भाषा

ENहिગુ
ग्रंथ पाठ

अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 61-80

61

स्वयंभूचैत्यभूक्षेत्रे विहारे सुगताश्रमे ।
पुण्यक्षेत्रे नदीतीरे संगमे सरितां तथा

62

तीर्थे समुद्रतीरे च ह्रदतीरे सरस्तटे ।
उद्याने पर्वते ऽरण्ये विविक्ते वन-आश्रमे

63

चैत्यालये शुभे स्थाने प्रासादे मन्दिरे गृहे ।
एवम् अन्यत्र भूदेशे शुद्धस्थाने मनोरमे

64

एतेषु परिशुद्धेषु यत्रेप्सिते विशोधिते ।
धर्मशालां विधायादौ मृद्गोमयैर् विलेपयेत्

65

चतुर्ध्वजान् प्रतिष्ठाप्य वितनुयाद् वितानकम् ।
पुष्पमालादिभिश् चित्रैर् दुष्यैः पट्टैश् च मण्डयेत्

66

{ए अद्द्स् अ वेर्से इन् थे मर्गिन् अस् fओल्लोwस्:
गोक्शीरैः पंचरत्नैश् च शिलाचूर्णैर् विलेपयेत् ।
दिग्माला दिग्प्रतापैश् (सिच्) च लम्बयेच् च जिनालयं ॥ अव्च्_65* ॥}
तत्र वज्री शुभाचारः परिशुद्धत्रिमण्डलः ।
मण्डलं वर्तयेद् रम्यं धर्मधातोर् यथाविधि

67

ततस् तन् मण्डलं वज्री प्रतिष्ठाप्य यथाविधि ।
व्रतिनां संग्रहं कृत्वा व्रतारम्भं प्रकारयेत्

68

शुक्लपक्षे त्रयोदश्यां भोजनान्ते दिनात्यये ।
दन्तादिधावनं कृत्वा मुखादिं परिशोधयेत्

69

चतुर्दश्यां प्रभाते च तीर्थे स्नात्वा व्रती सुधीः ।
शुचिवस्त्रावृतो भद्रशीलः श्रद्धासमन्वितः

70

मध्याह्ने मण्डलं चैत्यं पञ्चभिर् उपहारकैः ।
यथाविधि समभ्यर्च्य प्रणामं संप्रकारयेत्

71

ततो यामे तृईये ऽह्नः कारयेद् व्रतपालणम् ।
निरामिषैर् विशुद्धान्नैः स्नानं च कारयेत् ततः

72

।
ततो रात्रिमुखे चैत्यं मण्डलं च समर्चयेत् ।
दीपमालाः समुज्ज्वाल्य धर्मं च श्रावयेद् व्रतीन्

73

पूर्णमास्यां प्रभाते तु स्नात्वा शुद्धाम्बरावृताः ।
शोधितपञ्चगव्येन कुर्युश् चाङ्गविशोधनम्

74

ततो दत्त्वार्घम् आदौ ते सूर्याय व्रतिनस् तथा ।
गुरवे च प्रदायार्घं स्थित्वा स्वस्वासने क्रमात्

75

पूजाङ्गानि च सर्वाणि शोधयेयुर् यथाविधि ।
तत्रादौ व्रतिसंघः स वज्रसत्त्वं समर्चयेत्

76

ततो रत्नत्रयं चैव संपूजयेद् यथाविधि ।
तेषां च शरणं गत्वा प्रणमेद् रचिताञ्जलिः

77

त्रिसमाधिं ततः कृत्वा ध्यात्वात्मनि जिनेश्वरम् ।
आवाहयेत् पुरः श्रीमद्धर्मधातुं महेश्वरम्

78

तत्पादार्घं ततो दद्यात् ततश् चाचमनार्घकम् ।
प्रोक्षणार्घं ततो दत्त्वा मण्डले संनिवेशयेत्

79

ततः पूजोपहारैस् तं मण्डलं सगणं मुदा ।
यथाविधि समभ्यर्च्य तद्धृन्मन्त्रं सुधीर् जपेत्

80

{ए अद्द्स् हेरे:
ततः स्तोत्रं पठेत् ।
धर्मधातुमयं चैत्यं सर्वाकारस्वरूपिणम् ।
आलयं सर्वबुद्धानां वागीश्वरं नमाम्य् अहम् ॥
जिनजसकलधातुं पुण्यक्षेत्रे कृतार्थम् ।
प्रविणजनसुखार्थं सेवितार्थं प्रदत्तम् ॥
प्रणमतं मुनिराजं अंजलिष्ठं प्रधानम् ।
जितसकलभयार्थं लोकनाथं महेशम् ॥}
ततः स्तोत्रं पठित्वा तु तोषयेद् रचिताञ्जलिः ।
पापानां देशनां कुर्यात् थता पुण्यानुमोदनाम्

मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc