अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 1-20
अहोरात्रव्रतचैत्यसेवानुशंसावदान
ओं नमो रत्नत्रयाय ।
श्रीमद् रत्नत्रयं नत्वा त्रिधातुभुवनाधिपम् ।
अहोरात्रव्रतकथां वक्ष्ये गुरूपदेशतः
कुक्कुटारामम् आसीनम् उपगुप्तं यतीश्वरम् ।
कृताञ्जलिपुटो ऽशोकः प्रार्थयद् एवम् आदरात्
{अ दिffएरेन्त् वेर्से इन् ब्च्दे अस् fओल्लोwस्:
अथाशोको महीपाल उपगुप्तं यतिं च तम् ।
कृताञ्जलिपुटो नत्वा प्रार्थयद् एवम् आदरात् ॥ अव्च्_2* ॥}
भदन्त श्रोतुम् इच्छामि चैत्यव्रतविधिं पुनः ।
अहोरात्रव्रतस्यापि विधिं पुण्यानि सद्गुरो
तद् भवान् सद्गुरुः शास्ता लोकपुण्यप्रवृद्धये ।
अहोरात्रव्रतस्यात्र विधिम् आदेष्टुम् अर्हति
इति तेन नरेन्द्रेण प्रार्थितं स सुधीर् यतिः ।
श्रुत्वा तं नृपम् आलोक्य पुनर् एवम् उपादिशत्
शृणु साधु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चैवं समाचर
पुरा स भगवाञ् छास्ता शाक्यसिंहो जगद्गुरुः ।
श्रावकैर् भिक्षुभिः सार्धं चैलकैश् चाप्य् उपासकैः
भिक्षुणीभिः सुशीलाभिर् बोधिसत्त्वगणैर् अपि ।
विहारे जेतकारण्ये व्यहरत् सौगताश्रमे
तदा स भगवान् बुद्धो लोकानां पुण्यवृद्धये ।
सभामध्ये समासीनो धर्मम् आदेष्टुम् आरभत्
तदा सर्वे ऽमरेन्द्रादिलोकपाला महर्द्धिकाः ।
तत् सद्धर्मामृतं पातुं श्रद्धया समुपागताः
ब्रह्मादिब्राह्मणाश् चापि महर्षयस् तपस्विनः ।
चत्वारश् च महाराजाः ससैन्यपरिचारकाः
दैत्येन्द्रा नागराजाश् च यक्षगन्धर्वकिन्नराः ।
सिद्धा विद्याधराः साध्या ग्रहाश् च वसवस् तथा
राक्षसाश् च महाविरा गरुडाश् च महोरगाः ।
योगिनो यतयश् चापि राजानः क्षात्रिया अपि
अमात्या मन्त्रिणश् चापि वैश्या राजकुमारकाः ।
श्रेष्ठिनो धनिनः शूद्राः सार्थवाहा माहाजनाः
वणिजः शिल्पिनश् चापि पौरा जनपदास् तथा ।
ग्राम्याः कार्वटिकाश् चापि तथान्यदेशवासिनः
सर्वे ते समुपागत्य बुद्धं तं शृईघनं मुदा ।
सत्कृत्य श्रद्धयाभ्यर्च्य कृत्वा प्रदक्षिणान्य् अपि
कृताञ्जलिपुटा नत्वा निऋईक्ष्य संप्रमोदिताः ।
तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः
तदासनात् समुत्थाय सुभूतिः स्थविरो यतिः ।
उद्वहन्न् उत्तरासङ्गं जानुभ्यां भुवि संस्थितः
कृताञ्जलिपुटो नत्वा भगवन्तं जगद्गुरुम् ।
श्रीघनं तं समालोक्य प्रार्थयद् एवम् आदरात्
भगवन् नाथ सर्वज्ञ विजानीयाद् भवान् गुरुः ।
सर्वलोका इमे शास्तुर् धर्मं श्रोतुं समास्थिताः
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0