भाषा

ENहिગુ
ग्रंथ पाठ

अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 162-181

162

इति विज्ञाय राजेन्द्र तत्र गत्वा यथाविधि ।
प्रतिष्ठाप्य तथा चैत्यम् अहोरात्रव्रतं चरेः

163

तथा चेत् ते सदा भद्रम् इहामुत्र भवेद् ध्रुवम् ।
क्रमाद् बोधिचरीः पूर्य संबुद्धपदम् आप्स्यसि

164

इति तेन समादिष्टं गुरुणा वसुबन्धुना ।
श्रुत्वा स भूपतिः श्रीमांस् तथेति चान्वमोदत

165

ततः स इन्द्रपृष्टस् तं वसुबन्धुं गुरुं पुरः ।
कृत्वा ततः समागत्य वाराणसीम् उपाचरत्

166

तत्र प्राप्य स भूमीन्द्रो निरीक्ष्य शुभभूतले ।
आदौ भूशोधनं कृत्वा वास्तुनागं परीक्ष्य च

167

विहारं विधिवत् कृत्वा तथा चैत्यं जिनालयम् ।
त्रिरत्नं च प्रतिष्ठाप्य यथाविधि सदाभजत्

168

तत्र तेन यथादिष्टं गुरुणा वसुबन्धुना ।
तथा स नरराजेन्द्रस् तद् व्रतं कर्तुम् आरभत्

169

ततश् च विधिवद् धृत्वा सभार्यः स नृपाधिपः ।
अहोरात्रव्रतं कृत्वा तच् चैत्यं विधिनार्चयत्

170

तत् समाप्य पुनस् तत्र दीपंकरं ससांघिकम् ।
संनिमन्त्र्य यथार्हेन भोजनेन समार्चयत्

171

ततः स पृथिवीपालश् चिरं तच् चैत्यम् आदरात् ।
सेवित्वा सत्सुखं भुक्त्वा ययौ चान्ते जिनालयम्

172

इत्य् एवं तन् महत् पुण्यम् अहोरात्रव्रतोद्भवम् ।
अप्रमेयम् असंख्येयं सर्वबुद्धैः प्रचक्ष्यते

173

तथा युष्माभिर् अप्य् अत्र तद् अहोरात्रसंवरम् ।
धृत्वा चैत्यं समभ्यर्च्य सेवितव्यं सदादरात्

174

तथा वो मङ्गलं नित्यम् इहामुत्र भवेद् ध्रुवम् ।
क्रमाद् बोधिं समासाद्य निर्वृतीपदम् आप्स्यथ

175

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा ।
तथेत्य् अभ्यनुमोदित्वा तद् व्रतं कर्तुम् ईषिरे

176

ततस् ते भिक्षवो भूयः शास्तारं तं मुनीश्वरम् ।
कृताञ्जलिपुटा नत्वा पप्रच्छुर् एवम् आदरात्

177

भगवन् भवतादिष्टम् इन्द्रपृष्टेन यत् कृतम् ।
तत् सर्वं श्रुतम् अस्माभिः पुनः श्रोतुं समिष्यते

178

केन केन तथा पूर्वं कृतम् एतद् व्रतोत्तमम् ।
अहोरात्रं महत्पुण्यं तत् समादेष्टुम् अर्हति

179

इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् भिक्षून् सांघिकान् सर्वान् समालोक्यैवम् अब्रवीत्

180

शृणुध्वं भिक्षवः सर्वे तथान्यैश् च कृतं पुरा ।
तत् सर्वं कथयिष्यामि युष्माकं परिबोधने

181

पुरा स्वर्गे तथेन्द्रेण प्रतिष्ठाप्य जिनालयम् ।
अहोरात्रव्रतं कृत्वा विधिवच् चैत्यम् आर्चयत्

मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc