भाषा

ENहिગુ
ग्रंथ पाठ

अलंकारसर्वस्व (टीका सहित) · भाग 120

॥ श्रीः ॥
अलङ्कारसर्वस्वम्
नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् ।
गुर्वलङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते
रुअस्स्च्_0।1:
श्रीजयरथकृतालङ्कारविमर्शिनी
मङ्गलकामनया ग्रन्थकृन्निजेष्टदेवताप्रणामपुरःसरमभिधेयं तात्पर्वं चैकेनैव वाक्येन परामृशति-नमस्कृत्येति ।
परां वाङ्मयाधिदेवतां पराख्यां शब्दब्रह्मणो ऽपृथग्भूतां शक्तिं परां वाचं देवीं त्रिविधविग्रहां बहिरुल्लिलासयिषया पश्यन्तीमध्यमावैखरीरूपेण प्रकारत्रयेणाधिष्टितशरीरां नमस्कृत्य निर्विघ्नचिकीर्षितग्रन्थसमात्पये तां प्रति कायवाङ्मनोभिः प्रह्वीभूय निजालङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति मङ्गलान्वययोजना ।
तथा चात्रोक्तलक्षणार्तविस्तरः-
ऽयूयं विमर्शरूपैव परमार्थचमत्कृतिः ।
सैव सारं पदार्थानां परा वागभिधीयते ॥
नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता ।
अनादिनिधना सैव सूक्ष्मा वागनपायिनी ॥
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेर्ऽथभावेन प्रक्रिया जगतो यतः ॥
वैखरी शब्दनिष्पत्तिर्मध्यमा स्मृतिगोचरा ।
द्योतिकार्थस्य पश्यन्ती सूक्ष्मा ब्रह्मैव केवलम्ऽ ॥
इत्यादिशास्त्रोक्तिक्रमेण सर्वत्र सदोदितायाः सूक्ष्मायाः परायाः शब्दब्रह्मणः शक्तेर्बहिरुन्मिषन्त्याः प्रथमो विवर्तः पश्यन्ती नाम ।
तथा चोक्तम्-
ऽअविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनीऽ ॥
इति ।
अस्यार्थः-अविभागा स्थानकारणप्रयन्तप्रकारेण वर्णानां विभागहीना अत एव संहृतक्रमा तथैवान्तःस्वरूपज्योतिः स्वयंप्रकाशा स्वस्यात्मनो रूपं ज्योतिश्च सर्वत्र हि सर्वविधायिनी शक्तिरेवेति वान्तःसूक्ष्मबीजादङ्कुरमिव बहिरुन्मिषन्ती किञ्चिदुच्छूना पराया मध्यमायाश्चावस्थां तटस्था पश्यतीति पश्यन्तीत्युच्यते ।
ततः परं तु-
ऽअन्तःसंकल्परूपा या क्रमरूपानुपातिनी ।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्ततेऽ ॥
एतत्कथयामीति विमर्शरूपा अन्तःसंकल्परूपा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्यवर्णा भिव्यक्तिरहिता क्रमरूपानुपातिनी भाननसिकवर्णोच्चारणक्रमेण द्वितीयो विवर्तो मध्यमारूपोजाते ।
मध्यमा किल द्वयोर्वाग्विवर्तयोः पश्यन्तीवैखरीसंज्ञयोर्मध्ये वर्तनान्मध्यमेत्युच्यते ।
तदनन्तरं च-
ऽस्थानेषु विवृत्ते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धनाऽ ॥
इति लक्षणात्स्थानकरणप्रयत्नक्रमव्यज्यमानः श्रोत्रग्राह्यदुन्दुभिवीणादिनादपरिचयो गद्गदाव्यक्तगकारादिविलाससमुञ्चयपदवाक्यात्मकस्तृतीयो विवर्तो वैखरीत्युच्यते ।
विशिष्टं खमाकाशं मुखरूपं राति गृह्णातीति विखरः प्राणवायुसंचारविशिष्टो वर्णोच्चारस्तेनाभिव्यक्ता वैखरीति ।
विखरे शरीरे भवा वैखरीति वा किचित् ।
सिद्धो मङ्गलार्थः ।
तथा चात्र पूर्वार्ध एव पुनरावृत्त्याभिधेयपदार्थान्वययोजना-यथा परां वाचमुत्तमकाव्यरूपतया काव्यात्मध्वनिसंज्ञाम् अभिधातात्पर्यलक्षणोत्तीर्णामुत्कृष्टाम् ।
देवीम् ऽदिवु क्रीटाविजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिस्वप्नगतिषुऽ इति यथायथं धाव्तर्थानामनुस्मरणात् शक्तिमतां कवीनां श्रोतृणां च स्वभावात्स्वेच्छया समुच्छलन्तीं क्रीडन्तीम् ।
तथा देवीं द्योतमानां द्योतनध्वननयोः शब्दं तत्संकीर्तितं चार्थमुपसर्जनीकृत्य वर्नामानाम् ।
तथा देवीं द्योतमानां द्योतनघ्वननयोः पर्यायत्वाद् ध्वनिसंज्ञाम् ।
तथा देवीं स्तुत्यां सर्वैः काव्यात्मत्वादभिवन्द्याम् ।

तथा देवीं व्यवहरन्ती सर्वत्र प्रचरितितां न तु क्वापि स्खलिताम् ।
तथा देवीं द्योतमानां श्रुतिमात्रेणैव परमानन्ददायिनीम् ।
तथा देवीं माद्यन्तीं कवेः सहृदयस्य च यथायथं करणावबोधघाभ्यां कमप्यहङ्कारं जनयन्तीम् ।
तथा देवीं कमनीयां सर्वैरभिलषणीयाम् ।
त्पिविधविग्रहां त्रिविधस्त्रिप्रकारो विग्रहो व्यतिरेकेण ग्राहो व्यतिरेकमूलः प्रमाकरणप्रकारो यस्यास्ताम् ।
तथा हि ऽगङ्गायां घोषःऽ इत्यादिवाक्येषु घोषस्य यच्छैत्यपावनत्वादिकं प्रतीयते तत्र नाभिधा ।
गङ्गादिशब्दानां शैत्याद्यर्थस्यावाचकत्वात् ।
न तात्पर्यात्मा ।
तात्पर्यशक्त्या ह्याधाराधेयभघावावगमार्थं परस्परमन्वयमात्र एव क्षीणत्वात् ।
न लक्षणा ।
मुख्यार्थबाधादिहेतुत्रितयाभावात् ।
तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्तचतुर्थकक्ष्यानिक्षित्पो व्यञ्जनव्यापिर इत्यादि सो ऽयमेवाग्रे विमृष्यति ।
अथ चव्यङ्गयस्य शब्दार्थोभयमूलत्वेन प्रसिद्धस्त्रिविधो विशेषणानां विग्राहो विशेषणानां भेदानां ग्रहो यस्या इति वा ।
एतादृशीं तां नमस्कृत्य मङ्गलाचरणरूपत्वेन मनागुद्दिश्य न तु सूत्रवृत्तिभ्यां तात्पर्यकथनादिलक्षणपरीक्षाविस्तारेण निर्णीय निजालङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति ।
अस्याभिप्रायः-तथा च ध्वनेर्मनागुद्देशमात्रमेव करोति ऽइह हि तावद्भामह-ऽइत्यादिना ।
तदेवत्तावदास्ताम् ।
निजेति ।
परकीयाणां सूत्राणां सूत्रणां तात्पर्यकथनानवबोधो ऽपि स्यादिति भावः ।
तथा न कैश्चिदपि परैरीद्दंशि सूत्राणि कृतानीत्यपि ध्वनितम् ।
तात्पर्यमिति ।
संक्षित्पार्थप्रकाशनमित्यर्थः ।
अन्यथा हि कथनापि ग्रन्थेन पारं न यायात् ।
ननु -
ऽआदिवाक्ये प्रयोक्तव्यमभिधेयप्रयोजने ।
प्रतिपादयितुं श्रोतृप्रवाहोत्साहसिद्धयेऽ ॥
इति नीत्या श्रोतृप्रवृत्त्यर्थ सर्वत्रैवादिवाक्ये ऽभिधेयप्रयोजनाद्यभिधीयत्ते ।
तच्चेह नोक्तमिति कथमत्र श्रोतॄणां प्रवृत्तिः स्यात् ।
मैवम् ।
अलङ्कारा ह्यत्राभिधेयाः ।
तेषामत्र साक्षादेवाभिधानात् ।
तदभिधायकं चेदमलङ्कारसर्वस्वाख्यं प्रकरणमित्यभिधानाभिधेययोर्नियमगर्भीकारेणार्थाक्षित्पो वाच्यवाचकभावलक्षणः संबन्धः ।
नह्येवंविधमेतभिधायकं प्रकरणान्तरमस्ति ।
तस्यान्विष्यमाणस्याप्युपलम्भयोग्यस्यानुपलम्भात् ।
अत एवात्रान्यालङ्कारग्रन्थवैलक्षण्योद्धोषणाय ऽतात्पर्यमुच्यतेऽइत्याद्युक्तम् ।
अभिधेयाश्चात्रालङ्काराः काव्यालङ्कारा न लौकिका इत्येतेषां काव्योपस्कृतिद्वारेण पारम्पर्येण-
ऽकाव्यं यशसेर्ऽथकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजेऽ ॥
इत्याद्युक्तनीत्या तदविनाभावस्वभावत्वादर्थाक्षित्पसर्वपुरुषार्थसिद्धिरूपा चतुर्वर्गावात्पिः प्रयोजनम् ।
तयोश्च साध्यसाधनभावलक्षणः संबन्धः ।
इति स्थितमेवादिवाक्यस्य श्रोतृश्रवणश्रद्धाविर्भावनिबन्धनत्वम् ।

रुअस्स्च्_0।2:
ननु यदीहालङ्कारा अभिधेयास्तर्हि तदलङ्कर्यो ऽप्य-भिधेयः ।
ऽअलङ्कारा अलङ्कार्यापेक्षाःऽ इति नीत्या स एवैषां को नाम यदुपस्कारकत्वेनैतत्स्वरूपमभिधीयत इत्याशङ्क्य तदवतरणिकामेव वक्तुमुपक्रमते-
इहेत्यादिना ।
स्तर्त् भूमिका
इह हि तावद् भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थे वाच्योपस्कारकतयालङ्कारपक्षनिक्षित्पं मन्यन्ते ।
तथाहि-पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन ऽस्वसिद्धये पराक्षेपःपरार्थे स्वसमर्पणम्ऽ इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः ।
रुद्रटेनापि भावालङ्कारो द्विधोक्तः ।
रूपकदीपकापह्नुतितुल्ययोगितादावुपमाद्यलङ्कारो वाच्योपस्कारकत्वेनोक्तः ।
उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता ।
रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः ।
तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव । [रुअस्स्_भू.1]
रुअस्स्च्_[भू.1]:
प्रभृतिना दण्ड्यादयः ।
तावच्छब्दो विप्रतिपत्त्यभावद्योतकः ।
चिरन्तनेत्यादि ।
ध्वनिकारमतमेभिर्न दृष्टमिति भावः ।
प्रतीयमानमिति ।
वाच्यव्यतिरिक्तत्वेन स्वसंवेदनसिद्धमपीकत्यर्थः ।
अर्थमिति ।
विश्रान्तिस्थानतया परमोपादेयतालक्षणम् ।
वाच्योपस्कारकतयेतिष ।
वाच्योपस्कारकत्वं ह्यलङ्काराणामात्मभूतम् ।
अलङ्कारपक्षनिक्षित्पमिति ।
समग्रालकारान्तर्भूतं न पुनस्तद्व्यतिरिक्तमित्यर्थः ।
मन्यन्त इति ।
तथात्वेन मन्यन्ते न पुनस्तथा संभवतीत्यर्थः ।
नह्यभिमननमात्रेणैव भावानामन्यथाभावो भवतीति भावः ।
एतदेव दर्शयति-तथाहीत्यादिना ।
तैर्वस्तुमात्रं गभ्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति संबन्धः ।
वस्तुमात्रं न पुनरलङ्कारा रसश्च ।
स्वसिद्धय इति ।
ऽकुन्ताः प्रविशन्तिऽ इत्यादौ कुन्तैरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते ।
तैर्विना तेषां प्रवेशासिध्देः ।
ऽगङ्गायां घोषःऽ इत्यादौ तु गङ्गाशब्दः परत्रतटे घोषाधिकरणतासिद्धये स्वात्मानमर्पयति ।
स्वयं तस्य घोषाधिकरणत्वासंभवात् ।
यथायोगमिति ।
क्वचिद्धि वाच्योर्ऽथः स्वसिद्धये परं प्रतीयमानमर्थमाक्षिपति ।
क्वचिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे स्वं समर्पयति ।
तेन यत्र यादृत्कत्र तादृगेव योज्यमित्यर्थः ।

रुअस्स्च्_[भू.1अ]
तत्र पर्यायोक्तं यथा-
ऽअधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्विशल्यां सौमित्रेरयमुपनिनायौषधिवनात् ।
इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥
ऽअत्र राक्षसगणवृत्तान्तो वाच्यः सन् स्वसिद्धये परं कारणरूपमरिपलायनाद्याक्षिपति ।
तत्पलायनाद्यन्तरेण राक्षसवृत्तान्तस्यासंगतेः ।
अप्रस्तुतप्रशंसा यथा-
ऽप्राणा येन समर्पितास्तव वलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितो ऽसि विदधे यस्ते सपर्यामपि ।
तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसेऽ ॥
अत्र वेतालचरितमप्रस्तुतं प्रकरणादिवशेन स्वयमनुपपद्यमानं सत् प्रस्तुते कृतघ्नवृत्तान्ते स्वं समर्पयति ।
समासोक्तिर्यथा-
ऽदन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।
दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानिऽ ॥
अत्र बोधिसत्त्वे नायकव्यवहारे न संभवतीति स्वसिद्ध्यर्थं नायकत्वमाक्षिपति ।
आक्षेपो यथा-
ऽकिं भणिमो भण्णै कित्ति अध किं वा इमेण भणिएण ।
भण्णिहिसि तहवि अहवा भणामि किं वा ण भणिओसिऽ ॥
(ऽकिं भणमो भण्यते कियदिवाथ किं वानेन भणितेन ।
भणिष्यते तथाप्यथवा भणामि किंवा न भणितो ऽसिऽ) ॥
अत्र वक्ष्यमाणविषयो भणननिषेधो वाच्यः सन् वक्तुमेवोपक्रान्तस्य निषेधानुपपत्तेः स्वयमविश्राम्यन् स्वात्मसमर्पणेन त्वां प्रति मरिष्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रयमर्थानतरमाक्षिपति ।
यत्त्वत्रान्यैः ऽवाच्योर्ऽथः स्वसिद्धयेर्ऽथान्तरमाक्षिपतिऽइत्युक्तं तदयुक्तमेव ।
तथात्वे हि निषेध एव पर्यवसितः स्यान्न निषेधाभास इत्याक्षेपालङ्कार एव न स्यात् ।
ऽआमुखावभासमानो हि निषेधऽ आक्षेपलक्षणम् ।
न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युक्तः ।
व्याजस्तुतिर्यथा-
ऽइहिणं पदुणोपहुणो पहुत्तणं किं चिरन्तनपहूण ।
गुणदोसा दोसगुणा एहिं कआ णहु कआ तेहिंऽ ॥
(ऽअधुना प्रभवः प्रभवः प्रभुत्वं किं चिरन्तनप्रभूणाम् ।
गुणदोषा दोषगुणा एभिः कृता न खलुः कृतास्तैःऽ) ॥
अत्र चिरन्तनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति ।
तद्गतत्वेन वस्तुदर्शिताया निन्दाया असंभवात् ।
एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति ।
तस्या अपि विपरीततया तद्गतत्वेनासंभवात् ।
यत्पुनरत्रान्यैः स्वसिद्धये पराक्षेपो व्याख्यातस्तदुपेक्ष्यमेव ।
यतो ऽत्र चिरन्तनानां स्युत्याक्षेपेण एव पर्यवसितः स्यादिति नैतद्युक्तम् ।
किं च लक्षणायामपि स्वसिद्धये पराक्षेपो न युक्तः ।
तथात्वे हिलक्षणायाः स्वरूपहानिः स्यात् ।
वाच्यलक्षणस्यैव स्वस्य सिद्धत्वान्मुख्यार्थबाधाभावात् ।
न चैकदा एकस्य बाधः सिद्धिश्चेति वक्तुं युक्तम् ।
विप्रतिषिद्धं ह्येतत् ।

वाच्यस्यैव यद्यत्रसिद्धिस्तदभिधैव स्यान्न लक्षणा ।
तस्या हि मुख्यार्थबाध एव जीवितम् ।
ऽकुन्ताः प्रविशन्तिऽ इत्यादौ च कुन्तानां स्वयं प्रवेष्टुमसंभवान्मुख्यार्थबाध एवेति परस्य कुन्तवद्रूपस्य लक्ष्यस्यैवार्थस्य प्राधान्यम् ।
अतश्च लक्षणायां बाधितः सन्मुख्यो ऽर्थः परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तम् ।
ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिध्यर्थं परस्य लक्ष्यस्याक्षेपः प्रतीयत यतीत्येव युक्तम् ।
ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिध्यर्थः परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तम् ।
ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिध्यर्थं परस्य लक्ष्यस्याक्षेपः प्रतीयत इति तत्र किं प्रतिपत्तव्यम् ।
इदं प्रतिपत्तव्यम्-अत्र हि लक्षणाया एव नावकाशः ।
तत्र हि कथमहं स्यामिति वाच्यं सत् कार्यं तदविनाभावात्परं कारणमाक्षिपतीत्याक्षेपेणैव सिद्धेस्तस्या अनुपयोगः ।
ऽगौरनुबन्ध्यःऽइत्यत्र यथा कथं मे श्रुतिचोदितमनुबन्धनं स्यादिति जात्या व्यक्त्यविनाभावाद्व्यक्तिराक्षिप्यते नतु लक्ष्यते तथैवात्रापि कार्चकारणयोर्ज्ञेयम् ।
एवं समासोक्तावपि नायकव्यवहारस्तदविनाभावित्वादेव नायकत्वमाक्षिपतीत्चत्रापि लक्षणामूलत्वं नाशाङ्कनीयम् ।
अन्थकृता पुनरेतञ्चिरन्तनमतानुवादपरतयोक्तम् ।
अस्माभिस्तु प्रसङ्गाद्वस्तु पर्यालोचितमित्यलं बहुना ।
रुअस्स्च्_[भू.1ब्]
उपमेयोपमा यथा-
ऽरजोभिः स्यन्दनोद्धतैर्गजैश्च घनसंनिभैः ।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्ऽ ॥
अत्र द्वयोः परस्परमुपमानोपमेयत्वं वाच्यं सत् स्वयमनुपपद्यमानमुपमानान्तरविहलक्षणे परत्र वस्त्वन्तरे स्व समर्पयति ।
अनन्वयो यथा -
ऽभवानिव भवानेव भवेद् यदि परं भच ।
स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिःऽ ॥
अत्रैकस्यैवोपमानोपमेयभावो वाच्यः सन्द्वितीयमब्रह्मचजार्यभावे परत्र वस्त्वन्तरे स्वं समर्पयति ।
आदिशब्दः प्रकारे ।
तेनानिष्टविध्याभासाक्षेपादेर्ग्रहणम् ।
यथा-
ऽभवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां तनुरपि न ते दोषो ऽस्माकं विविस्तु पराङ्मुखः ।
तव यदि तथा रुढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नो व्रीडा गते हतजीवितेऽ ॥
अत्र कान्तप्रस्थानविधिर्वाच्यः सन्निषेद्धमेवोपक्रान्तत्य विधानानुपपत्तेः स्वयमविश्रान्तः स्वसमर्पणेन निषेधमाक्षिपति ।
एवं द्विविधया भङ्ग्या गम्यमानं वस्तुमात्रं वाच्योपरस्कारकमेवोत्युक्तम् ।
एवमपि प्रतीयमानस्यार्थस्य विविक्तविषयान्तरोपालम्भादलङ्कारान्तर्भावो न सिध्यतीत्याशङ्क्याह-रुद्रटेनेत्यादि ।
द्विधेति ।
गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः ।
यदाह-
ऽयस्य विकारः प्रभवन्नप्रतिबद्धेन हेतुना येन ।
गमयति तदभिप्रायं तत्प्रतिबन्धं च भावो ऽसौ ॥
ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥
अभिधेपमभिदधानं तदेव तदसदृशगुणदोषम् ।
अर्थान्तरमवगमयति यद्वाक्यं सो ऽपरो भावः ॥
एकाकिनी यदबला तरुणी तथाहमस्मद्गृहे गृहपतिः स गते विदेशम् ।

कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थऽ ॥
इति ॥
यद्वा द्विधेति पूर्ववदेव लक्षणाद्वयाश्रयेण व्याख्येयम् ।
तेनाद्ये स्वसिद्धये पराक्षेपः, परत्र तु अपरार्थं स्वसमर्पणम् ।
यत्त्वत्रान्यैर्भावैर्निर्वेदादिभिरुपलक्षितो वाच्यप्रतीयमानत्वेन द्विविधा भावालङ्कारो व्यख्यातस्तुदुत्सूत्रमेव ।
रुद्रटेन तथात्वेन तस्याप्रतिपादनात् ।
तत्रापि च वस्तुमात्रस्य वाच्योपस्कारकत्वाभिधानसमये वक्तुमुचितत्वात् ।
तदेवं गुणीभूतागुणीभूतत्वेन द्विप्रकारं वस्तु तावद्वाच्योपस्कारकत्वेन प्रतिपादितम् ।
रुअस्स्च्_[भू.1च्]
इदानीमलङ्कारस्यापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिपादयति-रूपकेत्यादिना ।
तत्र रूपक यथा -
ऽभूमभ्रुकुटिपन्नगीफणमणिः कायस्य चण्डं चिता- कुण्डं कुण्डलितेन्दुनालवलयप्रभुंशि रक्तोत्पलम् ।
घ्राणस्फाटिकमल्लिकापरिचिते भालाग्रशालाजिरे- दीप्रा दीपशिखा शिवस्य नयनं कार्शानवं पातु नःऽ ॥
अत्र नयनादीनां मणिप्रभृतीनां चोपमा वाच्योपस्कारायावगम्यते ।
तां विना सादृश्याप्रतिपत्तेः ।
रुअस्स्च्_[भू.1द्]
दीपकं यथा-
ऽपाउअबन्धं पढिउंवन्धेउं तहअ कुज्जकुसुमाइ ।
पोढमहिलं अ रमिउं विरलच्चिअ के वि जाणन्तिऽ ॥
अत्रक प्राकृतबन्धपाठादेरुपमा वाच्योपस्कारायावगम्यते ।
प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धनात् ।
अपह्नुतिर्यथा-
ऽद्वगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलम् ।
अधरमर्धसमर्पितमाननाद् व्यघटयन्त कथञ्चन योषितःऽ ॥
अत्र भुजादीनां सादृश्यावगमादुपमा वाच्योपस्कारायावगम्यते ।
तुल्ययोदितादावित्यादिशब्दान्निदर्शनादेर्ग्रहणम् ।
उपमादीत्यादिशब्दादुपमेयोपमादीनाम् ।
तत्तु यथा -
ऽप्रवातनीलेत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिःऽ ॥
अत्र वाच्याया निदर्शनाया उपस्कारत्वेनोपमेयोपना गम्यते ।
तामन्तरेणासंभवद्वस्तुसंबन्धत्वेन वाच्यस्याविश्रान्तेः ।
अतश्चात्रालङ्कारो गम्यमानः स्थितो न वस्तुमात्रम् ।
तेन पूर्वत्र यदादिग्रहणं सफलयितुमन्यैरेतदुदाहृतं तदयुक्तमेव ।
तत्र वस्तुमात्रस्य वाच्योपस्कारकत्वेन प्रतिपिपादयिषितत्वात् ।
वाच्योपस्कारकत्वेनोत्प्रेक्षा कथितेतिसमन्वयः ।
सा तु -
ऽमहिलासहस्सभरिए तुय हिअए सुहअ सा अमायन्ती ।
दिअहं अणण्णअम्मा अङ्गं तणुअं पि तणुएइऽ ॥
इति ।

(ऽमहिलासहस्त्रभरिते तव हृदये सुभग! सा अन्तीमा ।
दिवसमनन्यकर्मा अङ्गं तनुकमपि तनूकरोतिऽ) ॥
तदित्थमलङ्कारो ऽपि प्रतीयमानो वाच्यशोभाहेतुत्वेनोक्तः ।
रुअस्स्च्_[भू.1ए]
अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह-रसवदित्यादि ।
प्रभृतिशब्दादूर्जस्व्यादयः ।
आदिशब्दाच्च तदाभासादयः ।
तत्र रसवदलङ्कारो यथा-
ऽकृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्ये ऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता ।
मद्दृश्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचनेऽ ॥
अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानुभावव्यभिचारिसंयोगाद् रसीभूतः सन् वाच्योपस्कारकः ।
तत्संवलितत्वेन वाच्यस्य सचमत्कार प्रतिपत्तेः ।
रुअस्स्च्_[भू.1f]
प्रेयोलङ्कारो यथा-
ऽतिष्ठोत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विवुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति को ऽयं विधिःऽ ॥
अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव ।
रुअस्स्च्_[भू.1ग्]
ऊर्जस्व्यलङ्कारो यथा-
ऽहग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशति- र्निःसंधौ परिरम्भणे रतिरथो दोर्मण्डली दृश्यताम् ।
प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि!सज्जा पुरः पौलस्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम्ऽ ॥
अत्र सीतां प्रति रावणस्य रतिरनोचित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः ।
अन्यत्तु स्वयमभ्यूह्यम् ।
रुअस्स्च्_[भू.1ह्]
एतदेवोपसंहरति-तदित्थमित्यादिना ।
त्रिविधमिति ।
पर्यायोक्तादौ वस्तु, रूपकादावलङ्कारः, रसवदादौ रसः ।
तदेवं चिरन्तनैः प्रतीयमानस्यालङ्कारान्तर्भाव एव तावदुक्तः ।
तदुपस्कार्यः पुनरात्मा कैश्चिदपि नाभ्युपगतः ।
वामनेन तु सादृश्यनिबन्धनाया लक्षणाय वक्रोक्त्यलङ्कारत्वं ब्रुवता कश्चिद्ध्वनिभेदो ऽलङ्कारतयैवोक्तः ।
केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता ।
उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम् ।
विषयमात्रेण भेदप्रतिपादनात् ।
संघटनाधर्मत्वेन चेष्टेः ।
तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । [रुअस्स्_भू.2]
रुअस्स्च्_[भू.2]:
वामनेन प्रतीयमानस्यालङ्कारान्तर्भावमभिदधतापि तदुपस्कार्यं आत्मा कश्चिदुक्त इत्याह-वामनेनेत्यादि ।
तुशब्दः पूर्वेभ्यो व्यतिरेकद्योतकः ।
आत्मनो ऽपि प्रतिपादकत्वात् ।
ब्रुवतेति ।

यदाह-ऽसादृश्याल्लक्षणा वक्रोक्तिःऽ इति ।
एतदेवोदाजहार च ऽउन्मीमीलकमलं सरसीनां कैरवं च निमिमील मुगुर्तम्ऽ इति ।
कश्चिद्ध्वनिभेद इति ।
ऽअविवक्षितवाच्यादिःऽ ।
केवलमिति ।
यदि परमित्यर्थः ।
गुमेति ।
यदाह-ऽविशिष्टा पदरचना रीतिःऽ इति ।
काव्यात्मकत्वेनेति ।
यदाह-ऽरीतिरात्मा काव्यस्येऽति काव्यत्वेभ्युपगताया रीतेः ऽतदतिशयहेतवस्त्वलङ्काराःऽ इत्याद्युक्त्यान्तर्भावितध्वनयो ऽलंङ्कारा उपस्कारका इत्येतन्मतम् ।
रुअस्स्च्_[भू.2अ]:
अन्यैः पुनरेतदपि प्रत्युक्तमित्याह-उद्भटादिभिरित्यादिना ।
प्रायश इति ।
बाहुल्येनेत्यर्थः ।
विषयमात्रेणेति ।
भिन्नकक्ष्याणां ह्युपस्कार्योपस्कारकत्वस्यानुपपत्तेः ।
तथात्वे चालङ्कारामपि गुणोपस्कार्यत्वं प्रसज्यते ।
समानन्यायत्वात् ।
तद्गुणालङ्काराणां तुल्यत्ववादिन एवौद्भटाः ।
इत्थमनेन वाच्याश्रयाणामलङ्काराणां मध्य एव ध्वनेरन्तर्भावादिभिधाव्यापारगोचर एव ध्वनिः, न पुनस्तद्व्यतिरिक्तः कश्चिद्ध्वनिर्नामेतिचिरन्तनानां मतमित्युक्तम् ।
इदानीं यदप्यन्यैरस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयितुमाह-वक्रोक्तीत्यादि ।
वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेवप्राधान्यात्काव्यजीवितमुक्तवान् ।
व्यापारस्य प्राधान्यं च [काव्यस्य] प्रतिपेदे ।
अभिधानप्रकारविशेषा एव चालङ्काराः ।
सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः ।
उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः ।
केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् । [रुअस्स्_भू.3]
रुअस्स्च्_[भू.3]:
वैदग्ध्येत्यनेन वक्रोक्तेः स्वरूपमुक्तम् ।
यदाह-ऽवक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यत्ऽ इति ।
एवकारो ऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः ।
काव्यजीवितमिति काव्यस्यानुप्राणकम् ।
तां विना काव्यमेव न स्यादित्यर्थः ।
यदाह-विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायतेऽइति ।
व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः ।
कविप्रतिभानिर्वर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवान्वास्यात्र प्राधान्यं विवक्षितम् ।
अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयम् ।
रुअस्स्च्_[भू.3अ]:
अलङ्कारा इति ।
तेनोक्त इति शेषः ।

एवकारश्चिरन्तनोक्तध्वनिप्रकारविशेषन्यवच्छेदकः ।
सत्यपीति ।
सदपि प्रतीयमानमनादृत्येत्यर्थः ।
व्यापाररूपेति वक्रस्वभावेत्यर्थः ।
भणितिरित्युक्तिः कवीति ।
तत्रैव कविः संरब्ध इत्यर्थः ।
तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न चारेत्यादि ।
उपचारवक्रतादीनामेव मध्ये ध्वनिरन्तर्भूत इति तात्पर्यार्थः ।
यदाह-
ऽयत्र दूरान्तरे ऽन्यस्मात्सामान्यमुपचर्यते ।
लेशेनापि भवेत्कर्तुं किञ्चिदुद्रिक्तवृत्तिताम्ऽ ॥
यन्मूला सरसोल्लेखा रूपकादिरलङ्कृतिः ।
उपचारप्रधानासौ वक्रता काचिदिष्यतेऽ ॥
इति ।
एतामेवोदाजहार च-
ऽगअणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं ।
निरहङ्कारमिअङ्को हरन्ति नीलाओं अ णिसाओऽ ॥
(ऽगगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निशाःऽ) ॥
अत्र मदनिरहङ्कारत्वे औपचारिके इत्युपचारवक्रता ।
आदिपदेन क्रियावक्रतादीनामपि ग्रहणम् ।
एवं सर्वो ऽपि ध्वनिप्रपञ्चो वक्रोक्तिभिरेव स्वीकृतः सन्स्थित एव ।
यदि परं तस्य प्राधान्यमेव नास्तीत्याह-कवेलमित्यादि ।
तदीयमिति ।
वक्रोक्तिजीवितकारसंबन्धीत्यर्थः ।
तदित्थं लक्षणामूलवक्रोक्तिमध्यान्तर्भावाद्ध्वनेरेव तत्त्वं प्रतिपादितम् ।
रुअस्स्च्_[भू.3ब्]:
कैश्चिदप्यस्य वागविषयत्वादलक्षणीयत्वमुक्तमित्याह- भट्टनायकेत्यादि ।
भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यंशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् ।
तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायोव्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । [रुअस्स्_भू.4]
रुअस्स्च्_[भू.4]:
प्रौढोक्त्येति ।
न पुनर्लक्षणकरणेन ।
अत एवोक्तेः प्रौढत्वं यल्लक्षयितुमशक्यैस्तस्याप्यभ्युपगमः ।
काव्यांशत्वमिति न पुनः काव्यात्मत्वम् ।
यदाह-
ऽध्वनिर्नामापरो यो ऽपि व्यापारो व्यञ्जनात्मकः ।
तस्य सिद्धे ऽपि भेदे स्यात्काव्यांशत्वं न रूपिताऽ ॥
इति ।
व्यापारस्येति ।

कविकर्मणः ।
अन्यथा शब्दप्रधानेभ्यो वेदादिभ्योर्ऽथप्रधानेभ्यश्चेतिहासादिभ्यः काव्यस्य वैलक्षण्यं न स्यात् ।
तदुक्तम्-
ऽशब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।
अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ॥
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत्ऽ ॥
इति ।
तत्रापीति ।
कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः ।
ऽअभिधा भावना चान्या दद्भोगीकृतिरेव चऽ इति काव्यं तावत् त्र्यंशं तेनोक्तम् ।
तत्रापि-
ऽतात्पर्याशक्तिरभिधा लक्षणानुमिती, द्विधा ।
अर्थापत्तिः क्वचित्तन्त्रं समासोक्त्याद्यलङ्कृतिःऽ ॥
ऽरसस्य कार्यता भोदो व्यापारान्तरबाधनम् ।
द्वादशेत्थं ध्वनेरस्य स्थैता विप्रतिपत्तयःऽ ॥
इति ।
नीत्या बहवो विप्रतिपत्तिप्रकाराः संभवन्ति, तथापि
ऽकाव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व- स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।
केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयम्ऽ- इत्युक्तनीत्यैव ध्वनेर्विप्रतिपत्तिप्रकारन्नयमिह प्राधान्येनोक्तम् ।
रुअस्स्च्_[भू.4अ]:
एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निराकुर्वन् ध्वनेरेव काव्यात्मत्वं साधयति- ध्वनिकार इत्यादिना ।
ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद् व्यापारस्य च वाक्यार्थत्वाभावाद् वाक्यार्थस्यैव च व्याङ्ग्यरूपस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्याद् विश्रान्तिधामत्वादात्मत्वं सिध्दान्तितवान् ।
व्यापारस्य विषयमुखेन स्वरुण्प्रतिलम्भात् तत्प्राधान्येन प्राधान्यात् स्वरूपेण विचार्यत्वाभावाद् विषयस्यैव समग्रभरसहिष्णुत्वम् ।
तस्माद् विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः,यस्य गुणालङ्कारकृतचारुत्वपरिग्रहसाभ्राज्यम् ।
रसादयस्तु जीवितभूता नालङ्कारत्वेनवाच्याः ।
अलङ्काराणामुपस्कारकत्वाद्,रसादीनां च प्राधान्येनोपस्कार्यत्वात् ।
तस्माद् व्यङ्ग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः ।
व्यञ्जनव्यापारस्य सर्वैरनपह्नुतत्वात् तदाश्रयेण च पक्षान्तरस्याप्रतिष्टानात् । [रुअस्स्_भू.5]
रुअस्स्च्_[भू.5]:
समयापेक्षार्थावगमशक्तिरभिधा ।
सामान्यानां परस्परान्वितत्वेन विशेषार्थावबोधनशक्तिस्तात्पर्यम् ।
मुख्यार्थबाधादिसहकार्यपेक्षार्थंप्रतिभासनशक्तिर्लक्षणा ।
एतद्व्यापारत्रयादुत्तूर्णस्य तदतिरिक्तस्येत्यर्थः ।
तथा च ऽगङ्गायां घोषःऽ इत्यत्र गङ्गाशब्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे गृहनिकुरम्बे च संकेतितौ ।
सामान्य एवोद्योगात् ।
विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात् ।
ततश्चाभिधया जलप्रवाहमात्रं गृहनिकुरम्बमात्रं च प्रतीतिमित्येका कक्ष्या ।
एतत्प्रतिपाद्यान्यप्रतिपादनायाप्यभिधा न समर्था ।
ऽविशेष्यं नाभिधा गच्छेत् क्षीणशत्किर्विशेषं गमयन्ति हिऽ इति न्यायात्तात्प्रर्यशक्त्या सामान्यान्याधाराधेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरयन्तीति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्वितीया ।
जलप्रवाहस्य च घोषाधिकरणत्वमयुक्तमिति प्रमाणान्तरबाधितः सन् गङ्गाशब्दस्तदधिकरणयोग्यं तटं लक्षयतीति तृतीया ।

तत्र तावत् ऽमुख्यार्थबाधे तद्योगे रुढितो ऽथ प्रयोजनात् ।
अन्योर्ऽथो लक्ष्यते यत् सा लक्षणाऽरोपिता क्रियाऽ ॥
इति ॥
नीत्या लक्षणा त्रितयसंनिधावेव भवति ।
तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणान्तरमूला ।
यश्च सामीप्यादिसंबन्धः स च प्रमाणान्तरावगम्य एव ।
यत्पुनरिदं घोषस्य शेत्तयपावनत्वादिलक्षणं प्रयोजनं प्रतीयते तच्छब्दान्तरानुक्तं प्रमाणान्तराप्रतिपन्नं च कुत आगतम् ।
न तावत्प्रत्यक्षादेव तत्प्रतीतिः, अस्मादेव शब्दादवगमासिद्धेः ।
शब्दार्थे च तस्याप्रवृत्तेः ।
नाप्यनुमानात् ।
सामीप्ये ऽपि शैत्यपावनत्वादेरसंभवादनैकान्तिकत्वात् ।
न स्मृतिः ।
तदनुभवाभावात् ।
सत्यमपि वा तस्यां नियमस्मरणं न स्यात् ।
अस्मादेव च शब्दादेतदेव बुध्यत इति को हेतुः ।
तस्मादस्यैव शब्दस्यैष व्यापारो ऽभ्युपगन्तव्यः ।
निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात् ।
स तावन्नाभित्मा ।
समयाभावात् ।
न तात्पर्यात्मा ।
तस्यान्वयप्रतीतावेव परिक्षयात् ।
न लक्षणात्मा ।
मुख्यार्थबाधाद्यभावात् ।
तस्मादभिधातात्पर्यलक्षणाव्यक्तिरिक्तश्चतुर्थकक्ष्यानिक्षित्पो व्यङ्ग्यनिष्टोव्यञ्जनाव्यपारो ऽभिहितान्वयवादिनावश्याभ्युपगन्तव्यः ।
अन्विताभिधानवादिनापि यत्परः शब्दः स शब्दार्थ इति शरवदभिधाव्यापारमेव दीर्घदीर्घमिच्छतापि नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति निमित्तपरिकल्पने ऽपि समग्रैवेयं प्रक्रियानुसारणीयेवेत्युभयथापि सिद्ध एव व्यञ्जनव्यापारः ।
एवच्च गहनगहनमिति मनगेव सिद्धरसन्यायेनेहोक्तम् ।
रुअस्स्च्_[भू.5अ]:
आदिशब्दात्प्रत्यायनावगमनादीनामपि ग्रहणम् ।
अवश्येति ।
तेन विना व्यङ्ग्यस्यार्थत्त्यासंग्रहणात् ।
व्यापारस्येति ।
व्यञ्जनात्मिकायाः क्रियाया इत्यर्थः ।
सा खलु साध्यमानत्वेन पूर्वापरीभूतावयवत्वान्न स्वरूपेणोपलभ्यत इति विचारपदविमेव स्वयमुपारोढुं नोत्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः ।
यद् वक्ष्यति-ऽव्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात् तत्प्राधान्येन प्राधान्यात्स्वरूपेण विचार्यत्वाभावाद् विषयस्यैव समग्रभरसहिष्णुत्वम्ऽ इति ।
उपस्कर्तव्यत्वेनेति ।
तत्परतयावस्यानेनेत्वथः ।
यदुक्तम्-
ऽवाच्यवाचकचारुत्वहेतूनां विवधात्मनाम् ।
रसादिपरता यत्र स ध्वनेर्विषयो मतःऽ ॥
इति ॥

अत एव विश्रान्तिधामत्वादित्युक्तुम् ।
आत्मत्वमिति ।
सारभूतत्वमित्यर्थः ।
अअतश्च तेन विना काव्यं काव्यमेव न स्यादिति तात्पर्यम् ।
नहि निर्जीवं शरीरं क्वाप्युपयुक्तम् ।
ननु यद्येवं दर्हि ऽगङ्गायां घोषःऽ इत्यत्रापि व्यङ्ग्यस्य सद्भावात् काव्यत्वं प्रसज्यते ।
नैतत् ।
इह यद्वदात्मनो व्यापकत्वाच्छरीरे घटादौ वर्तमानत्वे ऽपि करणादिविशिष्टे शरीरे एव जीवव्यवहारो न घटादौ, तद्वदस्यापि विवधगुणालङ्कारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो नान्यत्रेति न कश्चिद्दोषः ।
ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धम्,इह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्कक्याह-व्यापारस्येत्यादि ।
विषयमुखेनेति ।
यथा द्योदनादेर्विक्लित्त्यामिति किमेवदित्याशङ्कायाह-व्यपारस्येत्यादि ।
विषयमुखेनेति ।
यथा ह्योदनादेर्विक्लित्त्यययादिमुखेन पाकादेः क्रियायाः स्वरूपोपल्लम्भः ।
तत्प्राधान्येनेति ।
विषयप्रधानत्वेनेत्यर्थः ।
तेन व्यापारस्य प्राधान्यमुपचरितमिति भावः ।
स्वरूपेणोति ।
स्वरूपं हि तस्य साध्यमानत्वादि विचारवितुमशक्यम् ।
सिध्दस्य हि विचारा भवतीति भावः ।
एवकारो व्यञ्जनव्यापारव्यवच्छेदकः ।
समग्रेति ।
समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः ।
एतदेवोपसंहरति-तत्सादित्यादिना ।
यस्येति ।
व्यङ्ग्यनाम्नो रसाच्चामनो विषयस्य ।
गुणालङ्कार कृत-रुत्वेति ।
गुणानां-
ऽवाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् ।
रसादिपरता यत्र स ध्वनेर्विषयो मतःऽ ॥
इति ॥
अत एव विश्रान्तिधामत्वादित्युक्तम् ।
आत्मत्वमिति ।
सारभूतत्वमित्यर्थः ।
अतश्च तेन विना काव्यं काव्यमेव न स्यादिते तात्पर्यम् ।
नहि निर्जूवं शरीरं काप्युपयुक्तम् ।
ननु यद्येवं तर्हि ऽगङ्गायां घोषःऽ इत्यत्रापि व्यङ्यस्य सद्भावात् काव्यत्वं प्रसज्यते ।
नैतत् ।
इहयदूदात्मनो व्यापकत्वाच्छ्ररीरे घटादौ वर्त्तमानत्वे ऽपि करणादिविशिष्टे शरीर एव जीवव्यवहारो न घटादौ, तद्वदस्यापि विविधगुणालङ्कारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो नान्यत्रेति न कश्चिद्दोषः ।
ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धम्,इह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्क्याह-व्यापारस्येत्यादि ।
विषयमुखेनेति ।

यथा ह्योदनादेर्विक्लित्त्यादिमुखेन पाकादेः क्रियायाः स्वरूपोपलभ्भः ।
तत्प्राधान्येनेति ।
विषयप्रधानत्वेनेत्यर्थः ।
तेन व्यापारस्य प्राधान्यमुपचरितमिति भावः ।
स्वरूपेणेति ।
स्वरूपं हि तस्यसाध्यमानत्वाद् विचारयितुमशक्यम् ।
सिद्धस्य हि विचारा भवतीति भावः ।
एवकारो व्यञ्जनव्यापारव्यवच्छेदकः ।
समग्रेति ।
समग्रस्य हि विचारा भवतीति भाव ।
एवकारो व्यञ्जनव्यापारव्यवच्छेदकः ।
समग्रेति ।
समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः ।
एतदेवीपसंहरति-तत्स्मादित्यादिना ।
यस्येति ।
व्यङ्ग्यनाम्नो रसाद्यत्मनो विषयस्य ।
गुणालङ्कारकृत- एत्वेति ।
गुणानां-
ऽये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाःऽ ॥
[का. प्र. 8] इत्यादिनीत्या साक्षादेव तद्धर्मत्त्वात् ।
अलङ्कारणामपि-
ऽउपकुर्वन्तु तं सन्तं ये ऽङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्ते ऽनुप्रासोपमादयःऽ ॥
[का. प्र. 8] इत्यादिनीत्या शब्दार्थलक्षणाङ्गातिशयद्वारेण तदुपस्कारकत्वात् ।
अलङ्काराणां च रसादिरूपं ध्वञ्ज्यमर्थमलङ्कुर्वतां मुख्यया वृत्त्यालङ्काकरत्वम्,अलङ्कार्यसद्भावनिबन्धनत्वात् तस्य, रसाद्यात्मन एव च व्यङ्ग्यस्यालङ्कार्यत्वेन प्रतिष्ठानात् ।
अत एव च यत्रस्फुटव्यङ्ग्यार्थरहितत्वं तत्र ऽगुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मताऽ[का.प्र.8] इत्यादिनीत्या शब्दार्थमात्रनिबन्धनत्वेनोक्तिवैचित्र्यमात्रपर्यवसितत्वादेषां गौणमलङ्कारत्वम् ।
यदभिप्रायेणैव च चित्राख्यकाव्यभेदप्रकारत्वमलङ्काराणां निरूपयिष्यते ।
अत एवानुप्रासादयो ऽलङ्काराश्चित्रभित्याद्यन्यैरुक्तम् ।
स च प्रतीयमानोर्ऽथो यद्यपि वस्त्वलङ्काररसत्वेन त्रिविधः, तथापि [तेन विना काव्यात्मत्वाभावात्] मुख्यत्वेन रसत्यैवात्मत्वं युक्तम् ।
अतश्च वस्त्वलङ्कारयोक्यदलङ्कारपक्षनिक्षित्पत्वमन्यैरुक्तं तत्तावदास्ताम्, काव्यात्मनो रसस्य पुनरलङ्कारत्वमत्यन्तमेवावाच्यमित्याह-रसादय इत्यादि ।
आदिग्रहणाद् भावतदाभासादीनां ग्रहणम् ।
न वाच्या इति ।
वस्तुमयुक्ता एवेत्यर्थः ।
अलङ्कार्यंस्यालङ्कारत्वानुपपत्तेः ।
तस्य चालङ्कारत्वकथने ऽलङ्कार्यान्तरं प्रसज्यते ।
तेन विनालङ्काराणामनुपपत्तेः ।
एतदेवोपसंहरति-तस्मादित्यादिना ।
व्यङ्ग्य इति रसादिरूपः ।
तस्यैवोपक्रान्तत्वात् ।

वाक्यार्थीभूत इति ।
अवाक्यार्थीभूतस्तु रसादिरलङ्कारो ऽपि स्यात् ।
यदुक्तम् -
ऽप्रधाने ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिःऽ ॥
इति ॥
एतच्च रसवदाद्यलङ्कारप्रस्ताव एव निर्णेष्यामः ।
इतिशब्दः प्रमेयपरिसमात्पौ ।
एतदेव युक्तमित्याह-एष एवेत्यादि ।
सर्वैरिति ।
अवाक्यार्थविद्भिरसहृदयप्रायैरित्यर्थः ।
पक्ष्यान्तरस्येति ।
तत्र तावद्वाच्यवाचकमात्राश्रयिणामलङ्काराणां मध्ये व्यङ्ग्यव्यञ्जकभावसमाश्रयेण व्यवस्थितत्वादस्यान्तर्भावो न युक्तः ।
यदुक्तम्-
ऽवङ्ग्यव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः ।
वाच्यवाचकचारुत्वहेत्वन्तः पतिता कुतःऽ ॥
इति ॥
लक्षणायामप्यस्यान्तर्भावो न युक्तः ।
तदसद्भावे ऽस्य सद्भावात् तत्सद्भावे चास्यामद्भावात् ।
यदुक्तम्-ऽअतिव्यात्पेरथाव्यात्पेर्न चासौ लक्ष्यते तयाऽ इति ।
नाप्यस्यालक्षणीयत्वं युक्तम् -
ऽयत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितःऽ ॥
इति ॥
तदित्थमेतद्विप्रतिपत्तित्रयस्याप्रतिष्टानमुपपादितम् ।
रुअस्स्च्_[भू.5ब्]:
इदानीमन्ये ऽपि यः कश्चिद्विप्रतिपत्तिप्रकारः कैश्चिदुक्तः सो ऽपि नोपपद्यते इत्याहुयत्त्वित्यादि ।
यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गतया व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तद् वाच्यस्य प्रतीयमानेन सह तादाप्म्यतदुत्पत्त्यभावादविचारिताभिधानम् ।
तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनमिति नेह प्रतन्यते । [रुअस्स्_भू.6]
रुअस्स्च्_[भू.6]:
ध्वनिकारानन्तरभावी व्यक्तिविवेककार इति तन्मतमिह पश्चान्निर्दिष्टम् यद्यपि वक्रोक्तिजीवितहृदयदर्पणकारावपि ध्वनिकारान्तरभानावेव, तथापि तौ चिरन्तरमतानुयायिनावेति तन्मतं पूर्वमेवोद्दिष्टम् ।
अनेन पुनरेतत्स्वोपज्ञमेवोक्तम् ।
अनुमानन्तर्भावमिति ।
अनुमानरूपत्वमेवेत्यर्थः ।
आख्यदिति ।
यदाह-
ऽवाच्यस्तदनुमतो वा यत्रार्थोर्ऽथान्तरं प्रकाशयति ।
संबन्धतः कुतश्चित् सा काव्यानुमितिरित्युक्ताऽ ॥
इति ॥
अविचारिताभिधानमिति ।

इह लिङ्गलिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्यामेव तावत्प्रतिबन्धो निश्चीयते ।
तन्निश्चयेनैव च साध्यसिद्धिः ।
अन्यथा हि साध्यसिद्धिर्नस्याद्व्यभिचारात् ।
तत्र तादात्म्यं यथा कृतकत्वानित्यत्वयोः ।
तदुत्पत्तिर्यथा वह्निधूमयोः ।
वाच्यप्रतीयमानयोःपुनस्तादात्म्यतदुत्पत्ती न स्तः ।
तथाहि-
ऽनिःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागो ऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपूडागमे वापूं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्ऽ ॥
इत्यत्र विधिना निषेधो निषेधेन वा विधिः प्रतीयते ।
न तस्य वाच्येन सह तादात्म्यम् ।
विरुद्धत्वात् ।
नह्यभावो भावात्मा भावो ऽप्यभावात्मा ।
नापि तदुत्पत्तिः ।
अभावस्य जन्यजनकत्वानुपपत्तेः ।
नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम्, तेषां स्नानादावपि सद्भावादनैकान्तिकत्वात् ।
एतच्च ध्वनिकारेणादूषितत्वाद्ग्रन्थकृता स्वकण्ठेन दूषितम् ।
अत एवानेनान्या विप्रतिपत्तये न दूषिताः ।
एतदिति ।
वाच्यस्य प्रतीयमानेन तादात्म्यतदुत्पत्त्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वितत्य निर्णीतमिति भावः ।
रुअस्स्च्_[भू.6अ]:
तदित्थं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्रात्पप्रतिष्ठानो ध्वनिरित्याह-अस्तीप्यादि ।
अस्तिं तावद् व्यङ्ग्यनिष्टो व्यञ्जनव्यापारः ।
तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ ।
व्यङ्ग्यस्यास्फुटत्वे ऽलङ्कारत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः ।
तत्रोत्तमो ध्वनिः ।
तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ ।
आद्यो ऽप्यर्थान्तरसंक्रमसंसलक्ष्यक्रमितवाच्यात्यान्ततिरस्कृतवाच्यत्वेन द्विविधः ।
द्वितीयो ऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः ।
लक्षणामूलः शब्दशक्तिमूलो वस्तुध्वनिः,असंलक्ष्यक्रमव्यङ्ग्यः अर्थशक्तिमूलो रसादिध्वनिः ।
संलक्ष्यक्रमव्यङ्ग्यः शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलङ्कारध्वनिश्चेति ।
तत्र रसादिध्वनिरलङ्कारमञ्जर्यां दर्शितः, काव्यस्य शृङ्गारप्रधानत्वात् ।
शिष्टस्तु यथावसरं तत्रैव विभक्तः ।
गुणीभूतव्यङ्ग्यो वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः । [रुअस्स्_भू.7]
रुअस्स्च्_[भू.7]:
तावच्छब्दो विप्रतिपत्त्यभावद्योतकः ।
अस्यैव भेदनिर्देशं कर्तुमाह-तत्रेत्यादि ।
व्यङ्ग्यनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः ।
प्राधान्याप्राधान्येति ।
यदुक्तम्-

ऽतत्परावेव शब्दार्थौ तत्र व्यङ्ग्यं प्रति स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितःऽ ॥
इति ॥
यथा-
ऽप्रकारो ऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते ।
तत्र व्यङ्यान्वये वाच्यचारुत्वं स्यात् प्रकर्षवत्ऽ ॥
इति ॥
अस्फुटत्व इति ।
व्यङ्ग्यस्याविवक्षितत्वे सतीत्यर्थः ।
यदुक्तम्-
ऽरसभावादिविषयविवक्षाविरहे सति ।
अलङ्कारनिबन्धो यः स चित्रविषयो मतःऽ ॥
इति ।
तत्रेति ।
त्रयनिर्धारणे ।
तस्येति,उत्तमस्य ध्वनेः ।
आद्य इति अविवक्षितवाच्यः ।
न केवलं ध्वनिर्द्विविधः यावत्तत्प्रभोदो ऽप्ययं द्विविध इत्यपिशब्दार्थः ।
यदुक्तम्-
ऽअर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ।
अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम्ऽ ॥
इति ॥
रुअस्स्च्_[भू.7अ]:
द्वितीय इति विवक्षितान्यपरवाच्यः ।
यदुक्तम्-
ऽअसंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतःऽ ॥
इति ।
अत्रैव वस्तुरसालङ्काराणां ध्वन्यमानत्वं दर्शयितुमाह-लक्षणेत्यादि ।
लक्षणामूल इत्यविवक्षितवाच्यः ।
शब्दशक्तिमूल इति न पुनरर्थशक्तिमूलः ।
यद्यपि शब्दशक्तिमूलेर्ऽथशक्तिरप्यस्ति तथापि तत्र तस्याः सहकारितया व्यवस्थानमिति प्राधान्याच्छब्दशक्तिमूलत्वमुक्तम् ।
एवमर्थशक्तिमूलत्वे ऽपि ज्ञेयम् ।
वस्तुध्वनिरिति ।
रसालङ्कारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात् ।
तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा-
ऽस्निग्धश्यामलकान्तिलित्पवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवी धीरा भवऽ ॥
रुअस्स्च्_[भू.7ब्]:
अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वस्वरूपं वस्तु ध्वनति ।

अत्यन्ततिरस्कृतवाच्यो ऽपि यथा-
ऽरविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशतेऽ ॥
अत्रान्धशब्दः स्वार्थं निमित्तीकृत्यादर्शनसाधारणविच्छायात्वादिधर्मजातं वस्तुरूपंव्यनक्ति ।
रसादीति ।
आदिशब्दाद्भावतदाभासादयः ।
तत्र रसध्वनिर्यथा -
ऽत्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्त्रैस्तावन्मुहुरुपचितैर्द्दष्टिरालिप्यते मे क्रूरस्त- स्मिन्नपि न सहते संगमं नौ कृतान्तःऽ ॥
अत्र विभावानुभावव्यभिचारिभिरभिव्यक्त एव रसः ।
रुअस्स्च्_[भू.7च्]:
भावध्वनिर्यथा-
ऽजाने कोपपराङ्मुखी प्रियतमा स्वप्ने ऽद्य दृष्टा मया मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः ।
नो यावत् परिरभ्य चाटुकशतौराश्रासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतःऽ ॥
अत्र विधिं प्रत्यसूयाख्यो व्यभिचारिभावः ।
रसाभासध्वनिर्यथा-
ऽस्तुमः कं वामाक्षि क्षणमपि विना य न रमसे विलेभे कः प्राणान् पणमखमुखे यं मृगयसे ।
सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात् तपःश्रीः पस्यैषा मदननगरि ध्यायसि तु यम्ऽ ॥
अत्रानेककामुकविषयो ऽभिलाष इति रसाभासः ।
रुअस्स्च्_[भू.7द्]:
भावाभासध्वनिर्यथा-
ऽराकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी ।
तत्किं करोमि विदधे कथमत्र मैत्त्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥
ऽअत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः ।
भावप्रशमो यथा-
ऽएकस्मिच्छयने पराङ्मुखतया वीतोत्तरं ताम्य- तोरन्योन्यं हृदयस्थिते ऽप्यनुनये संपक्षतोर्गौरवम् ।
दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषीर्- भग्नो मानकलिः सहासरभसव्यावृत्तकण्डग्रहःऽ ॥
अत्रासूयायाः प्रशम इति भावप्रशमध्वनिः ।
वस्तुध्वनिरलङ्कारध्वनिश्चेति ।
तत्रशब्दशक्तिमूलो वस्तुध्वनिर्यथा-
ऽनिर्वाणवैरदहना प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याःऽ ॥
अत्र कौरवाणां क्षतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव प्रतीयते ।
स एवार्थशक्तिमूलो यथा-
ऽअलससिरोमणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिमओ ।
इह भणिएण णअङ्गी पप्फुल्लविलोअणा जाआऽ ॥
(ऽअलसशिरोमणिर्धूर्तानामग्रणीर्धनसमृद्धिमयः ।
इति भणितेन नताङ्गी प्रफुल्लविलोचना जाताऽ) ॥
अथार्थशक्त्या ममैवोपभोग्यो ऽप्यमिति वस्तु व्यज्यते ।
स एवोभयशक्तिमूलो यथा-

ऽपन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे ।
उग्गअपओहरं पेक्खिऊण जै वससि ता वससुऽ ॥
(ऽपथिक नात्र स्त्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे ।
उद्गतिपयोधरं प्रेक्ष्य यदि वससि तद् वसऽ) ॥
अत्र यद्युपभोगक्षमो ऽसि तदा आस्स्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम् ।
रुअस्स्च्_[भू.7ए]:
शब्दशक्तिमूलो ऽलङ्कारध्वनिर्यथा-
ऽउन्नतः प्रोल्लसद्धारः कालागुरुमलीयसः ।
पयोधरभरस्तच्व्याः कं न चक्रे ऽभिलाषिणम्ऽ ॥
अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते ।
प्रकृताप्रकृतयोश्चार्थयोरसंबद्धाभिधायित्वं मा प्रसाङ्क्षीदिति तयोरौपम्यं कल्प्यत इत्यलङ्कारध्वनिः ।
स एवार्थशक्तिमूलो यथा-
ऽतं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसं ।
बिंबाहरे पिआणं णिवेसिअं कुसुमबाणेनऽ ॥
(ऽतत् तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेनऽ) ॥
अत्र कौस्तुभबिम्बाधरयोः केवलयैर्वाथशक्त्यौपम्यं गम्यत इत्यर्थशक्तिमलो ऽलङ्कारध्वनिः ।
उभयशक्तिमूलो यथा-
ऽजणहिअअविदारणए धारासलिलल्लुलिए ण रमै तहा ।
तव दिट्वी चिउरभरे विआण जह वैरिखग्गाम्मिऽ ॥
(ऽजनहृदयविदारणके धारासलिललुलिते न रमते तथा ।
तव दृष्टिश्चुकुरभरे प्रियाणां,यथा वैरिखङ्गेऽ) ॥
अत्रोभयशक्त्या चिकुरभरखङ्गयोरौपभ्यं गम्यते ।
इति शब्दः प्रमेयपरिमसात्पौ ।
एवं ध्वनेः प्रभेदजातं प्रदर्श्य क्रमप्रात्पं गुणीभूतव्यङ्यस्याप्यन्यतो योजयति-गुणीभूतेत्यादिना ।
दर्शित इति ध्वनिकारेण ।
यदाह-
ऽव्यङ्गस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाःऽ ॥
इति ॥
एवं गुणीभूतव्यङ्ग्यस्याप्यन्यतो भेदजातं योजयित्वा चित्रस्यापि प्रभेदजातं दर्शयितुमाह-चित्रमित्यादि ।
स्तर्त् सूत्र 1:
चित्रं तु शब्दार्थांलकारस्वभावतया बहुतरप्रभेदम् ।
तथा हि-
इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः
आदौ पौनरुक्त्यप्रकाररवचनं वक्ष्यमाणालङ्काराणां कक्षाविभागघटनार्थम् ।
अर्थापेक्षया शब्दस्य प्रतीतावन्तरङ्गत्वे ऽपि प्रथममर्थतधर्मनिर्देशश्चिरन्तनप्रसिद्ध्या पुनरुक्तकवदाभासस्य पूर्वं लक्षणार्थः ।
इहशब्दः प्रत्थाने ।
इतिशब्दः प्रकारे, त्रिशब्दादेव संख्यापरिसमात्पिसिद्धेः ।
रुअस्स्च्_1:

तुशब्दः काव्यप्रकारद्वयादस्य वैलक्षण्यद्योतकः ।
अत एव बहुतरप्रभेदमित्युक्तम् ।
शब्दार्थेत्येक शेषः ।
तेनोभयालङ्काराणामपि ग्रहणम् ।
तदेव दर्शयितुमाह-तथाहीत्यादि ।
चित्राख्यकाव्यभेदनिरूपणावसरे किं पौनरुक्त्यप्रकारवचनेनेत्याशङ्क्याह-आदावित्यादि ।
वक्ष्यमाणालङ्काराः पुनरुक्तवदाभासादयः पञ्च ।
शब्दप्रतीतिपुरःसरीकारेणार्थप्रतीतिरिति प्रथमं शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्क्याह-अर्थेत्यादि ।
चिग्तंन प्रसिद्धेति ।
न पुनर्युज्यमानतयेति भावः ।
ऽपुनरुक्तवदाभासं छेकानुप्रास एव चऽ इति चिरन्तनप्रसिद्धिः ।
अर्थालङ्कारत्वादर्थालङ्कारप्रकरणे पुनरस्य युज्यमानत्वम् ।
नन्वादौ शब्दगतो, धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किञ्चित्प्रयोजनमुत्पश्याम इति किं तेनेति यदन्यैरुक्तं तदयुक्तम् ।
शब्दार्थयोः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्योपपत्तेः किं च ऽवर्धमानोत्कर्षाणि शास्त्राणि प्रथन्तेऽ इति नीत्या परिमितचमत्काराणामर्थालङ्काराणां पश्चान्निर्देशः कार्य इति सप्रयोजन एव क्रमः ।
चिरन्तनमतानुल्लङ्घनेन च वयं प्रवृत्ता इत्ययुक्तमपि ग्रन्थकृता तन्मतमाश्रितम् ।
अग्रे ऽप्यनेनाशयेन तन्मताश्रयणं करिप्यत्येव ।
तेन वयंयच्चिरन्तनमताश्रयणं व्याख्यास्यामस्तद्युक्तमेव ।
रुअस्स्च्_1अ:
एतदेव यथोद्देशं निर्णेतुमाह-तत्रेत्यादि ।
स्तर्त् सूत्र 2:
तत्रार्थपौनरुक्त्यं प्ररूढं दोषः
प्ररुढाप्ररुढत्वेन द्वैविध्यम् ।
प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् ।
तत्रेति त्रयनिर्धारणे ।
यथावभासनविश्रान्तिः प्ररोहः ।
रुअस्स्च्_2:
किमलङ्कारप्रस्तावे दोषकथनेनेत्याशङ्क्याह-प्रथममित्यादि ।
उपादेय इत्यलङ्कारस्वरूपे ।
यथेति ।
यथैव दृष्टस्तथैव पर्यवसित इत्यर्थः ।
यथा-
ऽहरिणनयनां सारङ्गाक्षीं कुरङ्गविलोचनां कमलवदनां राजीवास्यां सरोजसमाननाम् ।
विलुलितकचां चञ्चत्केशीं चलच्चिकुरोत्करां सुरतविरतौ संभोगान्ते विलोकय कामिनीम्ऽ ॥
अत्र सारङागाक्षीमित्यादिषु पुनर्वचनं प्ररुढम् ।
अप्ररुढं पुनरलङ्कारः ।
न चैतावतैव दोषाभावमात्रेणालङ्कारत्वमस्याशङ्क्यम्, वक्ष्यमाणनीत्यालङ्कारत्वोचितस्य विच्छित्तिविशेषस्यापि भावात् ।
तदेवाह-आमुग्वेत्यादि ।
स्तर्त् सूत्र 3:
आमुखावभासनं पुनः पुनरुक्तवदाभासम्
आमुखग्रहणं पर्यवसाने ऽन्यथात्वप्रतिपत्त्यर्थम् ।

लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालङ्कारवैधर्येण काव्यालङ्कारणामलङ्कार्यंपारतन्त्र्यध्वननार्थः ।
अर्थपौनरुक्त्यादेवार्थीश्रितत्वादर्थालङ्कारत्वं ज्ञेयम् ।
प्रभेदास्तु विस्तरभयान्नोच्यन्ते ।
उदाहरणं मदीये श्रीकण्ठस्तवे यथा-
"अहीनभुजगाधीशवपुर्वलयकङ्कुणम् ।
शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ॥
वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनम् ।
ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम्" ॥
ऽदीरुणः काष्ठतो जातो भस्मभूतिकरः परः ।
रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखीऽ ॥
भुजङ्गकुण्डली व्यक्तशाशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः" ॥
रुअस्स्च्_3:
अन्यथात्वेति ।
यथावभातस्यार्थस्य पर्यवसाने तथात्वेनैवाविश्रान्तिरित्यर्थः ।
अन्यथा ह्यक्तनीत्या दोषः स्यात् ।
ननु पुनरुक्तवदाभासशब्दस्यालङ्कारशब्दसामानाधिकरण्यादुपमादिवदजहल्लिङ्गत्वयोगाच्च पुंल्लिङ्गत्वे किमितीह नापुंसकः संस्कारः कृत इत्याशङ्क्याह-लक्ष्येत्यादि ।
लक्ष्यस्य लक्षणीयस्य पुनरुक्तवदाभासस्य पुनःशब्दापेक्षया निर्देशो वचनमित्यर्थः ।
अलङ्कार्यपारतन्त्रेति ।
काव्यसामानाधिकरण्येन निर्देशात् ।
लौकिका हारादयः ।
एषां ह्यलङ्कार्येण सह संयोगः संबन्धः ।
अत एवैषां तत्परतन्त्रतापि न स्यात् ।
काव्यालङ्काराणां पुनरलङ्कार्येण सह समवायः संबन्धः ।
अत एवैषामयुतसिद्धत्वादलङ्कार्यपारतन्त्र्यमेवेति लैकिकालङ्कारवैधर्म्यमेव न्याय्यम् ।
आश्रयाश्रयिभावेनालङ्कार्यालङ्करणभावोपपत्तेः किमाश्रयमस्यालङ्कारत्वमित्याशङ्कायाह-अर्थेत्यादि ।
एवकारः शब्दपौनरुक्त्यावच्छेदद्योतकः ।
रुअस्स्च्_3अ:
तेन शब्दस्यापौनरुक्त्यान्न शब्दालङ्कारो नाप्युभयालङ्कारो ऽयमित्यर्थः ।
पर्यवसाने वस्तुतोर्ऽथस्यासत्त्वात् धर्म्यंभावे च धर्मंस्य निर्विषयत्वात्पौनरुक्त्यं कस्य धर्मः स्यादिति न वाच्यम् ।
आमुखेर्ऽथस्यावभासमानत्वेन सत्त्वाद्धर्मिधर्मभावस्य नैवानिष्टेरर्थगतयोः सत्त्वासत्त्वयोरनुपयोगात् ।
आमुखावगतैव च प्रतीतिरलङ्कारबीजं न पार्यवसानिकी ।
तथात्वे ह्युपमारूपकादीनामप्यविशेषः स्यात् ।
पर्यवसाने ऽप्यर्थस्य ऽदारुणः काष्टतो जातःऽइत्यादाविन्धनार्थस्य सत्त्वादनैकान्तिकत्वाभावाच्छ्रशशृवदभावो न वाच्यः ।
पर्यवसाने ऽप्यत्रन्धनार्थः सन्नपि नालङ्कारत्वप्रयोजक इति ऽअरिवधदेहशरीरःऽ [काव्य प्रकाश 91389]इत्यादाप्यसता कायार्थेनाविशेषात्समानः ।
किं व इतो न पर्यवसानेर्ऽथस्यासत्त्वम् ।
इह हि प्रतीतिमात्रसारत्वात्कव्यस्य यद्यथैव प्रतीयते तत्तथैव भवतीत्याविवादः ।
तद्वाधोत्पत्तावपि तैमिरिकद्विचन्द्रप्रतीतिवत् पुनरुक्ततयावभातस्यार्थस्यावभासमानत्वात्सत्त्वमेव ।
नहि शतशीपि क्रूराद्यर्थोपलम्भे काष्ठादेरर्थस्यापुनरुक्ततया भानमस्ति ।
बाधोत्पत्तेः पुनर्द्विचन्द्रप्रतीतिवत्पौनरुक्त्यप्रतीतेरनुपपद्यमानत्वं भवति, नतु शुक्तिकायामिव रजतप्रत्ययस्य स्वरूपत एवाभावः ।

मूल पाठ: Alaṃkārasarvasva 1-34 with Jayaratha's commentary Vimarśinī · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc