अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 242-261
पुण्यैर् विना न मानुष्ये जन्म संप्रप्स्यते क्व चित् ।
मानुष्ये ऽलभ्यमाने तु कुत्र धर्मे मतिश् चरेत्
विना धर्ममतिं भद्रे चरितुम् उत्सहेत् कथम् ।
विना भद्रचरिं लोके सद्गतिं कथम् आप्नुयात्
सुगतौ च सदा सौख्यं विना धर्मैर् न लप्स्यते ।
तस्माद् धर्मे मतिं धृत्वा चरितव्यं शुभे सदा
शुभेन सद्गतिं याताः पापेन दुर्गतिं गताः ।
सुखदुःखानि संभुक्त्व भ्रमन्ति जन्तवो भवे ।
तद् इतः सद्गतिं प्राप्तुं चरेमहि शुभे सदा
किं चाप्य् एता वयं सर्वाश् चण्डालकुलसंभवाः ।
तत् कथं कुलवृत्तिं नु त्यक्त्वा चरेमहि शुभे
यद् वयं प्रेरिता मात्रा मत्स्यान् विक्रयितुं खलु ।
तस्मान् मातुर् वचो ऽश्रुत्वा चरेमह्य् अन्यथा कथम्
यद्य् अत्रैतान् अविक्रीय प्रक्षिप्त्वा च जलाशये ।
रिक्तहस्ताः कथं गेहे मातुः पुरो व्रजेमहि
यद् भोग्यं नो गृहे नास्त्य् एतद् एव हि जीवनम् ।
तत् किं सा जननी भुञ्ज्याद् विनाहारं न जीवति
तद् अत्र किं करिष्यामो धिग् जन्म मानुषे ऽपि नः ।
वरं प्राणपरित्यागं न तु पापार्थसाधनम्
सर्वेषाम् अपि जन्तूनाम् अवश्यं मरणं भवे ।
इति मत्वात्र सम्सारे वर्तयेम शुभे सदा
तद् अत्र जीविनो मत्स्यान् प्रक्षिप्यैताञ् जलाश्रये ।
निर्जीवान् एव विक्रीय मूल्यं मातुर् ददीमहि
यद्य् एवं क्रियते ऽस्माभिः पपं नो विद्यते न हि ।
किं चित् पुण्यं तु विद्येत तस्मात् कुर्यामहे तथा
इत्य् अत्र मे वचः श्रुत्वा तत् कर्तुम् अनुमोदत ।
मात्र शरिकाविषादत्वं कर्तुम् अर्हामहे खलु
एतत् तया समाख्यातं श्रुत्वा ताः परिबोधिताः ।
तथेत्य् अभ्यनुमोदित्वा तद् अनुकर्तुम् ईषिरे
ततस् ताः कन्यकः सर्वास् तेषां ये जीविनो झषाः ।
तान् सर्वान् सहसादाय प्राक्षिपंस् तत्सरिज्जले
यावन्तो निर्गतप्राणास् तान् एव सकलान् अपि ।
आदाय ताः पुरे गत्वा व्यक्रीणन्त यथोचितम्
ततस् तत् पणम् आदाय सर्वास् ताः कन्यका मुदा ।
गृहम् आगत्य तन् मूल्यं सर्वं मातुः समर्पयन्
एवं तया जनन्या ताः कन्यकाः प्रेरितास् तथा ।
सजीवांस् ताञ् जले क्षिप्त्वा निर्जीवैः पणम् आददुः
एवं ताः सर्वदा नित्यं कृत्वा भुक्त्वा विनोदिताः ।
तद्वृत्तिसंपरित्रस्ताः पापशङ्का विषेदिरे
कस्मिंश् चिद् दिवसे सर्वा मात्रा ताः प्रेरितास् तथा ।
मीनान् विक्रेतुम् आदाय निगमे समुपाचरन्
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0