भाषा

ENहिગુ
ग्रंथ पाठ

अहोरात्रव्रतचैत्यसेवानुशंसावदान · श्लोक 121-140

121

सदूर्वकुन्दाक्षतलाजकादि प्राक्षिप्य चैत्यं प्रणमन्ति ये च ।
विद्याधिपास् ते सुसमृद्धिमन्तो गच्छन्ति चान्ते सुगतालये ऽपि

122

ये वज्रमुक्तादिविशुद्धरत्नं हेमादिसद्द्रव्यवराष्टधातून् ।
ये चैत्यबिम्बे सरसा मनुष्याः श्रद्धानुरक्ता उपढौकयन्ति

123

पूर्णेन्द्रियाः पूर्णमनोरथास् ते निर्नष्टशोकाः सुभगाः सुवंशः ।
धर्मार्थकामाः सुगुणाभिरामाः संबुद्धमार्गाभिगता भवन्ति

124

ये शुद्धचित्ताः स्तुतिभिः सुगीतैर् भजन्ति चैत्यं मनुजाः प्रसन्नाः ।
धर्मार्थकामाभिमतर्द्धिमन्तो भवन्ति नाथा दिवि भूतले ते

125

ये ऽष्टाभिर् अङ्गैः प्रणमन्ति चैत्यं श्रद्धाप्रसन्नाः शरणं प्रयाताः ।
भूपाधिपास् ते वरसप्तरत्नैर् युक्ताः सुधीराः कृतिनो भवन्ति

126

प्रदक्षिणीकृत्य मुदा प्रसन्ना ये चैत्यबिम्बं प्रणता भ्रमन्ति ।
सुवर्णवर्णाः सुविशालवंशाः पूज्या नृपाणाम् अपि ते भवन्ति

127

शुद्धाश्मसंक्षारसुगन्धितोयैश् चैत्यं मुदा ये ऽभ्यनुलेपयन्ति ।
नीरोगशोकाः सुसमृद्धिमन्तो दीर्घायुषस् ते सुभगा भवन्ति

128

चैत्याङ्गनं ये परिशोधयन्ति निर्माल्यम् उद्धृत्य च मार्जयन्ति ।
ते हेमवर्णाः परिशुद्धचित्ता धर्माभिरक्ताः सुदृशो भवन्ति

129

आलस्येनापि च स्तूपे करोति यः प्रदक्षिणाम् ।
पदे पदे सुवर्णैककर्षदानफलं लभेत्

130

गन्धपुष्पादिभिर् विप्रैर् अर्चनीयं जिनालयम् ।
छत्त्रावरोहणं चैत्ये कर्तव्यं क्षत्रियैर् अपि

131

ध्वजावरोपणं वैश्यैः कृत्यं पताकया सह ।
नैवेद्यम् एव शूद्रैस् तु दातव्यं चैत्यपुंगवे

132

अन्यैर् विहीनजातीभिर् नार्चनीयो जिनालयः ।
धूपदीपादिभिर् नैव पूजनीयो न चान्यथा

133

मूलस्कन्धपत्त्रफलस्तम्बशस्यादिभिस् तथा ।
धान्यादिव्रीहिभिश् चैवम् औषधीभी रसायनैः

134

तथा वाद्यैः सुगीतैश् च नृत्यैश् चापि महोत्सवैः ।
हाहाकारैः समुल्लासैर् अर्चनीयो जिनालयः

135

चर्मकारप्लवम्लेच्छनियोगिलुब्धकादिभिः ।
दूरात् प्रदक्षिणीकृत्य वन्द्य एव जिनालयः

136

एवं सर्वैस् तथा लोकैर् द्विजादिसर्वजातिभिः ।
स्वस्वजात्यर्हपूजाभिः पूजनीयो जिनालयः

137

एवं चरन्ति ये लोका अहोरात्रव्रतं मुदा ।
ते सर्वपापनिर्मुक्ताः संप्रयायुर् जिनालयम्

138

एवं मत्वा महाराज मासे मासे सदापि च ।
पूर्णमास्याम् अहोरात्रव्रतं चरितुम् अर्हसि

139

विशेषाद् अश्विनीमासे संपूर्णे चन्द्रमण्डले ।
अश्विनीभे तथा पुष्ययोगयुक्ते रवेर् दिने

140

एतद्योगसमायुक्ते महापर्वदिने शुभे ।
अहोरात्रव्रतं कुर्याद् यथाविधि समाहितः

मूल पाठ: Ahorātravratacaityasevānuśaṃsāvadāna · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc