अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 202-221
अरे दुष्टाः सुपापिन्यो यद् युष्माकं विषानलैः ।
तापिताः स्मस् तदपुण्यैर् यूयं भवत शम्बुकाः
इति तैर् ऋषिभिः सर्वैः शापितास् त भयान्विताः ।
सर्वान् ऋषिवरान् नत्वा प्रार्थयन्न् एवम् आदरात्
नमो वो ऽस्तु महाविज्ञाः क्षमध्वं नो ऽपराधताम् ।
तच्छापमोचनोपायं समुपदेष्टुम् अर्हथ
इति संप्रार्थितं ताभिर् निशम्य ते महर्षयः ।
करुणाक्रान्तचित्तास् ताः समालोक्यैवम् अब्रुवन्
शृणुध्वं शम्बुका यूयम् उपायं शापमुक्तये ।
अस्माभिर् देशितं श्रुत्वा तथा चरत सादरम्
चैत्यबिम्बं समालम्ब्य तद् अनुस्मृत्य चेतसा ।
सदा प्रदक्षिणां कृत्वा भ्रमित्वा भजतादृताः
तदा तत्पुण्यभावेन सर्वपापविमोचिताः ।
परिशुद्धाशया भद्रा भविष्यथ नृपात्मजाः
तदापि हि तथा यूयं चैत्यसेवासमाहिताः ।
सद्धर्मसाधनं कृत्वा प्रयास्यथ जिनालयम्
इति तैर् ऋषिभिः सत्यं समादिष्टं निशम्य ताः ।
शम्बुकास् तान् ऋषीन् नत्वा ततो ऽगच्छन् निजालयम्
ततस् ताः शम्बुकाः सर्वाः शालिक्षेत्रम् उपासृताः ।
चैत्यबिम्बम् अनुस्मृत्य प्रविचेरुः समन्ततः
तत्र विच्छिन्नशेषांशं शालिस्तम्बं विलोक्य ताः ।
चैत्याकारं समालम्ब्य संस्मृत्वा सुगतालयम्
सदा प्रदक्षिणीकृत्य प्रणत्वा च मुहुर् मुहुः ।
चैत्यानुस्मृतिम् आधाय भ्रमित्वा संप्रभेजिरे
तत्र ताः शम्बुकाः सर्वास् तत्पुण्यपरिशोधिताः ।
तच्छापपरिमुक्त्यर्थं चैत्यं स्मृत्वा प्रचेरिरे
कदा चित् तत्र मत्स्यार्थी धीवरः क्रूरमानसः ।
तत्सरसि स्थितान् मीनान् समाहर्तुम् उपाचरत्
तत्र स धीवरो दृष्ट्वा मीनाहरणलालसः ।
तीरस्थो जालम् उत्क्षिप्य मीनान् आहर्तुम् उद्ययौ
तत्र जाले प्रतिक्षिप्ते शम्बुका दैवयोगतः ।
सर्वा अपि प्रविष्टास् ता न तु मत्स्यो हि कश् चन
ततः स जालम् आकृष्य प्रविसार्य विलोकयन् ।
ददर्श शम्बुका एव तत्र मत्स्यं न कं चन
अथ सो ऽप्राप्तमत्स्यस् ताः शम्बुका एव लुब्धकः ।
आदाय परिखिन्नात्मा स्वगृहं शनकैर् ययौ
तत्र स स्वगृहप्राप्तो विषन्नास्यो निराशितः ।
पत्न्याः सुन्दरिकायास् ताः शम्बुकाः पुरतो ऽर्पयत्
ततः स धीवरो ऽन्यत्र मीनान् आहर्तुम् उद्यतः ।
भुक्त्वाहारं यथाप्राप्तं जालम् आदाय निर्ययौ
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0