अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 342-356
स्वामिन्न् इच्छाम्य् अहं कर्तुं चैत्यबिम्बार्चनं सदा ।
अहोरात्रव्रतं चापि तद् अनुज्ञां प्रदेहि मे
इति तया सुभाविन्या भार्यया प्रार्थितं मुदा ।
श्रुत्वा स नृपतिर् दृष्ट्वा तां भार्याम् एवम् अब्रवीत्
भद्रे साधुः समिच्छा ते यत् त्वयाहं प्रबोधितः ।
अहं चापि चरिष्यामि तथाहोरात्रसद्व्रतम्
इत्य् उक्त्वा स महीपालो धर्मदक्षः प्रमोदितः ।
भार्यया सहसैच्छत् तद् अहोरात्रव्रतं वरम्
ततः स नृपतिश् चैत्यं प्रतिष्ठाप्य यथाविधि ।
अहोरात्रव्रतं कृत्वा सभार्यस् तं समार्चयत्
एवं तया सुभाविन्या भार्यया सह सर्वदा ।
धर्मदक्षो नरेन्द्रो ऽसौ चैत्यसेवारतो ऽभवत्
ततस् तौ दम्पती चापि यावज्जीवं जिनार्चनम् ।
कृत्वा सौख्यं प्रभुक्त्वान्ते संजग्माते जिनालयम्
एवं मत्वात्र यूयं च श्रद्धया सद्व्रतं मुदा ।
अहोरात्रव्रतं धृत्वा भजत चैत्यम् आदरात्
एवं कृते हि वो भद्रम् इहामुत्र सदा भवेत् ।
क्रमाद् बोधिपदं प्राप्य गमिष्यथ जिनालयम्
इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्य ते ।
भिक्षवो ऽपि तथा चैत्यं व्रतं धृत्वा प्रभेजिरे
एवं मे गुरुणाख्यातं श्रुतं मया नराधिप ।
सर्वलोकहितार्थाय तवापि च प्रचक्ष्यते
तथा त्वं च महाराज संबोधिपदलब्धये ।
अहोरात्रव्रतं धृत्वा चैत्यसेवारतो भव
एतत्पुण्यानुभावैस् ते सर्वत्र मन्गलं भवेत् ।
सर्वदा सत्सुखं भुक्त्वा यायाश् चान्ते जिनालयम्
{ए अद्द्स् थे fओल्लोwइन्ग् बेत्wएएन् व्स्स्. 354 अन्द् 355.
पुनस् च महरज
धर्मं विना न मोक्षं च दानं विना न भुक्तवान् ।
श्रोतुं विना न सत्ज्ञानं तस्माद् धर्मादिकं चर ॥
सप्तजन्मकृतं पापं तेनैव नश्यते खलु ।
कुक्षेत्रे च कुगोत्रे च जननं न भविष्यति ॥ अव्च्_354* ॥}
इति तेनोपगुप्तेन शास्त्राख्यातं निशम्य सः ।
अशोकः सप्रजालोकस् तथेति प्राभ्यनन्दत
ये चेदं शुद्धचित्ता जिनवरकथितं चैत्यसेवानुभावम् ।
शृण्वन्ति श्रावयन्ति प्रमुदितहृदयाः श्रद्धयाभिप्रसन्नाः ।
ते सर्वक्लेशमुक्ता जिनगुणनिरताः प्राप्तसंबोधिचित्ताः ।
शुद्धात्मानः सुधीराः सकलशुभकरा बुद्धलोके प्रयान्ति
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0