अहोरत्रव्रतकथा · श्लोक 61-80
ताम्बूलपूगसंयुक्तं कर्पूरनिर्मलानि च ।
दिव्यौषधिगणादीनि गृह्यतां हितकाङ्क्षया
लाजाक्षतफलार्चैव दूर्वाकुन्दानि भक्तितः ।
प्रक्षिप्तानि मया तुभ्यं गृहाण हितमानसः
सौवर्णादिकृतं छत्त्रं ध्वजानि विविधानि च ।
पताकादीनि सर्वाणि प्रगृह्य जिन मोदताम्
धीमान् पुजां तथा कृत्व स्तोत्रम् एवं च कारयेत् ।
जिनेन्द्रतोषणार्थाय कारयेच् च प्रदक्षिणाम्
धर्मधातुमयं चैत्यं सर्वलोकस्वरूपिणम् ।
आलयं सर्वबुद्धानां जिनधातुं नमाम्य् अहम्
नमस् ते जिनधातूनां प्रत्यक्षं समलीलया ।
त्रियानसमयानन्दं सततं त्वां समाश्रये
जिनजं सकलस्थं च पुण्यक्षेत्रं नमाम्य् अहम् ।
पवित्रजनसुखार्थं सेवितार्थप्रदायकम्
प्रणमामि मुनिश्रेष्ठं मङ्गलार्थप्रदायकम् ।
जनानां भयहन्तारं लोकनाथं महेश्वरम्
देवताः सर्वलोकस्थाः संभूता जिनमण्डले ।
दद्यात् तेभ्यो बलिं तुष्ट्या पूजाभक्त्यर्चनैर् अतः
{च्द् अद्द् थे fओल्लोwइन्ग् अfतेर् व्स्. 69
शौचसोभनादिकं कृत्वा व्रतिनः
मौरिकुण्डलसर्वाभरणगांगोपयादिवस्त्र शोभयेन् मालापुष्प
लोहयेन् मण्डली प्रज्वालयेन् विस्तरेणोपडोषित
गन्धाय ते ऽग्रत धूपयेत् सर्वपापप्रसमनं भवति}
बहुमङ्गलवाद्यैस् च छत्त्रसिन्दूरपात्रया ।
आचार्यः स्वस्तिवाक्यैश् च कारयेच् च महोत्सवम्
अश्विनीपूर्णमास्यां तु (...) रविवासरे ।
आयुष्मतीयुते योगे प्रशस्तश् च विशेषतः
यः प्रकुर्याद् व्रतं तस्मिन् विपुलं भोगम् आप्नुयात् ।
परत्र सुखसंप्राप्तो जिनलोके महीपते
शृणु राजन् महाभाग वक्ष्ये पूजाफलं पुनः ।
येन संस्थापितं चैत्यं वीतशोको भवेद् असौ ।
मायामोहविनिर्मुक्तस् त्रिमलेनाविलिप्तितः
पञ्चामृतैश् चन्दनगन्धगर्भैर् ये स्नापयन्ती जिनचैत्यबिम्बम् ।
मन्दाकिनीतोयसुगन्धगन्धैस् ते चाप्सरोभी रतिम् आवहन्ति
ये धूपयन्ति क्षणम् अत्र लोकाः शोका न तेषां प्रभवन्ति जातु ।
सुरासुरैः पूजितपादपद्माः सुगन्धमाल्याम्बरभूषिताङ्गाः
सुगन्धम् अस्मा उपढौकयन्ति प्रसन्नचित्ता मनुजा अजस्रम् ।
सुगन्धिदेहा रविभानुदीप्ता भवन्ति लोकाः परमार्थलोकाः
ये कुङ्कुमाद्यै रचितं सुवस्त्रं ददन्ति ये चैत्यतथागतेभ्यः ।
शीतार्तिदुःखं न हि जातु तेषां तद्धेतुतः कोषविशालसारम्
अशेषपुष्पं जलजं भवन्तं श्वेतारुणश्यामसुपीतकृष्णम् ।
समन्तभद्राय विशालवंशम् आरोग्यसौख्यं प्रभवन्ति दानात्
श्रद्धारता ये मनुजा उदारैर् मालासुगन्धैर् बहुपुष्पयुक्तैः ।
चरन्ति पूजां बहुभक्तितस् ते समस्तसौख्यानि लभन्ति लोके
नेत्राभिरामा बहुरत्नकोषा नराधिपैर् अर्चितपादपद्माः ।
ज्ञानप्रदीपाहतमोहजाला ये दीपमाला रचयन्ति बुद्धे
मूल पाठ: Ahoratravratakathā · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0