अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 182-201
एतत्पुण्यानुभावैः स सर्वपारमिताः क्रमात् ।
पूरयित्वा महासत्त्वो बोधिसत्त्वो ऽभवत् सुधीः
{ए अद्द्स्:
ततो ऽन्यः देवराजो ऽभुत् कालेन समयेन स ।
देवराजसुखं भुक्त्वा चरत्य् अस्मिन् यथेच्छया ॥ अव्च्_182* ॥}
पाताले च महावीरो दैत्येन्द्रो ऽभून् महर्द्धिमान् ।
निर्घोषदमनो नाम देवलोकभयंकरः
तेन जित्वा बलेनापि त्रैलोक्यं स्ववशीकृतम् ।
सर्वे ऽपि लोकपालाश् च पराजित्य वशीकृताः
तदा स पृथिवीं गत्वा वाराणसीम् उपाचरत् ।
इन्द्रपृष्टविहारस्थं चैत्यं दृष्ट्वान्वमोदत
ततः प्रदक्षिणीकृत्य तं चैत्यं विधिनार्चयत् ।
कृताञ्जलिपुटो भुत्वा प्रार्थयद् एवम् आनतः
यावज्जीवं सुखं भुक्त्वा संस्थाप्य स्ववशे जगत् ।
संबुद्धशरणं गत्वा प्रान्ते यायां जिनालयम्
इत्य् एवं प्रणिधिं धृत्वा नत्वा तं च जिनालयम् ।
तत एव ययौ स्वर्गं दैत्येन्द्रः स महर्द्धिकः
तत्रापि चैत्यम् आलोक्य शक्रेण स्थापितं पुरा ।
नत्वा प्रदक्षिणीकृत्य विधिना च समार्चयत्
तथैव प्रणिधिं कृत्वा नत्वा च साञ्जलिर् मुदा ।
ततश् च स समागत्य पाताले स्वं गृहं ययौ
{ए हस् थे fओल्लोwइन्ग् अद्दितिओन् अfतेर् 190 ब् ओन् fओलिओ 13.
एतत्पुण्यानुभावेन दैत्येन्द्रो ऽसौ महर्द्धिकः ।
शक्रासनं तदा तत्र लब्धवान् विग्रहैर् बलैः ॥ अव्च्_190* ॥
तदास देवराजेन्द्रः संज्ञात्वाहो तम् आगतम् ।
इदानीं किंप्रकारेण विजयिष्यामि दानवं ।
ममाश्रमेषु निर्घोषदमनो नामासौ स्थितः ॥ अव्च्_190** ॥
इति ध्यात्वा स शक्रः भुवने त्रायस्त्रिंशके ।
प्राक्तनैर् देवराजेन्द्रैः पूजार्थं चैत्यं स्थापितः ॥ अव्च्_190*** ॥
तस्मिन् चैत्ये अहोरात्रव्रतं कुर्यां यथाविधिः ।
तदुपायेन धर्मेण विजयिष्ये सुरद्विषं ॥ अव्च्_190**** ॥
श्रुतं मयास्ति सद्धर्मं तद् एषो ऽपि च तद्व्रतैः ।
स्वर्गे सुरसहायेन गतो ऽसौ मघवंउइईं ॥ अव्च्_190***** ॥
तदनन्तरे च देवेन्द्रः महार्हेण व्रतार्चनं ।
अतीव सुसमुदायेन कृतवाञ् च जिनालये ॥ अव्च्_190****** ॥
तदनन्तरे ऽपि निर्घोषदमनो ऽसुरनिर्जितः ।
विना युद्धेन निर्जित्यासुरं भूम्यवतारितः ॥ अव्च्_190******* ॥}
तत्र स दैत्यराजेन्द्रो यथाविधि जिनालयम् ।
महच् चैत्यं प्रतिष्ठाप्य सत्कृत्य विधिनार्चयत्
ततश् चापि स दैत्येन्द्रो यथाविधि समारभन् ।
अहोरात्रव्रतं धृत्वा तच् चैत्यं समपूजयत्
तत्रैवं प्रणिधिं कृत्वा सो ऽसुरेन्द्रो महामतिः ।
सर्वदा विधिनाभ्यर्च्य भेजे नित्यं महोत्सवैः
तथा स सुचिरं भुक्त्वा यावज्जीवं महासुखम् ।
तच् चैत्यं शरणं कृत्वा ययौ तथा जिनालयम्
तथान्ये नागराजाश् च तच् चैत्यं समुपाश्रिताः ।
अहोरात्रव्रतं धृत्वा सत्कृत्य विधिनार्चयन्
तथा सर्वे ऽपि ते नागा यावज्जीवं महत् सुखम् ।
भुक्त्वा पुण्यानुभावैश् च प्रान्ते ययुर् जिनालयम्
तथाभून् मगधे देशे चैत्यगर्भं महत् सरः ।
शुद्धाम्बुपूरितं पद्मकुमुदादिप्रशोभितम्
तत्रर्षयः सरोमध्ये प्रतिष्ठिते जिनालये ।
अहोरात्रव्रतं धृत्वा सत्कृत्य विधिनार्चयन्
तथा तैर् ऋषिभिश् चैत्यं पूजितं तत्सरःस्थिताः ।
नागकन्याः समीक्ष्याष्टौ तदन्तिकम् उपाश्रयन्
तत्र त ऋसयस् तासां सविषश्वासवायुभिः ।
प्रहता विषसंदिग्धाः क्षणमात्रं मुमूर्छिरे
ततस् त ऋषयः सर्वे क्षणात् प्राप्तसुचेतनाः ।
दृष्ट्वा ताः समुपासीना नागकन्या रुषाशपन्
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0