अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 222-241
ततः सा धीवरी दृष्ट्वा शम्बुकास् ताः पुरो ऽर्पिताः ।
बुभुक्षितानुपश्यन्ती निःश्वसन्त्य् एवम् आलपत्
हा कष्टं किं करोम्य् अद्य भोज्यं किं चिन् न मे गृहे ।
कः क्रीणीयाद् इमाः शुक्तीर् जीवेयं कथम् अत्र हि
तद् इमाः शम्बुकाः सर्वाः पक्त्वा भुञ्ज्याम् इहाधुना ।
एतदाहारमात्रेण यापयेयं न चान्यथा
इति निश्चित्य सा नारी सर्वास् ताः शम्बुका अपि ।
रसैर् युताः स्वयं पक्त्वा बुभुजे जीवितार्थिनी
ततस् ताः शम्बुकाः सर्वा दैवयोगानुचारिणः ।
तस्या एवोदरे याता बभूवुर् एकपिण्डिताः
ततः सापन्नसत्त्वाभूत् प्रवृद्धगर्भभारिणी ।
दिने दिने ऽभिरुष्टाङ्गी स्वल्पाहाररता कृशा
ततः सा समये ऽसूत कन्यका ह्य् अष्ट सुन्दरीः ।
एकनाडीसमुद्भूताः समाकाराः शुभांशिकाः
तत्र सा जननी दृष्ट्वा ह्य् अष्ट ताः सुन्दरीः शिशूः ।
समाकाराः सुभद्राङ्गीः पश्यन्ती विस्मयं ययौ
ततः स जनकः श्रुत्वा जाता ह्य् अष्ट सुता इति ।
विस्मितः सहसोपेत्य पश्यंस् तस्थौ सुनिश्चलः
ततस् ता दारिकाः सर्वास् तया मात्राभिपालिताः ।
प्रवर्धिताः प्रपुष्टाङ्गा रुरुचुः पङ्कजा इव
ततस् ताः कन्यकाः सर्वाः पूर्वपुण्यानुभाविकाः ।
प्रीतिविश्रम्भसंबुद्धा धर्मार्थाभिरताशयाः
स्वकुलवृत्तिसंत्रस्ता दयार्द्राः करुणान्विताः ।
त्रिरत्नदर्शनोत्साहसमन्विताः प्रचेरिरे
अथ माता समाहूय ताः सर्वाः कन्यका अपि ।
मत्स्यानां विक्रयार्थेन प्रैरयत् पण्यवीथिकाम्
ततस् ताः कन्यकाः सर्वा आदाय मत्स्यभाजनम् ।
विक्रेतुं संचरन्त्यस् तत्पुरमार्गम् उपाचरन्
तत्र ताः क्रमतो गत्वा मार्गादूरसरित्तटे ।
क्षणं विश्रम्य सर्वास् तद् आलोक्यैव समाश्रयन्
तत्र तासां प्रधान या ज्येष्ठा सा भगिनी सुधीः ।
ताः सर्वा भगिनीर् दृष्ट्वा समामन्त्र्यैतद् अब्रवीत्
भगिन्यो यत् पुरास्माभिः पातकं दारुणं कृतम् ।
तेनात्र साम्प्रतं जाताश् चण्डालस्य कुले वयम्
इति सत्यं परिज्ञाय विरम्य पापकर्मतः ।
धर्मार्थसाधने रन्तुम् अर्हामहे वयं सदा
इहापि चेत् तथास्माभिः क्रियते पापसाधनम् ।
भूयो ऽपि नरके लग्ना दुःखं भुक्त्वा चरेमहि
कदा वयं ततो मुक्ताः सुखं लप्स्यामहे कथम् ।
सदैवं दुर्गतौ जाताः पापेष्व् एव चरेमहि
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0