भाषा

ENहिગુ
ग्रंथ पाठ

अहोरत्रव्रतकथा · श्लोक 1-20

1

अहोरात्रव्रतकथा
ओं नमः श्रीधर्मधातवे ।
आकाशनिर्मलो भूतो निष्प्रपञ्चगुणाश्रयः ।
पञ्चस्कन्धात्मकः शान्तस् तस्मै स्तूपात्मने नमः

2

एवं मया श्रुतम् एकस्मिन् समये बुद्धो भगवाञ् छ्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अनेकैर् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगैः स्थविरभिक्षुवीतरागसंघैर् बोधिसत्त्वशतसहस्रैः संबहुलैश् च श्रावकैर् दशभिर् लोकपालैश् चतुर्महाराजकायिकैर् अनेकैश् चतुर्वर्णकैर् मनुष्यैर् अनेकशतसहस्रैः परिवारैः परिवृतैः । तस्मिन् सभामण्डले सर्वे धर्मश्रवणिका लोका भगवन्तम् अभिवीक्ष्य चैत्यव्रतकथाम् अनुध्यायन्तः समास्थिताः । अथ खलु सुभूतिः स्थविरः स्वासनात् समुत्थायैकांसम् उत्तरासङ्गं कृत्वा त्रिः प्रदक्षिणीकृत्य सव्यजानुबिम्बं भुवि स्थाप्य भगवन्तं प्रणम्यैतद् अवोचत् ।
अहोरात्रव्रतं नाथ कस्मिन् काले प्रवर्तते ।
तद्विधिं च कथं ब्रूहि तत् सर्वं जगतां प्रभो

3

भगवान् आह ।
साधु साधु सुभूते त्वं शृणु सत्त्वानुकम्पक ।
अहोरात्रव्रतं नित्यं तद्विधिं कथितं मया

4

आसीत् पूर्वविदेहेषु नाम्ना गन्धवती पुरी ।
तस्यां राजा महातेजा इन्द्रपृष्टो महाप्रभुः

5

सो ऽन्तःपुरे सभां कृत्वा वसुबन्धुं जगद्गुरुम् ।
प्रणम्य सहसोत्थाय पप्रच्छ विधिवन् मुदा

6

श्रोतुम् इच्छामि तत् सर्वं यद् व्रतानां समुत्तमम् ।
यस्य पुण्यप्रभावेन सत्त्वा यान्ति सुनिर्वृतिम्

7

तत् सर्वं गदतां धीर सर्वसत्त्वानुकम्पक ।
भवता चानुपाल्यो ऽयं लोकश् च दुष्कृताकुलः

8

वसुबन्धुर् उवाच ।
शृणु राजन् मया ख्यातं व्रतानां व्रतम् उत्तमम् ।
अहोरात्रव्रतं पूर्वं विपश्यिना प्रभाषितम्

9

अश्विनीपूर्णमास्यां तु व्रतं कुर्याद् महोदयम् ।
चैत्यं संपूजयेच् छुद्धः षोडशैर् विधिभिस् तथा

10

भोजनान्ते त्रयोदश्यां कुर्याद् दन्तादिशोधनम् ।
चतुर्दश्यां विशेषेण क्षुरकर्माणि कारयेत्

11

स्नानं कृत्वा च तीर्थेषु शुचिवस्त्रावृतः सुधीः ।
मध्याह्ने पूजयेच् चैत्यं प्रदीपं च प्रदापयेत्

12

सूर्ये षष्ठगते भागे प्राशयेच् च क्षीरोदनम् ।
पुनर् शौचादिकं कृत्वा धर्मं च श्रुणुयान् मुदा

13

प्रत्यूषे पूर्णमास्यां तु स्नात्वा व्रतं समारभेत् ।
आदौ भूमितलं शोध्य धर्मशालां प्रकारयेत्

14

गन्धोदकैः सुशीतैश् च चैत्यपुंगवं स्नापयेत् ।
गोक्षीरैः पञ्चरत्नैश् च शिलाभस्माभिलेपयेत्

15

चत्वारश् च ध्वजाः स्थाप्या वितानं सह चामरैः ।
दिग्माला विविधैः पुष्पैर् लम्बयेच् च जिनालये

16

तदनु व्रतम् आरभ्य गुरुं वज्रधरं नमेत् ।
त्रिरत्नशरणं कृत्वा ध्यापयेद् धर्मधातुकम्

17

धर्मधातुमयं चैत्यं जिनानां गृहम् उत्तमम् ।
अनादिबुद्ध-म्-आख्यातं सर्वतथागतालयम् ।
सर्वदेवालयं चैत्यम् आराध्य व्रतम् आचरेत्

18

सहस्रदलपद्मस्थं चन्द्रबिम्बप्रभास्वरम् ।
रक्तं भोःकारसंभूतं चतुर्मुखं विराजितम्

19

रक्तगौरमुखं मूलं दक्षिणे कुङ्कुमारुणम् ।
पश्चिमे पद्मरक्तं च [!] उत्तरे पीतरक्तकम्

20

अष्टभुजं विराजन्तं वागीश्वरं जगद्गुरुम् ।
धनुर्बाणधरं द्वाभ्यां पाशाङ्कुशधरं तथा ।
प्रज्ञापुस्तं तथा खड्गं वज्रघण्टां तथापरैः

मूल पाठ: Ahoratravratakathā · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc