अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 21-40
तद् अत्र भुवने ख्यातम् अहोरात्रव्रतं कदा ।
प्रवर्तते तद् आख्याहि तद्विधिं च कथं प्रभो
इति तेनार्हता पृष्टे भगवान् स मुनीश्वरः ।
तां सभां तं सुभूतिं च समालोक्यैवम् अब्रवीत्
साधु शृणु सुभूते त्वं सर्वसत्त्वहितार्थभृत् ।
अहोरात्रव्रतं पुण्यं विधिं च कथ्यते मया
पुरा पूर्वविदेहे ऽभूत् ख्याता गन्धवती पुरी ।
तस्यां राजा महाविज्ञ इन्द्रप्ष्टाभिधः प्रभुः
सो ऽन्तःपुरे समानीय वसुबन्धुं जिनात्मजम् ।
सभायां स्वासने स्थाप्य सत्कृत्य श्रद्धयार्चयत्
ततः स भूपती राजा उत्थाय समुपाश्रितः ।
कृताञ्जलिः प्रणत्वैनं प्रार्थयद् एवम् आदरात्
भदन्त यद् इमे लोका असद्धर्माभिमानिनः ।
तद् एषां मानघाताय सद्धर्मं समुपादिश
यच् छ्रुत्वैव त्व् इमे सर्वे सद्धर्मप्रतिबोधिताः ।
सर्वपापविनिर्मुक्ता भवेयुर् बोधिलाभिनः
इति राज्ञार्थितं श्रुत्वा वसुबन्धुः स आत्मवित् ।
इन्द्रपृष्टं महीन्द्रं तं समालोक्यैवम् अब्रवीत्
शृणु साधु महाराजा तव पुण्यप्रवृद्धये ।
सर्वसत्त्वहितार्थं तद् अहोरात्रमहाव्रतम्
यथा मया श्रुतं पूर्वं विपश्यिना प्रभाषितम् ।
महत्पुण्यानुशंसा च तद्विधिश् च प्रचक्ष्यते
संसारे ऽत्र महत् पुण्यं प्राप्तुम् इच्छन्ति ये नराः ।
चरितव्यम् अहोरात्रव्रतं तैः श्रद्धया मुदा
भक्त्या चरन्ति ये मर्त्या अहोरात्रव्रतं मुदा ।
ते सर्वे विमलात्मानः परिशुद्धत्रिमण्डलाः
बोधिचित्तं समासाद्य चरित्वा बोधिचारिकाम् ।
सर्वसत्त्वहितं कृत्वा पूर्य पारमिताः क्रमात्
सर्वक्लेशगणाञ् जित्वा सर्वमारगणान् अपि ।
सम्यग्बोधिं समासाद्य भवेयुः सुगता ध्रुवम्
अतीतैश् च जिनैः सर्वैः कृत्वैतद् व्रतम् उत्तमम् ।
सर्वमारगणाञ् जित्वा संबोधिः साधिता खलु
वर्तमानैश् च संबुद्धैः सर्वैर् एतद् व्रतं कृतम् ।
एतत्पुण्यानुभावैर् हि संबोधिः साधिता द्रुतम्
तथा चानागतैः सर्वैः कृत्वा चैतद् व्रतं वरम् ।
एतत्पुण्यविपाकैस् तु प्राप्स्यते बोधिर् उत्तमा
तथान्ये बोधिसत्त्वाश् च संबोधिव्रतचारकाः ।
एतद् व्रतवरं धृत्वा चरन्ति बोधिसंवरम्
तथा सर्वे ऽमरेन्द्राश् च कृत्वा चैतद् व्रतं मुदा ।
देवलोकाधिनाथास् ते भवन्ति बोधिभागिनः
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0