भाषा

ENहिગુ
ग्रंथ पाठ

ऐतरेयोपनिषद (टीका सहित) · अध्याय 2

2.1

ऐतुप्भ्_1,3.14
तस्मादिदं पश्यतीतीदन्द्रो नाम परमात्मा ।
इदन्द्रो ह वै नाम प्रसिद्धो लोक ईश्वरः ।
तमेवमिदन्द्रं सन्तमिन्द्र इति परोक्षेण परोक्षाभिधानेनाचक्षते ब्रह्मविदः संव्यवहारार्थम् -
पूज्यतमत्वात्प्रत्यक्षनामग्रहणभयात् ।
तथा हि परोक्षाप्रियाः परोक्षनामग्रहणप्रिया इव एव हि यस्माद्देवाः, किमुत सर्वदेवानामपि देवो महेश्वरः ।
द्विवचनं प्रकृताध्यायपरिसमाप्त्यर्थम् ॥14॥
इति प्रथमाध्याये तृतीयः खण्डः समाप्तः ॥3॥
द्वितीय अध्याय
प्रथम खण्ड
अस्मिंश्चतुर्थे ऽध्याय एष वाक्यार्थः - जगदुत्पत्तिस्थितिप्रलयकृदसंसारी सर्वज्ञः सर्वशक्तिः सर्ववित्सर्वमिदं जगत्स्वतो ऽन्यद्वस्त्वन्तरमनुपादायैव आकाशादिक्रमेण सृष्ट्वा स्वात्मप्रबोधनार्थं सर्वाणि च प्राणादिमच्छरीराणि स्वयं प्रविवेश ।
प्रविश्य च स्वमात्मानं यथामृतमिदं ब्रह्मास्मीति साक्षात्प्रत्यबुध्यत ।
तस्मात्स एव सर्वशरीरेष्वेक एवात्मा नान्य इति ।
अन्यो ऽपि"सम आत्मा ब्रह्मास्मीत्येवं विद्यात्"इति ।
"आत्मा वा इदमेक एवाग्र आसीत्"(1 । 1 । 1) इति"ब्रह्म ततमम्"(1 । 3 । 13) इति चोक्तम् ।
अन्यत्र च ।
सर्वगतस्य सर्वात्मनो बालाग्रमात्रमप्यप्रविष्टं नास्तीति कथं सीमानं विदार्य प्रापद्यत पिपीलिकेव सुषिरम् ।
नन्वत्यल्पमिदं चोद्यं बहु चात्र चोदयितव्यम् ।
अकरणः सन्नीक्षत ।
अनुपादाय किञ्चिल्लोकानसृजत ।
अद्भ्यः पुरुषं समुद्धृत्यामूर्छयत् ।
तस्माभिध्यानान्मुखादि निर्भिन्नं मुखादिभ्यश्चाग्न्यादयो लोकपालास्तेषां चाशनायापिपासादिसंयोजनं तदायतनप्रार्थनं तदर्थं गवादिप्रदर्शनं तेषां यथायतनप्रवेशनं सृष्टस्यान्नस्य पलायनं वागादिभिस्तज्जिघृक्षाः, एतत्सर्वं सीमाविदारणप्रवेशसममेव ।
अस्तु तर्हि सर्वमेवेदमनुपपन्नम् ।
न, अत्रात्मावबोधमात्रस्य विवक्षितत्वात्सर्वो ऽयमर्थवाद इत्यदोषः ।
मायाविवद्वा महामायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार ।
सुखावबोधनप्रतिपत्त्यर्थं लोकवदाख्यायिकादिप्रपञ्च इति युक्ततरः पक्षः ।
न हि सृष्ट्याख्यायिकादिपरिज्ञानात्किञ्चित्फलमिष्यते ।
ऐकात्म्यस्वरूपपरिज्ञानात्तु अमृतत्वं फलं सर्वोपनिषत्प्रसिद्धम् ।
स्मृतिषु च गीताद्यासु"समंसर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्"(गीता 13 । 27) इत्यादिना ।
ननु त्रय आत्मानः ।
भोक्ता कर्ता संसारी जीव एकः सर्वलोकशास्त्रप्रसिद्धः ।
अनेकप्राणिकर्मफलोपभोगयोग्यानेकाधिष्ठानवल्लोकदेहनिर्माणेन लिङ्गेन यथाशास्त्रप्रदर्शितेन पुरप्रासादादिनिर्माणलिङ्गेन तद्विषयकौशलज्ञानवांस्तत्कर्ता तक्षादिरिवेश्वरः सर्वज्ञो जगतः कर्ता द्वितीयश्चेतन आत्मा अवगम्यते ।
"यतो वाचो निवर्तन्ते"(तै.उ.2 । 4 । 1) "नेति नेति"(बृ.उ.3 । 9 । 23) इत्यादिशास्त्रप्रसिद्ध औपनिषदः पुरुषस्तृतीयः एवमेते त्रय आत्मानान्योन्यविलक्षणाः तत्र कथमेक एव आत्मा अद्वितीयः असंसारीति ज्ञातुं शक्यते?
तत्र जीव एव तावत्कथं ज्ञायते?
नन्वेवं ज्ञायते श्रोता मन्ता द्रष्टा आदेष्टा आघोष्टा विज्ञाता प्रज्ञातेति ।
ननु विप्रतिषिद्धं ज्ञायते यः श्रवणादिकर्तृत्वेनामतो मन्ताविज्ञातो विज्ञातेति च ।
तथा"न मतेर्मन्तारं मन्वीथा न विज्ञातेविज्ञातारं विजानीयाः"(बृ.उ.3 । 4 । 2) इत्यादि च ।
सत्यं विप्रतिषिद्धम्, यदि प्रत्यक्षेण ज्ञायेत सुखादिवत् ।
प्रत्यक्षज्ञानं च निवार्यते"न मतेर्मन्तारं मन्वीथाः"(बृ.उ.3 । 3 । 2) इत्यादिना ।
ज्ञायते तु श्रवणादिलिङ्गेन, तत्र कुतो विप्रतिषेधः ।
ननु श्रवणादिलिङ्गेनापि कथं ज्ञायते? यावता यदा शृणोत्यात्मा श्रोतव्यं शब्दं तदा तस्य श्रवणक्रिययैव वर्तमानत्वान्मननविज्ञानक्रिये न संभवतः आत्मनि परत्र वा ।
तथान्यत्रापि मननादिक्रियासु ।
श्रवणादिक्रियाश्च स्वविषयेष्वेव ।
न हि मन्तव्यादन्यत्र मन्तुर्मननक्रिया संभवति ।
ननु मनसा सर्वमेव मन्तव्यम् ।
सत्यमेवं तथापि सर्वमपि मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् ।
यद्येवं किं स्यात्?
इदमत्र स्यात्, सर्वस्य यो ऽयं मन्ता स मन्तैवेति न स मन्तव्यः स्यात् ।
न च द्वितीयो मन्तुर्मन्तास्ति ।
यदा स आत्मनैव मन्तव्यस्तदा येन च मन्तव्यः आत्मा आत्मना यश्च मन्तव्य आत्मा तौ द्वौ प्रसज्येयाताम् ।
एक एवात्मा द्विधा मन्तृमन्तव्यत्वेन द्विशकलीभवेद्वंशादिवत् उभयथाप्यनुपपत्तिरेव ।
यथा प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपपत्तिः समत्वात्तद्वत् ।
न च मन्तुर्मन्तव्ये मननव्यापारशून्यः कालो ऽस्त्यात्ममननाय ।
यदापि लिङ्गेनात्मानं मनुते मन्ताः, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा यश्च तस्य मन्ता तौ द्वौ प्रसज्येयाताम् ।
एक एव वा द्विधेति पूर्वोक्तदोषः ।
न प्रत्यक्षेण नाप्यनुमानेन ज्ञायते चेत् कथमुच्यते"स म आत्मेति विद्यात्"(कौषी.3 । 9) इति? कथं वा श्रोता मन्तेत्यादि?
ननु श्रोतृत्वादिधर्मवानात्मा अश्रोतृत्वादि च प्रसिद्धमात्मनः ।
किमत्र विषमं पश्यसि?
यद्यपि तव न विषमं तथापि मम तु विषमं प्रतिभाति ।
कथम्? यदासौ श्रोता तदा न मन्ता यदा मन्ता तदा न श्रोता ।
तत्रैवं सति पक्षे श्रोता मन्ता पक्षे न श्रोता नापि मन्ता ।
तथान्यत्रापि च ।
यदैवं तदा श्रोतृत्वादिधर्मवानात्मा अश्रोतृत्वादिधर्मवान्वेति संशयस्थाने कथं तव न वैषम्यम् ।
यदा देवदत्तो गच्छति तदा न स्थाता गन्तैव ।
यदा तिष्ठति तदा न गन्ता स्थातैव ।
तदा अस्य पक्ष एव गन्तृत्वं स्थातृत्वं च ।
न नित्यं गन्तृत्वं स्थातृत्वं वा ।
तद्वत् ।
तथैवात्र काणादादयः पश्यन्ति ।
पक्षप्राप्तेनैव श्रोतृत्वादिना आत्मोच्यते श्रोता मन्तेत्यादिवचनात् ।
संयोगजत्वमयौगपद्यं च ज्ञानस्य ह्याचक्षते ।
दर्शयन्ति चान्यत्रमना ।
अभूवं नादर्शमित्यादि युगपज्ज्ञानानुपत्तिर्मनसो लिङ्गमिति च न्याय्यम् ।
भवत्वेवम् किं तव नष्टं यद्येवं स्यात्?
अस्त्वेवं तवेष्टं चेत् ।
श्रुत्यर्थस्तु न संभवति ।
किं न श्रोता मन्तेत्यादिश्रुत्यथः
न, न श्रोता न मन्तेत्यादिवचनात् ।
ननु पाक्षिकत्वेन प्रत्युक्तं त्वया ।
न, नित्यमेव श्रोतृत्वाद्यभ्युपगमात् ।
"न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते"(बृ.उ.4 । 3 । 27) इत्यादिश्रुतेः ।
एवं तर्हि नित्यमेव श्रोतृत्वाद्यभ्युपगमे प्रत्यक्षविरुद्धा युगपज्ज्ञानोत्पत्तिरज्ञानाभावावश्चात्मनः कल्पितः स्यात् ।
तच्चानिष्टमिति ।
नोभयदोषोपपत्तिः ।
आत्मनः श्रुत्यादिश्रोतृत्वादिधर्मवत्त्वश्रुतेः ।
अनित्यानां मूर्तानां च चक्षुरादीनां दृष्ट्याद्यनित्यमेव संयोगवियोगधर्मिणाम्, यथाग्नेर्ज्वलनं तृणादिसंयोगजत्वात्तद्वत् ।
न तु नित्यस्यामूर्तस्यासंयोगवियोगधर्मिणः संयोगजदृष्ट्याद्यनित्यधर्मवत्त्वं संभवति ।
तथा च श्रुतिः"न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते"(बृ.उ.4 । 3 । 23) इत्याद्या ।
एवं तर्हि द्वे दृष्टी चक्षुषो ऽनित्यादृष्टिर्नित्या चात्मनः ।
तथा च द्वे श्रुती श्रोत्रस्यानित्या नित्या चात्मस्वरूपस्य ।
तथा द्वे मती विज्ञाती बाह्याबाह्ये एवं ह्येव ।

तथा चेयं श्रुतिरुपपन्ना भवति"दृष्टेर्द्रष्टा श्रुतेः श्रोता"इत्याद्या ।
लोको ऽपि प्रसिद्धं चक्षुषस्तिमिरागमापाययोर्नष्टा दृष्टिर्जाता दृष्टिरिति चक्षुर्दृष्टेरनित्यत्वम् तथा च श्रुतिमत्यादीनामात्मदृष्ट्यादीनां च नित्यत्वं प्रसिद्धमेव लोके ।
वदति हि उद्धृतचक्षुः स्वप्ने ऽद्यमया भ्राता दृष्ट इति ।
तथावगतबाधिर्यः स्वप्नेश्रुतो मन्त्रो ऽद्येत्यादि ।
यदि चक्षुःसंयोगजैवात्मनो नित्या दृष्टिस्तन्नाशो नश्येत् ।
तदोद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् ।
"न हि द्रष्टुर्दृष्टेः"(बृ.उ.4 । 3 । 23) इत्याद्या च श्रुतिरनुपपन्ना स्यात् ।
"तच्चक्षुः पुरुषो येन स्वप्ने पश्यति"इत्याद्या च श्रुतिः ।
नित्या आत्मनो दृष्टिर्बाह्यानित्यदृष्टेर्ग्राहिका ।
बाह्यदृष्टेश्चोपजनापायाद्यानित्यधर्मवत्त्वात्तद्ग्राहिकाया आत्मदृष्टेस्तद्वदवभासत्वमनित्यत्वादि भ्रान्तिनिमित्तं लोकस्येति युक्तम् ।
यथा भ्रमणादिधर्मवदलातादिवस्तुविषयदृष्टिरपि भ्रमतीव तद्वत् ।
तथा च श्रुतिः"ध्यायतीव लेलायतीव"(बृ.उ.4 । 3 । 7) इति ।
तस्मादात्मदृष्टेर्नित्यत्वान्न यौगपद्यमयौगपद्यं वास्ति ।
बाह्यानित्यदृष्ट्युपाधिवशात्तु लोकस्य तार्किकाणां चागमसंप्रदायवर्जितत्वाद् अनित्या आत्मनो दृष्टिरिति भ्रान्तिरुपपन्नैव ।
जीवेश्वरपरमात्मभेदकल्पना चैतन्निमित्तैव ।
तथा च अस्ति नास्तीत्याद्याश्च यावन्तो वाङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टेर्निर्विशेषायाः अस्ति नास्ति, एकं नाना, गुणवदगुणम्, जानाति न जानाति, क्रियावदक्रियम् फलवदफलम्, सबीजं निर्बीजम्, सुखं दुःखम्, मध्यममध्यम्, शून्यमशून्यम्, परो ऽहमन्य इति वा सरववाक्प्रत्ययागोचरे स्वरूपे यो विकल्पयितुमिच्छति, स नूनं खमति चर्मवद्वेष्टयितुमिच्छति, सोपानमिव च पद्भ्यामारोढुम् जले खे च मीनानां वयसां च पदं दिदृक्षते ।
"नेति नेति"(बृ.उ.3 । 9 । 23) "यतो वाचो निवर्तन्ते"(तै.उ.2 । 4 । 1) इत्यादिश्रुतिभ्यः ।
"को अद्धा वेद"(ऋ.सं.1 । 3 । 6) इत्यादिमन्त्रवर्णात् ।
कथं तर्हि तस्य स म आत्मेति वेदनम् ।
ब्रूहि केन प्रकारेण तमहं स म आत्मेति विद्याम् ।
अत्राख्यायिकामाचक्षते - कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः कस्मिंश्चिदपराधे सति धिक्त्वां नासि मनुष्य इति ।
स मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कञ्चिदुपेत्याह ब्रवीतु भवान्को ऽहमस्मीति ।
स तस्य मुग्धतां ज्ञात्वाह ।
क्रमेण बोधयिष्यामीति ।
स्थावराद्यात्मभावमपोह्य न त्वममनुष्य इत्युक्त्वोपरराम ।
स तं मुग्धः प्रत्याह भवान्मां बोधयितुं प्रवृत्तस्तूष्णीं बभूव ।
किं न बोधयतीति? तादृगेव तद्भवितो वचनम् ।
नास्यमनुष्य इत्युक्ते ऽपि मनुष्यत्वमात्मनो न प्रतिपद्यते यः स कथं मनुष्यो ऽसीत्युक्तो ऽपि मनुष्यत्वमात्मनः प्रतिपद्येत तस्माद्यथाशास्त्रोपदेश एवात्मावबोधविधिर्नान्यः ।
न ह्यग्नेर्दाह्यं तृणाद्यन्येन केनचिद्द्ग्धुं शक्यम् ।
अत एव शास्त्रमात्मस्वरूपं बोधयितुं प्रवृत्तं सदमनुष्यत्वप्रतिषेधेनेव"नेति नेति"
(बृ.उ.3 । 9 । 23) इत्युक्त्वोपरराम ।
तथा"अनन्त रमबाह्यम्"(बृ.उ.2 । 5 । 19, 3 । 8 । 8) "अयमात्मा ब्रह्म सर्वानुभूः"(बृ.उ.2 । 5 -19) इत्यनुशासनम् ।
"तत्त्वमसि"(छा.उ.3 । 8 । 16) "यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्"(बृ.उ.2 । 4 । 14, 4 । 5 । 15) इत्येवमाद्यपि च ।
यावदयमेवं यथोक्तमिममात्मानं न वेत्ति तावदयं बाह्यानित्यदृष्टिलक्षणमुपाधिमात्मत्वेनोपेत्य अविद्यया उपाधिधर्मानात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु देवतिर्यङ्नरस्थानेषु पुनः पुनरावर्तमानो ऽविद्याकामकर्मवशात्संसरति ।
स एवं पुनरेवमेव नदीस्रोतोवज्जन्ममरणप्रबन्धाविच्छेदेन वर्तमानः काभिरवस्थाभिर्वर्तत इत्येतमर्थं दर्शयन्त्याह श्रुतिर्वैराग्यहेतोः -
=======================================================================
स्तर्त् 2.1
पुरुषे ह वा अयम् आदितो गर्भो भवति यद् एतद् रेतः ।
तद् एतत् सर्वेभ्यो ऽङ्गेभ्यस् तेजः सम्भूतम् आत्मन्य् एवात्मानं बिभर्ति ।
तद् यदा स्त्रियां सिञ्चत्य् अथैनज् जनयति ।
तद् अस्य प्रथमं जन्म

2.2

ऐतुप्भ्_2.1
अयमेवाविद्याकामकर्माभिमानवान् यज्ञादिकर्म कृत्वास्माल्लोकाद् धूमादिक्रमेण अन्नभूतः पुरुषाग्नौ हुतः ।
तस्मिन्पुरुषे ह वा अयं संसारी रसादिक्रमेण आदितः प्रथमतो रेतोरूपेण गर्भो भवतीत्येतदाह यदेतत्पुरुषे रेतस्तेन रूपेणेति ।
तच्चैतद्रेतो ऽन्नमयस्य पिण्डस्य सर्वेभ्यो ऽङ्गेभ्यो ऽवयवेभ्यो रसादिलक्षणेभ्यस्तेजः साररूपं शरीरस्य संभूतं परिनिष्पन्नं तत्पुरुषस्यात्मभूतत्वादात्मा ।
तमात्मानं रेतोरूपेण गर्भीभूतमात्मन्येव स्वशरीर एवात्मानं बिभर्ति धारयति ।
तद्रेतो यदा यस्मिन्काले भार्यर्तुमती तस्यां योषाग्नौ स्त्रिया सिञ्चत्युगच्छन्, अथ तदैनदेतद्रेत आत्मनो गर्भभूतं जनयति पिता ।
तदस्य पुरुषस्य स्थानान्निर्गमनं रेतःसेककाले रेतोरूरेणास्य संसारिणः प्रथमं जन्म प्रथमावस्थाभिव्यक्तिः ।
तदेतदुक्तं पुरस्तात्"असावात्मामुमात्मानम्"इत्यादिना ॥1॥
स्तर्त् 2.2
तत् स्त्रिया आत्मभूयं गच्छति यथा स्वम् अङ्गं तथा ।
तस्माद् एनां न हिनस्ति ।
सास्यैतम् आत्मानम् अत्र गतं भावयति

2.3

ऐतुप्भ्_2.2
तद्रेतो यस्यां स्त्रियां सिक्तं सत्तस्या आत्मभूयमात्माव्यतिरेकतां यथा पितुरेवं गच्छति प्राप्नोति यथा स्वमङ्गं स्तनादि तथा तद्वदेव ।
तस्माद्धेतोरेनां मातरं स गर्भो न हिनस्ति पिटकादिवत् ।
यस्मात्स्तनादि स्वाङ्गवदात्मभूतं गतं तस्मान्न हिनस्ति न बाधत इत्यर्थः ।
सा अन्तर्वत्न्येतमस्य भर्तुरात्मानमत्रात्मन उदरे गतं प्रविष्टं बुद्ध्वा भावयति वर्धयति परिपालयति गर्भविरुद्धाशनादिपरिहारमनुकूलाशनाद्युपयोगं च कुर्वती ॥2॥
स्तर्त् 2.3
सा भावयित्री भावयितव्या भवति ।
तं स्त्री गर्भं बिभर्ति ।
सो ऽग्र एव कुमारं जन्मनो ऽग्रे ऽधि भावयति ।
स यत् कुमारं जन्मनो ऽग्रे ऽधि भावयत्य् आत्मानम् एव तद् भावयत्य् एषां लोकानां सन्तत्यै ।
एवं सन्तता हीमे लोकाः ।
तद् अस्य द्वितीयं जन्म

2.4

ऐतुप्भ्_2.3
सा भावयित्री वर्धयित्री भर्तुरात्मनो गर्भभूतस्य भावयितव्या वर्धयितव्या रक्षयितव्या च भर्ता भवति ।
न ह्युपकारप्रत्युपकारमन्तरेण लोके कस्यचित्केनचित्सम्बन्ध उपपद्यते ।
तं गर्भं स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्ति धारयत्यग्रे प्राग्जन्मनः ।
स पिता अग्र एव पूर्वमेव जातमात्रं जन्मनो ऽध्यूर्ध्वं जन्मनो जातं कुमारं जातकर्मादिना पिता भावयति ।
स पिता यद्यस्मात्कुमारं जन्मनो ऽध्यूर्ध्वमग्रे जातमात्रमेव जातकर्मादिना यद्भावयति ।
तदात्मानमेव भावयति ।
पितुरात्मैव हि पुत्ररूपेण जायते ।
तथा ह्युक्तम्"पतिर्जायां प्रविशति"(हरि.3 । 73 । 31) इत्यादि ।
तत्किमर्थमात्मानं पुत्ररूपेण जनयित्वा भावयतीत्युच्यते - एषां लोकानां सन्तत्या अविच्छेदायेत्यर्थः ।
विच्छिद्येरन्हीमे लोकाः पुत्रोत्पादनादि यदि न कुर्युः केचन ।
एवं पुत्रोत्पादनादिकर्माविच्छेदेनैव सन्तताः प्रबन्धरूपेण वर्तन्ते हि यस्मादिमे लोकास्तस्मात्तदविच्छेदाय तत्कर्तव्यं न मोक्षायेत्यर्थः ।
तदस्य संसारिणः कुमाररूपेण मातुरुदराद्यन्निर्गमनं तद्रेतोरूपापेक्षया द्वितीयं जन्म द्वितीयावस्थाभिव्यक्तिः ॥3॥
स्तर्त् 2.4
सो ऽस्यायम् आत्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते ।
अथास्यायम् इतर आत्मा कृतकृत्यो वयोगतः प्रैति ।
स इतः प्रयन्न् एव पुनर् जायते ।
तद् अस्य तृतीयं जन्म

2.5

ऐतुप्भ्_2.4
अस्य पितुः सो ऽयं पुत्रात्मा पुण्येभ्यः शास्त्रोक्तेभ्यः कर्मभ्यः कर्मनिष्पादनार्थं प्रतिधीयते पितुः स्थाने पित्रा यत्कर्तव्यं तत्करणाय प्रतिनिधीयत इत्यर्थः ।
तथा च संप्रत्तिविद्यायां वाजसनेयके पित्रानुशिष्टः -"अहं ब्रह्माहं यज्ञः"(बृ.उ.1 । 5 । 17) इत्यादि प्रतिपद्यत इति ।
अथानन्तरं पुत्रे निवेश्यात्मनो भारमस्य पुत्रस्येतरो ऽयं यः पित्रात्मा कृतकृत्यः कर्तव्यादृणत्रयाद्विमुक्तः कृतकर्तव्य इत्यर्थः, वयोगतो गतवया जीर्णः सन्प्रैति म्रियते ।
स इतो ऽस्मात्प्रयन्नेव शरीरं परित्यजन्नेव तृणजलूकावद् देहान्तरमुपाददानः कर्मचितं पुनर्जायते ।
तदस्य मृत्वा प्रतिपत्तव्यं यत्तत्तृतीयं जन्म ।
ननु संसरतः पितुः सकाशाद्रेतोरूपेण प्रथमं जन्म ।
तस्येव कुमाररूपेण मातुर्द्वितीयं जन्मोक्तम् ।
तस्यैव तृतीये जन्मनि वक्तव्ये प्रेतस्य पितुर्यज्जन्म तत्तृतीयमिति कथमुच्यते?
नैष दोषः पितापुत्रयोरैकात्म्यस्य विवक्षितत्वात् ।
सो ऽपि पुत्रः स्वपुत्रे भारं निधायेतः प्रयन्नेव पुनर्जायते यथा पिता ।
तदन्यत्रोक्तमितरत्राप्युक्तमेव भवतीति मन्यते श्रुतिः पितापुत्रयोरेकात्मत्वात् ॥4॥
स्तर्त् 2.5
एवं संसरन्नवस्थाभिव्यक्तित्रयेण जन्ममरणप्रबन्धारूढः सर्वो लोकः संसारमसुद्रे निपतितः कतञ्चिद्यदा श्रुत्युक्तमात्मानं विजानाति यस्यां कस्याञ्चिदवस्थायां तदैव मुक्तसर्वसंसारबन्धनः कृतकृत्यो भवतीति -
तद् उक्तम् ऋषिणा -- गर्भे नु सन्न् अन्व् एषाम् अवेदमहं देवानां जनिमानि विश्वा ।
शतं मा पुर आयसीर् अरक्षन्नध श्येनो जवसा निर् अदीयम् ।
इति ।
गर्भ एवैतच् छयानो वामदेव एवम् उवाच

2.6

ऐतुप्भ्_2.5
एतद्वस्तु तदृषिणा मन्त्रेणाप्युक्तमित्याह -
गर्भे नु मातुर्गर्भाशय एव सन् ।
न्विति वितर्के ।
अनेकजन्मान्तरभावनापरिपाकवशादेषां देवानां वागग्न्यादीनां जनिमानि जन्मानि विश्वा विश्वानि सर्वाण्यन्ववेदमहमहो अनुबुद्धवानस्मीत्यर्थः शतमनेका बह्व्यो मा मां पुर आयसीः आयस्यो लोहमय्य इवाभेद्यानि शरीराणीत्यभिप्रायः, अरक्षन्नरक्षितवत्यः संसारपाशनिर्गमनादधः ।
अथ श्येन इव जालं भित्त्वा जवसा आत्मज्ञानकृतसामर्थ्येन निरदीयं निर्गतो ऽस्मि ।
अहो गर्भ एव शयानो वामदेव ऋषिरेवमुवाचैतत् ॥5॥
स्तर्त् 2.6
स एवं विद्वान् अस्माच् छरीरभेदाद् ऊर्ध्वम् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवत् समभवत्

मूल पाठ: Aitareyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc