अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 141-161
यः करोति दिने तस्मिन्न् अहोरात्रव्रतं तथा ।
तत्सहस्रगुणं पुण्यम् आप्नुयात् स पुमान् ध्रुवम्
एवं राजन्न् अहोरात्रव्रतपुण्यं महत्तरम् ।
अप्रमेयम् असंख्येयम् इति बुद्धैर् निगद्यते
न हि स विद्यते राजन् सर्वत्र भुवनेष्व् अपि ।
अहोरात्रव्रतोत्पन्नं पुण्यं यः कुरुते ऽन्यथा
यस्य श्रवणमात्रेण विमुक्तः सर्वपातकात् ।
दर्शनात् पुण्यम् आप्नोति तथानुमोदनाद् अपि
ये चरन्ति महाराज व्रतराजम् इदं तथा ।
तेषां पुण्यप्रमाणानि संख्यातुं को हि शक्नुयात्
तत्पुण्यसप्तभागैकं भागं राजा समाप्नुयात् ।
तथैकं सर्वसत्त्वाश् च तथैकं साधका जनाः
व्रतिनस् तच्चतुर्भागान् सर्वान् ते प्राप्नुवन्ति हि ।
एतत्पुण्यानुभावैस् तु सर्वत्र मङ्गलं सदा
सर्वे सत्त्वाः सुखाढ्याश् च भवन्ति बोधिचारिणः ।
एवं विज्ञाय राजेन्द्र लोकानां हितसाधनम् ।
अहोरात्रव्रतं यूयं कर्तुम् अर्हथ सर्वथा
इति तेन समाख्यातं धीमता वसुबन्धुना ।
श्रुत्वा स इन्द्रपृष्टस् तद् व्रतं कर्तुं समैच्छत
अथ स भूपतिः श्रीमान् इन्द्रपृष्टो नराधिपः ।
साञ्जलिस् तं पुनर् नत्वा वसुबन्धुं तथार्थयत्
भदन्त सर्वविच् छास्तर् भवदाज्ञां शिरोवहन् ।
अहोरात्रव्रतं कर्तुम् इच्छामि सांप्रतं खलु
भवाञ् छास्ता महाविज्ञः सर्वसत्त्वहिताशयः ।
सर्वहितार्थसिद्ध्यै तद् अनुज्ञां प्रददातु मे
इति तेन नृपेन्द्रेण प्रार्थितं स महामतिः ।
वसुबन्धुः समाकर्ण्य तं भूपम् एवम् अब्रवीत्
साधु साधु महाराज यद्य् एवं त्वं समिच्छसि ।
तत् कुरुष्व महत्पुण्यम् अहोरात्रव्रतं मुदा
तत्कृते ते महत् पुण्यं सर्वत्रापि भवेच् छुभम् ।
एतत्पुण्यविपाकेन संबोधिं प्राप्नुया अपि
इति शास्त्रा समादिष्टम् इन्द्रपृष्टः स भूपतिः ।
श्रुत्वा तं साञ्जलिर् नत्वा पुनर् एवं समब्रवीत्
भदन्त कर्तुम् इच्छामि पुण्यक्षेत्रे जिनालयम् ।
कुत्र पुण्यतमं क्षेत्रं तत् समादेष्टुम् अर्हति ।1151 ॥
इति तेन नरेन्द्रेण पृष्टे स सर्ववित् सुधीः ।
वसुबन्धुर् नरेन्द्रं तं पुनर् एवम् उपादिशत्
शृणु साधो महाराज यथा ख्यातं मुनीश्वरैः ।
तथाहं ते प्रवक्ष्यामि श्रुत्वैवं कर्तुम् अर्हसि
वाराणसीति विख्याता सर्वभूमी महत्तरी ।
पुण्यक्षेत्रं महापीठं सर्वबुद्धैः प्रशंसितम्
तत्र यत् प्रणिधानेन प्रकृतं कर्म कारितम् ।
तत् तथेह परत्रापि सिध्यते नान्यथा खलु
मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0