अग्नि पुराण · अध्याय 95
:ए इत्य् आदिमहापुराणे आग्नेये शिलान्यासकथनं नाम
चतुर्णवतितमो ऽध्यायः ॥
% छप्तेर् {95}
:श् अथ पञ्चनवतितमो ऽध्यायः
प्रतिष्ठा सामग्रीविधानं
ईश्वर उवाच
वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदां ।अप्_95.001अब्।
ताश् चरेत् सर्वदा मुक्तौ भुक्तौ देवदिने सति
विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके ।अप्_95.002अब्।
:न्
1 मुदा इति ख.. छ.. च
2 कामदे देवीति घ..
3 जयेत्रेत्यर्धश्लोकः छ.. पुस्तके नास्ति
4 ओं जय एनं सदेति ख.. छ.. च
5 मम इति ङ..
6 रक्तातिरक्तदोषघ्न इति छ.. । रक्तात्रिरक्तदोषघ्ने इति ख..
7 सन्तिष्ठास्मिन्नीशरूपिणीति घ.. । शर्परूपिणीति ज..
8 तत्त्वे तत्त्वत्रयमिति घ..
9 सर्वदा मुक्तौ देवादेवे ग्रहे सतीति घ.. । सर्वदा मुक्त्यै भुक्त्यै
दैवदिने सतीति ङ..
:प् 302
गुरुशुक्रोदये कार्या प्रथमे करणेत्रये
शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमन्दिनं(1) ।अप्_95.003अब्।
चतुर्थीं नवमीं षष्ठीं वर्जयित्वा चतुर्दशीं
शोभनास्तिथयः शषाः क्रूरवारविवर्जिताः ।अप्_95.004अब्।
शतभिषा धनिष्ठार्द्रा अनुरोधोत्तरत्रयं(2)
रोहिणी श्रवणश्चेति(3) स्थिरारम्भे महोदयाः ।अप्_95.005अब्।
लग्नञ्च कुम्भसिंहालितुलास्त्रीवृषधन्विनां
शस्तो जीवो नवर्क्षेषु सप्तस्थानेषु सर्वदा ।अप्_95.006अब्।
बुधः षडष्टदिक्सप्ततुर्येषु विनर्तुं(4) शितः
सप्तर्तुत्रिदशादिस्थः(5) शशाङ्कोबलदः सदा(6) ।अप्_95.007अब्।
रविर्दशत्रिषट्संस्थो राहुस्त्रिदशषड्गतः
षट्त्रिस्थानगताः शस्ता मन्दाङ्गारार्ककेतवः ।अप्_95.008अब्।
शुभ्राः क्रूरश् च पापाश् च सर्व एकादशस्थिताः
एषां दृष्टिर्मुनौ पूर्णा(7) त्वार्धिकी ग्रहभूतयोः ।अप्_95.009अब्।
पादिकी रामदिक्स्थाने चतुरष्टौ(8) पादवर्जिता
पादान्यूनचतुर्नाडी भोगः स्यान्मीनमेषयोः ।अप्_95.010अब्।
वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः
मकरो मिथुनं पञ्च चापालिहरिकर्कटाः ।अप्_95.011अब्।
पादीनाः षट् तुलाकन्ये घटिकाः सार्धपञ्च च
:न्
1 कृष्णेप्यापञ्चमं दिनमिति ख.. , छ.. च ।
कृष्णेप्यापञ्चमाद्दिनादिति घ..
2 अनुराधोत्तरात्रयमिति च..
3 श्रवणश् चैते इति च..
4 बुधः षडृतुतुर्येषु दिक्सप्ताह विनेति छ.. । बुधः
षड्द्व्यष्टतुर्षेषु दिक्सप्तषड् विनेति ख..
5 सप्तायत्रिदशादिस्थ इति ख.. छ.. च
6 बुधः षडष्टदिगित्यादिः, बलदः सदा इत्य् अन्तः
पाठो ग.. पुस्तके नास्ति
7 एवं दृष्टिवले पूर्णादिति छ.. । एवं दृष्टिवले पूर्णेति
ख..
8 वस्वष्टौ इति ख.., छ.. च
:प् 303
केशरी वृषभः कुम्भः स्थिराः स्युः सिद्धिदायकाः ।अप्_95.012अब्।
चरा धनुस्तुलामेषा द्विःस्वभावास्तृतीयकाः(1)
शुभः(2) शुभग्रहैर् दृष्टः शस्तो लग्नःशुभाश्रितः(3) ।अप्_95.013अब्।
गुरुशुक्रबुधे युक्तो लग्नो दद्याद्बलायुधी(4)
राज्यं शौर्यं(5) बलं पुत्रान् यशोधर्मादिकं बहु ।अप्_95.014अब्।
प्रथमः सप्तमस्तुर्यो दशमः केन्द्र उच्यते
गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रसादकाः ।अप्_95.015अब्।
त्र्येकादशचतुर्थस्था(6) लग्नात् पापग्रहाः शुभाः
अतोप्यनीचकर्माथं(7) योज्यास्तिथ्यादयो बुधैः ।अप्_95.016अब्।
धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मितां(8)
हस्ताद् द्वादशसोपानात्(9) कुर्यान्मण्डमग्रतः ।अप्_95.017अब्।
चतुरस्रं चतुर्द्वारं स्नानार्थन्तु(10) तदर्धतः
एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा(11) ।अप्_95.018अब्।
हास्तिको दशहस्तो वै मण्डपोर्ककरो ऽथवा
द्विहस्तोत्तरया वृद्ध्या(12) शेषं स्यान्मण्डपाष्टकं ।अप्_95.019अब्।
:न्
1 कर्कटो मकरो द्विस्थः प्रव्रज्याकार्यनाशकाः ।
गुरुशक्रबुधास्तत्र सर्वसिद्धिप्रदायका इति ग. घ.. पुस्तके ऽधिकः
पाठः
2 स्थिर इति ग..
3 शुभान्वित इति ख.. , छ.. च
4 धनायुषीति ग..
5 राज्यं सौख्यमिति ख..
6 द्व्येकादशचतुर्थस्था इति छ.. । त्र्येकादशेत्यर्धश्लोको ग.. पुस्तके
नास्ति
7 अतोन्येनिष्ठकर्मार्थमिति ख.. , घ.. , छ.. च
8 त्यक्त्वा वा चापसम्मितामिति ख.. । त्यक्त्वा वा रामसम्मितामिति
छ..
9 हस्ताद्वा दशसोपानादिति ख.. । हस्तान् वा दश सोपानादिति ख..
10 स्नानार्हं चेति ङ..
11 प्राच्युतरे तथेति ङ..
12 द्विहस्तोत्तरयावृत्त्या इति घ..
:प् 304
वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता(1)
वेदीपादान्तरं त्यक्त्वा(2) कुण्डानि नव पञ्च वा ।अप्_95.020अब्।
एकं वा शिवकाष्ठायां(3) प्राच्यां वा तद्गुरोः परं
मुष्टिमात्रं शतार्धे स्याच्छते चारत्रिमात्रकं(4) ।अप्_95.021अब्।
हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकं(5)
लक्षे चतुष्कारं कुण्डं कोटिहोमे ऽष्टहस्तकं ।अप्_95.022अब्।
भगाभमग्नौ(6) खण्डेन्दु दक्षे त्र्यस्रञ्च नैरृते
षडस्रं वायवे पद्मं(7) सौम्ये चाष्टास्रकं शिवे ।अप्_95.023अब्।
तिर्यक्पातशिवं खातमूर्ध्वं(8) मेखलया सह
तद्वहिर्मेखलास्तिस्रो वेदवह्नियमाङ्गुलैः(9) ।अप्_95.024अब्।
अङ्गुलैः षड्भिरेका वा कुण्डाकारास्तु मेखलाः
तासामुपरि योनिः स्यान्मध्ये ऽश्वत्थदलाकृतिः ।अप्_95.025अब्।
उच्छ्रायेणाङ्गुलं तस्माद्विस्तारेणाङ्गुलाष्टकं(10)
दैर्घ्यं कुण्डार्धमानेन कुण्डकण्ठसमो ऽधरः ।अप्_95.026अब्।
पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना
पूर्वानना तु शेषाणामैशान्ये ऽन्यतरा तयोः ।अप्_95.027अब्।
:न्
1 कोणस्तम्भेषु संयुतेति क.. , ग.. , घ.. च । कोणस्तम्भेषु सन्मतेति
ङ.. । कोणस्तम्भेनुसंयुतेति ख.. , छ.. च
2 वेदी पादान्तरं त्यक्तेति घ.. , ङ.. , च
3 शिवकाष्टादौ इति ग..
4 शतार्धस्य शते वह्निमात्रकमिति छ.. । शतार्धस्य शते
वारत्रिमात्रकमिति घ.. । शतार्धस्य शते वा वह्निमात्रकमिति
ङ..
5 द्विहस्तकमिति ख..
6 खद्गाभमग्नौ इति ख.. , ग.. , ङ.. , छ.. च
7 पद्मे इति ख.. , घ.. च
8 तिर्यक् पातसममूर्ध्वमिति ख.. , ग.. , घ.. च
9 वेदवह्नियवाङ्गुलैर् इति घ..
10 तस्य विस्तरेणाङ्गुलाष्टकमिति घ..
:प् 305
कुण्डानां यश् चतुर्विंशो भागः सोङ्गुल इत्य् अतः
प्लक्षोदुम्वरकाश्वत्थवटजास्तोरणाः क्रमात् ।अप्_95.028अब्।
शान्तिभूतिबलारोग्यपूर्वाद्या नामतः क्रमात्
पञ्चषट्सप्तहस्तानि हस्तखातस्थितानि च ।अप्_95.029अब्।
तदर्धविस्तराणि स्युर्युतान्याम्रदलादिभिः
इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा ।अप्_95.030अब्।
शुक्लाभा(1) हेमवर्णा च पताका स्फाटिकोपमा
पूर्वादितोब्जजे(2) रक्ता नीलानन्तस्य(3) नैरृते ।अप्_95.031अब्।
पञ्चहस्तास्तदर्धाश् च ध्वजा दीर्घाश् च विस्तराः
हस्तप्रदेशिता दण्डा ध्वजानां पञ्चहस्तकाः ।अप्_95.032अब्।
वल्मीकाद्दन्तिदन्ताग्रात्तथा(4) वृषभशृङ्गतः
पद्मषण्डाद्वराहाञ्च गोष्ठादपि चतुष्पथात् ।अप्_95.033अब्।
मृत्तिका द्वादश ग्राह्या वैकुण्ठेष्टौ पिनाकिनि
न्यग्रोधोदुम्वराश्वत्थचूतजम्वुत्वगुद्भवं ।अप्_95.034अब्।
कषायपञ्चकं ग्राह्यमार्तवञ्च फलाष्टकं
तीर्थाम्भांसि सुगन्धीनि(5) तथा सर्वौषधीजलं ।अप्_95.035अब्।
शस्तं पुष्पफलं वक्ष्ये रत्नगोशृङ्गवारि(6) च
स्नानायापाहरेत्(7) पञ्च पञ्चगव्यामृतं तथा ।अप्_95.036अब्।
पिष्टनिर्मितवस्त्रादिद्रव्यं निर्मञ्जनाय(8) च
:न्
1 शुक्राभेति ख..
2 पूर्वादिनो ध्वजे इति ग..
3 नीलानन्ते ऽथेति ग..
4 वल्मीकाद्धस्तिदन्ताग्रात्तयेति छ..
5 तीर्थतोयसुगन्धीनि इति ङ..
6 वर्गे गोशृङ्गवारि चेति छ..
7 स्नानायोपहरेदिति ख.. , छ.. , घ.. च
8 पिष्टनिर्मितरुद्रादिद्रव्यं निर्मञ्जनायेति ग.. ।
पिष्टनिर्मितवज्रादिकं निर्मथनायेति ज..
:प् 306
सहस्रशुषिरं कुम्भं मण्डलाय च रोचना(1) ।अप्_95.037अब्।
शतमोषधिमूलानां विजया लक्ष्मणा बला
गुडूच्यतिबला पाठा सहदेवा शतावरी ।अप्_95.038अब्।
ऋद्धिः(2) सुवर्चसा(3) वृद्धिः स्नाने प्रोक्ता पृथक् पृथक्
रक्षायै तिलदर्भौघो(4) भस्मस्नानन्तु केवलं ।अप्_95.039अब्।
यवगोधूमविल्वानां(5) चूर्णानि च विचक्षणः
विलेपनं(6) सकर्पूरं स्नानार्थं कुम्भगण्डकान्(7) ।अप्_95.040अब्।
खट्वाञ्च तूलिकायुग्मं सोपधानं सवस्त्रकं
कुर्याद्वित्तानुसारेण शयने लक्ष्यकल्पने(8) ।अप्_95.041अब्।
घृतक्षौद्रयुतं पात्रं कुर्यात् स्वर्णशलाकिकां
वर्धनीं शिवकुम्भञ्च लोकपालघटानपि ।अप्_95.042अब्।
एकं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसङ्ख्यया(9)
द्वारपालादिधर्मादिप्रशान्तादिघटानपि ।अप्_95.043अब्।
वस्तुलक्ष्मीगणेशानां कलशानपरानपि
धान्यपुञ्जकृताधारान् सवस्त्रान्(10) स्रग्विभूषितान् ।अप्_95.044अब्।
:न्
1 मङ्गलाय च रोचनेति ग.. । मङ्गलाय च रोचनमिति ज..
2 सिद्धिरिति घ..
3 सुवर्चलेति ज..
4 तिलगर्भाद्यमिति ख.. , घ.. , ङ.. , छ.. च । तिलदर्भाज्यमिति ज..
5 यवगोधूमचूर्णानामिति घ.. । पञ्चगोधूमविल्वानामिति छ..
6 लेपनञ्चेति ज..
7 कुम्भमण्डकानिति ख.. । कुम्भगड्डुकानिति घ.. ।
कुम्भगुण्डुकानिति ङ..
कुम्भसण्डकानिति छ.. । कुम्भखण्डकानिति ज..
8 प्रायेण लक्ष्यकल्पने इति ग.. । शयने लक्ष्यकं परे इति ज..
9 कुण्डसन्मितमिति ज..
10 सर्वांश्चेति घ.. , ज.. च
:प् 307
सहिरण्यान् समालब्धान् गन्धपानीयपूरितान्
पूर्णपात्रफलाधारान्(1) पल्लवाद्यान्(2) सलक्षणान् ।अप्_95.045अब्।
वस्त्रैर् आच्छादयेत् कुम्भानाहरेद्गौरसर्षपान्
विकिरार्थन्तथा लाजान् ज्ञानखड्गञ्च पूर्ववत् ।अप्_95.046अब्।
सापिधानां चरुस्थालीं दर्वीं च ताम्रनिर्मितां(3)
घृतक्षौद्रान्वितं पात्रं पादाभ्यङ्गकृते तथा ।अप्_95.047अब्।
विष्टरांस्त्रिशतादर्भदलैर् बाहुप्रमाणकान्(4)
चतुरश् चतुरस्तद्वत् पालाशान् परिधीनपि ।अप्_95.048अब्।
तिलपात्रं हविःपात्रमर्धपात्रं पवित्रकं
फलविंशाष्टमानानि घटो धूपप्रदानकं(5) ।अप्_95.049अब्।
श्रुक्श्रुवौ पिटकं पीठं व्यजनं शुष्कमिन्धनं
पुष्पं पत्रं गुग्ग्लञ्च घृतैर् दौपांश् च धूपकं ।अप्_95.050अब्।
अक्षतानि त्रिसूत्रीञ्च गव्यमाज्यं यवांस्तिलान्
कुशाः शान्त्यै त्रिमधुरं समिधो दशपर्विकाः ।अप्_95.051अब्।
बाहुमात्रश्रुवं हस्तम्(6) अर्कादिग्रहशान्तये
समिधो ऽर्कपलाशोत्थाः खादिरामार्गपिप्पलाः(7) ।अप्_95.052अब्।
उदुम्वरशमीदूर्वाकुशोत्थाः शतमष्ट च
तदभावे यवतिला गृहोपकरणं तथा ।अप्_95.053अब्।
स्थालीदर्वीपिधानादि देवादिभ्यो ऽंशुकद्वयं
मुद्रामुकुटवासांसि हारकुण्डलकङ्कणान् ।अप्_95.054अब्।
:न्
1 पूर्वपात्रफलाधारानिति छ..
2 पल्लवाग्रानिति ख.. , घ.. , ज.. च
3 कुर्वीत ताम्रनिर्मितामिति ख..
4 दलैर् बाहुमात्रप्रमाणत इति ग..
5 घण्टाधूपप्रदानकमिति घ.. , छ.. च
6 बाहुमात्रां स्रुचं हस्तानामिति छ..
7 खादिरापाङ्गपिप्पला इति ख.. , छ.. , च । खादिरापामार्कपिप्पला इति
घ..
:प् 308
कुर्यादाचार्यपूजार्थं(1) वित्तशाठ्यं विवर्जयेत्
तत्पादपादहीना च मूर्तिभृदस्त्रजापिनां(2) ।अप्_95.055अब्।
पूजा स्याज्जापिभिस्तुल्या(3) विप्रदैवज्ञशिल्पिनां
वज्रार्कशान्तौ(4) नीलातिनीलमुक्ताफलानि च(5) ।अप्_95.056अब्।
पुष्पपद्मादिरागञ्च वैदूर्यं रत्नमष्टमं(6)
उषीरमाधवक्रान्तारक्तचन्दनकागुरुं ।अप्_95.057अब्।
श्रीखण्डं सारिकङ्कुष्ठं(7) शङ्क्षिनी ह्योषधीगुणः(8)
हेमताम्रमयं रक्तं राजतञ्च(9) सकांस्यकं ।अप्_95.058अब्।
शीसकञ्चेति लोहानि हरितालं मनःशिला
गैरिकं हेममाक्षीकं पारदो(10) वह्निगैरिकं ।अप्_95.059अब्।
गन्धकाभ्रकमित्यष्टौ(11) धातवो ब्रीहयस् तथा
गोधूमान् सतिलान्माषान्मुद्गानप्याहरेद्यवान् ।अप्_95.060अब्।
नीवारान् श्यामकानेवं ब्रीहयो ऽप्यष्ट कीर्तिताः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0