ऐतरेयोपनिषद (टीका सहित) · अध्याय 1.1
शान्तिपाठः
ओं वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्मा एधि ।
वेदस्य मे आणीस्थः श्रुतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु मामवतु वक्तारमवतु वक्तारम् ॥
ओं शान्तिः! शान्ति!! शान्तिः!!!
सम्बन्धभाष्य-
परिसमाप्तं कर्म सहापरब्रह्मविषयविज्ञानेन ।
सैषा कर्मणो ज्ञानसहितस्य परा गतिरुक्थविज्ञानद्वारेणोपसंहृता ।
"एतत्सत्यं ब्रह्म प्राणाख्यम्""एष एको देवः""एतस्यैव प्राणस्य सर्वे देवा विभूतयः""एतस्य प्राणस्यात्मभावं गच्छन्देवता अप्येति"इत्युक्तम् ।
सो ऽयं देवताप्ययलक्षणः परः पुरुषार्थः, एष मोक्षः ।
स चायं यथोक्तेन ज्ञानकर्मसमुच्चयसाधनेन प्राप्तव्यो नातः परमस्तीत्येके प्रतिपन्नाः ।
तान्निराचिकीर्षुरुत्तरं केवलात्मज्ञानविधानार्थम् ऽआत्मा वा इदम्ऽ इत्याद्याह ।
कथं पुनरकर्मसम्बन्धिकेवलात्मविज्ञानविधानार्थ उत्तरो ग्रन्थ इति गम्यते?
अन्यार्थानवगमात् ।
तथा च पूर्वोक्तानां देवतानामग्न्यादीनां संसारित्वं दर्शयिष्यत्यशनायादिदोषवत्त्वेन"तमशनापिपासाभ्यामन्ववार्जम्"(1 । 2 । 1) इत्यादिना ।
अशनायादिमत्सर्वं संसार एव परस्य तु ब्रह्मणो ऽशनायाद्यत्ययश्रुतेः ।
भवत्येवं केवलात्मज्ञानं मोक्षसाधनं न त्वत्राकर्म्येवाधिक्रियते विशेषाश्रवणात् ।
अकर्मिण आश्रम्यन्तरस्येहाश्रवणात् ।
कर्म च बृहतीसहस्रलक्षणं प्रस्तुत्यानन्तरमेवात्मज्ञानं प्रारभ्यते ।
तस्मात् कर्म्येवाधिक्रियते ।
न च कर्मासंबन्ध्यात्मविज्ञानं पूर्ववदन्त उपसंहारात् ।
यथा कर्मसंबन्धिनः पुरुषस्य सूर्यात्मनः स्थावरजङ्गमादिसर्वप्राण्यात्मत्वमुक्तं ब्राह्मणेन मन्त्रेण च"सूर्य आत्मा"(ऋ.सं.1 । 114 । 1) इत्यादिना, तथैव ऽएष ब्रह्मैष इन्द्रःऽ (3 । 1 । 3) इत्याद्युपक्रम्य सर्वप्राण्यात्मत्वम् ऽयच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम्, (3 । 1 । 3) इत्युपसंहरिष्यति ।
तथा च संहितोपनिषदि"एतं ह्येव बहुवृचा महत्युक्थे मीमांसन्ते"(ऐ.आ.3 । 2 । 3 । 12) इत्यादिना कर्मसंबन्धित्वमुक्त्वा"सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते"इत्युपसंहरति ।
तथा तस्यैव"यो ऽयमशरीरः प्रज्ञात्मा"इत्युक्तस्य"यश्चासावादित्य एकमेव तदिति विद्यात्"इत्येकत्वमुक्तम् ।
इहापि"को ऽयमात्मा"(3 । 1 । 1) इत्युपक्रम्य प्रज्ञात्मत्वमेव"प्रज्ञानं ब्रह्म"(3 । 1 । 3) इति दर्शयिष्यति ।
तस्मान्नाकर्मसंबन्ध्यात्मज्ञानम् ।
पुनरुक्त्यानर्थक्यमिति चेत् ।
कथम्?"प्राणो वा अहमस्म्यृषे"इत्यादिब्राह्मणेन"सूर्य आत्मा"इति मन्त्रेण च निर्धारितस्यात्मनः (3 । 1 । 1) इति प्रश्नपूर्वकं पुनर्निर्धारणं पुनरुक्तमनर्थकमिति चेत् न; तस्यैव धर्मान्तरविशेषनिर्धारणार्थत्वान्न पुनरुक्ततादोषः ।
कथम्? तस्यैव कर्मसंबन्धिनो जगत्सृष्टिस्थितिसंहारादिधर्मविशेषनिर्धारणार्थत्वात् केवलोपास्त्यर्थत्वाद्वा ।
अथवा आत्मेत्यादिपरो ग्रन्थसन्दर्भ आत्मनः कर्मिणः कर्मणो ऽन्यत्रोपासनाप्राप्तौ कर्मप्रस्तावे ऽविहितत्वात्केवलो ऽप्यात्मोपास्य इत्येवमर्थः ।
भेदाभेदोपास्यत्वाद्वैक एवात्मा कर्मविषये भेददृष्टिभाक्, स एवाकर्मकाले ऽभेदेनाप्युपास्य इत्येवमपुनरुक्तता ।
"विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते"(ई.उ.11) इति,"कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः"(ई.उ.2) इति च वाजिनाम् ।
न च वर्षशतात्परमायुर्मर्त्यानाम् ।
येन कर्मपरित्यागेनात्मानमुपासीत ।
दर्शितं च"तावन्ति पुरुषायुषो ऽह्नां सहस्राणि भवन्ति"इति ।
वर्षशतं चायुः कर्मणैव व्याप्तम् ।
दर्शितश्च मन्त्रः"कुर्वन्नेवेह कर्माणि"इत्यादिः ।
तथा"यावज्जीवमग्निहोत्रञ्जुहोति""यावज्जीवं दर्शपूर्णमासाभ्यां यजेत"इत्याद्याश्च ।
"तं यज्ञपात्रैर्दहन्ति"इति च ।
ऋणत्रयश्रुतेश्च ।
तत्र पारिव्राज्यादि शास्त्रं व्युत्थायाथ भिक्षाचर्यं चरन्ति (बृ.उ.3 । 5 । 1, 4 । 4 । 22) इति आत्मज्ञानस्तुतिपरोर्ऽथवादः ।
अनधिकृतार्थो वा ।
न; परमार्थविज्ञाने फलादर्शने क्रियानुपपत्तेः ।
यदुक्तं कर्मिण आत्मज्ञानं कर्मसंबन्धि च इत्यादि तन्न ।
परं ह्याप्तकामं सर्वसंसारदोषवर्जितं ब्रह्माहमस्मीत्यात्मत्वेन विज्ञाने, कृतेन कर्तव्येन वा प्रयोजनमात्मनो ऽपश्यत फलादर्शने क्रिया नोपपद्यते ।
फलादर्शने ऽपि नियुक्तत्वात्करोतीति चेन्न नियोगाविषयात्मदर्शनात् ।
इष्टयोगमनिष्टवियोगं चात्मनः प्रयोजनं पश्यंस्तदुपायार्थी यो भवति स नियोगस्य विषयो दृष्टो लोके ।
न तु तद्विपरीतनियोगाविषयब्रह्मात्मत्वदर्शी ।
ब्रह्मात्मत्वदर्श्यपि संश्चेन्नियुज्येत नियोगाविषयो ऽपि सन्न कश्चिन्न नियुक्त इति सर्वं कर्म सर्वेण सर्वदा कर्तव्यं प्रप्नोति ।
तच्चानिष्टम् ।
न च स नियोक्तुं शक्यते केनचित्; आम्नायस्यापि तत्प्रभवत्वात् ।
म हि स्वविज्ञानोत्थेन वचसा स्वयं नियुज्यते ।
नापि बृहवित्स्वाम्यविवेकिना भृत्येन ।
आम्नायस्य नित्यत्वे सति स्वातंन्त्र्यात्सर्वान्प्रति नियोक्तृत्वसामर्थ्यमिति चेन्न उक्तदोषात् ।
तथापि सर्वेण सर्वदा सर्वमविशिष्टं कर्म कर्तव्यमित्युक्तो दोषो ऽप्यपरिहार्य एव ।
तदपि शास्त्रेणैव विधीयत इति चेद् यथाकर्मकर्तव्यता शास्त्रेण कृता तथा तदप्यात्मज्ञानं तस्यैव कर्मिणः शास्त्रेण विधीयत इति चेत्, न; विरुद्धार्थबोधकत्वानुपपत्तेः ।
न ह्येकस्मिन्कृताकृतसंबन्धित्वं तद्विपरीतत्वं च बोधयितुं शक्यम्, शीतोष्णतामिवाग्नेः ।
न चेष्टयोगचिकीर्षा आत्मनो ऽनिष्टवियोगाचिकीर्षा च शास्त्रकृता, सर्वप्राणिनां तद्दर्शनात् ।
शास्त्रकृतं चेत्तदुभयं गोपालादीनां न दृश्येत, अशास्त्रज्ञत्वात्तेषाम् ।
यद्धि स्वतो ऽप्राप्तं तच्छास्त्रेण बोधयितव्यम् ।
तच्चेत्कृतकर्तव्यताविरोध्यात्मज्ञानं शास्त्रेण कृतम्, कथं तद्विरुद्धां कर्तव्यतां पुनरुत्पादयेच्छीततामिवाग्नौ तम इव च भानौ ।
न बोधयत्येवेति चेन्न,"स म आत्मेति विद्यात्"(कौ.उ.3 । 9) "प्रज्ञानं ब्रह्म"(3 । 1 । 3) इति चोपसंहारात् ।
"तदात्मानमेवावेत्"(बृ.उ.1 । 4 । 9) "तत्त्वमसि"(छा.उ.6 । 8 -16) इत्येवमादिवाक्यानां तत्परत्वात् ।
उत्पन्नस्य च ब्रह्मात्मविज्ञानस्याबाध्यमानत्वान्नानुत्पन्नं भ्रान्तं वेति शक्यं वक्तुम् ।
त्यागे ऽपि प्रयोजनाभावस्य तुल्यत्वमिति चेत्"नाकृतेनेह कश्चन"(गीता 3 । 28) इति स्मृतेः य आहुर्विदित्वा ब्रह्म व्युत्थानमेव कुर्यादिति तेषामप्येष समानो दोषः प्रयोजनाभाव इति चेन्न; अक्रियामात्रत्वाद् व्युत्थानस्य ।
अविद्यानिमित्तो हि प्रयोजनस्य भावो न वस्तुधर्मः सर्वप्राणिनां तद्दर्शनात् ।
प्रयोजनतृष्णया च प्रेर्यमाणस्य वाङ्मनःकायैः प्रवृत्तिदर्शनात् ।
"सो ऽकामयत जाया मे स्यात्"(बृ.उ.1 । 4 । 17) इत्यादिना पुत्रवित्तादि पाङ्क्तलक्षणं काम्यमेवेति"उभे ह्येते एषणे एव"(बृ.उ.3 । 5 । 1 ; 4 । 4 । 22) इति वाजसनेयिब्राह्मणे ऽवधारणात् ।
अविद्याकामदोषनिमित्ताया वाङ्मनःकायप्रवृत्तेः पाङ्क्तलक्षणाया विदुषो ऽविद्यादिदोषाभावादनुपपत्तेः क्रियाभावमात्रं व्युत्थानम्, न तु यागादिवदनुष्ठेयरूपं भावात्मकम् ।
तच्च विद्यावत्पुरुषधर्म इति न प्रयोजनमन्वेष्टव्यम् ।
न हि तमसि प्रवृत्तस्योदित आलोके यद्गर्तपङ्ककण्टकाद्यतपनं तत्किंप्रयोजनमिति प्रश्नार्हम् ।
व्युत्थानं तर्ह्यर्थप्राप्तत्वान्न चोदनार्हमिति गार्हस्थ्ये चेत्परं ब्रह्मविज्ञानं जातं तत्रैवास्त्वकुर्वत आसनं न ततो ऽन्यत्र गमनमिति चेन्न कामप्रयुक्तत्वाद्गार्हस्थ्यस्य"एतावान्वै कामः"(बृ.उ.1 । 4 । 17) इति"उभे ह्येते एषणे एव"(बृ,उ.3 । 5 । 1 ; 4 । 4 । 22) इत्यवधारणात् ।
कामनिमित्तपुत्रवित्तादिसंबन्धनियमाभावमात्रं न हि ततो ऽन्यत्र गमनं व्युत्थानमुच्यते ।
अतो न गार्हस्थ्य एवाकुर्वत आसनमुत्पन्नविद्यस्य ।
एतेन गुरुशुश्रूषातपसोरप्यप्रतिपत्तिर्विदुषःसिद्धा ।
अत्र केचिद् गृहस्था भिक्षाटनादिभयात्परिभवाच्च त्रस्यमानाः सूक्ष्मदृष्टितां दर्शयन्त उत्तरमाहुः भिक्षोरपि भिक्षाटनदिनियमदर्शनाद्देहधारणमात्रार्थिनो गृहस्थस्यापि साध्यसाधनैषणोभयविनिर्मुक्तस्य देहमात्रधारणर्थमशनाच्छादनमात्रमुपजीवतो गृह एवास्त्वासनमिति ।
न, स्वगृहविशेषपरिग्रहनियमस्य कामप्रयुक्तत्वादित्युक्तोत्तरमेतत् ।
स्वगृहविशेषपरिग्रहाभावे च शरीरधारणमात्रप्रयुक्ताशनाच्छादनार्थिनः स्वपरिग्रहविशेषाभावेर्ऽथाद्भिक्षुकत्वमेव ।
शरीरधारणार्थायां भिक्षाटनादिप्रवृत्तौ यथा नियमो भिक्षोः शौचादौ च, तथा गृहिणो ऽपि विदुषो ऽकामिनो ऽस्तु नित्यकर्मसु नियमेन प्रवृत्तिर्यावज्जीवादिश्रुतिनियुक्तत्वात् प्रत्यवायपरिहारायेति ।
एतन्नियोगाविषयत्वेन विदुषः प्रत्युक्तमशक्यनियोज्यत्वाच्चेति ।
यावज्जीवादिनित्यचोदनानर्थक्यमिति चेत्?
न, अविद्वद्विषयत्वेनार्थवत्त्वात् ।
यत्तु भिक्षोः शरीरधारणमात्रप्रवृत्तस्य प्रवृत्तेर्नियतत्वं तत्प्रवृत्तेर्न प्रयोजकम् ।
आचमनप्रवृत्तस्य पिपासापगमवन्नान्यप्रयोजनार्थत्वमवगम्यते ।
न चाग्निहोत्रादीनां तद्वदर्थप्राप्तप्रवृत्तिनियतत्वोपपत्तिः ।
अर्थप्राप्तप्रवृत्तिनियमो ऽपि प्रयोजनाभावे ऽनुपपन्न एवेति चेत्?
न, तन्नियमस्य पूर्वप्रवृत्तिसिद्धत्वात्तदतिक्रमे यत्नगौरवात् ।
अर्थप्राप्तस्य व्युत्थानस्य पुनर्वचनाद्विदुषः कर्तव्यत्वोपपत्तिः ।
अविदुषोपि मुमुक्षुणा पारिव्राज्यं कर्तव्यमेव ।
तथा च"शान्तो दान्तः"(बृ.उ.4 । 4 । 23) इत्यादिवचनं प्रमाणम् ।
शमदमादीनां चात्मदर्शनसाधनानामन्याश्रमेष्वनुपपत्तेः ।
"अत्याश्रमिभ्यः परम पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम्"(6 । 21) इति च श्वेताश्वतरे विज्ञायते ।
ऽन कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुःऽ (कैवल्य.2) इति च कैवल्यश्रुतिः ।
"ज्ञात्वा नैष्कर्म्यमाचरेत्"इति च स्मृतेः ।
"ब्रह्माश्रमपदे वसेत्"इति च ब्रह्मचर्यादिविद्यासाधनानां च साकल्येनात्याश्रमिषूपपत्तेर्ग्रार्हस्थ्ये ऽसंभवात् ।
न चासंपन्नं साधनं कस्यचिदर्थस्य साधनायालम् ।
यद्विज्ञानोपयोगीनि च गार्हस्थ्याश्रमकर्माणि तेषां परमफलमुपसंहृतं देवताप्ययलक्षणं संसारविषयमेव ।
यदि कर्मिण एव परमात्मविज्ञानमभविष्यत् संसारविषयस्यैव फलस्योपसंहारो नोपापात्स्यत् ।
अङ्गफलं तदिति चेन्न तद्विरोध्यात्मवस्तुविषयत्वादात्मविद्यायाः ।
निराकृतसर्वनामरूपकर्मपरमार्थात्मवस्तुविषयं ज्ञानममृतत्वसाधनम् ।
गुणफलसंबन्धे हि निराकृतसर्वविशेषात्मवस्तुविषयत्वं ज्ञानस्य न प्राप्नोति ।
तच्चानिष्टम्,"यत्र त्वस्य सर्वमात्मैवाभूत्"
(बृ.उ.2 । 4 । 14) इत्यधिकृत्य क्रियाकारकफलादिसर्वव्यवहारनिराकारणाद्विदुषः ।
तद्विपरीतस्याविदुषो"यत्र हि द्वैतमिव"(बृ.उ.2 । 4 । 14) इत्युक्त्वा क्रियाकारकफलरूपस्यैव संसारस्य दर्शितत्वाच्च वाजसनेयिब्राह्मणे ।
तथेहापि देवताप्ययं संसारविषयं यत्फलमशनायादिमद्वस्त्वात्मकं तत्फलमुपसंहृत्य केवलं सर्वात्मकवस्तुविषयं ज्ञानममृतत्वाय वक्ष्यामीति प्रवर्तते ।
ऋणप्रतिबन्धस्याविदुष एव मनुष्यपितृदेवलोकप्राप्तिं प्रति, न विदुषः ।
"सो ऽयं मनुष्यलोकः पुत्रेणैव"(बृ.उ.1 । 5 । 16) इत्यादिलोकत्रयसाधननियमश्रुतेः ।
विदुषश्च ऋणप्रतिबन्धाभावो दर्शित आत्मलोकार्थिनः"किं प्रजया करिष्यामः"(बृ.उ.4 । 4 । 22) इत्यादिना ।
तथा"एतद्व स्म वै तद्विद्वांस आहुरृषः कावषेयाः"इत्यादि ।
"एतद्ध स्म वै तत्पूर्वे विद्वांसो ऽग्निहोत्रं न जुहवाञ्चक्रुः"(कौषी. 2 । 5) इति च कौषीतकिनाम् ।
अविदुषस्तर्हि ऋणानपाकरणे पारिव्राज्यानुपपत्तिरिति चेत्?
न; प्राग्गार्हस्थ्यप्रतिपत्तेरृणित्वासंभवात् ।
अधिकारानारूढो ऽप्यृणी च स्यात् सर्वस्य ऋणित्वमित्यनिष्टं प्रसज्येताप्रतिपन्नगार्हस्थ्यस्यापि"गृहाद्वनीभूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद्वा वनाद्वा"(जा.उ.4) इत्यात्मदर्शनोपायसाधनत्वेनेष्यत एव पारिव्राज्यम् ।
यावज्जीवादिश्रुतीनामविद्वदमुमुक्षुविषये कृतार्थता ।
छान्दोग्ये च केषाञ्चिद् द्वादशरात्रमग्निहोत्रं हुत्वा तत ऊर्ध्व परित्यागः श्रूयते ।
यत्त्वनधिकृतानां पारिव्राज्यमिति, तन्न, तेषां पृथगेव,"उत्सन्नाग्निरनग्निको वा"इत्यादिश्रवणात् ।
सर्वस्मृतिषु चाविशेषेणाश्रमविकल्पः प्रसिद्धः समुच्चयश्च ।
यत्तु विदुषोर्ऽथप्राप्तं व्युत्थानमित्यशास्त्रार्थत्वे, गृहे वने वा तिष्ठतो न विशेष इति, तदसत् व्युत्थानस्यैवार्थप्राप्तत्वान्नान्यत्रावस्थानं स्यात् ।
अन्यत्रावस्थानस्य कामकर्मप्रयुक्तत्वं ह्यवोचाम, तदभावमात्रं व्युत्थानमिति च ।
यथाकामित्वं तु विदुषो ऽत्यन्तमप्राप्तं अत्यन्तमूढविषयत्वेनावगमात् ।
तथा शास्त्रचोदितमपि कर्म आत्मविदो ऽप्राप्तं गुरुभारतयावगम्यते ।
किमुतात्यन्ताविवेकनिमित्तं यथाकर्मित्वम् ।
न हि उन्मादतिमिरदृष्ट्युपलब्धं वस्तु तदपगमे ऽपि तथैव स्यात् ।
उन्मादतिमिरदृष्टिनिमित्तत्वादेव तस्य ।
तस्मादात्मविदो व्युत्थानव्यतिरेकें न यथाकामित्वं न चान्यत्कर्तव्यमित्येतत्सिद्धम् ।
यत्तु"विद्यां चाविद्यां च यस्यद्वेदोभयं सह"(ई.उ.11) इति न विद्यावतो विद्यया सहाविद्यापि वर्तते इत्ययमर्थः कस्तर्हि एकस्मिन्पुरुषे एते एकदैव न सह संबध्येयातामित्यर्थः ।
यथा शुक्तिकायां रजतशुक्तिकाज्ञाने एकस्य पुरुषस्य ।
"दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता"(क.उ.1 । 2 । 4) इति हि काठके ।
तस्मान्न विद्यायां सत्यामविद्यासंभवो ऽस्ति ।
"तपसा ब्रह्म विजिज्ञासस्व"(तै.उ.3 । 2) इत्यादिश्रुतेः तप आदि विद्योत्पत्तिसाधनं गुरूपासनादि च कर्म अविद्यात्मकत्वादविद्योच्यते तेन विद्यामुत्पाद्य मृत्युं काममतितरति ।
ततो निष्कामस्त्यक्तैषणोब्रह्मविद्यया अमृतत्वमश्नुत इत्ये ऽतमर्थ दर्शयन्नाह -"अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते"(ई.उ.11) इति ।
यत्तु पुरुषायुः सर्वं कर्मणैव व्याप्तं"कुवेन्नेवेह कर्माणि जिजीविषेच्छतं समाः"(ई.उ.2) इति तदविद्वद्विषयत्वेन परिहृतमितरथासंभवात् ।
यत्तु वक्ष्यमाणमपि पूर्वोक्ततुल्यत्वात्कर्मणाविरुद्धमात्मज्ञानमिति, तत्सविशेषनिर्विशेषात्मतया प्रत्युक्तम्, उत्तरत्र व्याख्याने च दर्शयिष्यामः ।
अतः केवलनिष्क्रियब्रह्मात्मकत्वविद्यादर्शनार्थमुत्तरो ग्रन्थ आरभ्यते -
स्तर्त् 1,1.1
आत्मा वा इदम् एक एवाग्र आसीत् ।
नान्यत् किञ्चन मिषत् ।
स ईक्षत लोकान् नु सृजा इति
ऐतुप्भ्_1,1.1
आत्मा आप्नोतेरत्तेरततेर्वा परः सर्वज्ञः सर्वशक्तिरशनायादिसर्वसंसारधर्मवर्जितो नित्यशुद्धबुद्धमुक्तस्वभावो ऽजो ऽजरो ऽमरोमृतो ऽभयो ऽद्वयो वै इदं यदुक्तं नामरूपकर्मभेदभिन्नञ्जगदात्मैवैको ऽग्रे जगतः सृष्टेः प्रागासीत् ।
किं नेदानीं स एवैकः
न ।
कथं तर्ह्यासीदित्युच्यते यद्यपीदानीं स एवैकस्तथाप्यस्ति विशेषः ।
प्रागुत्पत्तेरव्याकृतनामरूपभेदमात्मभूतमात्मैकशब्दप्रत्ययगोचरं जगदिदानीं व्याकृतनामरूपभेदत्वादनेकशब्दप्रत्ययगोचरमात्मैकशब्दप्रत्ययगोचर चेति विशेषः ।
यथा सलिलात्पृथक्फेननामरूपव्याकरणात्प्राक्सलिलैकशब्दप्रत्ययगोचरमेव फेनम्, यदा सलिलात्पृथङ्नामरूपभेदेन व्याकृतं भवति तदा सलिलं फेनं चेत्यनेकशब्दप्रत्ययभाक्सलिलमेवेति चैकशब्दप्रत्ययभाक्च फेनं भवति तद्वत् ।
नान्यत्किञ्चन न किञ्चिदपि मिषन्निमिषद्व्यापारवदितरद्वा ।
यथा सांख्यानामनात्मपक्षपाति स्वतन्त्रं प्रधानं यथा च काणादानामणवो न तद्वदिहान्यदात्मनः किञ्चिदपि वस्तु विद्यते किं तर्हि ! आत्मैवैक आसीदित्यभिप्रायः ।
स सर्वज्ञस्वाभाव्याद् आत्मा एक एव सन्नीक्षत ।
ननु प्रागुत्पत्तेरकार्यकरणत्वात्कथमीक्षितवान् ।
नायं दोषः सर्वज्ञस्वाभाव्यात् तथा च मन्त्रवर्णः-"अपाणिपादो जवनो ग्रहीता"(श्वे.उ.3 । 19) इत्यादिः ।
केनाभिप्रायेणेत्याह - लोकान् अम्भःप्रभृतीन् प्राणिकर्मफलोपभोगस्थानभूतान्नु सृजै सृजे ऽहमिति ॥1॥
स्तर्त् 1,1.2
एवमीक्षित्वा आलोच्य -
स इमांल् लोकान् असृजताम्भो मरीचीर् मरम् आपः ।
अदो ऽम्भः परेण दिवम् ।
द्यौः प्रतिष्ठा ।
अन्तरिक्षं मरीचयः ।
पृथिवी मरः ।
या अधस्तात् ता आपः
ऐतुप्भ्_1,1.2
स आत्मेमांल्लोकानसृजत सृष्टवान् ।
यथेह बुद्धिमांस्तक्षादिरेवंप्रकारान्प्रासादादीन्सृज इति ईक्षित्वेक्षानन्तर प्रासादादीन्सृजति तद्वत् ।
ननु सोपादानस्तक्षादिः प्रासादादीन्सृजतीति युक्तं निरुपादानस्त्वात्मा कथं लोकान् सृजति ?
नैष दोषः, सलिलफेनस्थानीये आत्मभूते नामरूपे अव्याकृते आत्मैकशब्दवाच्ये व्याकृतफेनस्थानीयस्य ।
जगतः उपादानभूते संभवतः ।
तस्माद् आत्मभूतनामरुपोपादानभूतः सन्सर्वज्ञो जगन्निर्मिमीत इत्यविरुद्धम् ।
अथवा, यथा विज्ञानवान्मायावी निरुपादान आत्मानमेव आत्मान्तरत्वेनाकाशेन गच्छन्तमिव निर्मिमीते, तथा सर्वज्ञो देवः सर्वशक्तिर्महामाय आत्मानमेवात्मान्तरत्वेन जगद्रूपेण निर्मिमीत इति युक्ततरम् ।
एवं च सति कार्यकारणोभयासद्वाद्यादिपक्षाश्च न प्रसज्जन्ते सुनिराकृताश्च भवन्ति ।
कांल्लोकानसृजतेत्याह - अम्भो मरीचिर्मरमाप इति ।
आकाशादिक्रमेण अण्डमुत्पाद्याम्भःप्रभृतीन् लोकानसृजत ।
तत्राम्भःप्रभृतीन् स्वयमेव व्याचष्टे श्रुतिः ।
अदस्तदम्भः शब्दवाच्यो लोकः परेण दिवं द्युलोकात्परेण परस्तात् ; सो ऽम्भःशब्दवाच्य अम्भो भरणात् ।
द्यौःप्रतिष्ठाश्रयस्तस्याम्भसो लोकस्य ।
द्युलोकादधस्तादन्तरिक्षं यत्तन्मरीचयः ।
एको ऽप्यनेकस्थानभेदत्वाद्बहुवचनभाक् - मरीचय इति ; मरीचिभिर्वा रश्मिभिःसम्बन्धात् ।
पृथिवी मरो म्रियन्ते ऽस्मिन् भूतानीति ।
या अधस्तात् पृथिव्यास्ता आप उच्यन्ते ; आप्नोतेः, लोकाः ।
यद्यपि पञ्चभूतात्मकत्वं लोकानां तथाप्यब्बाहुल्यादब्नामभिरेवाम्भो मरीचिर्मरमाप इत्युच्यन्ते ॥2॥
स्तर्त् 1,1.3
सर्वप्राणिकर्मफलोपादानाधिष्ठानभूतांश्चतुरो लोकान् सृष्ट्वा -
स ईक्षतेमे नु लोकाः ।
लोकपालान् नु सृजा इति ।
सो ऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत्
ऐतुप्भ्_1,1.3
स ईश्वरः पुनरेवेक्षत ।
इमे नु अम्भःप्रभृतयो मया सृष्टा लोकाः परिपालयितृवर्जिता विनश्येयुः तस्मादेषां रक्षणार्थं लोकपालांल्लोकानां पालयितृ सृजै सृजे ऽहमिति ।
एवमीक्षित्वा सो ऽद्भ्य एवं अप्प्रधानेभ्य एव पञ्चभूतेभ्यो येभ्यो ऽम्भःप्रभृतीन्सृष्टवांस्तेभ्य एवेत्यर्थः ।
पुरुषं पुरुषाकारं शिरःपाण्यादिमन्तं समुद्धृत्य अद्भ्यः समुपादाय मृत्पिण्डमिव कुलालाः पृथिव्याः, अमूर्छयत् मूर्छितवान् संपिण्डितवान् स्वावयवसंयोजनेनेत्यर्थः ॥3॥
स्तर्त् 1,1.4
तम् अभ्यतपत् ।
तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम् ।
मुखाद् वाक् ।
वाचो ऽग्निः ।
नासिके निरभिद्येताम् ।
नासिकाभ्यां प्राणः ।
प्राणाद् वायुः ।
अक्षिणी निरभिद्येताम् ।
अक्षीभ्यां चक्षुः ।
चक्षुष आदित्यः ।
कर्णौ निरभिद्येताम् ।
कर्णाभ्यां श्रोत्रम् ।
श्रोत्राद् दिशः ।
त्वङ् निरभिद्यत ।
त्वचो लोमानि ।
लोमभ्य ओषधिवनस्पतयः ।
हृदयं निरभिद्यत ।
हृदयान् मनः ।
मनसश् चन्द्रमाः ।
नाभिर् निरभिद्यत ।
नाभ्या अपानः ।
अपानान् मृत्युः ।
शिश्नं निरभिद्यत ।
शिश्नाद् रेतः ।
रेतस आपः
मूल पाठ: Aitareyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0