भाषा

ENहिગુ
ग्रंथ पाठ

अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 101-120

101

{ब् हस् थे fओल्लोwइन्ग् अद्दितिओनल् वेर्से हेरे,
पञ्चामृतैः पञ्चसुगन्धिरत्नैर् दुर्वाक्षतैः कूसुमलाजतोयैः ।
ये चार्घदानं वितरन्ति चैत्ये ते प्राप्नुवन्तीह महानिधानम् ॥ अव्च्_100* ॥}
कुर्वन्ति चैत्ये जलमण्डलं ये सुपिष्टवासेन तथा मनुष्याः ।
ते हेमवर्णा नृपवंशजाताः समृद्धिमन्तः सुभगा भवन्ति

102

सुगन्धधूपं जिनचैत्यबिम्बे ये धूपयन्ति प्रतिमोदयन्तः ।
सुगन्धदेहाः सुरसंघवन्द्यास् ते शुद्धचित्ता मनुजा भवन्ति

103

ये पञ्चगन्धैर् अनुलेपयन्ति संबुद्धचैत्यं मनुजाः प्रसन्नाः ।
सौगन्धिताङ्गा बलदीप्तिमन्तस् ते संभवन्ते परमार्थलोकाः

104

यज्ञोपवीतं वररङ्गितं च सुचीवराणि प्रददन्ति चैत्ये ।
ते दिव्यवस्त्रावृतसौम्यदेहाः सर्वार्थसंपद्भरिता भवन्ति

105

ये सर्वपुष्पैर् वरगन्धवद्भिर् अभ्यर्चयन्ति प्रतिनम्य चैत्यम् ।
नैरोगिणस् ते सुचिरायुषः स्युः सौभाग्यवन्तः सुविशालवंशाः

106

ये चापि चैत्यं परिमण्डयन्ति स्रग्भिः सुपुष्पै रचिताभिर् एवम् ।
ते भाग्यवन्तः परिभूषिताङ्गा देवा भवन्ति प्रथिता नृपाश् च

107

ये दीपमाला रचयन्ति चैत्ये ते रत्नसंपत्परिपूर्णकोषाः ।
नेत्राभिरामाः सुदृशो भवन्ति ते ज्ञानदीपाहतमोहजालाः

108

{अ हस् त्wओ अद्दितिओनल् वेर्सेस् हेरे
मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने
क्लेशारीन् अपि यो दुरन्तविषयान् अन्तश्चरान् दुर्जनान् ।
स्कन्धारातिम् अपि प्रसह्य सुगतो मृत्युं च निःस्वो ऽवशः
प्राप्तः सर्वरसाग्रभोगवशितां क्षीरोदनाढौकनात् ॥ अव्च्_107* ॥
सौवर्णरौप्यविधधातुजमृन्मयं वा
शाल्योदनैः सुपरिपूर्णसुपिण्डपात्रम् ।
भक्त्या ददाति सुगतालयचैत्यबिम्बे
स्यात् तस्य पुण्यम् असमं फलम् अप्रमेयम् ॥ अव्च्_107** ॥}
ये चैत्यबिम्बे सुरसं प्रणीतं नैवेद्यम् अग्रं प्रददन्ति भोग्यम् ।
ते लोकश्रेष्ठा बलकीर्तियुक्ता नृपा भवन्ति प्रथितानुभावाः

109

ये चापि चैत्ये फलपत्त्रमूलस्कन्धादिकं वा प्रददन्ति भक्त्या ।
नीरोगिणस् ते सुसमृद्धिमन्तो यथेष्टभोग्याः सुखिनो भवन्ति

110

भैषज्यम् एवं प्रददन्ति ये च संबुद्धचैत्ये मनुजाः प्रसन्नाः ।
स्निग्धाननास् ते नृपतीश्वराश् च सौवंअवर्णा निरुजो भवन्ति

111

{ब्, wहिछ् हद् व्स्. इइ नोतेद् अबोवे हेरे, अद्द्स् अनोथेर् वेर्से,
माहिष्यगोरसवरं घृतया समेतम्
....................................................... ये ।
तस्मै ददन्ति सततं जिनपुंगवाय
ते प्राप्नुवन्त्य् ............. सराजलक्ष्मीम् ॥ अव्च्_110* ॥}
ताम्बूलपूगादिरसायनानि ये चैत्यबिम्बे परिढौकयन्ति ।
ते भूमिपालाः सुभगा भवन्ति दिव्याङ्गनानेत्रमनोहरास्याः

112

{अ अन्द् ब् हवे थे fओल्लोwइन्ग् अद्दितिओनल् वेर्से हेरे.
कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां
स्वादुस्पर्शसुखां सुरासुरपुरे यद् देववृन्दारकैः ।
भास्वत्काञ्चनभाजनेषु निहिताम् अश्नन्ति दिव्यां सुधां
तद् बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात् फलम् ॥ अव्च्_111* ॥}
ये चैत्यबिम्बे परिशुद्धरङ्गान् ध्वजान् विचित्रान् अधिरोपयन्ति ।
महीश्वरास् ते जितदुष्टसंघा धन्या भवन्ति प्रथितप्रतापाः

113

उच्चैर् वितन्वन्ति वितानम् आराद् ये चैत्यबिम्बे मनुजाः प्रसन्नाः ।
देवाधिपास् ते मनुजाधिपाश् च धन्या भवन्ति प्रथितर्द्धिमन्तः

114

ये चापि चैत्ये मनुजा विचित्राः शुद्धाः पताका अवलम्बयन्ति ।
ते श्रीसमेता दिवि भूतले च नाथा भवन्ति त्रिदशाभिमान्याः

115

छत्त्रं सुवर्णं मणिभिर् विचित्रं पट्टैश् च सिक्तैः कुसुमैः कृतं च ।
ये चैत्यबिम्बे मनुजाः प्रसन्ना माङ्गल्यवाद्यैर् अधिरोहयन्ति

116

ते धर्मपालाः शुभकीर्तियुक्ता लक्ष्म्यालयाः श्रीगुणसौख्यवन्तः ।
देवाधिराजा मनुजाधिपाश् च संबोधिचर्याभिरता भवन्ति

117

संगीतवाद्यैः सुमनोज्ञशब्दैः शङ्खादिमाङ्गल्यमहानुरावैः ।
वीणादिभिर् वंशमनोज्ञघोषैर् महोत्सवं ये वितरन्ति चैत्ये

118

ते दिव्यकर्णाः सुमनोज्ञवाक्याः सौन्दर्यरूपाः परिशुद्धचित्ताः ।
महर्द्धिमन्तः सुगताभिभक्ता मर्त्यामरेन्द्राः सततं भवन्ति

119

नृत्यैः सुलास्यैः सुमनोज्ञभावैर् ये चैत्यबिम्बं सरसा भजन्ति ।
ते पापदुष्टग्रहरोगमुक्ताः पुण्या गुणार्थानुगता भवन्ति

120

ये चापि दुष्टान् अभिखेटयन्तो रक्षन्ति चैत्यं सततं मनुष्याः ।
ते भाग्यवन्तो निरुजाः सुवंशाः सौख्यं प्रभुक्त्वा प्रसरन्ति स्वर्गम्

मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc