अहोरत्रव्रतकथा · श्लोक 101-121
ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठीकुले जन्म सदैव येषाम् ।
हस्त्यश्वयानैश् च परिभ्रमन्ति कृत्वात्र ते चैत्यवरप्रणामम्
अकार-म्-आद्यक्षरमन्त्रराजैर् बल्यूपहारं खलु यो हि दद्यात् ।
तस्मै सुदेवाः सगणाः सुतृप्ता दास्यन्ति सत्कर्मफलाभिलाषम्
यस्मिन् सुधालेपम् उदाचरन्ति ते रोगशोकादिविमुक्तदेहाः ।
धनेश्वरा दीर्घतरायुषस् ते नरामराणां सुभगा भवन्ति
ये बुद्धम् उद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि ।
भक्त्या सुशुद्धा जलमण्डलं वा लभन्ति ते राजबलं सुभाग्याः
स्तूपाङ्गणं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः ।
निर्माल्यम् एभ्यश् च समुद्धरन्ति ते हेमवर्णाः सुदृशो भवन्ति
प्रदक्षिणां ये वितरन्ति तस्मिन् भवन्ति जातिस्मरलाभिनस् ते ।
सुवर्णवर्णा बहुपुत्रपौत्राः पूज्या मनुष्यामरनाथसंग्ःऐः ॥ अव्क्_106
आलस्येनापि यः कुर्याज् जिनालयप्रदक्षिणाम् ।
पदे पदे सुवर्णैककर्षदानफलं लभेत्
ब्रह्मक्षत्रियवैश्यानां सच्छूद्राणां प्रपूजनम् ।
तेभ्यो विहीनजातीनाम् अधिकारो न पूजने
गन्धपुष्पद्विजातीनां ... च पूजयेत् ।
गन्धपुष्पद्विजातीनां विशेषेण प्रकथ्यते
छत्त्रावरोहणं राज्ञां वैश्यानां त्व् अन्नढौकने ।
ध्वजपाताकवस्त्रेषु शुद्राणां च प्रचक्ष्यते
स्वर्णकारा लोहकाराः कांस्यकृत्कृषिकादयः ।
एतेषां चेह हस्तेन चैत्यपुंगवपूजनम्
तण्डुली व्यञ्जनी चापि क्रयविक्रयकारिणः ।
एतैः स्ववृत्तिवस्तूनि ढौकनीयानि भक्तितः
शौलिनी ध्वननवर्ती मांसवर्ती तथा सुरी ।
एतैर् दीपः प्रदातव्यः कुलधर्मप्रमाणतः
चर्मकारश् च मातङ्गो नियोगी रजको ध्वजी ।
एतैश् च दूरतः स्थित्वा वन्दनीयो जिनालयः
षट्त्रिंशज्जातिभिर् एवं स्वकुलवृत्तिचारणैः ।
अन्यैश् च विविधैर् नित्यं पूज्यो मान्यो जिनालयः
येषां व्रतविकारो न पूजने जिनपुंगवे ।
एतैः प्रदक्षिणां कृत्वा वन्दनीयः स्वभक्तितः
एवं भूयश् चरेद् धर्मी व्रतराजम् अहर्निशम् ।
तस्य पुण्यं यथा प्रोक्तं कुष्ठव्याधिक्षयं व्रजेत्
पञ्चानन्तर्यपापानि यास्यन्त्य् अपि न संशयः ।
किं पुनश् चान्यपापानि जन्मान्तरकृतान्य् अपि
न ही स विद्यते राजन् सर्वत्र भुवनेष्व् अपि ।
अहोरात्रव्रतं पुण्यं यो ऽन्यथात्वं करिष्यति
श्रवाद् अपि हरेत् पापं दर्शनात् पुण्यम् आप्नुयात् ।
अनुमोदात् तथा चैवं व्रतिनां तु किम् उच्यते
व्रतिनां सप्तभागानि कृत्वा पुण्यं विशारदः ।
एकभागं लभेद् राजा चैकं तु सारथीजनः ।
सर्वसत्त्वस्य चैकं हि तच् छेषं लभते व्रती
मूल पाठ: Ahoratravratakathā · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0