ऐतरेयोपनिषद (टीका सहित) · अध्याय 1.2
ऐतुप्भ्_1,1.4
तं पिण्डं पुरुषविधमुद्दिश्याभ्यतपत् ।
तदभिध्यानं संकल्पं कृतवानित्यर्थः,"यस्य ज्ञानमयं तपः"(मु.उ.1 । 1 । 9) इत्यादिश्रुतेः ।
तस्याभितप्तस्येश्वरसंकल्पेन तपसाभितप्तस्य पिण्डस्य मुखं निरभिद्यत मुखाकारं सुषिरमजायत यथा पक्षिणो ऽण्डं निर्भिद्यत एवम् ।
तस्मान्निर्भिन्नात्मुखाद्वाक्करणमिन्द्रियं निरवर्तत; तदधिष्ठाताग्निस्ततो वाचो लोकपालः ।
तथा नासिके निरभिद्येताम् ।
नासिकाभ्यां प्राणः; प्राणद्वायुः; इति सर्वत्राधिष्ठानं करणं देवता च त्रयं क्रमेण निर्भिन्नमिति ।
अक्षिणी कर्णौ त्वग् हृदयमन्तःकरणाधिष्ठानम्, मनो ऽन्तःकरणम् : नाभिः सर्वप्राणबन्धनस्थानम् ।
अपानसंयुक्तत्वादपान इति पाय्विन्द्रियमुच्यते ।
तस्मात् तस्याधिष्ठात्री देवता मृत्युः ।
यथान्यत्र, तथा शिश्नं निरभिद्यत प्रजननेन्द्रियस्थानम् ।
इन्द्रियं रेतो रेतोविसर्गार्थत्वात्सह रेतसोच्यते ।
रेतस आप इति ॥4॥
इति प्रथमाध्याये प्रथमः खण्डः समाप्तः ॥1॥
=======================================================================
स्तर्त् 1,2.1
ता एता देवताः सृष्टा अस्मिन् महत्य् अर्णवे प्रापतन् ।
तम् अशनापिपासाभ्याम् अन्ववार्जत् ।
ता एनम् अब्रुवन्न् आयतनं नः प्रजानीहि ।
यस्मिन् प्रतिष्ठिता अन्नम् अदामेति
ऐतुप्भ्_1,2.1
ता एता अग्न्यादयो देवता लोकपालत्वेन संकल्प्य सृष्टा ईश्वरेणास्मिन्संसारर्णवे संसारसमुद्रे महत्यविद्याकामकर्मप्रभव दुःखोदके तीव्ररोगजरामृत्युमहाग्राहे ऽनादावनन्ते ऽपारे निरालम्बे विषयेन्द्रियजनितसुखलवक्षणविश्रामे पञ्चेन्द्रियार्थतृण्मारुतविक्षोभोत्थितानर्थशतमहोर्मौ महारौरवाद्यनेकनिरयगतहाहेत्यादिकूजिताक्रोशनोद्भूतमहारवे सत्यार्जवदानदयाहिंसाशमदमधृत्याद्यात्मगुणपाथेयपूर्णज्ञानोडुपे सत्सङ्गसर्वत्यागमार्गे मोक्षतीरे एतस्मिन्महत्यर्णवे प्रापतन्पतिततवत्यः ।
तस्मादग्न्यादिदेवताप्ययलक्षणापि या गतिर्व्याख्याता ज्ञानकर्मसमुच्चयानुष्ठानफलभूता सापि नालं संसारदुःखोपशमाय, इत्ययं विवक्षितोर्ऽथे ऽत्र ।
यत एवं तस्मादेवं विदित्वा परं ब्रह्म आत्मात्मनः सर्वभूतानां च यो वक्ष्यमाणविशेषणः प्रकृतश्च जगदुत्पत्तिस्थितिसंहारहेतुत्वेन स सर्वसंसारदुःखोपशमनाय वेदितव्यः ।
तस्मात्"एष पन्था एतत्कमैतद् ब्रह्मैतत् सत्यम्"(ऐ.उ.2 । 1 । 1) यदेतत्परब्रह्मात्मज्ञानम्"नान्यः पन्था विद्यते ऽयनाय"(श्वे.उ.3 । 8.6 । 15) इति मन्त्रवर्णात् ।
तं स्थानकरणदेवतोत्पत्तिबीजभूतं पुरुषं प्रथमोत्पादितं पिण्डमात्मानमशनायापिपासाभ्यामन्ववार्जदनुगमितवान्संयोजितवानित्यथेः ।
तस्य कारणभूतस्याशनायादिदोषवत्त्वात्तत्कार्यभूतानामपि देवतानामशनायादिमत्त्वम् ।
तास्ततो ऽशनायापिपासाभ्यां पीड्यमाना एनं पितामहं स्रष्टारमब्रुवन्नुक्तवत्यः आयतनमधिष्ठानं नो ऽस्मभ्यं प्रजानीहि विधत्स्व ।
यस्मिन्नायतने प्रतिष्ठिताः समर्थाः सत्यो ऽन्नमदाम भक्षयाम इति ॥1॥
स्तर्त् 1,2.2
एवमुक्त ईश्वरः -
ताभ्यो गाम् आनयत् ।
ता अब्रुवन् न वै नो ऽयम् अलम् इति ।
ताभ्यो ऽश्वम् आनयत् ।
ता अब्रुवन् न वै नो ऽयम् अलम् इति
ताभ्यो देवताभ्यो गां गवाकृतिविशिष्टं पिण्डं ताभ्य ऐवाद्भ्यः पूर्ववत्पिण्डं समुद्धृत्य मूर्छयित्वानयद्दर्शितवान् ।
ताः पुनर्गवाकृतिं दृष्टवान्ब्रुवन् - न वै नो ऽस्मदर्थमधिष्ठानायान्नमत्तुमयं पिण्डो ऽलं न वै ।
अलं पर्याप्तः अत्तुं न योग्य इत्यर्थः ।
गवि प्रत्याख्याते ताभ्यो ऽश्वमानयत्ता अब्रुवन्न वै नो ऽयमलमिति पूर्ववत् ॥2॥
स्तर्त् 1,2.3
सर्वप्रत्याख्याने -
ताभ्यः पुरुषम् आनयत् ।
ता अब्रुवन् सुकृतं बतेति ।
पुरुषो वाव सुकृतम् ।
ता अब्रवीद् यथायतनं प्रविशतेति
ऐतुप्भ्_1,2.3
ताभ्यः पुरुषमानयत्स्वयोनिभूतम् ।
ताः स्वयोनिं पुरुषं दृष्ट्वा अखिन्नाः सत्यः सुकृतं शोभनं कृतमिदमधिष्ठानं बतेत्यब्रुवन् तस्मात्पुरुषो वाव पुरुष एव सुकृतं सर्वपुण्यकर्महेतुत्वात् ।
स्वयं वा स्वेनेवात्मना स्वमायाभिः कृतत्वात्सुकृतमित्युच्यते ।
ता देवता ईश्वरो ऽब्रवीदिष्टमासामिदमधिष्ठानमिति मत्वा सर्वे हि स्वयोनिषु रमन्ते, अतो यथायतनं यस्य यद्वदनादिक्रियायोग्यमायतनं तत्प्रविशतेति ॥3॥
स्तर्त् 1,2.4
तथास्त्वित्यनुज्ञां प्रतिलभ्येश्वरस्य नगर्यामिव बलाधिकृतादयः -
अग्निर् वाग् भूत्वा मुखं प्राविशत् ।
वायुः प्राणो भूत्वा नासिके प्राविशत् ।
आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् ।
दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् ।
ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् ।
चन्द्रमा मनो भूत्वा हृदयं प्राविशत् ।
मृत्युर् अपानो भूत्वा नाभिं प्राविशत् ।
आपो रेतो भूत्वा शिश्नं प्राविशन्
ऐतुप्भ्_1,2.4
अग्निर्वागभिमानी वागेव भूत्वा स्वां योनिं मुखं प्राविशत्तथोक्तार्थमन्यत् ।
वायुर्नासिके आदित्यो ऽक्षिणी दिशः कर्णौ ओषधिवनस्यतयस्त्वचं चन्द्रमा हृदयं मृत्युर्नाभिमापः शिश्नं प्राविशन् ॥4॥
स्तर्त् 1,2.5
एवं लब्धाधिष्ठानासु देवतासु -
तम् अशनापिपासे अब्रूताम् अवाभ्याम् अभिप्रजानीहीति ।
ते अब्रवीद् एतास्व् एव वां देवतास्व् आभजाम्य् एतासु भागिन्यौ करोमीति ।
तस्माद् यस्यै कस्यै च देवतायै हविर् गृह्यते भागिन्याव् एवास्याम् अशनापिपासे भवतः
मूल पाठ: Aitareyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0