अहोरत्रव्रतकथा · श्लोक 122-140
इति श्रुत्वा गुरोर् वाक्यम् इन्द्रपृष्टो महाप्रभुः ॥
ततः सत्त्वहितार्थाय व्रतं कर्तुं समुद्यतः
वाराणसीपुरं गत्वा वसुबन्धुवचो यथा ।
विहारं च प्रतिष्ठाप्य चैत्यराजं जिनालयम् ।
संघभोज्यं ततः कृत्वा ययौ स्वर्गं जनैः सुधीः
ततो भिक्षवो भगवन्तम् एतद् ऊचुः ।
भगवन् मुनिशार्दूल पुनर् वक्तुं त्वम् अर्हसि ।
केन केन पुरा नाथ व्रतराजम् इदं कृतम्
भगवान् आह ।
पुरा स्वर्गेषु शक्रेण अहोरात्रव्रतं कृतम् ।
स षट्पारमितां धार्य चैत्यराजम् अपूजयत् ।
प्रदक्षिणां सदा कृत्वा यथाविधि महोत्सवैः
पाताले च पुरा वीरो दैत्येन्द्रो बलवान् अभूत् ।
निर्घोषदमनो नाम देवासुरप्रमर्दकः
इन्द्रं स्वर्गे निराकृत्य पृथिवीम् अवधारितम् ।
तेनासुरसहायेन त्रैलोक्यं स्ववशे कृतम्
पृथिवीमण्डलं गत्वा गतो ऽसौ मघवत्पुरिम् ।
इन्द्रपृष्टमहास्थाने देवताप्रतिमां स्थिताम् ।
पञ्चप्रदक्षिणां कृत्वा प्रज्ञापारस्थितो ऽभवत्
पातालेषु पुनर् गत्वा सो ऽचरत् तद् व्रतोत्तमम् ।
नागिन्यो नागराजाश् च पातालेष्व् अचरंस् तथा
नागैः फणविभूषाभिर् देवनागेन्द्रकल्पितम् ।
पूजितं सततं भक्त्या चैत्यराजं विधानतः
ऋषयश् च पुरा सप्त जलाश्रयप्रतिष्ठितम् ।
पुपूजुः जिनधातुस्थं विधिभिश् च विशारदाः
नागिन्यो विषदर्पान्धाः पूज्यमानाञ् जिनालयम् ।
तापितान् कारयाम् आसुर् विषाङ्गारैः प्रदाहनैः
ततस् तैः शापिता एवं नागिन्यः शम्बुकाः खलु ।
भवध्वं सप्तजन्मानि पुनश् चैत्यस्य सेवकाः
ततश् चान्ते पुनः प्राप्य मानुष्यं पुण्यभावतः ।
एषा सा नायका या तु धर्मदक्षं पतिं लभेत्
ततस् त वञ्चिताः सर्वाः शम्बुका धर्ममानसाः ।
धान्यां प्रदक्षिणां चक्रुर् भावयन्त्यो जिनालयम्
ततः पुण्यानुभावेन देव्यः सप्तकुमारिकाः ।
भूता राजसुता धन्याः प्रालभन् परमं पदम्
तासाम् एका व्रती नाम्ना धर्मदक्षपतिव्रता ।
तस्याः पुण्यप्रभावेन धर्मदक्षो ऽलभद् व्रतम्
धर्मदक्षो महाराजा यथाविधि व्रतं चरन् ।
भार्यया सह धर्मात्मा सुखावत्यां महीपतिः
इत्य् एवं भिक्षवो ज्ञात्वा व्रतानां व्रतम् उत्तमम् ।
चैत्यसेवा सदा कार्या व्रतपुण्यप्रचारणैः
चैत्यव्रतसमं पुण्यं नास्ति सत्यं त्रिभूवने ।
तस्माच् चैत्यः सदा वन्द्यः पूजनीयः प्रयत्नतः
मूल पाठ: Ahoratravratakathā · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0