भाषा

ENहिગુ
ग्रंथ पाठ

अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 282-301

282

तत् परेद्युश् च सा माता हत्वापि जीविनो झषान् ।
दत्त्वा तान् दारिकास् ताश् च विक्रयायैरयत् पुरे

283

मात्रा तथा कृतं मत्वा सर्वास् ताः कन्यका अपि ।
तत् कुकर्म इति ध्यात्वा तस्थुः पापविषादिताः

284

तथा स्थिताश् च ताः सर्वा दृष्ट्वा सा जननी रुषा ।
बहुशः परिभाषित्वा प्रताड्य प्रैरयत् पुरे

285

ततस् ता दारिकाः सर्वास् तत्ताडनरुजान्विताः ।
विषण्णास् ताञ् झषान् धृत्वा विक्रेतुं निर्ययुः शनैः

286

ततस् ता निर्गताः सर्वास् तन्मार्गसरसीतटे ।
मातृताडनदुःखार्ता विश्रम्य क्षणम् आश्रयन्

287

तत्र ताः कन्यकाः सर्वास् तत्पापपरिशोधने ।
त्रिरत्नस्मरणं कृत्वा तस्थुर् ध्यानसमाहिताः

288

तत्पुण्यपरिशुद्धास् ता वालुकाभिः पृथक् पृथक् ।
चैत्यं निर्माय सत्कृत्य प्रतिष्ठाप्य प्रमोदिताः

289

तत्रोत्पन्नानि पुष्पाणि फलानि च समन्ततः ।
आदाय तैः फलैः पुष्पैः स्वस्वचैत्यं समर्चयन्

290

ततस् ताः प्राञ्जलिं धृत्वा कृत्वा प्रदक्षिणानि च ।
अष्टाङ्गप्रणतिं कृत्वा तस्थुर् ध्यानसमाहिताः

291

तद्दिनान्ते ऽपि ताः सर्वा गृहे नैवागता इति ।
माता विचिन्त्य भर्तारं सहसा चैवम् अब्रवीत्

292

स्वामिंस् ता दारिकाः सर्वा अद्यापि नागता गृहे ।
कुत्र गता इति द्रष्टुं गच्छ त्वं सहसानय

293

एतत् पत्न्योदितं श्रुत्वा स चण्डालः प्रकोपितः ।
सहसा तत्सरस्तीरे गच्छन् सर्वा ददर्श ताः

294

तत्र ताश् चैत्यम् अभ्यर्च्य स्थिताः सर्वा विलोक्य सः ।
पितातिकोपसंतप्तः सहसा संमुखो ऽचरत्

295

तत्र ताः कन्यकाः सर्वा दृष्ट्वा तं संमुखागतम् ।
क्रोधसंतप्तरक्ताक्षं तस्थुर् ध्यानसमाहिताः

296

तथा स्थिताः स आलोक्य सर्वास् ताः स्वात्मजा अपि ।
निर्दयो बहुधा भर्त्स्य लगुडेनाप्य् अताडयत्

297

तथातिताडिताः सर्वा अपि ता न विचेरिरे ।
तत्पापत्रसिता एव तस्थुर् ध्यानसमाहिताः

298

ततः स जनकः क्रूरः संताड्य परिभाष्य च ।
सर्वा आदाय तान् मीनान् सहसा तत्पुरे ऽचरत्

299

तत्र विक्रीय तान् मीनान् अन्नम् आदाय सत्वरः ।
गृहे पत्न्याः पुरो गत्वा तच् चरित्रं न्यवेदयत्

300

तत्र तत्ताडनोद्भूतदुःसहवेदनातुराः ।
भुव्य् आवर्त्य रुदन्त्यस् ताः सर्वास् तस्थुर् विमूर्छिताः

301

तदन्तिकगिरेः सानौ निषण्णः करुणानिधिः ।
प्रत्येकबुद्ध आत्मज्ञः शुश्राव तद्विलापितम्

मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc