अहोरत्रव्रतकथा · श्लोक 21-40
सर्वरससमायुक्तं ललितासनसंस्थितम् ।
दिव्याभरणभूषाङ्गं पञ्चबुद्धमुकूटिनम्
वागीश्वरं महाशुक्लं सर्वधर्मप्रतिष्ठितम् ।
एवं स्वहृदि संभाव्य पुरः स्थाप्य प्रपूजयेत्
पाद्याचमनम् अर्घं च दत्त्वा भक्तिसमन्वितः ।
जलजैः स्थलजैः पुष्पैः सुगन्धैः पञ्चगन्धकैः
सांयोजिकैः सुगन्धैश् च सुधूपैर् धूपनैस् तथा ।
घृतप्रयुक्तदीपैश् च नैवेद्यैर् दिव्यभोजनैः
छत्त्रध्वजपताकाभिर् नृत्यगीतसुवादनैः ।
फलमूलादिभिः पत्त्रैः पूगताम्बूलकैस् तथा
नानौषधिसमायुक्तैर् दिव्यैर् मानुष्यकैस् तथा ।
कुन्दपुष्पाक्षतैर् दूर्वैर् लाजया पञ्चरत्नकैः
क्षीरैः शंखसुपुष्पार्घं प्रदद्याच् चैत्यपुंगवे ।
धारणीं चैव स्तोत्रं च पठेद् गीतं च गाययेत्
प्रदक्षिणासहस्रं च यावत् कुर्यात् प्रमोदितः ।
रात्रिं दिवा सुसंपूर्णं प्रचरेच् च प्रदक्षिणाम्
यत्र देवालये तीर्थे सर्वान् देवान् प्रपूजयेत् ।
हीनजातिप्रसङ्गं च स्पर्शनं नैव कारयेत्
स्पर्शिते संचरेत् स्नात्वा पञ्चगव्येन शोधयेत् ।
अस्पर्शे ऽपि चरेत् स्नानं त्रिसंध्यं संचरेद् व्रती
{च्द् अद्द् थे fओल्लोwइन्ग् अfतेर् ऽशोधयेत्ऽ :
शुचिक्रम तथा धर्मम् उत्तमम् अहोरात्रव्रतं ॥
वारवृद्धौ न कर्तव्यं समर्थेनापि कारयेत् ॥
निद्रासेवितं निद्रां कृत्वा विश्रामसेवितं विश्रामं कृत्वा राजन्
तथा व्रतं कारयेद् दोषकम् ऽस्ति तस्मान् न कारयेत् ॥ अव्क्_30* ॥}
अहोरात्रं सुसंपूर्णं न निद्रां कारयेद् व्रती ।
चैत्यध्यानसमायुक्तः जपन् स्तोत्रं पठंश् चरेत्
नानागीतमहोत्साहैर् नृत्यैर् वाद्यैः सुघोषकैः ।
हाहाकारैः समुल्लासैः कारयेत् संप्रदक्षिणाम्
विश्रामं वा न कुर्याच् च खेदं वा व्रतमानसः ।
अहोरात्रे सुसंपूर्णे प्रातः स्नात्वा व्रतं चरेत्
चैत्यपूजां यथा कृत्वा गुरुपूजां समाचरेत् ।
अन्नं वस्त्रं सुवर्णं च व्रीहिरत्नानि भूषितान्
आचार्याय प्रदातव्या यथाशक्ति सुभक्तितः ।
यज्ञं कुर्यात् ततो वज्री व्रतं पूर्णं प्रपूरयेत्
अभिषेकं ततो दत्त्वा पञ्चसूत्रं घटं तथा ।
प्रत्येकं व्रतिनां दत्त्वा आशीर्वाद्यं प्रदापयेत्
कौमारीपूजनं कृत्वा शेषान्नं च प्रभुञ्जयेत् ।
दधिशर्करसंयुक्तं पञ्चामृतं सुभोजनम्
गणचक्रं ततः कुर्याद् विधिज्ञस् तद्विधिं यथा ।
इत्य् एवं व्रतराजं तद् यः कुर्याच् छुद्धमानसः
विपुलं भोगम् आभुज्य सर्वसुखसमन्वितः ।
परत्र सुखम् आप्नोति धर्मलोके महीपते
इन्द्रपृष्ट उवाच ।
भगवन् सर्वविन् नाथ पुनर् वक्तुं त्वम् अर्हसि ।
संसारे बहुधा जातिस् तेषां प्रचारणं कथम्
मूल पाठ: Ahoratravratakathā · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0