भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 96

96.001

:ए इत्य् आग्नेये महापुराणे प्रतिष्ठासामग्री नाम पञ्चनवतितमो
ऽध्यायः ॥
:न्
1 कुर्यादाचार्यपूजाद्यमिति घ..
2 मूर्तिभृच्छस्त्रजापिनामिति घ..
3 पूजास्यात् पितृभिस्तुल्येति घ.. , ज.. च
4 वस्त्रार्ककान्तौ इति ङ.. , छ.. , च
5 नीलाभं नीलमुक्ताफलानि चेति ख.. । नीलादिनीलमुक्ताफलानि
चेति ग.. । नीलाभं नीलं मुक्ताफलानि वेति ज..
6 रत्नमष्टकमिति घ.. , ङ.. , ज.. च
7 सारिका कुष्ठमिति ख.. , छ.. , च । साविकं कुष्ठमिति ज..
8 शङ्खिनीत्योषधीगण इति ङ.. , ज.. , च
9 हेमताम्रमयो रङ्गराजजञ्चेति ख..
10 पारदे इति ख.. , छ.. च
11 गन्धकत्रिकमित्यष्टौ इति घ..
:प् 309
% छप्तेर् {96}
:श् अथ षण्णवतितमो ऽध्यायः
अधिवासनविधिः
ईश्वर उवाच
स्नात्वा नित्यद्वयं कृत्वा(1) प्रणवार्घकरो गुरुः(2) ।अप्_96.001अब्।
सहायैर् मूर्तिपैर् विप्रैः(3) सह गच्छेन्मखालयं

96.002

क्षान्त्यादितोरणांस्तत्र पूर्ववत् पूजयेत् क्रमात् ।अप्_96.002अब्।
प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान्

96.003

प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ(4) ।अप्_96.003अब्।
वारुणे वृषभस्कन्दौ देवीचण्डौ ततोत्तरे(5)

96.004

तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ ।अप्_96.004अब्।
पर्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ(6)

96.005

धनदश्रीप्रदौ(7) द्वौ द्वौ पूजयेदनुपूर्वशः(8) ।अप्_96.005अब्।
स्वनामभिश् चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः

96.006

लोकग्रहवसुद्वाःस्थस्रवन्तीनां(6) द्वयं द्वयं ।अप्_96.006अब्।
:न्
1 नित्यक्रियां कृत्वेति ङ्.
2 प्रणवार्घ्यकरो मुनिरिति ग.. । पुनरर्घ्यकरो मुनिरिति ङ..
3 सहायैर् ऋत्विग्विप्रैश्चेति ख.. , घ.. च । सहायैर् भूपतिविप्रैर् इति
ज..
4 भृङ्गविनायकाविति छ..
5 वृषोत्तरे इति ग.. , घ.. , ङ.. च
6 भूतसञ्जीवनासुतौ इति छ.. । भूतसञ्जीवनामृतौ इति ख.. , ज..
च
7 धनदद्विपदौ इति ख.. । धनदौ द्विपदौ इति घ.. । धनदश्चापदौ इति
ज..
8 पूजयेदथ पूर्वश इति ग..
9 लोकग्रहवसुद्वाःस्थहस्तादीनामिति ग..
:प् 310
भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस् तथा(1)

96.007

इति देवामखागारे(2) तिष्ठन्ति प्रतितोरणं ।अप्_96.007अब्।
विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च

96.008

वज्रं शक्तिं तथा दण्डं(3) खड्गं(3) पाशं ध्वजंगदां ।अप्_96.008अब्।
त्रिशूलं चक्रमम्भोजम्पताकास्वर्चयेत्(4) क्रमात्

96.009

ओं ह्रूं फट् नमः । ओं ह्रूं फट् द्वाःस्थशक्तये
ह्रूं फट् नमः(5) इत्य् आदिमन्त्रैः
कुमुदः कुमुदाक्षश् च पुण्डरीकोथ वामनः ।अप्_96.009अब्।
शङ्कुकर्णः सर्वनेत्रः सुमुखः(6) सुप्रतिष्ठितः

96.010

ध्वजाष्टदेवताः(7) पूज्याः पूर्वादौ(8) भूतकोटिभिः ।अप्_96.010अब्।
ओं कौं कुमुदाय नम इत्य् आदिमन्त्रैः

96.011

हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं(9) यमजिह्वकं(10) ।अप्_96.011अब्।
कालं करालिनं षष्ठमेकाङ्घ्रिम्भीममष्टकं

96.012

तथैव पूजयेद् दिक्षु क्षेत्रपालाननुक्रमात् ।अप्_96.012अब्।
:न्
1 भानुत्रयं युगं वेदो लक्ष्मीकुलपतिस्तथेति ख.. , ग.. , छ.. च ।
भानुत्रययुगं वेदो वेदो लक्ष्मीपतिस्तथेति ज..
2 देवामरागरे इति ख.. , ग.. , घ.. , ङ.. , छ.. च
3 तथा कुण्डमिति ख.. , छ.. च । तथा चण्डमिति ज..
4 पताकामर्चयेदिति ग.. । पताकासु यजेदिति ङ..
5 हुं फट् नमः, ओं हुं फट् द्वाःस्थशक्तये हुं फट्
नम इति ख.. । ओं क्रूं फट् नमः । ओं क्रूं फट्
द्वाःस्थशक्तये क्रूं फट् नम इति छ.। ओं हुं फट् वक्राय
हुं फट् नम इति ग.. । ओं हुं फट् वज्राय हुं फट् नम इति
ङ..
6 प्रमुख इति ज..
7 ध्वजाश् च देवता इति ग..
8 पूजादौ इति ङ.. , ज.. च
9 बुद्धाख्यमिति ग.. । बुद्ध्याख्यमिति ज..
10 अजजिह्वकमिति ज..
:प् 311
बलिभिः कुसुमैर् धूपैः सन्तुष्टान् परिभावयेत्(1)

96.013

कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात्(2) ।अप्_96.013अब्।
पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत्

96.014

सदाशिवपदव्यापि मण्डपं(3) धाम शाङ्करं ।अप्_96.014अब्।
पताकाशक्तिसंयुक्तं(4) तत्त्वदृष्ट्यावलोकयेत्(5)

96.015

दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य पूर्ववत् ।अप्_96.015अब्।
प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत्(6)

96.016

प्रदक्षिणक्रमाद्गत्वा निविष्टोवेदिदक्षिणे ।अप्_96.016अब्।
उत्तराभिमुखः कुर्याद् भूतशुद्धिं यथा पुरा

96.017

अन्तर्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनं ।अप्_96.017अब्।
कुर्वीत आत्मनः(7) पूजां पञ्चगव्यादि पूर्ववत्

96.018

साधारङ्कलसन्तस्मिन् विन्यसेत्तदनन्तरं ।अप्_96.018अब्।
विशेषाच्छिवतत्त्वाय तत्त्वत्रयमनुक्रमात्

96.019

ललाटस्कन्धपादान्तं शिवविद्यात्मकं परं ।अप्_96.019अब्।
रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः(8)

96.020

:न्
1 प्रविभावयेदिति ख.. , छ.. च
2 काक्षीतृणेषु वर्गेषु वंशे स्थूलाननुक्रमात् इति ख.. ।
काष्ठातृणेषु वर्णेषु वंशे स्थूलाननुक्रमात् इति छ.. ।
काक्षीतृणेषु वंशेषु स्थूणास्वन्येष्वनुक्रमात् इति घ.. ।
कक्षां दृशेम्बरांशे च तृणानन्येष्वानुक्रमादिति ज.. ।
कन्यातृणेषु रत्नेषु वंशेस्थूणाननुक्रमादिति ङ..
3 मण्डलमिति ङ..
4 पिनाकशक्तिसंयुक्तामिति घ..
5 तत्तु दृष्ट्यावलोकयेदिति ख.. , छ.. च
6 शेषद्वाराणि चङ्क्रमेदिति ख.. , छ.. च । शेषद्वाराणि
पूजयेदिति छ..
7 स्वात्मन इति ख.. , घ.. , छ.. , ज.. च
8 निजसंवरैर् इति ग.. , ङ.. च । निजसञ्चयैर् इति घ..
:प् 312
ओं हं हां(1)
मूर्तीस्तदीश्वरांस्तत्र पूर्ववद्विनिवेशयेत् ।अप्_96.020अब्।
तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्धनि

96.021

ब्रह्मरन्ध्रप्रविष्टेन तेजसा वाह्यसान्तरं(2) ।अप्_96.021अब्।
तमःपटलमाधूय प्रद्योतितदिगन्तरं(3)

96.022

आत्मानं मूर्तिपैः सार्धं स्रग्वस्त्रकुसुमादिभिः(4) ।अप्_96.022अब्।
भूषयित्वा शिवोस्मीति ध्यात्वा बोघासिमुद्धरेत्

96.023

चतुष्पदान्तसंस्कारैः(5) संस्कुर्यान्मखमण्डपं ।अप्_96.023अब्।
विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत्(6)

96.024

आसनीकृत्य वर्धन्यां वास्त्वादीन् पूर्ववद्यजेत् ।अप्_96.024अब्।
शिवकुम्भास्त्रवर्धन्यौ पूजयेच्च स्थिरासने(7)

96.025

स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात् ।अप्_96.025अब्।
वाहायुधादिसंयुक्तान् पूजयेद्विधिना यथा

96.026

ऐरावतगजारूढं स्वर्णवर्णं(8) किरीटिनं ।अप्_96.026अब्।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत्

96.027

सप्तार्चिषं च विभ्राणमक्षमालां कमण्डलुं ।अप्_96.027अब्।
ज्वालामालाकुलं रक्तं(9) शक्तिहस्तमजासनं

96.028

:न्
1 उं हां हां इति ख.. , ग.. , घ.. , ङ.. , छ.. च । ओं ईं आं इति
घ.. , ज.. च
2 तेजसा वाह्यमन्तरमिति ख.. । तेजसा वाह्याभ्यन्तरमिति छ.. । तेजसा
वाह्यमान्तरमिति ग.. , घ.. , ङ.. च
3 प्रविष्टोनुदिगन्तरमिति घ.. , ज.. च
4 स्रग्वस्त्रमुकुटादिभिरिति घ.. , ज.. च
5 चतुष्पथार्णसंस्कारैर् इति छ..
6 कुशदूर्वोपसंहरेदिति ग..
7 शिवकुम्भास्त्रवर्धन्यां पूजयेदस्थिरासने इति घ.. , ज.. च
8 वर्णवस्त्रमिति ग.. । स्वर्णवस्त्रमिति ख.. , ज.. , च
9 कालं मालाकुलं रक्तमिति ख.. , ग.. , ङ.. , छ.. च । कालं
मालाकुलं, व्यक्तमिति ग.. । ज्वालामालाकुलं सक्तमिति घ..
:प् 313
महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत् ।अप्_96.028अब्।
रक्तनेत्रं स्वरारूढं(1) खड्गहस्तञ्च नैरृतं

96.029

वरुणं मकरे श्वेतं नागपाशधरं स्मरेत् ।अप्_96.029अब्।
वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं(2)

96.030

त्रिशूलिनं वृषे चेशं कूर्मेनन्तन्तु चक्रिणं ।अप्_96.030अब्।
ब्राह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं

96.031

स्तम्भमूलेषु कुम्भेषु वेद्यां धर्मादिकान्(3) यजेत् ।अप्_96.031अब्।
दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन

96.032

शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगं(4) ।अप्_96.032अब्।
पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्धनीं

96.033

शिवं स्थिरासनं(5) कुम्भे शस्त्रार्थञ्च(6) ध्रुवासनं ।अप्_96.033अब्।
पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया

96.034

निजयागं(7) जगन्नाथ रक्ष भक्तानुकम्पया ।अप्_96.034अब्।
एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत्(8)

96.035

दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डले ऽथवा ।अप्_96.035अब्।
मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ

96.036

कुण्डनाभिं पुरस्कृत्य निनिष्ठा मूर्तिधारिणः ।अप्_96.036अब्।
गुरोरादेशतः कुर्युर् निजकुण्डेषु(9) संस्कृतिं

96.037

:न्
1 शवारूढमिति ग.. , घ.. , ङ.. , ज.. च
2 मानुषस्थितमिति घ..
3 कर्मादिकानिति ज..
4 भ्रामयेदनुपूज्य तमिति ज.. । भ्रामयेदनुपृष्ठगमिति घ..
5 स्थिरासने इति ख.. , घ.. च
6 शस्त्राणुञ्चेति ख.. , ग.. , छ.. च
7 इमं यागमिति ङ..
8 शङ्खन्निवेदयेदिति ग.. । खड्गन्निवेदयेदिति घ.. , ङ.. च
9 कुर्युर् निजकुम्भेष्विति ख.. , घ.. , छ.. , ज.. च
:प् 314
जपेयुर्जापिनः सङ्ख्यं(1) मन्त्रमन्ये तु संहितां(2) ।अप्_96.037अब्।
पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः

96.038

श्रीसूक्तं पावमानीश् च(3) मैत्रकञ्च वृषाकपिं ।अप्_96.038अब्।
ऋग्वेदी सर्वदिग्भागे सर्वमेतत् समुच्चरेत्(4)

96.039

देवव्रतन्तु भारुण्डं(5) ज्येष्ठसाम रथन्तरं ।अप्_96.039अब्।
पुरुषं गीतिमेतानि सामवेदी तु दक्षिणे

96.040

रुद्रं पुरुषसूक्तञ्च श्लोकाध्यायं विशेषतः ।अप्_96.040अब्।
ब्राह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत्(6)

96.041

नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च ।अप्_96.041अब्।
उत्तरे ऽथर्वशीर्षञ्च(7) तत्परस्तु समुद्धरेत्

96.042

आचार्यश्चाग्निमुत्पाद्य प्रतिकुण्डं प्रदापयेत्(8) ।अप्_96.042अब्।
वह्नेः पूर्वादिकान् भागान्(9) पूर्वकुण्डादितः(10) क्रमात्

96.043

धूपदीपचरूणाञ्च ददीताग्निं समुद्धरेत्(11) ।अप्_96.043अब्।
पूर्ववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणं

96.044

देशकालादिसम्पत्तौ(12) दुर् निमित्तप्रशान्तये ।अप्_96.044अब्।
:न्
1 जापिनोसङ्ख्यमिति क.. , ङ.. , छ.. च
2 अस्त्रमन्ये तु संस्थितमिति ग.. । अस्त्रमन्ये तु संहितामिति ङ..
3 पावमानीन्तु इति ज..
4 सर्वमेतत् समुद्धरेदिति ख.. , ग.. , घ.. , छ.. , ज.. च । सर्वमस्त्रं
समुद्धरेदिति ङ..
5 भावज्ञमिति छ.. । श्रीकुण्डमिति ङ..
6 समुद्धरेदिति ख.. , घ.. , ङ.. , ज.. च
7 उत्तरेथर्वसूक्तञ्चेति ग..
8 प्रदीपयेदिति घ..
9 पूर्वादिदिग्भागादिति ज.. । पूर्वादिकाद्भागादिति घ..
10 सर्वकुण्डादित इति ख.. , छ.. , च
11 आचार्यश्चाग्निमुत्पाद्येत्यादिः ददीताग्निं समुद्धरेदित्यन्तः
पाठो ग.. पुस्तके नास्ति
12 देशकालादिसङ्ख्याप्तौ इति घ..
:प् 315
होमङ्कृत्वा तु मन्त्रज्ञः पूर्णां दत्त्वा शुभावहां

96.045

पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत्(1) ।अप्_96.045अब्।
यजमानालङ्कृतास्तु व्रजेयुः स्नानमण्डपं

96.046

भद्रपीठे निधायेशं(2) ताडयित्वावगुण्ठयेत् ।अप्_96.046अब्।
स्नापयेत्(3) पूजयित्वा तु मृदा काषायवारिणा

96.047

गोमूत्रैर् गोमयेनापि वारिणा चान्तरान्तरा ।अप्_96.047अब्।
भस्मना गन्धतोयेन फडन्तास्त्रेण वारिणा

96.048

देशिको मूर्तिपैः सार्धं कृत्वा कारणशोधनं(4) ।अप्_96.048अब्।
धर्मजप्तेन सञ्छाट्य(5) पीतवर्णेन वाससा

96.049

सम्पूज्य सितपुष्पैश् च(6) नयेदुत्तरवेदिकां ।अप्_96.049अब्।
तत्र दत्तासनायाञ्च शय्यायां सन्निवेश्य च(7)

96.050

कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत् ।अप्_96.050अब्।
शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा(8)

96.051

अञ्जयेल्लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन कर्मणा ।अप्_96.051अब्।
कृतकर्मा च शस्त्रेण लक्ष्मी शिल्पी समुत्क्षिपेत्(9)

96.052

त्र्यंशादर्धोथ(10) पादार्धादर्धाया ।अप्_96.052अब्।
अर्धयोथवा(11)
:न्
1 निवेशयेदिति ख.. ,घ.. च
2 भद्रपीठे निधायैनमिति ख.. , छ.. , च । तत्र पीठे विधायेशमिति
ङ.. । भद्रपीठे विधायेशमिति घ..
3 स्नपयेदिति ख.. , ग.. , ङ.. च
4 कृचा चाकारशोधनामिति घ.. , ज.. च
5 धर्मजप्तेन संस्थाप्येति ग.. । धर्मजलेन सञ्छाद्येति ङ..
6 सम्पूज्य सितवस्त्रैश्चेति ग.. । सम्पूज्यसितपुष्पैस्तु इति घ..
7 सन्निवेशयेदिति छ..
8 शास्त्रकर्मणेति ख.. , ग.. , छ.. , ज.. च । शास्त्रवर्मणेति घ.. ।
शास्त्रकर्मणि इति ड..
9 समुत्किरेत् इति घ.. , ज.. च
10 त्र्यंशादप्यथेति घ.. । त्र्यंशादधोथेति ज..
11 अर्धतो ऽपिवेति ग.. । अर्धतो वरमिति ज..
:प् 316
सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणं(1)

96.053

लिङ्गदीर्घविकारांशे त्रिभक्तं भागवर्णनात्(2) ।अप्_96.053अब्।
विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य(3) सर्वतः

96.054

यवस्य नवभक्तस्य भागैर् अष्टाभिरावृता(6) ।अप्_96.054अब्।
हस्तिके(5) लक्ष्मरेखा च गाम्भीर्याद् विस्तरादपि(7)

96.055

एवमष्टांशवृद्ध्या तु लिङ्गे सार्धकरादिके ।अप्_96.055अब्।
भवेदष्टयवा(8) पृथ्वी गम्भीरात्र च हास्तिके

96.056

एवमष्टांश वृद्ध्या तु लिङ्गे सार्धकरादिके ।अप्_96.056अब्।
भवेदष्टयवा पृथ्वी गम्भीरान्नवहास्तिके(6)

96.057

शाम्भवेषु(10) च लिङ्गेषु पादवृद्धेषु सर्वतः(11) ।अप्_96.057अब्।
लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्धनात्

96.058

गम्भीरत्वष्टयुवाभ्यां रेखापि त्र्यंशवृद्धितः(12) ।अप्_96.058अब्।
सर्वेषु च भवेत् सूक्ष्मां लिङ्गमस्तकमस्तकं

96.059

:न्
1 लक्ष्मावतारकमिति घ..
2 त्रिभुक्ते भाववर्णनादिति क.. । त्रिभुक्ते भागवर्जनादिति घ.. । त्रिभक्ते
भागवर्जनादिति ज.. । त्रिभुक्ते भागवर्तनादिति ङ.. । विभक्ते
भाववर्णनादिति छ..
3 भवेल्लिङ्गेषु सर्वत इति ख.. , ग.. , ङ. छ.. च
4 नवभक्तस्य भागैर् अष्टाभिराहतेति ख.. , छ.. च । भवभक्तस्य
भागैर् अष्टाभिराहतेति ज.. । नवभक्तस्य भागैर्
अष्टाभिरादृतेति घ..
5 हास्तिकं इति ग.. , घ.. , च
6 गम्भीरा नवहास्तिके इति घ..
7 लिङ्गे वृद्धिकरादिके इति ख.. । लिङ्गेषु द्विकरादिषु इति ग.. । लिङ्गे
वृद्धिकरादिषु इति ख.. , घ.. च
8 भवेदष्टकरेति घ..
9 गम्भीरा नवहास्तिके इति ग.. । गम्भीरा नवहस्तके इति ज..
10 सोत्तरेषु इति ज..
11 यवस्य नवभक्तस्येत्यादिः । पादवृद्धेषु सर्वत इत्य् अन्तः
पाठो ङ.. पुस्तके नास्ति
12 द्व्यंशवृंहितेति ख.. , घ.. , छ.. च । त्र्यंशवृंहितेति ङ.. ।
द्व्यंशवृद्धित इति ज..
:प् 317
लक्ष्मक्षेत्रेष्टधाभक्ते मूर्ध्निभागद्वये शुभे(1) ।अप्_96.059अब्।
षड्भागपरिवर्तनमुक्त्वा भागद्वयन्त्वधः(2)

96.060

रेखात्रयेण सम्बद्धं(3) कारयेत् पृष्टदेशगं ।अप्_96.060अब्।
रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे

96.061

स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला ।अप्_96.061अब्।
नयनोन्मीलनं वक्त्रे(4) सान्निध्याय च लक्ष्म तत्

96.062

लक्ष्मणोद्धाररेखाञ्च घृतेन मधुना तथा ।अप्_96.062अब्।
मृत्युञ्जयेन(5) सम्पूज्य शिल्पिदोषनिवृत्तये

96.063

अर्चयेच्च(6) ततो लिङ्गं स्नापयित्वा मृदादिभिः ।अप्_96.063अब्।
शिल्पिनन्तोषयित्वा तु दद्याद्गां गुरवे ततः

96.064

लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्त्रयः ।अप्_96.064अब्।
सव्येन चापसव्येन सूत्रेणाथ कुशेन वा

96.065

स्मृत्वा च रोचनं दत्वा कुर्यान्निर्मञ्जनादिकं(7) ।अप्_96.065अब्।
गुडलवणधान्याकदानेन विसृजेच्च ताः

96.066

गुरुमूर्तिधरैः(8) सार्धं हृदा वा प्रणवेन वा ।अप्_96.066अब्।
मृत्स्नागोमयगोमूत्रभस्मभिः(9) सलिलान्तरं

96.067

स्नापयेत् पञ्चगव्येन पञ्चामृतपुरःसरं(10) ।अप्_96.067अब्।
:न्
1 मूर्तिभागद्वये च्युते इति ज.. । मूर्तिभगद्वये युते इति ज..
2 मुक्त्वा भागद्वयं बुध इति ख.. , ग.. , घ.. , ड.. , छ.. च
3 ससिद्धमिति ग.. , ज.. च
4 व्यक्ते इति ग.. , घ.. , ज.. च
5 मृत्युञ्जयञ्चेति ग..
6 अर्चयेत्तु इति ग.. , ज.. च
7 पुष्पावरोधनं दत्वा कुर्यान्निर्मन्थनादिकमिति ज.. ।
स्पृष्ट्वा च रोचनां दत्वा कुर्यान्निर्मञ्जनादिकमिति ङ..
8 गुरुमूर्तिर्यवैर् इति ख.. , ङ.. , ज.. च
9 ततो मृण्मयगोमूत्रभस्मभिरिति ग..
10 स्नापयेदित्यर्धश्लोको छ.. पुस्तके नास्ति
:प् 318
विरूक्षणं कषायैश् च सर्वौषधिजलेन वा

96.068

शुभ्रपुष्पफलस्वर्णरत्नशृङ्गयवोदकैः(1) ।अप्_96.068अब्।
तथा धारासहस्रेण दिव्यौषधिजलेन च(2)

96.069

तीर्थोदकेन गाङ्गेन चन्दनेन च वारिणा ।अप्_96.069अब्।
क्षीरार्णवादिभिः(3) कुम्भैः शिवकुम्भजलेन च(4)

96.070

विरूक्षणं विलेपञ्च(5) सुगन्धैश् चन्दनादिभिः ।अप्_96.070अब्।
सम्पूज्य ब्रह्मभिः(6) पुष्पैर् वर्मणा रक्तचीवरैः(7)

96.071

रक्तरूपेण(8) नीराज्य रक्षातिलकपूर्वकं ।अप्_96.071अब्।
घृतौषधैर् जलदुग्धैश् च कुशाद्यैर् अर्घ्यसूचितैः

96.072

द्रव्यैः स्तुत्यादिभिस्तुष्टमर्चयेत्(9) पुरुषाणुना(10) ।अप्_96.072अब्।
समाचम्य(11) हृदा देवं ब्रूयादुत्थीयतां प्रभो

96.073

देवं ब्रह्मरथेनैव क्षिप्रं द्रव्याणि तन्नयेत्(12) ।अप्_96.073अब्।
मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत्

96.074

शक्त्यादिशक्तिपर्यन्ते(12) विन्यसेदासने शुभे ।अप्_96.074अब्।
:न्
1 ओड्रपुष्पफलस्वर्णशृङ्गगवोदकैर् इति ग..
2 दिव्यौषधिजलेन वा इति ग..
3 क्षारार्णवादिभिरिति ङ.. , छ.. , ज.. च
4 सरः कुम्भजलेन तु इति ज..
5 विकर्षणं विलेपञ्चेति घ.. , ज.. च
6 बहुभिरिति ज..
7 ब्रह्मणा रक्तचन्दनैर् इति ग.. । ब्रह्मणा रक्तजीवकैर् इति ङ..
8 बहुरूपेण इति ग.. , घ.. , ज.. च
9 स्तुत्यादिभिस्तुत्यमर्घयेदिति ख.. , छ.. च
10 पुरुषात्मनेति ख.. , ग.. , घ.. , छ.. च
11 समाचर्येति ग..
12 तर्पयेदिति ख.. , छ.. च
13 शक्त्यादिमूर्तिपर्यन्ते इति ख.. , घ.. , ज.. च
:प् 319
पश्चिमे पिण्डिकान्तस्य न्यसेद्ब्रह्मशलान्तदा(1)

96.075

शस्त्रमस्त्र(2) शतालब्धनिद्राकुम्भध्रुवासनं(3) ।अप्_96.075अब्।
प्रकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु

96.076

उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं ।अप्_96.076अब्।
समारोप्य न्यसेत्तस्मिन्(4) सृष्ट्या धर्मादिवन्दनं(5)

96.077

दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा ।अप्_96.077अब्।
गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः(6)

96.078

घृतक्षौद्रयुतं पात्रमभ्यङ्गाय पदान्तिके ।अप्_96.078अब्।
देशिकश् च स्थितस्तत्र षट्त्रिंशत्तत्त्वसञ्चयं(7)

96.079

शक्त्यादिभूमिपर्यन्तं स्वतत्त्वाधिपसंयुतं ।अप्_96.079अब्।
विन्यस्य पुष्पमालाभिस्त्रिखण्डं(8) परिकल्पयेत्

96.080

मायापदेशशक्त्यन्तन्तुर्याशाष्टांशवर्तुलं(9) ।अप्_96.080अब्।
तत्रात्मतत्त्वविद्याख्यं(10) शिवं सृष्टिक्रमण तु(11)

96.081

एकशः प्रतिभागेषु ब्रह्मविष्णुहराधिपान् ।अप्_96.081अब्।
विन्यस्य मूर्तिमूर्तीशान् पूर्वादिक्रमतो यथा

96.082

क्ष्मावह्निर्यजमानार्कजलवायुनिशाकरान् ।अप्_96.082अब्।
:न्
1 ब्रह्मशिलान्तथेति ख.. , ङ.. , छ.. , ज.. च
2 शस्त्रमन्त्रेति ख.. , ग.. , घ.. , ङ.. , छ.. च
3 निद्राकुम्भ ध्रुवासनमिति ज..
4 व्यसेदस्मिन्निति ज..
5 सृष्ट्या धर्मादिबन्धनमिति ख.. ।
सृष्ट्यादिरर्घ्यादिबन्धनमिति छ..
6 गृहोपकृतीत्यर्धश्लोको ग.. पुस्तके नास्ति
7 षड्लिङ्गतनुसञ्चयमिति ज.. । षड्विंशतत्त्वसञ्चयमिति घ..
8 त्रिशृङ्गमिति ग..
9 मायाशादशशक्त्यन्ततूर्या ग्राह्या प्रवर्तनमिति ज.. ।
मायापदेशेति अर्धश्लोको घ.. पुस्तके नास्ति
10 तत्रानुतत्त्वविध्याख्यमिति ज..
11 सृष्टिक्रमेण चेति ग..
:प् 320
आकाशमूर्तिरूपांस्तान् न्यसेत्तदधिनायकान्

96.083

सर्वं पशुपतिं(1) चोग्रं रुद्रं भवमखेश्वरं(2) ।अप्_96.083अब्।
महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे

96.084

लवशषचयसाश् च हकारश् च त्रिमात्रिकः ।अप्_96.084अब्।
प्रणवो हृदयार्णुर्वा मूलमन्त्रो ऽथवा क्वचित्

96.085

पञ्चकुण्डात्मके यागे(3) मूर्तीः पञ्चाथवा न्यसेत् ।अप्_96.085अब्।
पृथिवीजलतेजांसि वायुमाकाशमेव च

96.086

क्रमात्तदधिपान् पञ्च(4) ब्रह्माणं धरणोधरं ।अप्_96.086अब्।
रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित्(5)

96.087

मुमुक्षोर्वा निवृत्ताद्याः(6) अजाताद्यास्तदीश्वराः(7) ।अप्_96.087अब्।
त्रितत्त्वं वाथ(8) सर्वत्र न्यसेद्व्याप्त्यात्मकारणं(9)

96.088

शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः ।अप्_96.088अब्।
द्रष्टव्या मूर्तिपाश् चैव भोगिनी मन्त्रनायकाः

96.089

पञ्चविंशत्तथैवाष्टपञ्चत्रीणि यथाक्रमं ।अप्_96.089अब्।
एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो(10) यथा

96.090

ओं हां शक्तितत्त्वाय नम इत्य् आदि(11) । ओं हां
शक्तितत्त्वाधिपाय(12) नम इत्य् आदि । ओं हां क्ष्मामूर्तये
नमः । ओं हां क्ष्मामूर्त्यधीशाय(13)
:न्
1 गर्भे पशुपतिमिति ज..
2 भवमथेश्वरमिति ग.. ,छ.. , ज.. च
3 पञ्चदण्डात्मके मार्गे इति ज.. । पञ्चदण्डात्मके यागे इति
ङ..
4 तदधिपालञ्चेति ख..
5 सृष्टिन्यासेन मन्त्रविदिति ख.. , घ.. , ङ.. च । सृष्टिन्यासेन
पूर्वविदिति ज..
6 मुमुञ्चोर्विनिवृत्ताद्या इति ख..
7 अजात्याद्यास्तदीश्वरा इति ख..
8 त्रितत्त्वं चाथेति घ.. , ज.. च
9 व्याप्यात्मकारणमिति ख.. । व्याप्त्या स्वकारणमिति घ.. , ङ..
च
10 इन्द्रादीशान्तत इति ख.. , घ.. , छ.. च
11 नम इतीति घ.. , ज.. च
12 शब्दतत्त्वाधिपतये इति ख.. , घ.. , छ.. च
13 शूक्ष्ममूर्तये इति घ..
:प् 321
शिवाय नम इत्य् आदि । ओं हां पृथिवीमूर्तये नमः । ओं
हां मूर्त्यधिपाय(1) ब्रह्मणे नम इत्य् आदि । ओं हां
शिवतत्त्वाधिपाय(2) रुद्राय नम इत्य् आदि
नाभिकन्दात्समुच्चार्य घण्टानादविसर्पणं(3) ।अप्_96.090अब्।
ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रितं

96.091

मन्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमं ।अप्_96.091अब्।
द्वादशान्तात्समानीय निष्कलं(4) व्यापकं शिवं

96.092

अष्टत्रिंशत्कलोपेतं सहस्रकिरणोज्ज्वलं ।अप्_96.092अब्।
सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे(5) निवेशयेत्

96.093

जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः ।अप्_96.093अब्।
पिण्डिकादिषु तु न्यासः(6) प्रोच्यते साम्प्रतं यथा

96.094

पिण्डिकाञ्च कृतस्नानां(7) विलिप्ताञ्चन्दनादिभिः ।अप्_96.094अब्।
सद्वस्त्रैश् च समाच्छाद्य(8) रन्ध्रे च भगलक्षणे

96.095

पञ्चरत्नादिसंयुक्तां(9) लिङ्गस्योत्तरतः स्थितां ।अप्_96.095अब्।
लिङ्गवत्कृतविन्यासां(10) विधिवत्सम्प्रपूजयेत्

96.096

कृतस्नानादिकान्तत्र लिङ्गमूले शिलां(11) न्यसेत् ।अप्_96.096अब्।
कृतस्नानादिसंस्कारं शक्त्यन्तं वृषभं तथा

96.097

:न्
1 पृथिवीमूर्त्यधिपतये इति ख.. । पृथिवीमूर्त्यधिपायेति ज.. , घ..
च
2 शिवतत्त्वायेति ज..
3 घण्टानादविसर्पिणमिति घ.. , ज.. च
4 निष्फलमिति ख.. , घ.. , ङ.. च
5 लिङ्गमिति ग.. , घ.. , ज.. च
6 विन्यास इति ग..
7 कृतस्नातामिति ख.. , घ.. , ज.. च
8 सहस्रैः साहमासाद्येति ज..
9 यवरत्नादिसंयुक्तामिति घ.. , ज.. च
10 लिङ्गवत्कृतविन्यासमिति ख.. , छ.. च
11 कृतस्नानादिकामिति तद्वल्लिङ्गमूले शिलामिति ख.. , घ.. , ङ.. च ।
कृतस्नानादिकं तद्वल्लिङ्गमूले शिवामिति ज..
:प् 322
प्रणवपूर्वं हुं पूं ह्रीं(1) मध्यादन्यतमेन च ।अप्_96.097अब्।
क्रियाशक्तियुतां पिण्डीं शिलामाधररूपिणीं

96.098

भस्मदर्भतिलैः कुर्यात् प्राकारत्रितयन्ततः ।अप्_96.098अब्।
रक्षायै लोकपालांश् च सायुधान्याजयेद्वहिः(2)

96.099

ओं हूं ह्रं(3) क्रियाशक्तये नमः । ओं हूं ह्रां
हः(4) महागौरी रुद्रदयिते स्वाहेति च(5) पिण्डिकायां । ओं
हां(6) आधारशक्तये नमः । ओं हां वृषभाय
नमः
धारिकां दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः ।अप्_96.099अब्।
तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः

96.100

वामा ज्येष्ठा क्रिया ज्ञाना(7) बेधा तिस्रीथवा न्यसेत् ।अप्_96.100अब्।
क्रियाज्ञाना तथेच्छा च(8) पूर्ववच्छान्तिमूर्तिषु

96.101

तमो मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः(9) ।अप्_96.101अब्।
पञ्च चाथ महामोहा घोरा च त्रितयज्वरा

96.0102

:न्
1 प्रणवं पूर्वं हूं प्रौं ह्रीं इति ख.. । प्रणवपूर्वं
हूं सूं इति ग.. । प्रणवपूर्वं क्रूं सूं क्लों क्रीं इति
छ.. । प्रणवं पूर्वहूं स्रीं सूं ह्रीं इति घ.. ।
प्रणवपूर्वं हूं सूं हूं इति ज..
2 सायुधान् पूजयेत्तत इति ख.. , छ.. च । सायुधान् पूजयेद्वहिरिति ग.. ,
ङ.. च । सायुधाश् च त्यजेद्वहिरिति घ.. । सायुधान्याजग्रेद्वहिरिति
ज..
3 ओं हूं ह्रीं इति ग.. , ङ.. च । ओं ह्रीं इति घ.. । ओं ह्रीं
ह्रीं स इति ग..
4 ओं हूं ह्रीं स इति ख.. । ओं क्रूं ह्रीं स इति घ.. । ओं
ह्रीं ह्रीं स इति ग.. । ओं ह्रीं स इति घ.. , ङ.. च
5 स्वाहेति ख.. , ग.. , ङ.. , छ.. च
6 ओं ह्रीं इति ख.. , ग.. , ङ.. , छ.. च
7 क्रिया मेधेति ङ..
8 तथैवैच्छेति ङ..
9 तमा मोहा क्षमा निष्ठा मृत्युर्माय भया ज्वरेति ख.. ।
उमा मोहा क्षमा नित्या मृत्युर्मायाभयाज्वरा इति ज..
:प् 323
तिस्रोथवा क्रियाज्ञाना(1) तथा बाधाधिनायिका ।अप्_96.0102अब्।
आत्मादित्रिषु(2) तत्त्वेषु तीव्रमूर्तिषु विन्यसेत्

96.0103

अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि ।अप्_96.0103अब्।
गौर्यादिसंवरैर् एव(3) पूर्ववत् सर्वमाचरेत्(4)

96.0104

एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः ।अप्_96.0104अब्।
कुण्डमध्ये महेशानं मेखलासु महेश्वरं

96.0105

क्रियाशक्तिं तथान्यासु नादमोष्ठे च(5) विन्यसेत् ।अप्_96.0105अब्।
घटं स्थण्डिलवह्नीशैः(6) नाडीसन्धानकन्ततः(7)

96.0106

पद्मतन्तुसमां शक्तिमुद्वातेन समुद्यतां(8) ।अप्_96.0106अब्।
विशन्ती सूर्यमार्गेण निःसरन्तीं समुद्गतां(9)

96.0107

पुनश् च शून्यमार्गेण(10) विशतीं स्वस्य चिन्तयेत् ।अप्_96.0107अब्।
एवं सर्वत्र सन्धेयं मूर्तिपैश् च परस्परं

96.0108

सम्पूज्य धारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात् ।अप्_96.0108अब्।
तत्त्वतत्त्वेश्वरा मुर्तीर्मूर्तीर्शांश् च(11) घृतादिभिः(12)

96.109

सम्पूज्य तर्पयित्वा तु सन्निधौ संहिताणुभिः(13) ।अप्_96.0109अब्।
:न्
1 क्रियाज्ञानीति ग.. , घ.. च
2 आज्ञादित्रिषु इति घ..
3 गौर्यादिसञ्चरैर् एवेति घ.. , ज.. च
4 पूर्ववत् सर्वमर्चयेदिति ख.. , छ.. च । पूर्ववच्च समाचरेदिति ज.. ।
न्यासं पूर्ववदाचरे सदिदि ड..
5 नादमध्ये चेति ज..
6 घटं स्थण्डिलवर्गीशैर् इति ख.. , छ.. च
7 नाडीसम्भारकं तत इति ज..
8 तत्त्वतत्त्वेश्वरा मूर्तिः स्वर्ग्या तेन समुच्यतामिति ख.. , छ.. च ।
पञ्चतत्त्वसमां शक्तिं स्वधा तेन समुद्यतामिति ङ..
9 समुद्गमानिति ज..
10 सूर्यमार्गेणेति छ..
11 मूर्ति मूर्तीशांश्चेति ज..
12 घटस्थण्डिलेत्यादिः, घृतादिभिरत्यन्तः पाठो घ..
पुस्तके नास्ति
13 संहितात्मभिरिति ख.. । सहितात्मभिरिति छ.. । संघटाणुभिरिति
ज..
:प् 324
शतं सहस्रमर्धं वा पूर्णया सह होमयेत्(1)

96.110

तत्त्वतत्त्वेश्वरा मूर्तिर्मूर्तीशांश् च करेणुकान्(2) ।अप्_96.110अब्।
तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्तिपा अपि

96.111

ततो ब्रह्मभिरङ्गैश् च(3) द्रव्यकालानुरोधतः ।अप्_96.111अब्।
सन्तर्प्य शक्तिं कुम्भाम्भःप्रोक्षिते(4) कुशमूलतः

96.112

लिङ्गमूलं च संस्पृश्य(5) जपेयुर्होमसङ्ख्यया ।अप्_96.112अब्।
सन्निधानं हृदा कुर्युर्वर्मणा चावगुण्ठनं

96.113

एवं संशोध्य ब्रह्मादि(6) विष्ण्वन्तादि विशुद्धये ।अप्_96.113अब्।
विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम्

96.114

कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत् ।अप्_96.114अब्।
यथा यथा च सन्धानं तदिदानीमिहोच्यते

96.115

ओं हां हं ओं ओं ओं एं ओं भूं भूं वाह्यमूर्तये
नमः(7)
:न्
1 एवं विधायेत्यादिः, पूर्णया सह होमयेदित्यन्तः
सप्तश्लोकात्मकः पाठो ग.. पुस्तके नास्ति
2 मूर्तिपांश् च करेणुकान् इति घ.. , ङ.. च
3 ब्रह्मभिरंशैश्चेति ख.. , घ.. च । ब्रह्मभिरज्ञैश्चेति छ.. , ज..
च
4 सन्तर्प्य शक्तिकुम्भाम्भःप्रोक्षिते इति क.. ।
सन्तर्प्यशान्तिकुम्भस्थैः प्रोक्षिते इति ज.. । सन्तर्प्य
शान्तिकुम्भाम्भः प्रोक्षिते इति घ..
5 सम्पूज्येति ख.. , छ.. च
6 ब्रह्मादीनिति ख.. , ग.. , घ.. , छ च
7 ओं हां हां ओं ओं ओं बीं ओं भूं भूं
वास्तुमूर्तये नम इति ख.. , छ.. च । ओं हां ओं हां ओं ओं
वां ओं भूं हां वां क्ष्मामूर्तये नम इति ज.. । घ.. पुस्तके
भूं भूं वां इति विशेषः । ओं हां हां ओं ओं
वां ओं ओं हूं हूं वाह्यमूर्तये नम इति ङ..
:प् 325
ओ हां वां आं ओं आं षां ओं भूं भूं वा(1)
वह्निमूर्तये नमः
एवञ्च यजमानादिमूर्तिभिरभिसन्धेयं(2) ।अप्_96.115अब्।
पञ्चमूर्त्यात्मकेप्येवं सन्धानं हृदयादिभिः

96.116

मूलेन स्वीयवीजैर् वा ज्ञेयन्तत्त्वत्रयात्मके(3) ।अप्_96.116अब्।
शिलापिण्डो वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः(4)

96.117

भागाभागविशुद्ध्यर्थं होमं कुर्याच्छतादिकं(5) ।अप्_96.117अब्।
न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतं

96.118

हुत्वाथ(6) यत् कृतं कर्म शिवश्रोत्रे(7) निवेदयेत् ।अप्_96.118अब्।
एतत्समन्वितं(8) कर्म त्वच्छक्तौ च मया प्रभो

96.119

ओं नमः भगवते रुद्राय रुद्र नमोस्तु ते(9)।अप्_96.119अब्।
विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य(10) गृह्यतां

96.120

ओं ह्रीं(11) शाङ्करि पूरय(12) स्वाहा इति पिण्डिकायां ।अप्_96.120अब्।
अथ लिङ्गे न्यसेज् ज्ञानी क्रियाख्यं पीठविग्रहे

96.121

आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि ।अप्_96.121अब्।
निबध्य(13) सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं

96.122

:न्
1 ओं हां हां वां ओं ओं वां ओं भूं भूं वां इति
ख.. , ग.. , छ च । ओं हां हां वां ओं ओं वां ओं ओं ओं
वां हूं हूं वां इति ज । ओं ओं हां वां ओं ओं ओं
वां ओं हूं हूं इति ङ..
2 मूर्तिभिरपि सन्धेयमिति घ.. , ज.. च
3 ज्ञेयं तत्तु त्रयात्मकमिति ख.. , छ.. च । देयं तत्र त्रयात्मके इति
ङ..
4 पूर्णाच्छिन्नात्मकसंवरैर् इति ख.. , छ.. च । पूर्णाच्छिन्नं
स्वयंवरैर् इति ङ..
5 शताधिकमिति ग.. , घ.. च
6 स्तुत्वाथेति ङ..
7 शिवाग्रे तदिति ङ..
8 समर्पितमिति ख.. , घ.. , ज.. च
9 रुद्राय रुद्रो रुद्र नमोस्तु ते इति ङ.. , ज.. च
10 स्वशक्त्यापूज्येति ख.. , छ.. च
11 ओं ह्रूं इति घ..
12 पूजयेति ख.. , छ.. , ङ.. च
13 निरुध्येति ख.. , ज.. , ङ.. च
:प् 326
एकरात्रमथो वापि यद्वा सद्योधिवासनं(1) ।अप्_96.122अब्।
विनाधिवासनं यागः कृतो ऽपि फलप्रदः

96.123

स्वमन्त्रैः प्रत्यहं देयमाहुतीनां शतं शतं ।अप्_96.123अब्।
शिवकुम्भादिपूजाञ्च दिग्बिलञ्च निवेदयेत्

96.124

गुर्वादिसहितो वासो(2) रात्रौ नियमपूर्वकम् ।अप्_96.124अब्।
अधिवासः स वसतेवधेर्भावः समीरितः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc