भाषा

ENहिગુ
ग्रंथ पाठ

अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 262-281

262

तत्रासन् दैवयोगात् ते मीनाः सर्वे सजीविताः ।
तान् सर्वाञ् जीवितान् दृष्ट्वा सर्वास् ता विस्मयं ययुः

263

तत्र ताः कन्यकाः सर्वाः समालोक्य परस्परम् ।
कथम् अद्यात्र कुर्याम इत्य् उक्त्वैवावतस्थिरे

264

तत्र तासां प्रधाना सा कन्या शुद्धाशया सुधीः ।
ताः सर्वा भगिनीर् दृष्ट्वा समाश्वास्यैवम् अब्रवीत्

265

भगिन्यो यद् इमे मीनाः सर्वे ऽपि जीविनः खलु ।
तत् कथं जीविनो ऽप्य् अत्र विक्रीणीमहि सांप्रतम्

266

तस्मात् सर्वान् इमान् मत्स्यान् प्रक्षिप्त्वात्र सरिज्जले ।
त्रिरत्नस्मरणं कृत्वा तिष्ठेमात्रैकवासरम्

267

यदि गृहे गमिष्यामो रिक्तहस्ता विना पणम् ।
माता रुष्टा परिक्रुश्य सर्वा नस् ताडयेत् खलु

268

यच् चाप्य् अद्य गृहे किं चिद् भोज्यं न विद्यते क्व चित् ।
तत् किं मातान्नम् अश्नीयाद् बुभुक्षिता चरेत् क्रुधा

269

अस्मभ्यं चापि किं दद्याद् अन्नं पानं च कोपिता ।
परिभाष्य मुहुर् बाला अपि निष्कासयेद् गृहात्

270

तद् अद्य किं गृहे गत्वा सर्वा अपीह संगताः ।
त्रिरत्नस्मरणं कृत्व तिष्ठेमहि दिनान्ततः

271

एतत् तयोदितं श्रुत्वा सर्वास् ता दारिका अपि ।
तथेति संमतं कृत्वा सर्वान् मीनाञ् जले ऽक्षिपन्

272

तत्र ताः कन्यकाः सर्वः सरित्तटसमाश्रिताः ।
त्रिरत्नस्मरणं कृत्वा ध्यात्वा तस्थुः समाहिताः

273

केन चित् कथितं तासाम् एतद्वृत्तिं निशम्य सा ।
माता क्रोधाग्निसंतप्ता वेगात् तत्र रुषाचरत्

274

तत्र ता दारिकाः सर्वास् तथा स्थिता निरीक्ष्य सा ।
जननी सहसोपेत्य परिभाष्यैवम् अब्रवीत्

275

अरे रे दुर्भगा बालाः किम् एवम् इह संस्थिताः ।
प्रदोषे ऽपि गृहे केन हेतुना न समागताः

276

किम् एतान् सकलान् मीनान् अविक्रीय विमुञ्चथ ।
किं चिद् अन्नं गृहे नास्ति तत् किं भोक्ष्यामहे ऽधुना

277

कस्योपदेशम् आकर्ण्य कुलधर्मनिरादराः ।
पित्रोर् अपि वचो ऽश्रुत्वा क्रीडथैवं तद् उच्यताम्

278

एवम् उक्ते तया मात्रा सर्वास् ताः कन्यका अपि ।
अधोमुखस्थिताः किं चिद् अपि नोचुर् विषादिताः

279

तथा स्थिताः स्वपुत्रीस् ता दृष्ट्वा सा जननी रुषा ।
सहसा समुपाक्रम्य लगुडेनाभ्यताडयत्

280

ततः सा जननी दृष्ट्वा सर्वास् तास् त्रसिताननाः ।
बोधयित्वा प्रयत्नेन निनाय स्वगृहे निशि

281

तत्र ताः कन्यकाः सर्वाः स्वगृहे संस्थिताः निशि ।
अभुक्त्वैकान्तम् आश्रित्य तस्थुः स्मृत्वा मुनीश्वरम्

मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc