अहोरत्रव्रतकथा · श्लोक 41-60
व्रतपूजाफलं सर्वं कालं च समयं दिनम् ।
कुत्र स्थाने व्रतं कार्यं तत् सर्वं वद सांप्रतम्
वसुबन्धुर् उवाच ।
शृणु राजन् महाभाग संक्षेपाद् गदितं मया ।
स्वयंभुवो विशेषेण स्थाने पुण्यं महोत्तमम्
तदभावे स्वदेशेषु स्थावरे चैत्यपुंगवे ।
तदभावे स्वयं कृत्वा कारयित्वापरैस् तथा
सुवर्णेन कृते वापि रत्नैश् चान्यैश् च धातुभिः ।
पाषाणेन तथा काष्ठैर् इष्टिकामृन्मयैस् तथा
वालुकौदनपिण्डेन कृते पट्टे च चित्रिते ।
देवालये नदीतीरे तीर्थे पुण्ये महीतले
धर्मशालां विशोध्यादौ यथाविधि व्रतं चरेत् ।
पुष्पाक्षतसुगन्धैश् च वारिणा चैत्यपुंगवे
अर्घं दद्याद् रवेः पूर्वं पुष्पं क्षिपेत् सलाजकम् ।
मण्डलं पञ्चदेवानां लिखेद् गोमयवारिणा
अवन्ध्याक्षरयुक्तेन अद्भिर् व्रतीन् सुसिञ्चयेत् ।
हवर्गान्ताक्षरैर् मन्त्रैर् व्रतिमूर्ध्नि प्रतिष्ठितम्
ओं आः हूम् इति मन्त्रेण दिशोबन्धं सतर्जितम् ।
अङ्गन्यासं करन्यासं कृत्वा गुरुं च वन्दयेत्
पुष्पाक्षतं करे धृत्वा क्षिपेत् पुष्पाञ्जलित्रयम् ।
पञ्चभूतसमुत्पन्नं पद्मकर्णिकसंस्थितम्
आवाहयेद् धर्मधातुं वागीश्वरं समुज्ज्वलम् ।
ज्ञानरूपं समाकृष्य संस्थाप्य समये ऽर्चयेत्
आवाहयामि त्वं नाथ तिष्ठ तत्र मनोहरे ।
स्थिरो भव सदा मा गाः सांनिध्यं कुरु स्थावरे
दुग्धाक्षताम्बुसंयुक्तं नवरत्नानि हाटकैः ।
शङ्खस्थं प्रतिगृह्णातु अर्घं दत्तं मया मुदा
पट्टवस्त्राणि दिव्यानि चीवराणि महाप्रभो ।
नानारङ्गविचित्राणि प्रतिगृह्णातु मोदताम्
चन्दनं मलयोद्भूतं कस्तूरिकुङ्कुमादिकम् ।
शैलेयं घनसारं च गृह्यताम् अनुमोदताम्
जलजान् स्थलजान् दिव्यान् पञ्चवर्णेन ग्रन्थितान् ।
सुमोदवासनायुक्तान् पुष्पान् गृह्य प्रमोदताम्
धूपो ऽयं घ्राणसंतर्पो दिव्यगन्धसुयोजितः ।
प्रदत्तस् तव तोषार्थं गृह्यतां भक्तवत्सल
दीपो ऽयं हरति ध्वान्तं सर्वतिमिरनाशकः ।
घृततैलसमुज्ज्वालो मया दत्तः प्रगृह्यताम्
अन्नं चतुर्विधं नाथ रसानां षड्विधं तथा ।
घृताद्यान् शर्कराहारान् भुञ्जतां च सुखं मम
नानाफलसुमोद्यं च कोषकारण्डवादिकम् ।
स्कन्धमूलादिकं पत्त्रं गृहाण प्रतिमोदताम्
मूल पाठ: Ahoratravratakathā · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0