भाषा

ENहिગુ
ग्रंथ पाठ

अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 302-321

302

तत्र स कृपया दृष्ट्या विलोकयन् समन्ततः ।
ताः सर्वा वेदनाक्रान्ताः समैक्षत विमूर्छिताः

303

ततः प्रत्येकबुद्धः स कारुण्यचोदितः कृती ।
तद्देशं सहसोपेत्य तस्थौ सुधाकरोत्सृजन्

304

सर्वास् तास् तत्सुधारश्मिपरिस्पृष्टाः सुखान्विताः ।
संप्राप्तचेतनाः सर्वाः प्राद्राक्षुस् तं यतीश्वरम्

305

ततस् तास् तं मुनिं दृष्ट्वा विस्मयाक्रान्तमानसाः ।
को ऽयं मुनिर् इति ध्यात्वा सर्वास् तस्थुः प्रमोदिताः

306

ततस् तासां प्रधाना या भगिनी सा विचक्षणा ।
ताः सर्वा भगिनीर् दृष्ट्वा समामन्त्र्यैवम् अब्रवीत्

307

धन्या वयं तद् अद्य स्मो यद् अयं सौगतो मुनिः ।
कृपयास्मान् समुद्धर्तुं स्वयम् एव समागतः

308

यद्य् अयं नागतो बुद्धः सुधारश्मिर् दयानिधिः ।
निस्त्राणा वयम् अत्रैव सर्वा मृत्युं व्रजेमहि

309

धन्यो ऽयं सुगतो नाथः सर्वसत्त्वानुकम्पकः ।
को ह्य् अस्ति त्रिजगल्लोके बुद्धाद् अन्यो हितंकरः

310

बुद्ध एव जगच्छास्ता सर्वभद्रार्थसाधकः ।
दुर्गतित्रायको नाथः सद्गतेर् मार्गदर्शकः

311

तद् एतस्य वयं सर्वाः सर्वदा शरणं गताः ।
सत्कृत्य श्रद्धया भक्त्य यथाशक्ति भजेमहि

312

ततो नूनं वयं सर्वाः सर्वपापविमोचिताः ।
परिशुद्धत्रिकाया हि सद्गतिं च व्रजेमहि

313

एतत् तया समाख्यातं श्रुत्वा ताः परिबोधिताः ।
सर्वा अपि मुनेस् तस्य तथा भक्तुं समीषिरे

314

ततस् ताः कन्यकाः सर्वाः श्रद्धाभक्तिसमन्विताः ।
यथाशक्ति मुनेस् तस्य सत्कारैः प्राभजन् मुदा

315

ततस् ताः शरणं गत्वा कृताञ्जलिपुटा मुदा ।
त्रिधा प्रदक्षिणीकृत्य नत्वैवं प्रार्थयंस् तथा

316

भगवन् नाथ सर्वज्ञ भवतां सर्वदा वयम् ।
शरणस्था यथादेशम् इच्छामश् चरितुं तथा

317

तद् भवान् कृपया दृष्ट्या पश्यन्न् अस्मान् सुदुःखिताः ।
सर्वदापि तथा सर्वाः परित्रातुं समर्हति

318

नान्यो नो विद्यते त्राता नाथो मित्रं सुहृद् गुरुः ।
भवान् एव गुरुः शास्ता सद्धर्मदेशकः प्रभुः

319

तद् अस्मान् दुःखिनीः सर्वाः संपश्यन् करुणादृशा ।
बोधिमार्गे प्रतिष्ठाप्य सदैवं त्रातुम् अर्हति

320

एतत् संप्रार्थितं ताभिः श्रुत्वा सो ऽर्हन् महामतिः ।
प्रत्येकसुगतो ज्ञात्वा तासां कर्मविपाकताम्

321

तत आकाश उत्प्लुत्य स्थित्वा वह्निर् इवोज्ज्वलन् ।
तच्चित्तसंविनोदार्थं प्रातिहार्यम् अदर्शयत्

मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc