ऐतरेयोपनिषद (टीका सहित) · अध्याय 1.3
ऐतुप्भ्_1,2.5
निरधिष्ठाने सत्यौ अशनायापिपासे तमीश्वरमब्रूतामुक्तवत्यौ ।
आवाभ्यामधिष्ठानमभिप्रजानीहि चिन्तय विधत्स्वेत्यर्थः ।
स ईश्वर एवमुक्तस्ते अशनायापिपासे अब्रवीत् ।
न हि युवयोर्भावरूपत्वाच्चेतनावद्वस्त्वनाश्रित्यान्नार्त्तृत्वं संभवति ।
तस्मादेतास्वेवाग्न्याद्यासु वां युवां देवतास्वध्यात्माधिदेवतास्वाभजामि वृत्तिसंविभागेनानुगृह्णामि ।
एतासु भागिन्यै यद्देवत्यो यो भागो हविरादिलक्षणः स्यात्तस्यास्तेनैव, भागेन भागिन्यौ भागवत्यौ वां करोमीति ।
सृष्ट्यादावीश्वर एवं व्यदधाद्यस्मात्तस्मादिदानीमपि यस्यै कस्यै च देवतायै अर्थाय हविर्गृह्यते चरुपुरोडाशादिलक्षणं भागिन्यादेव भागवत्यावेवास्यां देवतायामशनायपिपासे भवतः ॥5॥
इति प्रथमाध्याये द्वितीयः खण्डः समाप्तः ॥2॥
=======================================================================
स्तर्त् 1,3.1
स ईक्षतेमे नु लोकाश् च लोकपालाश् च ।
अन्नम् एभ्यः सृजा इति
ऐतुप्भ्_1,3.1
एवं हि लोके ईश्वराणामनुग्रहे निग्रहे च स्वातन्त्र्यं दृष्टं स्वेषु ।
तद्वन्महेश्वरस्यापि सर्वेश्वरत्वात्सर्वान्प्रति निग्रहानुग्रहे ऽपि स्वातन्त्र्यमेव ॥1॥
स्तर्त् 1,3.2
सो ऽपो ऽभ्यतपत् ।
ताभ्यो ऽभितप्ताभ्यो मूर्तिर् अजायत ।
या वै सा मूर्तिर् अजायतान्नं वै तत्
ऐतुप्भ्_1,3.2
स ईशरो ऽन्नं सिसृक्षुस्ता एव पूर्वोक्ता अप उद्दिश्याभ्यतपत् ।
ताभ्यो ऽभितप्ताभ्य उपादानभूताभ्यो मूर्तिर्घनरूपं धारणसमर्थ चराचरलक्षणमजायतोत्पन्नम् ।
अन्नं वै तन्मूर्तिरूपं या वै सा मूर्तिरजायत ॥2॥
स्तर्त् 1,3.3
तद् एनत् सृष्टं पराङ् अत्यजिघांसत् ।
तद् वाचाजिघृक्षत् ।
तन् नाशक्नोद् वाचा ग्रहीतुम् ।
स यद् धैनद् वाचाग्रहैष्यद् अभिव्याहृत्य हैवान्नम् अत्रप्स्यत्
ऐतुप्भ्_1,3.3
तदेनदन्नं लोकलोकपालानामर्थे ऽभिमुखे सृष्टं तद्यथा मूषकादिर्मार्जारादिगोचरे, सन्मम मृत्युरन्नाद इति मत्वा परागञ्चतीति पराङ्सदत्तॄनतीत्याजिघांसदतिगन्तुमैच्छत् पलायितुं प्रारभतेत्यर्थः ।
तदन्नाभिप्रायं मत्वा स लोकलोकपालसंघातः कार्यकरणलक्षणः पिण्डः प्रथमजत्वाद् अन्यांश्चान्नादानपश्यंस्तदन्नं वाचा वदनव्यापारेणाजिघृक्षद् ग्रहीतुमैच्छत् ।
तदन्नं नाशक्नोन्न समर्थो ऽभद्वाचा वदनक्रियया ग्रहीतुमुपादातुम् ।
स प्रथमजः शरीरी यद्यदि हैनद्वाचाग्रहैष्यद्गृहीतवान्स्यादन्नं सर्वो ऽपि लोकस्तत्कार्यभूतत्वादभिव्याहृत्य हैवान्नमत्रप्स्यत्तृप्तो ऽभविष्यत्, न चैतदस्ति, अतो नाशक्नोद्वाचा ग्रहीतुमित्यवगच्छामः पूर्वजो ऽपि ॥3॥
स्तर्त् 1,3.4-10
समानमुत्तरम् -
तत् प्राणेनाजिघृक्षत् ।
तन् नाशक्नोत् प्राणेन ग्रहीतुम् ।
स यद् धैनत् प्राणेनाग्रहैष्यद् अभिप्राण्य हैवान्नम् अत्रप्स्यत्
तच् चक्षुषाजिघृक्षत् ।
तन् नाशक्नोच् चक्षुषा ग्रहीतुम् ।
स यद् धैनच् चक्षुषाग्रहैष्यद् दृष्ट्वा हैवान्नम् अत्रप्स्यत्
तच् छ्रोत्रेणाजिघृक्षत् ।
तन् नाशक्नोच् छ्रोत्रेण ग्रहीतुम् ।
स यद् धैनच् छ्रोत्रेणाग्रहैष्यच् छ्रुत्वा हैवान्नम् अत्रप्स्यत्
तत् त्वचाजिघृक्षत् ।
तन् नाशक्नोत् त्वचा ग्रहीतुम् ।
स यद् धैनत् त्वचाग्रहैष्यत् स्पृष्ट्वा हैवान्नम् अत्रप्स्यत्
तन् मनसाजिघृक्षत् ।
तन् नाशक्नोन् मनसा ग्रहीतुम् ।
स यद् धैनन् मनसाग्रहैष्यद् ध्यात्वा हैवान्नम् अत्रप्स्यत्
तच् छिश्नेनाजिघृक्षत् ।
तन् नाशक्नोच् छिश्नेन ग्रहीतुम् ।
स यद् धैनच् छिश्नेनाग्रहैष्यद् विसृज्य हैवान्नम् अत्रप्स्यत्
तद् अपानेनाजिघृक्षत् ।
तद् आवयत् ।
सैषो ऽन्नस्य ग्रहो यद् वायुः ।
अन्नायुर् वा एष यद् वायुः
ऐतुप्भ्_1,3.4-10
तत्प्राणेन तच्चक्षुषा तच्छ्रोत्रेण तत्त्वचा तन्मनसा तच्छिश्नेन तेन तेन करणव्यापारेणान्नं ग्रहीतुमशक्नुवन्पश्चादपानेन वायुना मुखच्छिद्रेण तदन्नमजिघृक्षत् ।
तदावयात्तदन्नमेवं जग्राह आशितवान् ।
तेन स एषो ऽपानवायुरन्नस्य ग्रहो ऽन्नग्राहक इत्येतत् ।
यद्वायुर्यो वायुरन्नायुः अन्नबन्धनो ऽन्नजीवनो वै प्रसिद्धः स एष यो वायुः ॥4-10 ॥
स्तर्त् 1,3.11
स ईक्षत कथं न्व् इदं मद् ऋते स्याद् इति ।
स ईक्षत कतरेण प्रपद्या इति ।
स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्य् अपानेनाभ्यपानितं यदि शिश्नेन विसृष्टम् अथ को ऽहम् इति
ऐतुप्भ्_1,3.11
स एवं लोकलोकपालसंघातस्थितिमन्ननिमित्तं कृत्वा पुरपौरतत्पालयित स्थितिसमां स्वामीव ईक्षत - कथं नु केन प्रकारेणेति वितर्कयन्निदं मदृते मामन्तरेण पुरस्वामिनम्, यदिदं कार्यकरणसंघातकाय वक्ष्यमाणं कथं नु खलु मामन्तरेण स्यात्परार्थं सत् ।
यदि वाचाभिव्याहृतमित्यादि केवलमेव वाग्व्यवहरणादि तन्निरर्थकं न कथञ्चन भवेद्बलिस्तुत्यादिवत्, पौरवन्द्यादिभिः प्रयुज्यमानं स्वाम्यर्थं सत्तत्स्वामिनमन्तरेणासत्येव स्वामिनि तद्वत् ।
तस्मान्मया परेण स्वामिनाधिष्ठात्रा कृताकृतफलसाक्षिभूतेन भोक्ता भवितव्यं पुरस्येव राज्ञा ।
यदि नामैतत्संहतकार्यस्य परार्थत्वं परार्थिनं मां चेतनमन्तरेण भवेत्पुरपौरकार्यमिव तत्स्वामिनम्, अथ को ऽहं किंस्वरूपः कस्य वा स्वामी?
यद्यहं कार्यकरणसंघातमनुप्रविश्य वागाद्यभिव्याहृतादिफलं नोपलभेय राजेव पुरमाविश्याधिकृतपुरुषकृताकृतावेक्षणम् न कश्चिन्मामयं सन्नेवंरूपश्चेत्यधिगच्छेद्विचारयेत् ।
विपर्यये तु यो ऽयं वागाद्यभिव्याहृतादीदमिति वेद, स सन्वेदनरूपश्चेत्यधिगन्तव्यो ऽहं स्याम्, यदर्थमिदं संहतानां वागादीनामभिव्याहृतादि, यथा स्तम्भकुड्यादीनां प्रासादादिसंहतानां स्वावयवैरसंहतपरार्थत्वं तद्वदिति ।
एवमीक्षित्वातः कतरेण प्रपद्या इति ।
प्रपदं च मूर्धा चास्य संघातस्य प्रवेशमार्गौ ।
अनयोः कतरेण मार्गेणेदं कार्यकरणसंघातलक्षणं पुरं प्रपद्यै प्रपद्येयेति ॥11॥
स्तर्त् 1,3.12
एवमीक्षित्वा न तावन्मद्भृत्यस्य प्राणस्य मम सर्वार्थाधिकृतस्य प्रवेशमार्गेण प्रपदाभ्यामधः प्रपद्ये ।
किं तर्हि पारिशेष्यादस्य मूर्धानं विदार्य प्रपद्येयमिति लोक इवेक्षितकारी -
स एतम् एव सीमानं विदार्यैतया द्वारा प्रापद्यत ।
सैषा विदृतिर् नाम द्वाः ।
तद् एतन् नान्दनम् ।
तस्य त्रय आवसथास् त्रयः स्वप्ना अयम् आवसथो ऽयम् आवसथो ऽयम् आवसथ इति
ऐतुप्भ्_1,3.12
स इष्टेश्वर एतमेव मूर्धसीमानं केशविभागावसानं विदार्य च्छिद्रीकृत्वैतया द्वारा मार्गेणेमं लोकं कार्यकरणसंघातं प्रापद्यत प्रविवेश ।
सेयं हि प्रसिद्धा द्वाः मूर्ध्नि तैलादिधारणकाले अन्तस्तद्रसादिसंवेदनात् ।
सैषा विदृतिर्विदारितत्वाद्विदृतिर्नाम प्रसिद्धा द्वाः ।
इतराणि तु श्रोत्रादिद्वाराणि भृत्यादिस्थानीयसाधारणमार्गत्वान्न समृद्धीनि नानन्दहेतूनि ।
इदं तु द्वारं परमेश्वरस्यैव केवलस्येति तदेतन्नान्दनं नन्दनमेव ।
नान्दनमिति दैध्यं छान्दसम् नन्दत्यनेन द्वारेण गत्वा परस्मिन्ब्रह्मणीति ।
तस्यैवं सृष्ट्वा प्रविष्टस्य जीवेनात्मना राज्ञ इव पुरं त्रय आवसथाः ।
जागरितकास इन्द्रियस्थानं दक्षिणं चक्षुः स्वप्नकाले ऽन्तर्मनः, सुषुप्तिकाले हृदयाकाश इत्येतत् ।
वक्ष्यमाणा वा त्रय आवस्थाः पितृशरीरं मातृगर्भाशयः स्वं च शरीरमिति ।
त्रयः स्वप्ना जाग्रत्स्वप्नसुषुप्त्याख्याः ।
ननु जागरितं प्रबोधरूपत्वान्न स्वप्नः, नैवम्, स्वप्न एव ।
कथम्? परमार्थस्वात्मप्रबोधाभावात्स्वप्नवदसद्वस्तुदर्शनाच्च ।
अयमेवावसथश्चक्षुर्दक्षिणं प्रथमः, मनो ऽन्तरं द्वितीयः, हृदयाकाशस्तृतीयः ।
अयमावसथ इत्युक्तानुकीर्तनमेव ।
तेषु ह्ययमावसथेषु पर्यायेणात्मभावेन वर्तमानो ऽविद्यया दीर्घकालं गाढप्रसुप्तः स्वाभाविक्या न प्रबुध्यते ऽनेकशतसहस्रानर्थसंनिपातजदुःखमुद्गराभिघातानुभवैरपि ॥12॥
स्तर्त् 1,3.13
स जातो भूतान्य् अभिव्यैख्यत् किम् इहान्यं वावदिषद् इति ।
स एतम् एव पुरुषं ब्रह्म ततमम् अपश्यद् इदम् अदर्शम् इती 3
ऐतुप्भ्_1,3.13
स जातः शरीरे प्रविष्टो जीवात्मना भूतान्यभिव्यैख्यद्व्याकरोत् ।
स कदाचित्परमकारुणिकेनाचार्येणात्मज्ञानप्रबोधकृच्छब्दिकायां वेदान्तमहावाक्यभेर्यां तत्कर्णमूले ताड्यमानायामेतमेव सृष्ट्यादिकर्तृत्वेन प्रकृतं पुरुषं पुरि शयानमात्मानं ब्रह्म बृहत्ततमं तकारेणैकेन लुप्तेन तततमं व्याप्ततमं परिपूर्णमाकाशवत्प्रत्यबुध्यतापश्यत् ।
कथम्? इदं ब्रह्म ममात्मनः ।
स्वरूपमदर्शं दृष्टवानस्मि, अहो इति,ॠ.1.3.12विचारणार्था प्लुतिः पूर्वम् ॥13॥
स्तर्त् 1,3.14
यस्मादिदमित्येव यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तरमपश्यत् परोक्षेण -
तस्माद् इदन्द्रो नाम ।
इदन्द्रो ह वै नाम ।
तम् इदन्द्रं सन्तम् इन्द्र इत्य् आचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः
मूल पाठ: Aitareyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0