अहोरत्रव्रतकथा · श्लोक 81-100
नैवेद्यम् अस्मै प्रददाति लोके यो भक्तियुक्तः सुरसं सुगन्धिम् ।
बली विशिष्टो नरचक्रचूडामण्यर्चिताङ्घ्री नृपसेव्यमानः
फलमूलादिकं दत्त्वा चैत्येषु भक्तिमानसः ।
यथेष्टं फलम् आप्नोति निरोगी सुखवान् सदा
रोगादिभिः प्रबलदुःखकरैर् विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः ।
राज्यं हि यद् विगतकण्टकम् आप्नुवन्ति भैषज्यदानविधिना तद् उशन्ति चैत्ये
ताम्बूलादिगणं दत्त्वा रूपवान् सुखवाञ् छुचिः ।
दिव्याङ्गना मनोहारी राजलक्ष्मीम् अवाप्नुयात्
वितानम् उच्चैर् वितनोति चैत्ये धन्यस् त्रिलोके परिपूजनीयः ।
विशालवंशो गुणरक्षणीयो जातो महादीप्तशरीरभासः
ध्वजान् पताकान् अभिरोपयन्ति ये चैत्यबिम्बे खलु भक्तियुक्ताः ।
महीश्वरास् ते जितदुष्टसंघा भवन्ति नाथा दिवि भूतले च
छत्त्राणि नानामणिभिर् महार्हैः संपादयन्त्य् आत्तमना ददन्ति ।
चैत्येषु भूमीश्वरवृन्दवन्द्याः श्रीसंयुता धर्मरता भवन्ति
वीणादिभिर् घण्टमृदङ्गवाद्यैः शृङ्गैश् च शङ्खादिसुदिव्यघोषैः ।
संघोषणां ये वितरन्ति चैत्ये ते ऽभिज्ञया पञ्चभिर् आश्रयन्ते
महोत्साहकरैर् गीतैः सुमनोज्ञस्वरैर् जिने ।
नृत्यं च कारयेन् नित्यं कुर्याच् च दिव्यघोषणाम्
ते नराः सुस्वरा भोन्ति सुन्दरा दिवि भूतले ।
दिव्यश्रोत्रा महाविज्ञाः सुशब्दं शृणुयुः सदा
नृत्यगीतादिकं कृत्वा चैत्यबिम्बे जिनालये ।
वन्द्यमानाः सुगोत्राश् च निष्पापाश् च बहुश्रुताः
दीर्घायुष्काः सहस्राक्षा निरापदाः गुणाश्रयाः ।
ग्रहव्याधिविमुक्ताङ्गा भवन्ति ते शुभाकराः
त्रासाय दुष्टसत्त्वानां रक्षार्थं च जिनालये ।
शस्त्रहस्ताः स्थिता ये च जिनभक्तिसमन्विताः
आयुष्मन्तो निरोगाश् च पुत्रपौत्रीसमन्विताः ।
भाग्यवन्तो धनाढ्याश् च गच्छन्त्य् अन्ते जिनालयम्
दूर्वाकुन्दाक्षतान् पुष्पान् लाजया सह भक्तिमान् ।
प्रक्षिपेज् जिनचैत्येषु स्वस्तिवाक्यम् उदाहरन्
दुर्गतिं नाभिजानाति सुकुली लोकनन्दनः ।
सर्वविद्यागुरुर् वन्द्यश् चान्ते मोक्षम् अवाप्नुयात्
ये रममुक्तामणिवज्रहेमं रूप्यं सुवर्णादिकधातुदानात् ।
विनष्टशोकाः सुभगाः सुवंशाः पूर्णेन्द्रियाः पूर्णमनोरथाः स्युः
ये शुद्धचित्ताः स्तुतिम् आचरन्ति गद्यात्मिकां पद्यमयीं विचित्राम् ।
ते शब्दसंघान् बहुवाद्यजातान् शृण्वन्ति गीतान् सुरभामिनीनाम्
यावती भूमिर् आक्रान्ता ह्य् अधः काञ्चनचक्रतः ।
योजनानां सहस्राणि राशिभ्यः परिकीर्तिताः
यावत्यो वालुकास् तत्र तावत्यः परिसंख्यया ।
राजा भवति वीरेशश् चक्रवर्ती महीतले
मूल पाठ: Ahoratravratakathā · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0