अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 41-60
एवं सर्वे महासत्त्वा ऋषयो मुनयो ऽपि च ।
एतद् व्रतवरं कृत्वा भवन्ति ब्रह्मचारिणः
एवं ये ये नराश् चापि चरन्त्य् एतद् व्रतं मुदा ।
ते ते सर्वे ऽपि तत्पुण्यैर् भवन्ति बोधिभागिनः
ये चाप्य् एतद् व्रतं दृष्ट्वा श्रुत्वापि चानुमोदिताः ।
प्रसीदन्ति तथा ते ऽपि तत्पुण्यं प्राप्नुवन्ति हि
एतत्पुण्यानुभावेन नैव गच्छन्ति दुर्गतिम् ।
सर्वदा सशुभं सौख्यं भुक्त्वा यान्ति जिनालयम्
तस्मात् सर्वप्रयत्नेन सद्धर्मसुखवाञ्छिभिः ।
अहोरात्रव्रतं भक्त्या चरितव्यं नरैः सदा
अहोरात्रव्रतोत्पन्नपुण्यसंख्या न विद्यते ।
अप्रमेयम् असंख्येयम् इति बुद्धैः प्रकथ्यते
सर्वैर् अपि मुनीन्द्रैस् तत् संख्यां कर्तुं न शक्यते ।
मयात्र शक्यम् एकेन तत्पुण्यं गणितुं कथम्
यस्य पुण्यानुभावेन महान्ति पातकान्य् अपि ।
निर्दह्य परिशुद्धात्मा तत्क्षणाद् याति सद्गतिम्
यथाभिलषितं कार्यं साधयित्वा ह्य् अविघ्नतः ।
सर्वदा सत्सुखं भुक्त्वा संयान्त्य् अन्ते जिनालयम्
इति मत्वा महत्पुण्यम् अहोरात्रव्रतं वरम् ।
धर्मार्थकाममोक्षाप्त्यै चरितव्यं सदा नरैः
तथा चेत् ते महत्पुण्यम् इहामुत्र शुभं सदा ।
क्रमाद् बोधिव्रतं प्राप्य बोधिसत्त्वो भवेद् ध्रुवम्
क्रमात् क्लेशान् विनिर्जित्य संसारसुखनन्दिनः ।
जित्वा मारगणान् सर्वान् संबुद्धपदम् आप्नुयाः
इति तेन समाख्यातं धीमता वसुबन्धुना ।
श्रुत्वैवं सुमहत् पुण्यम् इन्द्रपृष्टो मुमोद सः
ततः स इन्द्रपृष्टाख्यो महाराजो ऽनुमोदितः ।
अहोरात्रव्रतं कर्तुं चारयितुं समैच्छत
ततः स नृप उत्थाय साञ्जलिः समुपाचरन् ।
वसुबन्धुं तम् आनत्वा प्रार्थयद् एवम् आदरात्
भदन्त भवतादिष्टम् अहोरात्रव्रतोद्भवम् ।
महत् पुण्यं निशम्याहं कर्तुम् इच्छामि सांप्रतम्
तस्मात् तद्विधिम् आदेष्टुम् अर्हसि मे जगद्धिते ।
सर्वथाहं चरिष्यामि चरिष्यन्ति प्रजा अपि
तद् अत्र सर्वसत्त्वानां हिताय पुण्यसिद्धये ।
अहोरात्रव्रतस्यैवं विधिम् आदेष्टुम् अर्हसि
इति तेन नरेन्द्रेण प्रार्थितं स महामतिः ।
वसुबन्धुर् निशम्यैवं इन्द्रपृष्टं तम् अब्रवीत्
शृणु राजन् यथाख्यातं मुनीन्द्रेण विपश्यिना ।
तथाहं ते प्रवक्ष्यामि व्रतराजविधिं क्रमात्
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0