुक्त्यस्य संभवे ऽपि वाच्यत्वेनाविवक्षितत्वान्नायमलङ्कारः ।
एवं वक्ष्यमाणानामप्यलङ्काराणां कविविवक्षैव स्वरूपप्रतिष्ठापकं प्रमाणं ज्ञेयम् ।
किं बहुना, सर्वेषामप्यलङ्काराणामुपमितार्थत्वादेः शब्दधर्मत्वाच्छब्दालङ्कारत्वं स्यात् ।
तदर्थालङ्कारत्वमस्य ज्यायः, यावता ह्यर्थस्यामुख एव पुनरुक्ततयावभासो ऽस्य जीवितम् ।
अत एव पुनरुक्तवदाभासमित्यन्वर्थसंघज्ञा ।
अर्थस्य च पौनरुक्त्यप्रतीतौ न कस्यचिद्विवादः , तामेवाश्रित्तय शब्दालङ्कारस्य भवद्भिरुक्तत्वात् ।
एवं च प्रत्यासत्तेस्तदाश्रयत्वमेवास्यालङ्कारत्वंयुक्तम् ।
अन्यथा तुल्यार्थशब्दतापि वाक्यधर्मं इति तदाश्रयो ऽपि स्यादित्यनवस्थाप्रसङ्गः ।
रुअस्स्च्_3च्:
अथात्र शब्दस्वरूपवैशिष्ट्यनिबन्धनं चमत्कारकारित्वमिति तदलङ्कारत्वमिति चेत्, किं नाम शब्दस्य स्वरूपे वैशिष्टम् ।
किं पौनरुक्त्यम्, उत पुनरुक्तार्थंवाचित्वम्,उतसभङ्गाभङ्गपदेन श्लिष्टत्वम् ।
तत्र न तावदाद्यः पक्षः ।
शब्दस्य द्विरुच्चारणाभावात्तथात्वाप्रतिभासनात् ।
नापि द्वितीयः ।
वाच्यवाचकभावेनालङ्करणभावात्तस्याश्रयाश्रयिभावे, नोपपत्तेः ।
अत एव सर्वेषामेवार्थालङ्काराणामुपमितार्थादिवाचित्वाच्छब्दस्य तदलङ्कारत्वं स्यादित्युक्तम् ।
नापि तृतीयः ।
पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् ।
पौनरुक्त्याख्यधर्मप्रयोजकीकारेणालङ्कारस्योपक्रान्तत्वात् श्लिष्टत्वस्येहानौपयितकत्वात् ।
तत् पुनरत्रार्थेपौनरुक्त्यावगमे निमित्तमात्राम् ।
निमित्तनिमित्तभावश्च नालङ्कारत्वप्रयोजक इत्यविवादः ।
तस्मादर्थाश्रयत्वात्पौनरुक्त्यस्य तदलङ्कारत्वमेति युक्तम् ।
एवं वक्त्रलङ्कारतापि निरस्ता ।
सर्वेषामपि नक्त्रतिशयरूपत्वात् तथात्वोपपत्तेः ।
रुअस्स्च्_3द्:
विस्तरभयादिति ।
न तु चित्रत्वाभावात् ।
नोच्यन्त इति ।
वस्तुतस्तु संभवन्त्येवेत्यर्थः ।
अतश्चायं प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन् समस्तासमस्तपदत्वेन चतुर्विधः ।
क्रमेण यथा-
ऽतुहिनक्षितिभृद्युष्मान्पातात्सर्वत्र[-]ख्यातः ।
हिमवानवतु सदा वो विश्वत्र समागतः ख्यातिम्ऽ ॥
ऽनदीप्रकरमुल्लिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च, सपर्याणां रुचिं वहन्तं रसर्वत्र पूजनीयं च,सकुभ्भं सकलशञ्चरन्तं च, सदानदन्तं मदपर्याविलदशनं च, करटं कमपि बिभ्रतं कवाटविभ्रममुञ्चन्तं च, कुञ्जराजिवर्धितरुचि वारणरणरणरणिकाकुलितं च, राजमानविसंधायिनं विराजमानं च, शारीभूतं मदसलिलेन शबलीभूतं च, इति पुनरुक्ताश्रयम्ऽ इत्यनङ्गलेखायां हस्तिवर्णने ।
ऽबतहन्तासितः कालो गोविभावसुदीधितीः ।
क्षिपास्य पक्षावसितश्चेतराजयशोभयऽ ॥
असमस्तपदं तु ग्रन्थकृतौवोदाहृतम् ।
स्तर्त् सूत्र 4:
शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च
अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते इति द्वैविध्यमेव ।
रुअस्स्च्_4:
केवलस्वरूपौनरुक्त्यं किं न गणितमित्याशङ्क्याह-अलङ्कारेत्यादि ।
यथा-
ऽइन्दीवरम्मि इन्दम्मि इन्दआलम्मि इन्दिअगणम्मि ।
इन्दिदिरम्मि इन्दमि जोइण्णो सरिससंकप्पोऽ ॥
(ऽइन्दावरम्मि---------ऽ) अत्र स्वरपौनरुक्त्यस्य चारुत्वाभावान्नालङ्कारत्वम् ।
तत्र केवलव्यञ्जनस्वरव्यञ्जनसमुदाश्रितमलङ्कारद्वयं लक्ष्ययति-संख्यादिना ।
स्तर्त् सूत्र 5:
संख्यानियमे पूर्वं छेकानुप्रासः
द्वयोर्व्यञ्जनसमुदाययोः परस्परमनैकधा सादृश्यं संख्यानियमः ।
पूर्वं व्यञ्जमसमुदायाश्रितं यथा-
ऽकिं नाम दर्दुर दुरध्यवसाय सायं कायं निपीड्य निनदं कुरुषे रुषेव ।
एतानि केलिरसितानि सितच्छदानामाकर्ण्य कार्णमधुराणि न लज्जितो ऽसिऽ ॥
अत्र सायंशब्देनास्यालङ्कारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः संकरः ।
छेका विदग्धाः ।
रुअस्स्च्_5:
एकवचनस्य जात्या बहुत्वप्रसङ्गाद्वहुवचनस्य च त्र्यादीनां स्वयमेव बहुत्वात्संख्यानियमो द्वित्व एव संभवतीति द्वयोरित्युक्तम् ।
द्वयोरप्येकधा सादृश्यं वृत्त्यनुप्रास एवेत्याशङ्क्याह-अनेकधेति ।
यकारमात्रेत्यनेन द्वयोरेव सादृश्यमस्य जीवितमिति ध्वनितम् ।
यद्यपि चायं व्यञ्जनमात्रपौनरुक्त्याख्यस्य सामान्यलक्षणस्य संभवादनुप्रास एवान्यैरन्तर्भावितः तथाप्यस्य ग्रन्थकृता उद्भटमतानुरोधादिह लक्षणं कृतम् -अन्यथेत्यादि ।
स्तर्त् सूत्र 6:
अन्यथा तु वृत्त्यतनुप्रासः
केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्यमान्यथाभावः ।
वृत्तिस्तु रसविषयो व्यापारः ।
तद्वती पुनर्वर्णरचनेहवृत्तिः ।
स च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा ।
तदुपलक्षितो ऽयमनुप्रासः ।
यथा-
ऽआटोपेन पटीययसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथमे तथापि कुरुते नो सन्मनोरञ्जनम् ।
न स्याद्यावदमन्दसुन्दरगुणालङ्कारझङ्कारितः सप्रस्यन्दिलसायनरसासारानुसारी रसःऽ ॥
यथा वा-
ऽसह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्यो ऽपि वा राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः ।
न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविध्दा दृशःऽ ॥
रुअस्स्च्_6:
एतदेव भेदनिर्देशं कुर्वन्व्याचष्टे केवलेत्यादि ।
समुदायः पारिशेष्याद् व्यञ्जनद्वयरूपः ।
एकधेति चात्रैव संबद्धव्यम् ।
केवलस्य त्र्यादीनां चानेकधापि सादृश्यस्यानेन व्यात्पत्वात् ।
एवञ्च समस्तासमस्ताक्षरत्वेन संभवतीत्यस्य प्रायः षट् प्रकाराः ।
क्रमेण यथा-
ऽयया ययाय्यया यूयं यो यो यं येययायया ।
ययुयायि ययेयाय ययेयायाय याययुक्ऽ ॥
असमस्ताक्षरं तु ग्रन्थकृतैवोदाहृतम् ।
ऽदीनादीनां ददौ दानं निननाद दिने दिने ।
निदिन्द नन्दनानन्दानदुनोदिननन्दनम्ऽ ॥
ऽरुच्याभिः प्रचुराभिस्तरुशिखरापाचिताभिरुचिताभिः ।
अचिररुचिरुचिररुचिभिश्चिराच्चिराभिश्चमत्कृतं चेतःऽ ॥
ऽततः सोमसिते मासि सततं संमतं सताम् ।
अतामसोत्तममतिः सती सुतमसूत साऽ ॥
ऽकमलदृशः कमलामलकोमलकमनीयकान्तिवपुरमलम् ।
कमलङ्कुरुते तावत्कमलापतितो ऽपि यो विमलःऽ ॥
आदिशब्दाच्चतुरक्षरादेर्ग्रहणम् ।
यथा -
ऽस ददातु वासवादिदेवतासंस्तवस्तुतः ।
सदा सद्वसतिं देवः सविता विततां सताम्ऽ ॥
वर्णरचनेह वृत्तिरिति ।
उपचारादिति भावः ।
त्रिधेति ।
यदुक्तम् -
ऽशषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता ।
परुषा नाम वृत्तिः स्याध्लह्वह्याद्यैश्च संयुताऽ ॥
ऽसरूपसंयोगयुतां मूर्धवर्गतान्त्ययोगिभिः ।
स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाःऽ ॥
ऽशेषवर्णैर्यथायोगं रचितां कोपलाख्यया ।
ग्राम्यां वृत्तिं प्रशंसन्ति काव्येष्वादृतबुद्धयःऽ ॥
[उद्भट काव्या. सं. 914-6] यथा-
ऽनिरर्गलविनिर्गलद्गलगुलाकरालैर्गलैरमी तडिति ताडितोड्डमरिडिण्डिमोडुमराः ।
मदाचमनचञ्चुरप्रचुरचञ्चरीकोच्चयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनःऽ ॥
अत्र लकाराद्यावृत्त्या मध्यमत्वमिति वृत्तित्रैविध्यम् ।
रुअस्स्च्_6अ:
एवं व्यञ्जनमात्राश्रयमलङ्कारद्वयं लक्षयित्वा स्वरव्यञ्जनाश्रयं यमकं लक्षयति-स्वरेत्यादि ।
स्तर्त् सूत्र 7:
स्वरव्यञ्जमसमुदायपौनरुक्त्यं यमकम्
अत्र क्वचिद्भिन्नार्थत्वं क्विचिदभिन्नार्थत्वं कचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् ।
यथा-
ऽयो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।
तस्य तस्यान्यनेत्रेषु रुचिरेव न जायतेऽ ॥
इदं सार्थकत्वे ।
एवमन्यज्झेयम् ।
रुअस्स्च्_7:
एकस्येत्याद्युपलक्षणपरम् ।
अतो बहुनां यमकानां क्वचित्सार्थकत्वं निरर्थकत्वं च स्थितं संगृहीतमेव ।
ऽक्वचित्सार्थकत्वं क्वचिन्निरर्थकत्वम्ऽइति तु पाठे प्रथममेव भेदद्वयमुक्तं स्यान्न तृतीयः प्रकारः ।
अतश्च भेदनिर्देशग्रन्थो यथास्थित एव ज्यायान् ।
संक्षेपत इति ।
एवञ्च काव्यात्मभूतरसचर्वणाप्रत्यूहकारित्वात्प्रपञ्चयितुं योग्यमिति चिरन्तनालङ्कारवन्न विभज्य लक्षितमिति भावः ।
एवं चित्रे ऽपि ज्ञेयम् ।
अन्यदिति ।
प्रकारद्वयम् ।
तत्रानर्थकं यथा-
ऽसरसमन्थरतामरसादरभ्रमरसज्जलया नलिनीं मधौ ।
जलधिदेवतया सदृशीं श्रियं स्फुटतरागतरागरुचिर्दधौऽ ॥
अत्र तरागेत्यनर्थकम् ।
अनर्थकत्वसार्थकत्वयोर्यथा -
ऽसाहारं साहारं साहारं मुणै सज्जसाहारम् ।
सं ताणं संताणं संताणं मोहसंताणम्ऽ ॥
अत्र सज्जसाहारमित्यनर्थकम् ।
अन्यानि तु सार्थकानीति न कश्चिद्दोषः ॥
इदं च स्थाननियममन्तरेण न भवति ।
यदुक्तम्-ऽपदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्ऽ इति ।
अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थमभिधानम् ।
स च स्थाननियमो वैवक्षिको न वास्तवः ।
यथा-
ऽमधुपराजिपराजितमानिनीजनमनःसुमनः सुरभि श्रियम् ।
अभृत वारितवारिजविप्लवां स्फुटितताम्रतताम्रवणं जगम्ऽ ॥
अत्राक्षरद्वये यमकविन्यासात्स्थानस्य नियतत्वम् ।
यथा वा-
ऽछिन्द्याद्भयार्तिं तव कार्तिकेयः शशी जितो येन स कार्तिके यः ।
उत्खातदन्तो गणनायकस्य स्वामी यदन्यो गणनाय कस्यऽ ॥
अत्र चार्थद्वये यमकद्वयमिति स्थाननियमो द्विधैवेति नास्यालङ्कारस्य क्षतिः काचित् ।
अतश्च -
ऽश्रु तरसिकलरुकतरसिकलितरुजालहरि जालहरिणतमः ।
हरिणतमश्च ततस्तव ततस्तवः स्याद्यशोराशिःऽ ॥
इत्यत्र सत्त्वे ऽपि स्वरव्यञ्जनसमुदायपौनरुक्त्यास्य स्थाननियमाभावाद्यमकाभासो ऽयं वृत्त्यनुप्रासः ।
स्तर्त् सूत्र 8:
"शब्दार्थपौनरुक्त्यां प्ररुढं दोषः"
प्ररुढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् ।
यदाहुः-ऽशब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्ऽ ।
इति ।
रुअस्स्च्_8:
प्ररुढमिति ।
तथाभासनं विश्रान्तेः ।
यथा-
ऽतदन्वये शुद्धमति प्रसूतः शुद्धिमत्तमः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविवऽ ॥
अत्रेन्दुरिति ।
अत्रिनेत्रक्षीरोदजन्मत्वादिन्दोर्द्वित्वान्नैतत्प्ररुढमिति न कार्यम्, कविसमये तथात्वस्याप्रतीतेः ।
आहुरित्याक्षपादाः ।
अन्तत्रानुवादिति ।
अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोषाय ।
अक्रियमाणं पुनर्देषाय भवतीति भावः ।
यथा -
ऽउदेति रक्तः सविता रक्त एवास्तमेति च ।
संपत्तौ च विपत्तौ च महातामेकरूपताऽ ॥
अत्र रक्त इति ।
ऽशिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्रापि जलधिम् ।
अधोधो गङ्गावदूयमुपगता नूनमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखःऽ ॥
अत्रार्थपौनरुक्त्ये ऽपि शब्दस्यापुनर्वचनं प्रतीत्यन्तरजनकत्वाद्दोषः ।
तदेवाप्ररुढमलङ्कार इत्याह-तात्पर्येत्यादि ।
स्तर्त् सूत्र 9-10:
ऽतात्पर्यभेदवत्तु लाटानुप्रासःऽ
तात्पर्यमन्यपरत्वम् ।
तदेव भिद्यते, न शब्दार्थ-स्वरूपम् ।
यथा-
ऽताला जअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति ।
रैकिरणाणुगाहिआइं हाएन्ति कमलाइं कमलाइंऽ ॥
[ऽतदा जायन्ते गुणाः यदा ते सहृदयैर्गृयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानिऽ] ॥
ऽब्रूमः कियन्नय कथञ्चन कालमल्पम् अत्राब्जपत्रनयने नयने निमील्य ।
हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषो ऽयमहमागत इत्यवेहिऽ ॥
इत्यादौ विभक्त्तयादेरपौनरुक्त्ये ऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव ।
ऽकाशाः काशा इवाभान्ति सरांसीव सरांसि च ।
चेतांस्याचिक्षिपुर्यूनां निम्रगा निम्रगा इवऽ ॥
इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः ।
अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थिकेर्भिन्नविषयत्वात् ।
ऽअनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ ॥
तदेवं पौनरुक्त्ये पञ्चालङ्काराः
निगदव्याख्यातमेतत् ।
रुअस्स्च्_9-10:
अन्यपरत्वमिति ।
एकस्य वाच्यविश्रान्तत्वे ऽन्यस्य लक्ष्ये व्यङ्ग्ये वार्थेवाच्यविश्रान्तिरित्यर्थः ।
भिद्यत इति पर्यवसाने ।
आमुखे हि शब्दवदर्थस्याप्येकत्वेनैवावभासः ।
अत एवाह-न शब्दार्थस्वरूपमिति ।
एवं च नायं द्वयोर्वाच्यविश्रान्तत्वे ऽनुवादमात्रमलङ्कारः ।
नहि दोषाभावमात्रमलङ्कारस्वरूपम् ।
एवं हि सत्प्रपशब्दाद्यभावस्याप्यलङ्कारत्वप्रसङ्गः ।
यत्परमादावुक्तं तत्परमेव पुनर्नोच्यते इत्येव सामान्येन यद्यन्यपरत्वमुच्यते तद्विरोधादिवत् ऽउदेति रक्तिः सविता-ऽ इत्यादौ दोषाभावमात्रत्वेप्यलङ्कारत्वोचितस्यान्यपरत्वाख्यस्यातिशयस्यापि भावालङ्कारत्वप्रसङ्गः ।
न चैतावतैव कश्चिदतिशयप्रतीयते इति यथोक्तमेव युक्तम् ।
एकः कमलशब्दो वाच्यपर्यवसितः अन्यश्च सौरभबन्धुरत्वाद्यनेकधर्मनिष्ठ इति तात्पर्यभेदः ।
रुअस्स्च्_9-10अ:
ब्रुमः कियदिति ।
अत्र अब्जशब्दस्याप्यपौनरुक्त्यात् लाटानुप्रासत्वमेवेति चिन्त्यम् ।
अत्र हि द्वयोरपि नयनशब्दयोर्वाच्यविश्रन्तत्वादन्यपरत्वाभावान्नास्ति तात्पर्यभेदः ।
स एव ह्यस्य जीवितम् ।
अन्यथा ह्यनुप्रासमात्रत्वं स्यान्नालङ्कारत्वम् ।
अथापि केवलनयनशब्दस्यस्वार्थविश्रान्तिः संसर्गपदान्तर्गतस्तय पुनः स्वार्थमुपसर्जनीकृत्य संज्ञिनमभिगधमश्च स्वार्थत्यागात्परार्थेच वृत्तिरस्त्येव लक्ष्यनिष् टत्वमिति चेत्, नैतत् ।
लक्षणासामग्रधभावात् ।
अत्र ह्यन्यपदार्थप्रधानत्वान्नयनशब्दस्य गुणीभावः, न मुख्यार्थबाधः ।
स्वार्थ एव विश्रान्तेः ।
न च गुणीभावमुख्यार्थबाधयोर्कत्वम् ।
सतो हि मुख्यार्थस्य कञ्चिदपेक्ष्य गुणीभावः ।
बाधः पुनः स्वस्मिन्नेवाविश्रान्तिरित्यनयार्महान् भेदः ।
नाप्यत्र किञ्चित्प्रयोजनं न वा रुढिरियमित्येतत्पौनरुक्त्यमात्रम् ।
एवम्-
ऽसितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः ।
पौनषकमला कमला सापि तवैवास्ति नान्यस्यऽ ॥
इत्यादावपि घज्ञेयम् ।
चमत्कारस्त्वत्रानुप्रासकृतो ऽवसेयः ।
नन्वनन्वये ऽपि शब्दपौनरुक्त्यं दृश्यत इति तत्रापि किमयमेवालङ्कारः किमु स एवेत्याशङ्क्यह-अनन्वय इत्यादि ।
आनुषङ्गिकमिति ।
न पुनः साक्षात्प्रयोजकमित्यर्थः ।
शब्दैक्यं विनाप्यनन्वयस्य प्रतिपादनात् ।
अत्र हि शब्दैक्यं क्वचिदक्रियमाणमनौचित्यमावहति क्वचिन्नेति भावः ।
तत्त यथा-
ऽयच्चक्षुर्जगतां सहस्त्रकरवद्धाम्नां च धामार्कव- न्मोन्नद्वारमपावृत्तं च रविवद् ध्वान्तान्तकृत् सूर्यवत् ।
आत्मा सर्वशरीरिणां सवितृवत् तिग्मांशुवत् कालकृत् साध्वीं नः स गिरः ददातु दिनकृद् योन्यैरतुल्योपमःऽ ॥
अत्र सहस्त्रकरादयो ऽन्य इवाभासमाना अनन्वयप्रतीतिं विघ्नयन्तीति शब्दैक्याभावो ऽनौचित्यमावहति, न पुनरनन्वयस्याभावम् ।
ऽस्थैर्याद् भूर्व्यापकत्वाद् वियदखिलजगत्प्राणभावान्नभस्वान् भास्वान् विश्वप्रकाशाद्युगपदपि सुधासूतिराह्लादनाच्च ।
वह्निः संहारकत्वाज्जलमखिलजनाप्यायनाच्चोपमानं सत्यात्मत्वे ऽपि यस्य प्रभवतु भवतां सो ऽष्टमूर्तिः शिवायऽ ॥
अत्र निर्विघ्नमेवानन्वयस्य प्रतीतेः शब्दैक्यभावो नानैचित्यावहः ।
तुशब्दो व्यतिरेके ।
शाक्षादिति ।
शब्दैक्यं विनास्यानुत्थानात् ।
एतदेवोपसंहरति-तदेवमित्यादि ।
पुन रुक्तवदाभासमर्थपौनरुक्त्याश्रितं,छेकानुप्रासादयस्त्रयः शब्दपौनरुक्त्याश्रयाः ।
लाटानुप्रासस्तूभयाश्रितं इति पञ्च पौनरुक्त्याश्रिता अलङ्काराः ।
यद्यप्युक्तेः शब्दार्थगतत्वेनोच्चरणाभिधानतया भेदात् सामान्याभावात् कस्य पञ्चप्रकारत्वं तथापि तस्या द्वयोरप्यनुगमादेकत्वेन प्रतीतेरुक्तिसामान्यनिबन्धनमेव प्रकारिप्रकारभाववचनम् ।
यच्चार्थभेदेन शब्दस्यापि भिन्नत्वं तदवास्तवम् ।
प्रतीतावेकतयैवावभासात् ।
अत एवानेकार्थवर्गादिष्वपि तथात्वेनैव व्यवहारः ।
स्तर्त् सूत्र 11:
वर्णानां खङ्गाद्यकृतिहेतुत्वे चित्रम्
पौनरुक्तक्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम् ।
यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालङ्कारो ऽयम् ।
आदिप्रहणाद् यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः ।
यथा-
ऽभासते प्रतिभासार रसाभाता हताविभा ।
भावितात्माशुभावादे देवाभा बत सभाऽ ॥
एषो ऽष्टदलपद्मबनधः ।
अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वम् ।
विविग्दलेषु त्वन्यथा ।
कर्णिकाक्षरं तु श्लिष्टमेव ।
रुअस्स्च्_11:
वर्णानामित्यादि ।
उच्चारणकाले स्थानविशेषश्लिष्टवर्णात्मकखङ्गदिसंनिवेशस्या भावात्पोनरुक्त्यप्रतीतिर्नात्रेति किमाश्रयो ऽयमलङ्कार इत्याशङ्क्याह-यद्यपीत्यादि ।
लिप्यक्षराणां मषीबिन्दुरूपाणां श्रूयमाणतासतत्त्ववर्णशब्दाभेदप्रतिपत्त्या औपचारिको ऽयं शब्दालङ्कार इति तात्पर्यार्थः ।
आदिग्रहणं सफलयितुं पद्मबन्धेनोदाहरति-भासतेत्यादि ।
खङ्गबन्धः पुनर्यथा-
ऽस पात्रीभविता मोक्ष्क्षणलक्ष्म्या भवारसः ।
समस्तजनतायाससमुद्राभिन्नताभिदःऽ ॥
श्लिष्टमेवेति ।
अष्टदिक्कमपि निर्गमप्रवेक्षयोः ।
स्तर्त् सूत्र 12:
उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा
अर्थालङ्कारप्रकरणमिदम् ।
उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम् ।
साध्र्म्ये त्रयः प्रकाराः ।
भेदप्राधान्यं व्यतिरेकादिवत् ।
अभेदप्राधान्यं रूपकादिवत् ।
द्वयोस्तुल्यत्वं यथास्याम् ।
यदाहुः-ऽयत्र किञ्चित्सामान्यं कश्चिञ्च विशेषः स विषयः सदृशतायाःऽ इति ।
उपमैवनेकप्रकारवैचित्र्येणानेकालङ्कारबूजभूतेति प्रथमं निर्दिष्टा ।
अस्याश्च पूर्णालुत्पात्वभेदाञ्चिरन्तनैर्बहुविधन्वमुक्तम् ।
तत्रापि साधारणधर्म्स्य क्वचिदनुरागामितयैकरूप्येण निर्देशः, क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः ।
पृथङ्निर्देशे च संबन्धिभेदमात्रं प्रतिवस्तूपमावत्, बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् ।
क्रमेणोदाहरणम् -
ऽप्रङामहत्या शिखयेव दीपस्त्रिमार्गेव त्रिविदस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्चऽ ॥
ऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षःऽ ॥
अत्र वलुतत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने ।
धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।
ऽपाण्ड्यो ऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचिन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गर इवाद्रिराजःऽ ॥
अत्र हाराङ्करागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ ।
रुअस्स्च्_12:
उपमानेत्यादि ।
अर्थेति ।
शब्दालङ्कारनिर्णयानन्तरमवसरप्रात्पमित्यर्थः ।
ननूपमानोपमेययोरेव साधर्म्यं संभवति न कार्यकारणादिकयोरिति किं तदुपादानेनेत्याशङ्क्याह-उपमानेत्यादि ।
तत्रोपमानस्याप्रतीतत्वं लिङ्गभेदादिना प्राच्यैरुक्तम् ।
यथा-
ऽकटु कणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव ।
मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इवऽ ॥
अत्र कणनादेर्धर्मस्योपमाने ऽन्यतां करोतीति लिङ्गभेदो दुष्टः ।
यद्यपि साधारणधर्मस्योभयसंबन्धसंभवे ऽपि सिद्धत्वादुपमाने तत्संबन्धस्य स्वयमेवावगमात् तस्य न शाब्दता युक्तेत्युपमानपारतन्त्र्येण लिङ्गादिविपरिणामो न कार्यं इति न लिङ्गभेदादेर्दुष्यत्वम्,तथाप्युपमानवाक्यस्य साकाङ्क्षत्वात्प्रतीतिविश्रान्तेः शाब्दस्तत्संबन्ध उपयुक्त एव ।
नहि प्रभामहत्यादावुपमानवाक्ये पूतत्वादिसंबन्धं विना समन्वयविश्रान्तिः स्यात् ।
केवलं समानधर्मस्योपमेये विधीयमानत्वमुपमाने चानूद्यमानत्वमितीयानेव विशेषः ।
तदुभयत्रापि तत्संबन्धस्यावश्योपयोगादुपपद्यत एव समानधर्मस्यानुगामित्वम् ।
तल्लिङ्गभेदादेरपि दुष्टत्वं युक्तम् ।
उपमेयस्याप्रतीतत्वमवर्णनीयस्यापि वर्णनीयत्वम् ।
यथा-
ऽगौरः सुपीवराभोगो रण्डाया मुण्डितो भगः ।
मेरोरर्कहयोल्लीढ-शष्प-हेम-तटायतेऽ ॥
अत्र तन्वङ्ग्या रूपवर्णने भगवर्णनमनौचित्यावहमित्युपमेयस्याप्रतीतत्वम् ।
रुअस्स्च्_12अ:
भेदाभेदतुल्यत्वं व्याख्यातुं साधर्म्यस्य विषयविभागेण व्यवस्थितिं दर्शयति-साधर्म्य इत्यादिना ।
एतैनेव च त्रिभिः प्रकारैः साधर्म्याश्रयः समग्र एवालङ्कारवर्गः संगृहीतः ।
तेन व्यतिरेकवदित्यनेन सहोक्त्यादयः संगृहीताः रूपकवदित्यनेन परिणामोत्प्रेक्षादयः ।
किन्तु रूपकोत्प्रेक्षयोरभेदप्राधान्यसद्भावे ऽप्यारोपाध्यवसायकृत एव विशेषः ।
यद्वक्ष्यति-ऽआरोपादभेदे ऽध्ववसायः प्रकृष्यतेऽ इति ।
अतश्चाध्यवसायगर्भेष्वलङ्कारेषु शुद्धाभेदरूपश्चतुर्थः प्रकारो न कश्चिदाशङ्कनीयः ।
तत्राप्यभेदाप्राधान्यस्यैव भावात् ।
अनयाप्युपमेयोपमादयः संगृहीताः सामान्यमित्यभेदहेतुकम् ।
विशेष इति भेदहेतुकः ।
एवं च भेदाभेदतुल्यत्वविषये यः सादृश्यप्रत्ययो जायते तस्योपमाविषयत्वमुक्तम् ।
ननु च सत्स्वप्यनेकेष्वर्थालङ्कारेषु प्रथममियमेव किं निर्दिष्टेत्याशङ्क्याह-उपमैवेत्यादि ।
अनेके ऽलङ्काराः साधर्म्याश्रयाः तत्रैवास्य बीजत्वात् ।
उक्तमिति ।
ऽसाधर्म्यमुपमा भेदे पूर्णा लुत्पा च साग्रिमा ।
श्रौत्यार्थीं च भवेद् वाक्ये समासे तद्विते तथाऽ ॥
इत्यादिना ॥
अतश्च किमस्माकं तदाविष्कारणेनेति भावः ।
एवं च तेषां गणने तथा न वैचित्र्यं किञ्चिदिति सूचितम् ।
रुअस्स्च्_12ब्:
तत्रापीति ।
चिरन्तनोक्ते पूर्णत्वादिभेदनिर्देशे सत्यपीत्यर्थः ।
साधारणधर्मस्येति ।
धर्मः पराश्रितः, तस्य च तदतद्गामित्वात् साधारणत्वम् ।
तदेव चोपमाद्यत्थाने निमित्तम् ।
स च चतुष्टयी शब्दानां प्रवृत्तिःऽ इति महाभाष्यप्रक्रियया जातिगुणक्रियाद्रव्यात्मकेषु धर्मिष्वेवंरूप एव भवति ।
न चैतद्विरुध्यते ।
धर्मिधर्मभावस्य न वास्तवत्वम् ।
जात्याद्यात्मनो धर्मिणो ऽपि कदाचिदन्याश्रितत्वे धर्मत्वात् ।
एवं च तदतिरिक्तं धर्ममात्रमपि साधारणं न किञ्चिद्वाच्यम् ।
चतुष्टय्या एव शब्दानां प्रवृत्तेरुक्ततत्वात् ।
ऽसदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिवऽ ॥
इत्यादावुपमानादौ क्रियारूपत्वादेर्योजयितुं शक्यत्वात् तस्य एव च समग्रविषयावगाहनसहिष्णुत्वात् ।
ननु जातेः साधारणधर्मत्वे तज्जातीयत्वात् तत्त्वं न स्यात्, न सदृशत्वमिति कथमुपमाङ्गत्वमस्याः स्यादिति चेत्, न ।
बिम्बप्रतिबिम्बभावाश्रयेण तथात्वाभावात् ।
तत्र ह्यसकृन्निर्देशाद् द्वयोर्हारादिकयोर्जात्योः श्वैत्याद्यभेदनिमित्तावलम्बनेनैकत्वमाश्रित्य सादृश्यनिमित्तं साधारण्यं स्यात् ।
एतच्च सविस्तरमुपरिष्टाद् वक्ष्यामः ।
रुअस्स्च्_12च्:
तत्र धर्मिणो जात्यादिरूपता यथा-
ऽघनोद्यानच्छायामिव मरुपथाद्, दावदहनात् तुषाराभ्भोवापीमेव विषविपाकादिव सुधाम् ।
प्रवृद्धादुन्मादात् प्रकृतिमिव निस्तार्यविरहा- ल्लभेय त्वद्भक्ति निरूपमरसां शङ्कर कदाऽ ॥
अत्र च्छायावापीसुधाप्रकृतीनामुपमानानां जातिगुणद्रव्यक्रियात्वम् ।
छायायस्तु जातिरूपत्वाद् गुणत्वं नाशङ्कनीयम् ।
उपमेयस्य पुनरेतत्स्वयमेवाभ्यूह्यम् ।
रुअस्स्च्_12द्:
धर्माणां तु यथा-
ऽवैदेहि पश्या मलयाद् विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम्ऽ ॥
अत्र विभक्तमित्यस्य क्रियात्वं रामसेतुच्छायापथयोर्द्रव्यत्वं फेनतारकाणां जातित्वं प्रसादस्य च गुणत्वं द्रव्यात्मकाकाशाम्बुराशिगत्तत्वेनोपनिबद्धम् ।
एवं प्रकृतामेव महाभाष्यप्रक्रियामपहाय निनिमित्तमेव प्रक्रियान्तरमाश्रित्य यदन्यैरुक्तं तदयुक्तमेवेत्यलं बहुना ।
एवंविधस्य चास्य भावाभावरूपतया द्वैविध्यम् ।
एतच्च न तथावैचित्र्यावहमिति ग्रन्थकृता नोक्तम् ।
रुअस्स्च्_12ए:
ऐकरूप्येणोति ।
सकृत् ।
यद्वक्ष्यति-ऽतत्र सामान्यधर्मस्येवाद्युपादाने सकृन्तिर्देश उपमाऽ इति ।
पृथङ्निर्देश इति ।
असकृदित्यर्थः ।
यद्वक्ष्यति-
ऽवस्तुप्रतिवस्तुभावेनासकृन्निर्देशे ऽपि सैवऽ इति ।
साधारणधर्मस्येत्यत्रापि संबन्धनीयम् ।
वस्तुप्रतिवस्तुभावे ऽपि द्वैविध्यमित्याह-पृथङ्निर्देशे इत्यादि ।
सम्बन्धिभेदमात्रमिति ।
न पुनः स्वरूपभेदः कश्चिदित्यर्थः ।
यद्वक्ष्यति-असकृन्निर्देशे शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभाव ए वाऽ इति ।
एतच्च भेदत्रयं प्रायः सर्वेषामेव सादृश्याश्रयाणामलङ्काराणां जीवितभूतत्वेन संभवतीत्यग्रत एव तत्र तत्रोदाहरिष्यामः ।
क्रमेणेति यथोद्देशम् ।
सम्बन्धिभेदादिति ।
संबन्धिनोः कन्धरावृन्तयोर्भेदात् ।
न तु हारनिर्झरादिवत्स्वरूपतो भेदः ।
वस्तुत एकत्वाद्वलितत्वावृत्तत्वयोरभेदः ।
ननु यदि वलितत्वावृत्तत्वाख्यो धर्म आननशतपत्त्रयोः शुद्धसामान्यरूपतयोपात्तस्तद्धर्मी कन्धरावृन्तरूपः पुनः किंरूपतयेत्याशङ्क्याह-धर्म्यभिप्रायेणेत्यादि ।
एवकारः शुद्धसामान्यरूपत्वव्यवच्छेदकः ।
कन्धरावृन्तयोश्च यथोक्ते धर्मित्वे ऽप्याननशतपत्र्तापेक्षया धर्मत्वमेव युक्तम् ।
आश्रयाश्रयिभावेन धर्मिधर्मभावस्य भावात् ।
अत एवास्यावास्तवत्वं पूर्वमुक्तम् ।
अतश्चाननशतपत्र्तापेक्षया इति न व्याख्येयम् ।
तयोरुपमानोपमेयभाववाचोयुक्तेरेव युक्तत्वात् ।
एवं च सति कन्धरावृन्तयोः स्वरूपमनभिमतं स्यात् ।
अनेनैव च बिम्बप्रतिबिम्बभावस्य स्वरूपे दर्शिते ऽप्यसंकीर्णप्रकटनाशयेन पुनः ऽपाण्ड्यो ऽयम्ऽ इत्याद्युदाहृतम् ।
रुअस्स्च्_12f:
हाराङ्गरागयोरिति ।
स्वरूपयोरिति शेषः ।
न चात्र बिम्बप्रतिबिम्बभावस्य विषयान्तरं प्रदर्श्य वाक्यार्थङ्गतामुपमाशङ्क्य गुणसाम्यनामा चतुर्थः प्रकारो वाच्यः ।
यावता हि साधारणधर्मनिबन्धनमुपमास्वरूपम्, स चात्र धर्मो निर्दिष्टानिर्दिष्टत्वेन द्विविधः ।
निर्देशपक्षे चास्य त्रैविध्यमुक्तम् ।
अनिर्देशपक्षे चास्य न वैचित्र्यं किञ्चिदिति न तदाश्रयं भेदजातमुक्तम् ।
अतश्चात्र निर्दिष्टः साधारणधर्मो व्यवस्थित इति का नाम चतुर्थप्रकारकल्पना ।
वाक्यार्थोपमागन्धो ऽप्यत्र नास्ति ।
स ह्यनेकेषां धर्मिणां परस्परावच्छिन्नानां तादृशेरेव धर्मिभिः साम्ये भवति ।
यथा-
ऽजनयिच्याः कुलाल्याश्च रक्षित्र्या विदितो ऽभयम् ।
रत्नसूतेर्भुजङ्ग्याश्च प्रच्छन्न इव शेवधिःऽ ॥
अत्र जनयित्र्यादीनां रत्नसूत्यादीन्युपमानान्युपात्तानि ।
एतेषां धर्मित्वं च स्फुटमेव ।
बिम्बप्रतिबिम्बभावः पुनर्धर्मिविशेषप्रतिपादनोन्मुखानां धर्माणां भवति ।
परस्परावच्छिन्नत्वं यथात्रेव ।
अत्र हि हाराङ्गरागयोः पाण्ड्यस्य विशिष्टतापादनायैवोपादानम् ।
इन्दुमतीं प्रति तस्य विशिष्टालम्बनविभावत्वेन विवक्षितत्वात् ।
अतश्च तयोः परस्परोन्मुखत्वात्स्वात्मन्येवाविश्रान्तिरिति का कथोपमेयतायाः ।
एवं पाण्ड्यस्याद्गिराजेन हारनिर्झरादिधर्मनिमित्तैवोपमा, तावन्मात्रेणैव सादृश्यपर्यवसानात् ।
तच्च हारादेः साधारणधर्मस्य बिम्बप्रतिबिम्बत्वाद् दृष्टान्तन्यायस्यैतत्सूदाहरणमेव ।
रुअस्स्च्_12ग्:
ननु हारनिर्झरयोस्तदतद्गामित्वाभावात्कथं साधारणधर्मतेति चेत्,उच्यते- अस्यास्तावद्धर्मस्य साधारण्यं जीवितम् ।
तच्च धर्मस्यैकत्वे भवति ।
न च वस्तुतो ऽत्र धर्मस्यैकत्वम् ।
नहि य एव मुखगतो लावण्यादिर्धर्मः स एव चन्द्रादौ, तस्यान्वयासंभवात् ।
अपि तु तज्जातीयो ऽत्रान्यो ऽस्ति धर्मः ।
एवं धर्मयोर्भेदात्साधारणत्वाभावादुपमायाः स्वरूपनिष्पत्तिरेव न स्यात् ।
अथ धर्मयोरपि सादृश्यमभ्युपगम्यते तत्तत्रापि सादृश्यनिमित्तमन्यदन्वेष्यम् ।
तत्राप्यन्यदित्यनवस्था स्यात् ।
ततश्च धर्मयोर्वस्तुतो भेदे ऽपि प्रतीतावेकतावसायाद्भेदे ऽप्यभेद इत्येतन्निमित्तमेकत्वमाश्रयणीयम् ।
अन्यथा ह्यपमाया उत्थानमेव न स्यात् ।
एवमिहापि हारनिर्झरादीनां वस्तुप्रतिवस्तुतयोपात्तानां वस्तुतो भेदे ऽप्यभेदविवक्षेत्येकत्वं ग्राह्यम् ।
अन्यथा ह्येषां पाण्ड्याद्रिराजयोरौपभ्यसमुत्थाने निमित्तत्वमेव न स्यात् ।
न चैषामौपम्यं युक्तमिति समनन्तरमेवोक्तम् ।
अत एवात्र बिम्बप्रतिबिम्बभावव्यपदेशः ।
लोको हि दर्पणादौ बिम्बात्प्रतिबिम्बस्य भेदे ऽपि मदीयमेवात्र वदनं संक्रान्तमित्यभेदेनाभिमन्यते ।
अन्यथा हि प्रतिबिम्बगदर्शने कृशो ऽह स्थूलो ऽहमित्याद्यभिमानो नोदियात् भूषणविन्यासादौ च नायिका नाद्रियेरन् ।
प्रच्यैरपि-
ऽस मुनिर्लाच्छितो मौव्ज्या कृष्णाजिनपटं वहन् ।
व्यराजन्नीलजीमूतभागश्लिष्ट इवांशुमान्ऽ ॥
इति ॥
तथा -
ऽस पीतवासाः प्रगृहीतशार्ङ्गो मनोघज्ञभीमं वपुराप कृष्णः ।
शतह्लदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघःऽ ॥
इत्यत्र मौञ्जीतडितोः शङ्खशशिनोश्च वस्तुतो भेदे ऽप्यभेदविवक्षामेवाश्रित्यसाधारणधर्मस्य हीनत्वमाधिक्यं चोक्तम् ।
अत एव चात्र पूर्वं ग्रन्थकृता वस्तुप्रतिवस्तुभाववद् वस्तुद्वयस्य प्राच्योक्तमेव व्यवहारं दर्शयितुं प्रतिवस्तूपमावद् दृष्टान्तवच्चेति तदुक्तमेवदृष्टान्तद्वयं दत्तम् ।
एवं चात्राभेदविवक्षैव जीवितम् ।
रुअस्स्च्_12ह्:
एषा च लक्ष्ये सुप्रचुरैव ।
यथा -
ऽविद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैःऽ ॥
अत्र विद्युद्वनितादीनां मेघप्रासादविषिष्टताधायकतया धर्मत्वेनैवोपादानम् ।
अत एव तैस्तैर्विशेषैरित्युक्तम् ।
तेषां सकृन्निर्देशाभावान्नानुगामिता ।
एकार्थत्वाभावान्न शुध्दसामान्यरूपत्वमिति पारिशेष्याद्विम्बप्रतिबिम्बभाव एव ।
एतेषां चाभेदेनैव प्रतीतेः साधारणत्वम् ।
एवं हारादेरपि ज्ञेयम् ।
अभेदप्रतीतिश्चात्र सादृश्यनिमित्ता ।
न चैतावतैवैपामुपमानोपमेयत्वं वाच्यम् ।
तथात्वाविवक्षणात् ।
सादृश्यस्य च सितत्वादिगुणयोगित्वं नाम निमित्तम् ।
एवमभेदप्रतीतिमुखेनात्र हारादेः समानधर्मत्वम् ।
क्वचिन्निमित्तान्तरेणाप्यभेदप्रतीतिर्भवति ।
यथा-
ऽद्वेप्यो ऽपि संमतः शिष्टस्तस्यार्तस्य यथैषधम् ।
त्याज्यो दुष्टः प्रियो ऽप्यासीद् दष्टो ऽद्दगुष्ट इवाहिनाऽ ॥
अत्रोत्ररार्धे दष्टदुष्टयोर्देषकारित्वादिना एककार्यकारित्वमभेदकारणमित्यलं बहुना ।
रुअस्स्च्_12इ:
इयं च द्वयोपरि प्रकृतयोरप्रकृतयोश्चौपम्ये समुच्चिता भवति ।
क्रमेण यथा-
ऽस्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमानाऽ ॥
अत्र भगवत्यपेक्षयान्यपुष्टावितन्त्र्योरप्रकृतयोः प्रतिकूलशब्दत्वे समुच्चितत्वम् ।
इयमेकदेशविवर्तिन्यपि ।
यथा -
ऽकमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते ।
अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यःऽ ॥
अत्र नलिनीनां नायिका उपमानत्वेन नोपात्ता इत्येकदेशविवर्तित्वम् ।
इयं च सादृश्यदाढर्यार्थं कविप्रतिभाकल्पिते साधर्म्ये कल्पिता भवति ।
तच्च क्वचिदुपमेयगतत्वेन क्वचिदुपमानेनापि कल्पितमिति द्विधात्वमस्याः ।
यदुक्तम्-
ऽउपमेयस्य वैशिष्ट्यमुपमानस्य वा क्वचित्ऽ इति ।
वैधर्म्येणापि साधर्म्यमिति तृतीयः प्रकारः पुनरस्या न वाच्यः ।
अस्योपमायामेव संभवाद्दाढर्यप्रतिपादनप्रतीतेश्च ।
रुअस्स्च्_12ज्:
क्रमेण यथा-
ऽतं णमह णाहिणलिनं हरिणो गअणङ्कणाहिरामस्स ।
छप्पअछम्पिअगत्तो मलो व्व चन्दम्मि जत्थ विहीऽ ॥
(ऽतन्नमत नाभिनलिनं हरोर्गगनाङ्गनाभिरामस्य ।
षट्पदाच्छादितगात्रो मल इव चन्द्रे यत्र विधिःऽ) ॥
अत्रोपमेयस्य षट्पदाच्छादितत्वं कल्पितम् ।
"आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसानातरुणार्ककागम् ।
संजातपुष्पस्तबकाभिनम्रा संचारिणी पल्लविनी लतेव ॥
" अत्रोपमानगतत्वेन संचारिणीत्वं कल्पितम् ।
न चास्याः पृथग्लक्षणं वाच्यम्,द्वयोरौपम्यप्रतीतेः ।
सामान्यलक्षणस्यात्राप्यनुगमात् ।
अथात्र कल्पनास्तीति चेत्, न ।
एवं हि प्रतिभेदं लक्षणकरणप्रसङ्गः ।
समुच्चितत्वादेर्विशेषान्तरस्यापि भावात् ।
अथोपमानगुणविशिष्टोपमेयावगमफलत्वेनोपमायाः प्रतिभटभूतवस्त्वन्तराभावप्रयोजनत्वेन चास्याः पृथगलङ्कारत्वमिति चेत्, न ।
अत्रोपमेयस्योपमानोपमानगुणविशिष्टतयैव प्रतीतेः फलभेदाभावात् ।
तथा हिऽआवर्जिताऽ इत्यादौ भगवत्या लतायाः सादृश्यस्य संचारिणीत्वेनाभावो मा प्रसाङ्क्षीदिति तयोः साधर्म्यंमेव द्रुडयितुं कविना लतायाः संचारिणीत्वं कल्पितम् ।
नन्वत्र भगवत्या अन्यदुपमानं नास्तीति प्रतीयते ।
अनन्वयादिवदुपमानान्तरनिषेधस्य वाक्यार्थत्वात् ।
मैवम् ।
एवमुपमेयस्यापि वैशिष्ट्यकल्पने उपमेयान्तरनिषेधफलत्वं वाच्यम् ।
समानन्यायत्वात् ।
तद्यथा दृढरोपे रूपके विषयविषयिणोरभेदमेव द्रढयितुं कस्यचिद्धर्मस्य हानिराधिक्यं वा कल्प्यते, तथेहापि सामान्यदार्ढ्ययैव कल्पितत्वं ज्ञेयम् ।
अत्राप्यभेदालङ्काराख्यालङ्कारान्तरत्वं न वाच्यम् ।
रूपकेणैवास्या विच्छ्रित्तेः संगृहीतत्वात् ।
विषयविषयिणोरभेदो हि रूपकसतत्त्वम् ।
स एव चात्र दार्ढ्येन प्रतीयत इति को नामास्य रूपकात्पृथग्भावः ।
अभेदमात्रप्रतीतौ रूपकम्, नियतधर्महानावन्यतः सर्वतो ऽप्यभेदप्रतीतावभेद इति प्रतीतिभेदो ऽप्यस्तीति चेत्, न ।
एवं ह्यस्ति तावदभेदप्रतीतिरत्रानुगता ।
यस्तु वशेषः स पृथग्भेदत्वे व्यवस्थापको ऽस्तु न पृथगलङ्कारत्वे ।
नहिशाबलेयतामात्रेण गोत्वमश्चत्वव्यपदेश्यं भवति ।
एवं च-
ऽगृहीतविग्रहः कामो वसन्तः सार्वकालिकः ।
जहार हृदयं कामी नित्यपूर्णः सुधाकरःऽ ॥
इत्यादौ गृहीतविग्रहत्त्वादेर्नियतस्य धर्मस्याधिक्ये ऽप्यलङ्कारान्तरप्रसङ्गः ।
इयं च मालात्वादिनानन्तभेदेति तद्ग्रन्थविस्तरभयान्न प्रपञ्चितम् ।
स्तर्त् सूत्र 13:
एकस्यैवोपमानोपमेयत्वे ऽनन्वयः
वाच्याभिप्रायेण पूर्वंरूपानुगमः ।
एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयसव्रह्यचारिनिवृत्त्यर्थः ।
अत एवानन्वय इति योगो ऽप्यत्र संभ्रवति ।
यथा-
ऽयुद्धे ऽर्जुनो ऽर्जुन इव प्रथितप्रतापो भीमो ऽपि भीम इव वैरिषु भीमकर्मा ।
न्यग्रोधवर्तिनमयाधिपतिं कुरुणामुत्प्रासनार्थमिव जग्मतुरादरेणऽ ॥
रुअस्स्च्_13:
एकस्यैवेत्यादि ।
ननु सादृश्याश्रयाणामलङ्काराणां लक्षयुतुं प्रस्तुतत्वात्सादृश्यस्योभयनिष्ठत्वेनैव संभवादेकस्य च तदभावात्कथमिहातदाश्रयस्याप्यस्य वचनमित्याशङ्क्याह-वाच्याभिप्रायेणेत्यादि ।
रुअस्स्च्_13अ:
पूर्वरूपेति ।
सादृश्याश्रयत्वस्येत्यर्थः ।
अस्त्वेव ह्यत्र शाब्दी सादृश्यप्रतीतिः ।
मुखं चन्द्र इवेत्यादिवदेवात्रोपमानोपमेयत्वस्य वाच्यतयोपनिबन्धनात् ।
अत एवाह-वाच्याभिप्रायेणेति ।
न पुनर्वस्त्वभिप्रायेणेत्यर्थः ।
वस्तुतो ह्येकस्यैव साध्यसिद्धधर्मरूपत्वासंभवादुपमानोपमेयत्वे ऽपि विरोधः स्यात् ।
इत्थं शाब्दमेव सादृश्यानुगममाश्रित्येहास्य लक्षणम् ।
ननु यद्येवमेकस्योपमानोपमेयत्वं विरुध्यते तत्किं वस्तुविरुद्धेन निष्फलेन चैतेनेत्याशङ्क्याह-एकस्येत्यादि ।
रुअस्स्च्_13ब्:
एवं चास्य द्वितीयसब्रह्मचारिनिवृत्तिरेवालङ्कारत्वप्रतिष्ठापकं प्रमाणम् ।
अन्यथा पुनर्नास्यालङ्कारत्वम् ।
यथा-
ऽतस्याज्ञयैव परिपालयतः प्रजा मे कर्णोपकण्ठपलितङ्करिणी जरेयम् ।
यद्गर्भरूपमिव मामनुशास्त सो ऽयमद्यापि तन्मयि गुरोर्गुरूपक्षपातःऽ ॥
अत्र यथैव गर्भरूपं मां गुरुरन्वशात्तथैवाद्याप्यनुशास्तीति सत्यप्येकस्योपमानोपमेयत्वे द्वितीयसब्रह्मचारि निवृत्तिप्रतिपत्त्यभावान्नायमलङ्कारः ।
एकस्यैवास्थाभेदेन च सिद्धसाध्यधर्मसंभवान्नोपमानोपमेयत्वरूपविरुद्धधर्मसंसर्गः ।
अत एवेति ।
विरुद्धधर्मंसंयोगात् ।
एकस्यैव सिद्धसाध्यरूपेणोपमानोपमेयत्वेनाविद्यभानो ऽन्वयः संबन्धो यत्र स तथोक्तः ।
अर्जुनादन्यो युद्धे प्रथितप्रतापो नास्तीति द्वितायसब्रह्मचारिनिवृत्तिरत्र जीवितभूता प्रतीयत एव ।
अत एव कार्तवीर्यहिंस्त्रमत्त्वयोरुपमानरूपयोरप्रतीतेः शुद्धमेवैतदुदाहरणम् ।
ऽइत्तिअमेतुम्मि जए सुन्दरमहिलासहस्सभरिअम्मि ।
अणुहरै णवरं तिस्सा,वामाद्धं दाहिणद्धस्सऽ ॥
(ऽएतावन्मात्रे जगति सुन्दरमहिलासहस्त्रभरिते ऽपि ।
अनुहरति केवलं तस्या वामार्धं दक्षिणार्धस्यऽ) ॥
इत्यादौ चानन्वयोदाहरणत्वं न वाच्यम् ।
अत्रान्याधनान्यार्धस्योपमीयमानत्वेनोपमाया अभिधीयमानत्वात् ।
अस्य ह्युपमानान्तरनिषेधपर्यवसाय्यभिधीयमानमेकस्यैवोपमानोपमेयत्वं स्वरूपम् ।
न च तदत्र शब्देनाभिधीयते ऽपि तु व्यज्यत इति प्रतीयमानतैव युक्तेति न वाच्यत्वमस्येतिवाच्यम् ।
एवं ह्यलङ्कादध्वनेर्विषयापहारः स्यात् ।
एवम्-
ऽगन्धेन सिन्धुरधुरन्धर वक्त्कमैत्त्रीमैरावणप्रभृतयो ऽपि न शिक्षितास्ते ।
तत्त्वं कचत्र्तिनयनाचलरत्नभित्तिस्वीयप्रतिच्छ्रविषु यूथपतित्वमेषऽ ॥
इत्यत्राप्यनन्वयो न वाच्यः ।
स्वीयप्रतिबिम्बैरेव सादृश्यप्रतीतेस्तद्गन्धस्याप्यभावात् ।
यदि नाम चैतत्प्रतीयेत तदप्यस्य प्रतीयमानत्वं स्यान्न वाच्यत्वम् ।
यथोक्तन्यायात् ।
एवं च तदेकदेशेनावसितभेदेन वेत्यपास्य उपमानतया कल्पितेन तेनैव सादृश्यमनन्वय इत्येव त्वया सूत्रणीयम् ।
ऽग्रसमानमिवौजांसि सदस्यैर्गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषो ऽपि स पुमान्पुमान्ऽ ॥
इत्यत्र पुंसः पुंस्त्वारोपादनन्वयरूपकमिति यदन्यैरुक्तं तदयुक्तम् ।
एकस्यैव विध्यनुवादभावेनावस्थानादारोपाभावात् ।
स्तर्त् सूत्र 14:
द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः ।
पर्यायो यौगपद्याभावः ।
अत एवात्र वाक्यभेदः ।
इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा ।
आद्ये यथा-
ऽखमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानिऽ ॥
द्वितीये यथा-
ऽसच्छायाभ्भोजवदनाः सच्छायवदनाम्बुजा ।
वाप्यो ऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाःऽ ॥
रुअस्स्च्_14:
द्वयोरित्यादि ।
द्वयीरित्युपमानोपमेययोः, न पुनर्द्धिसंख्याकयोः ।
तेन, ऽकान्ताननस्य कमलस्य सुधाकरस्य पूर्वं परस्परमभूदुपमानभावः ।
सद्यो जरातुहिनराहुपराहतानामन्यः परस्परमसावरसः प्रसूतःऽ ॥
इत्यत्र त्रयाणामप्युपमानोपमेयत्वं स्थितमस्या एवाङ्गम् ।
तच्छब्देनेति तस्मिन्नित्यनेन ।
यौगपद्याभाव इति क्रमरूपत्वात् ।
अत इति यौगपद्याभावात् ।
स च वाक्यभेदः शाब्द आर्थश्च ।
तत्र शाब्दो यथा -
ऽरजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः ।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्ऽ ॥
अत्र भुवस्तलं व्योमेव कुवंन्निति वाक्यपरिनिष्पत्तेः स्फुट एव शाब्दो वाक्यभेदः ।
ओआर्थो यथा -
ऽभवत्पादाश्रयादेव गङ्गा भक्तिश्च शाश्वती ।
इतरेतरसादृश्यसुभगामेति वान्द्यताम्ऽ ॥
अत्र स्फुटे ऽपि शाब्दे एकवाक्यत्वे गङ्गाभक्तिवद्भक्तिश्च गङ्गावद् वन्द्येत्यस्त्येवार्थो वाक्यभेदः ।
अस्याश्चो पमानान्तरतिरस्कार एव फलम् ।
अत एवोपमेयेनोपमा इत्यस्या अन्वर्थाभिधानम् ।
यत्र पुनरुपमानान्तरतिरस्कारो न प्रतीयते तत्र नायमलङ्कारः ।
यथा-
ऽसविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।
यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसिऽ ॥
न ह्यत्र विधुसवित्रादीनामुपमानान्तरतिरस्करणं विवक्षितं किं तु सुखदुःखवशीकृतमनसामेवं विपरीतं भवतीति ।
रुअस्स्च्_14अ:
साधारण्य इति ।
एतच्च धर्मस्य निर्देशानिर्देशरूपपक्षद्वययागूरकत्वेनोक्तम् ।
तत्र निर्देशपक्षेसाधारण्यमस्ति तथाप्यत्र सकृन्तिर्देशेनैवानुगतत्वात्तदुपलम्भः स्फुट इत्यत्र भावः ।
अनिर्देशपक्षे तु वास्तवमेव साधारण्यम् ।
यदनुसारं खमिव जलमित्याद्यदाहृतम् ।
धर्मस्यानुगामित्वे तु यथा-
ऽकमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्यऽ ॥
अत्र विभातीति सकृन्निर्दिष्टम् ।
वस्तुप्रतिवस्तुनिर्देशश्च पूर्ववदिहापि शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां द्विधा ।
तत्र बिम्बप्रतिबिम्बभावो ग्रन्थकृतैवोदाहृतः ।
तत्र ह्यभ्भोजवदनयोर्बिम्बप्रतिबिम्बभावः ।
शुद्धसामान्यरूपत्वं यथा-
ऽतद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलापधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रलचितभ्रमरं च पद्मम्ऽ ॥
(अत्र) प्रत्पन्दमानप्रचलितत्वेन शुद्धसामान्यरूपत्वम् ।
तारकभ्रमरयोस्तु बिम्बप्रतिबिम्बभावः ।
उन्मेषाभिप्रायेण चानुगामितेति भेदत्रयस्याप्येतदुदाहरणम् ।
स्तर्त् सूत्र 15:
सदृशानुभवाद् वस्त्वन्तरस्मृतिः स्मरणम्
वस्त्वन्तरं सदृशमेव ।
अविनाभावाभावान्नानुमानम् ।
यथा-
ऽअतिशयितसुरासुरप्राभावं शिशुमवलोक्य तथैव तुल्यरूपम् ।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामिऽ ॥
सादृश्यं विना तु स्मृतिर्नायमलङ्कारः ।
यछा-
ऽअत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णामूर्धा स्मरामि वानीरगृहेषु सुत्पःऽ ॥
अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मतृदशाभावित्वमसमीचीनम् ।
रुअस्स्च्_
15 ॥ :
सदृशेति ।
वस्त्वन्तरमिति स्मर्यमाणम् ।
सदृशमेवेति ।
सादृश्यस्योभयनिष्ठत्वात् ।
अतश्च स्मर्यमाणेनानुभूयमानस्य,अनुभूयमानेन वा स्मर्यमाणस्य सादृश्यपरिकल्पनमयमलङ्कारः ।
यदुक्तम् -
ऽयथा दृश्येन जनिता साम्यधीः स्मर्यमाणगा ।
स्मर्यमाणकृताप्यस्ति तथेयं दृश्यगामिनीऽ ॥
इति ॥
तत्राद्यः प्रकारो ग्रन्थकृदुदाहरणे ।
तत्र हि शिशोरेव रघुनन्दनेन सादृश्यं विवक्षितम् ।
द्वितायस्तु यथा -
ऽतस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
मङ्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामिऽ ॥
अत्रानुभूयमानेन मेघेन स्मर्यमाणस्य क्रीडाशैलस्य सादृश्यपरिकल्पनम् ।
एवं चात्र सादृश्यस्योभयसंबन्धे ऽप्यनुभूयमानेनैव पुनः स्मर्यमाणप्रतीतिर्भवतीत्यवसेयम् ।
ननु यद्येवं तत्परस्मात्परप्रतिपत्तेः किं नेदमनुमानमित्याशङ्क्याह-अविनाभावित्यादि ।
अविनीभावस्तादात्म्यान्नित्यसाहचर्याहुः ।
अनुभूयमानस्मर्यमाणयोश्च तदभावः ।
शिशुरघुनन्दनयोः सादृश्यपरिकल्पने चातिशचितसुरात्पुरभावत्वादिधर्मो ऽनुगामितया निर्दिष्टः ।
वस्तुप्रतिवस्तुभावेनापि धर्मस्यायं भवति ।
तत्र शुद्धसामान्यरूपत्वेन यथा-
ऽसान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः ।
ऽकुर्वन्नाजस्त्रं यमुनाप्रवाहसलीलराधास्मरणं मुरारेःऽ ॥
अत्र सोल्लाससलीलत्वयोरेकत्वम् ।
बिम्बप्रतिबिम्बभावेनापि यथा -
ऽपूर्णेन्दुना मघलवाङ्कितेन द्यां मुद्रितां सुन्दरि वीक्षमाणः ।
विवाहहोमानलधूमलेखामिलत्कपोलां भवतीं स्मरामिऽ ॥
अत्र मेघलवधूमलेखादीनां बिम्बप्रतिबिम्बभावः ।
एतदेव सादृश्यनिमित्तत्वं द्रढयितुं प्रत्युदाहरति-सादृश्यमित्यादिना ।
सदृशानुभवाभावात्तत्स्मृतेर्न सादृश्यहेतुकत्वम् ।
स्मर्तव्यदशाभावित्व इति ।
स्मर्तव्यदशाभावित्वं वाच्यं सदनादृश्येत्यर्थः ।
अत एव वाच्यस्यावचनम् ।
स्मर्तृदशाभावित्वमित्यत्यवाच्यस्य वचनम् ।
यद्यपि स्मर्तृदशायामतीतत्वात् कर्तृविशेषणानां मृगयानिवृत्तित्वादीनामप्यतीतकालावच्छिन्नानां तद्भावित्वं तथापि वर्तमानकालावच्छिन्नस्य स्मर्तुर्विशेषणभावेनोपनिबन्धात्तेषां तदवच्छिन्नतैव प्रतीयत इति यथोक्तमेव दूषणद्वयं युक्तमिति सहृदया एव प्रमाणम् ।
रुअस्स्_15।1:
प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः ।
यथा
ऽअहो कोपे ऽपि कान्तं मुखम्ऽ इति ।
तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यात्वे यथा-
ऽअत्रानुगादम्ऽ इत्यादि ।
ऽयैर्दृष्टो ऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्त्रुतिपाटलीकृतपुरोभागः परान् पातयन् ।
तेषां दुःसहकामदेहदहनप्रोद्भतनेत्रानल- ज्वालालीभरभास्वरे स्मरिपावस्तं गतं कौतुकम्ऽ ॥
इत्यादौ सदृशवस्त्वन्तरानुभवे ऽशक्यवस्त्वन्तरकरणात्मा विशेषालङ्कारः, कारणस्य क्रियासामान्यात्मनो दर्शिने ऽपि संभवात् ।
मतान्तरे काव्यलिङ्गमेतत् ।
तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालङ्कारा निर्णीताः" ।
रुअस्स्च्_15।1:
प्रत्युदाहरणान्तरमपि दर्शयति-प्रेयोलङ्कारस्येत्यादिना ।
तुशब्दश्चार्थे ।
सादृश्यव्यतिरिक्तं संस्कारादिनिमित्तम् ।
तत्रापीति ।
एवं स्थिते ऽपि सतीत्यर्थः ।
विभावाद्यागूरितत्वे प्रेयोलङ्कारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषय इति संबन्धः ।
तत्र विभावाद्यागूरितत्वे स्मृतिर्यथा-ऽअहो कोपे ऽपि कान्तं मुखम्ऽ इति ।
स्वशब्दमात्रप्रतिपाद्यत्वे यथोदाहृतम् ऽअत्रानुगोदम्ऽ- इत्यादौ ।
अत्र च यथा प्रेयोलङ्कारो भावध्वनेश्चास्य यथा भिन्नविषयत्वं तथाग्र एव वक्ष्यामः ।
एवं च प्रत्युदाहरणद्वयस्यापि प्रयोजनं भिन्नविषयत्वात् ।
क्वचिच्च सादृश्यनिमित्तापि स्मृतिरवाक्यार्थत्वान्नास्मिन्पर्यवस्यतीत्याह-ऽयैर्दृष्टो ऽसि-ऽ इत्यादि ।
वस्त्वत्र जयापीडदर्शनम् ।
वस्त्वन्तरं तु भगवल्लक्षणम् ।
अत्र त्वद्दर्शनमभिलषतां जनानां न त्वद्दर्शनावात्पिरेवाभूद्यावत्तेषामसंभाव्यं भगवद्र्शनमपि जातमित्यशक्यवस्त्वन्तरकरणम् ।
विशेषालङ्कारस्य ह्यशक्यवस्त्वन्तरकरणं रूपम्, इह पुनरशक्यवस्त्वन्तरदर्शनं स्थितमिति कथमत्र विशेषालङ्कार इत्याशङ्क्याह-करणस्येत्यादि ।
एतच्च गम्यगमकभावमाश्रित्यान्यैः काव्यलिङ्गत्वेनाभ्युपगतमिति दर्शयितुमाह-मतान्तर इत्यादि ।
एतदिति स्मरणम् ।
मतान्तर इत्यौद्भटे ।
यदुक्तम्-
ऽश्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।
हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यतेऽ ॥
इति ॥
इह पुनर्गम्यगमकभावादनुभूयमानस्मर्यमाणव्यवहारो ऽपि विशिष्यत इति पृथगलङ्कारतयैतदुक्तम् ।
एतदुसंहरन्नन्यदवतारयति-तदेत इत्यादि ।
एत इत्युपमाद्याश्चत्वारो ऽलङ्काराः ।
स्तर्त् सूत्र 16:
अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम्
अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः ।
अन्यत्रान्यावाप आरोपः ।
तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवे ऽपह्नुतिः ।
अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम् ।
साधर्म्ये त्वनुगतमेव ।
यदाहुः-
ऽउपमैव तुरोभूतभेदा रूपकमिष्यतेऽ इति आरोपादभेदे ऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालङ्कारविभागः ।
रुअस्स्च्_16:
संप्रतीति ।
भेदाभेदतुल्यत्वाश्रयालङ्कारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्रात्पावित्यर्थः ।
तत्र तावत्प्रथमं रूपकं लक्ष्यति-अभेदप्राधान्य इत्यादि ।
वस्तुत इति ।
न तु प्रतीतितः ।
सद्भाव इति ।
प्रधानाप्राधानयोः संबन्धिशब्दत्वात् ।
अन्यत्रान्यावाप आरोप इति ।
अन्यत्रेति प्रकृते मुखादौ ।
अन्यस्येत्यप्रकृतस्य चन्द्रादेः ।
स च सामानाधिकरण्येन वैयाधिकरण्येन च निर्देशे भवति ।
न तु सामानाधिकरण्येन निर्देश एव सः ।
एवं हि-ऽयाताः कणादतां केचित्ऽ इत्यादावारोपसद्भावे ऽपि न सामानाधिकरण्यमस्तीत्यव्यात्पिः स्यात् ।
आर्यं सामानाधिकरण्यमस्तीति नाव्यात्पिरित चेत्, न ।
भिन्नयोः सामानाधिकरण्येन निर्देशो[अ. र. सू.26]ह्यारोपलक्षणम् ।
न च तदत्र निर्दिष्टम् ।
वैयधिकरण्येन निर्देशात्तस्यार्तावसेयत्वात् ।
अर्थावसायो निर्देशश्च नैकं रूपम् ।
विप्रतिषेधात् ।
नीलरोपः प्रसज्यत इत्यतिव्यात्पिः स्यात् ।
न चारोपे भिन्नयोः सामानाधिकरण्येन निर्देश उच्यत इत्यसंभवो ऽपि ।
इति न निरवद्यमेतदापरोपलक्षम् ।
यद्येवं तत्किं शब्दे शब्दान्तरमर्थे वार्थान्तरमारोप्यत इति चेद् ब्रुमः ।
तत्र न शब्दे शब्दान्तरारोपः ।
मुखशब्दादेश्चन्द्रशब्दादिरूपत्वेनाप्रतीतेरन्योन्यविविक्तस्वान्तरूपोलम्भादिति भवद्भिरेवोक्तत्वात् ।
किं त्वर्थेर्ऽथान्तरारोपः ।
स च प्रयोजनपरतया तथा निर्देश्यते न भ्रान्त्या ।
अत एव ह्युक्तिकायामिव रजतारोपो न मुखे चन्द्रारोपः ।
तस्य स्वरसत एवोत्थानेन भ्रमरूपत्वात् ।
अत एव तत्रारोपविषयस्यारोप्यमाणेनाच्छ्रादितत्वेन प्रतीतिः ।
इह पुनर्जानान एव कश्चिचन्द्रविविक्तंमुखं तत्र प्रयोजनपरतया चन्द्रार्थमारोपयति ।
अत एवोक्तमारोपविषयानपह्नव इति ।
भवद्भिरप्यनेनैवाशयेन ऽप्रतिपादनभ्रामो ऽयं न भ्रान्ता प्रतिपत्तिरित्याद्युक्तम् ।
तस्येत्यारोपस्य विषयः प्रकृतः विषयी चाप्रकृतः ।
ताभ्यामवष्टब्धत्वं युक्तत्वम् ।
यदुक्तम्-ऽसारोपान्या तु यत्रोक्तौ विषयी विषयस्तथाऽ इति ।
रुअस्स्च्_16अ:
अन्यथेति ।
अनपह्नवे ।
एवमनेनापह्नुतिरूपकयोर्भेदो ऽप्युक्तः ।
आहुरिति दण्ड्यादयः ।
अतश्च साधर्म्यसद्भावात्तदनुयायुभेदत्रयानुप्राणितत्वमप्यस्य ज्ञेयम् ।
यथा-
ऽकन्दर्पद्विपकर्णकम्बुमसितैर्दानाम्बुभिर्लाञ्छितं संलग्नाञ्जनपुञ्जकालिकलं गण्डोपधानं रतेः ।
व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छ्रशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम्ऽ ॥
अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम् ।
लाच्छ्रितत्वाङ्कितत्वयोः शुद्धसामान्यरूपत्वम् ।
मूल पाठ: Alaṃkārasarvasva 1-34 with Jayaratha's commentary Vimarśinī · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0