भाषा

ENहिગુ
ग्रंथ पाठ

अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 81-100

81

प्रदक्षिणान्य् अतः कुर्यात् संगीतैश् च महोत्सवम् ।
अष्टाङ्गप्रणतिं कृत्वा प्रार्थयेद् बोधिसंवरम् ।
ततः क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत्

82

यथा पूजा कृता तत्र मण्डले विधिवत् तथा ।
चैत्यबिम्बं समभ्यर्च्य प्रार्थयेद् एवम् आदरात्

83

तथा सर्वत्र चैत्येषु कुर्यात् पूजादिकं मुदा ।
संगीतिसहितैः स्तोत्रैः कुर्याद् एवं महोत्सवम्

84

कृत्वा प्रदक्षिणान्य् एव निद्रालास्यं विहाय च ।
मुदा जागरणं कुर्वन्न् अहोरात्रं व्रतं चरेत्

85

चतुःसंध्यं तथा स्नात्वा चैत्यसेवां समाचरेत् ।
दुष्टजातिर् न च स्पृश्या स्पर्शिते स्नानम् आचरेत्

86

विश्रामं नैव कुर्याच् च खेदं चित्तेन वा व्रती ।
चैत्यध्यानसमाधानो जपन् स्तोत्रं पठंश् चरेत्

87

नृत्यगीतमहोत्साहैर् नानावाद्यैः सनृत्यकैः ।
हाहाकारैः समुल्लासैः प्रचारयेन् महोत्सवम्

88

एवं पूर्णम् अहोरात्रम् अविश्रान्तं व्रतं चरेत् ।
ततः प्रातस् तथा स्नात्वा मण्डलं चैत्यम् अर्चयेत्

89

ततश् छत्रं पताकाश् च सिन्दूरपात्रया सह ।
सलाजाक्षतपुष्पांश् च प्रारोहयेत् महोत्सवैः

90

यज्ञं कुर्यात् तथा वज्री बलिं दद्याद् यथाविधि ।
अभिषेकं ततो दत्त्वा पञ्चसूत्रघटं क्रमात्

91

साशीर्वादं व्रतिभ्यो ऽपि दद्याद् वज्री समाहितः ।
ततः क्षमार्थनां कृत्वा मण्डलं तद् विसर्जयेत्

92

ततस् ते व्रतिनः सर्वे वज्राचार्यं गुरुं यतीन् ।
अभ्यर्च्य दक्षिणां दत्त्वा तोषयेयुः प्रणम्य च

93

ततस् तद्रज आदाय तीर्थे नागान् समर्च्य च ।
प्रवाहयेत् ततो गेहं प्रायायान् मङ्गलोत्सवैः

94

तत्र तन्मण्डलस्थानं तीर्थाम्बुनाभिषिञ्चयेत् ।
ततस् ते व्रतिनः सर्वे कुर्युस् तद्व्रतपालणम्

95

ततस् तन्मण्डलस्थाने वज्राचार्यो यथाविधि ।
कुमारीं पूजयित्वा तां देवीं भोज्यैः प्रतोषयेत्

96

गणचक्रं ततो ऽभ्यर्च्य भोजनैः संप्रतोषयेत् ।
व्रतिनः साधकांश् चापि जनान् सर्वांश् च तोषयेत्

97

एवं चरन्ति ये मर्त्या अहोरात्रव्रतं मुदा ।
ते भवन्ति महासत्त्वा बोधिसत्त्वाः शुभाशयाः

98

दुर्गतिं ते न गच्छन्ति सदा गच्छन्ति सद्गतिम् ।
भुक्त्वा धर्मसुखोत्साहं संप्रयान्ति जिनालयम्

99

एवं विपश्यिना शास्त्रा समाख्यातं श्रुतं मया ।
भूयः शृणु महाराज तत्फलानि विशेषतः

100

पञ्चामृतैः पञ्चसुगन्धितोयैर् ये स्नापयन्तीह जिनेन्द्रचैत्यम् ।
मन्दाकिनीदिव्यसुगन्धितोये स्नात्वामरैस् ते सततं रमन्ते

मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc