अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 322-341
तस्यैतत् प्रातिहार्यं ताः सर्वा दृष्ट्वा सविस्मयाः ।
सुप्रसन्नमुखाम्भोजाः सुलब्धबोधिमानसाः
तत्र प्रदक्षिणीकृत्य कृताञ्जलिपुटा मुदा ।
अष्टाङ्गप्रणतिं कृत्वा बोधिप्रणिधिम् आदधुः
यद् अस्माभिर् मुनेर् अस्य सत्कृतिः प्रकृता मुदा ।
एतत्पुण्यविपाकेन लब्ध्वा च जन्म सद्गतौ
स्वपरात्महितं कृत्वा सर्वत्रापि शुभानि च ।
ईदृक्प्रत्येकसंबोधिं लब्ध्वा व्रजेम निर्वृतिम्
एवं ताः कन्यकाः सर्वाः प्रणिधाय प्रसादिताः ।
तम् एव सुगतं नत्वा तस्थुर् ध्यानसमाहिताः
एवं हृद्भावितं तासां मत्वा स सुगतस् ततः ।
आकाशात् सहसोपेत्य ता एवं समुपादिशत्
भगिन्यः संप्रसीदध्वं यद् इतः सप्तमे ऽहनि ।
सर्वा यूयं सुभाविन्यः समं कालं गमिष्यथ
ततो राजकुले जन्म वाराणस्यां शुभांशिकाः ।
लब्ध्वा यूयं समाचाराः सर्वाः शुभे चरिष्यथ
तत्र यूयं समालोक्य संसारं क्लेशसंकुलम् ।
सर्वान् परिग्रहांस् त्यक्त्वा तपोवने रमिष्यथ
तत्रापि च त्रिरत्नानि स्मृत्वा सदा समाहिताः ।
प्रत्येकां बोधिम् आसाद्य निर्वृतिपदम् आप्स्यथ
एतन् मत्वा भगिन्यो ऽत्र सर्वा यूयं समाहिताः ।
त्रिरत्नभजनं कृत्वा चरत सर्वदा शुभे
एतद् एवम् उपादिश्य स प्रत्येकजिनस् ततः ।
भासयन् खं समुत्प्लुत्य स्वाश्रमं सहसा ययौ
तम् आकाशगतं दृष्ट्वा सर्वास् ताः कन्यका मुदा ।
प्रणत्वा सुप्रसादिन्यश् चिरेण स्वालये ऽचरन्
तत्र ताश् चैत्यम् अभ्यर्च्य स्थिताः सप्तदिने मृताः ।
वाराणस्यां कृके रज्ञः सुता आसन् समानिकाः
तासं या भगिनी ज्येष्ठा व्रतीति प्रतिश्रुता ।
द्वितीया धर्मवती ख्याता तृतीया शुभमञ्जरी
चतुर्थी धीमती नाम्ना पञ्चमी नेत्रमञ्जरी ।
षष्ठी च श्रिमती ख्याता सप्तमी च मदंजहा
अष्टमी रत्नमालाख्या इत्य् एता अष्टकन्यकाः ।
सुजाता नृपतेः पुत्र्यः समाचाराः समाशयाः
{ए अद्द्स् थे fओल्लोwइन्ग् अfतेर् व्स्. 338 अन्द् चोन्तिनुएस् fरोम् 339
तत्र ताः धर्मवत्यादि सप्तकन्या शुभेचराः ।
क्लेशव्याकुलसंसारम् इत्य् आलोक्य परिग्रहान् ।
स्वान् स्वान् सर्वान् परित्यक्त्वा सर्वाः तपोवनं ययुः ॥ अव्च्_338* ॥
तत्रापि च त्रिरत्नानि सदा स्मृत्वा समाहिताः ।
प्रत्येकां बोधिम् आसाद्य निर्वृतिं ताः समाययुः ॥ अव्च्_338** ॥
तासं ज्येष्ठा स्वसा या तत् व्रतं प्रतिजन्म प्रचारिका ।
एतत्पुण्यानुभावेन सा कन्या रतिसंनिभा ॥ अव्च्_338*** ॥
धर्मशीला व्रती नाम्नी धर्मपत्तने पुरे वरे ।}
तासां ज्येष्ठा प्रधाना या सा कन्या रतिसंनिभा ।
धर्मदक्षस्य भूपस्य भार्याभूद् धर्मचारिणी
तदापि सा व्रती कन्या चैत्यसेवानुरागिणी ।
संबोधिचरणारागा संबुद्धगुणभाविनी
तत्र सा कन्यका साध्वी कर्तुं चैत्यार्चनं मुदा ।
धर्मदक्षं पतिं नत्वा प्रार्थयद् एवम् आदरात्
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0